०१

01 अथातो दर्शपूर्णमासौ व्याख्यास्यामः ...{Loading}...

अथातो दर्शपूर्णमासौ व्याख्यास्यामः १

02 प्रातरग्निहोत्रं हुत्वान्यमाहवनीयम् प्रणीयाग्नीनन्वादधाति ...{Loading}...

प्रातरग्निहोत्रं हुत्वान्यमाहवनीयं प्रणीयाग्नीन् +++(काष्ठयोजनेन)+++ अन्वादधाति २

03 न गतश्रियोऽन्यमग्निम् प्रणयति ...{Loading}...

न गतश्रियो +++(ऽग्नेर्)+++ ऽन्यमग्निं प्रणयति ३

04 देवा गातुविदो गातुं ...{Loading}...

“देवा गातुविदो गातुं यज्ञाय विन्दत । मनसस्पतिना देवेन वाताद्यज्ञः प्रयुज्यतामि"ति जपित्वा
“ममाग्ने वर्चो विहवेष्वस्त्वि"त्याहवनीयमुपसमिन्द्धे ।
उत्तरया गार्हपत्यम्
उत्तरयान्वाहार्यपचनम् ४

05 तिसृभिस्तिसृभिर्वा ...{Loading}...

+++(विहव्यानुवाकस्य)+++ तिसृभिस्तिसृभिर्वा +++(उपसमिन्धे)+++ ५

06 उत्तमान् तु जपेदाहवनीये ...{Loading}...

उत्तमां तु जपेदाहवनीये +++(काष्ठानि)+++ वादध्यात् ६

07 व्याहृतीभिरन्वाधानमेके समामनन्ति ...{Loading}...

+++(एकैकयैकमग्निमिति)+++ व्याहृतीभिरन्वाधानमेके समामनन्ति ७

08 सन्नयतः पलाशशाखां शमीशाखां ...{Loading}...

संनयतः+++(सान्नायेन [=दधिपयोभ्यां] यक्ष्यमाणस्य)+++ +++(प्रयोजनाय)+++ पलाशशाखां शमीशाखां वाहरति बहुपर्णां बहुशाखाम् अप्रतिशुष्काग्राम् असुषिराम् +++(=अन्तश्छिद्ररैताम्)+++८

09 यङ् कामयेतापशुः स्यादित्यपर्णान् ...{Loading}...

यं कामयेतापशुः स्यादित्यपर्णां तस्मै शुष्काग्रामाहरेद् - अपशुरेव भवति। यं कामयेत पशुमान् स्यादिति बहुपर्णां तस्मै बहुशाखामाहरेत् - पशुमन्तमेवैनं करोतीति विज्ञायते ९

10 साया प्राच्युदीची प्रागुदीची ...{Loading}...

सा या प्राच्युदीची प्रागुदीची वा भवति - “ईषे त्वोर्जे त्वे"ति तामाच्छिनत्ति १०

11 अपि वेषे त्वेत्याच्छिनत्त्यूर्जे ...{Loading}...

अपि “वेषे त्वे"त्याच्छिनत्त्य्, “ऊर्जे त्वे"ति संनमयत्य्+++(=ऋजूकरोति)+++ अनुमार्ष्टि +++(मूलाद् अग्रं यावत्)+++ वा ११

इति प्रथमा कण्डिका


  1. in the manner mentioned in 4-7. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. TS IV. 7.14.a; ↩︎ ↩︎ ↩︎

  3. TS IV.7.14.b. ↩︎

  4. TS IV. 7.14.C. ↩︎