०२

01 इमाम् प्राचीमुदीचीमिषमूर्जमभिसंस्कृताम् बहुपर्णामशुष्काग्रां ...{Loading}...

इमां “प्राचीमुदीचीमिषमूर्जमभिसंस्कृतां बहुपर्णामशुष्काग्रां हरामि पशुपामहमि"त्याहरति १

02 वायव स्थोपायव स्थेति ...{Loading}...

“वायव स्थोपायव स्थे"ति तया षडवरार्ध्यान् वत्सान् अपाकरोति २

03 दर्भैर्दर्भपुञ्जीलैर्वा ...{Loading}...

दर्भैर्दर्भपुञ्जीलैर्वा ३

04 देवो वः सविता ...{Loading}...

“देवो वः सविता प्रार्पयत्वि"ति शाखया गोचराय गाः प्रस्थापयति ४

05 प्रस्थितानामेकां शाखयोपस्पृशति दर्भैर्दर्भपुञ्जीलैर्वा ...{Loading}...

प्रस्थितानामेकां शाखयोपस्पृशति दर्भैर्दर्भपुञ्जीलैर्वा ५

06 आप्यायध्वमघ्निया इन्द्राय देवभागमित्येके ...{Loading}...

“आप्यायध्वमघ्निया इन्द्राय देवभागमि"त्येके समामनन्ति । “महेन्द्राये"त्येके ६

07 इन्द्रन् निगमेषूपलक्षयेदिन्द्रयाजिनो महेन्द्रम् ...{Loading}...

इन्द्रं निगमेषु+++(=देवसम्बद्धमन्त्रेषु)+++ +उपलक्षयेद् इन्द्रयाजिनो, महेन्द्रं महेन्द्रयाजिनः ७

08 शुद्धा अपः सुप्रपाणे ...{Loading}...

“शुद्धा अपः सुप्रपाणे पिबन्तीः शतमिन्द्राय शरदो दुहानाः । रुद्रस्य हेतिः परि वो वृणक्त्वि"ति प्रस्थिता अनुमन्त्रयते ८

09 ध्रुवा अस्मिन्गोपतौ स्यात ...{Loading}...

“ध्रुवा अस्मिन् गोपतौ स्यात बह्वीरि"ति यजमानस्य गृहानभिपर्यावर्तते ९

10 यजमानस्य पशून्पाहीत्यग्निष्ठे ऽनस्यग्न्यगारे ...{Loading}...

“यजमानस्य पशून्पाही"त्यग्निष्ठे ऽनस्य्, अग्न्यगारे वा - पुरस्तात्प्रतीचीं शाखामुपगूहति पश्चात्प्राचीं वा १०

11 यो वा अध्वर्योर्गृहान्वेद ...{Loading}...

यो वा अध्वर्योर् गृहान् +++(नाम वक्ष्यमाणानि कर्माणि)+++ वेद - गृहवान् भवति । आ चतुर्थात् कर्मणो ऽभिसमीक्षेत - इदं करिष्यामीदं करिष्यामीत्येते +++(“प्रणयनं कृत्वाग्नीन् अन्वाधास्ये, ततश् शाखाहरणम्, ततो वत्सापकरणं करिष्ये”)+++ वा अध्वर्योर्गृहाः । य एवं +++(अध्वर्युमहत्त्वं)+++ वेद गृहवान् भवतीति विज्ञायते ११

इति द्वितीया कण्डिका इति प्रथमः पटलः


  1. TB III. 7.4.8. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. The cart standing near the fire. See l.17.5. ↩︎