01 अथातो दर्शपूर्णमासौ व्याख्यास्यामः …{Loading}…
अथातो दर्शपूर्णमासौ व्याख्यास्यामः १
थिते
- Now we shall explain the new and full moon-sacrifices.
अथातो दर्शपूर्णमासौ व्याख्यास्यामः १
02 प्रातरग्निहोत्रं हुत्वान्यमाहवनीयम् प्रणीयाग्नीनन्वादधाति …{Loading}…
प्रातरग्निहोत्रं हुत्वान्यमाहवनीयं प्रणीयाग्नीन् +++(काष्ठयोजनेन)+++ अन्वादधाति २
थिते
- After having performed the morning Agnihotra, having brought forward another (fire to the place of) Ahavaniya (from the Garhapatya) (the Adhvaryu) adds fuel to the fires1.
प्रातरग्निहोत्रं हुत्वान्यमाहवनीयं प्रणीयाग्नीनन्वादधाति २
03 न गतश्रियोऽन्यमग्निम् प्रणयति …{Loading}…
न गतश्रियो +++(ऽग्नेर्)+++ ऽन्यमग्निं प्रणयति ३
थिते
- In the case of a (sacrificer who is) Gataśrī,1 he does not bring forward another fire.
न गतश्रियोऽन्यमग्निं प्रणयति ३
04 देवा गातुविदो गातुं …{Loading}…
“देवा गातुविदो गातुं यज्ञाय विन्दत । मनसस्पतिना देवेन वाताद्यज्ञः प्रयुज्यतामि"ति जपित्वा
“ममाग्ने वर्चो विहवेष्वस्त्वि"त्याहवनीयमुपसमिन्द्धे ।
उत्तरया गार्हपत्यम्
उत्तरयान्वाहार्यपचनम् ४
देवा गातुविदो गातुं यज्ञाय विन्दत । मनसस्पतिना देवेन वाताद्यज्ञः प्रयुज्यतामिति जपित्वा ममाग्ने वर्चो विहवेष्टस्त्वित्याहवनीयमुपसमिन्द्धे । उत्तरया गार्हपत्यमुत्तरयान्वाहार्यपचनम् ४
05 तिसृभिस्तिसृभिर्वा …{Loading}…
+++(विहव्यानुवाकस्य)+++ तिसृभिस्तिसृभिर्वा +++(उपसमिन्धे)+++ ५
थिते
- Or (he enkindles the fires) each with three (verses).
तिसृभिस्तिसृभिर्वा ५
06 उत्तमान् तु जपेदाहवनीये …{Loading}…
उत्तमां तु जपेदाहवनीये +++(काष्ठानि)+++ वादध्यात् ६
थिते
- He may, however, (simply) mutter the last verse or may put (fuel-sticks) in the Ahavaniya (with that verse).
उत्तमां तु जपेदाहवनीये वादध्यात् ६
07 व्याहृतीभिरन्वाधानमेके समामनन्ति …{Loading}…
+++(एकैकयैकमग्निमिति)+++ व्याहृतीभिरन्वाधानमेके समामनन्ति ७
व्याहृतीभिरन्वाधानमेके समामनन्ति ७
08 सन्नयतः पलाशशाखां शमीशाखां …{Loading}…
संनयतः+++(सान्नायेन [=दधिपयोभ्यां] यक्ष्यमाणस्य)+++ +++(प्रयोजनाय)+++ पलाशशाखां शमीशाखां वाहरति बहुपर्णां बहुशाखाम् अप्रतिशुष्काग्राम् असुषिराम् +++(=अन्तश्छिद्ररैताम्)+++८
सन्नयतः पलाशशाखां शमीशाखां वाहरति बहुपर्णां बहुशाखामप्रतिशुष्काग्रामसुषिराम् ८
09 यङ् कामयेतापशुः स्यादित्यपर्णान् …{Loading}…
यं कामयेतापशुः स्यादित्यपर्णां तस्मै शुष्काग्रामाहरेद् - अपशुरेव भवति। यं कामयेत पशुमान् स्यादिति बहुपर्णां तस्मै बहुशाखामाहरेत् - पशुमन्तमेवैनं करोतीति विज्ञायते ९
थिते
- In the case of (a sacrificer) about whom he (the Adhvaryu) desires “May he be devoid of cattle”, he should bring a (branch) which is without leaves and one the end of which is dried out; (the sacrificer) definitely becomes devoid of cattle; in the case of (a sacrificer) about whom he desires, “May he be possessor of cattle, he should bring a (branch) which has many leaves and many (sub-) branches, he makes him possessor of cattle definitely—“This is known (from a Brāhmaṇa-text)1.
यं कामयेतापशुः स्यादित्यपर्णां तस्मै शुष्काग्रामाहरेदपशुरेव भवति यं कामयेत पशुमान्स्यादिति बहुपर्णां तस्मै बहुशाखामाहरेत्पशुमन्तमेवैनं करोतीति विज्ञायते ९
10 साया प्राच्युदीची प्रागुदीची …{Loading}…
सा या प्राच्युदीची प्रागुदीची वा भवति - “ईषे त्वोर्जे त्वे"ति तामाच्छिनत्ति १०
थिते
- The branch which is pointing towards the east or towards the north or towards the north-east, (the Adhvaryu) cuts it with iṣe tvorje tvā1.
साया प्राच्युदीची प्रागुदीची वा भवतीषे त्वोर्जे त्वेति तामाच्छिनत्ति १०
11 अपि वेषे त्वेत्याच्छिनत्त्यूर्जे …{Loading}…
अपि “वेषे त्वे"त्याच्छिनत्त्य्, “ऊर्जे त्वे"ति संनमयत्य्+++(=ऋजूकरोति)+++ अनुमार्ष्टि +++(मूलाद् अग्रं यावत्)+++ वा ११
थिते
- Or with ise tvā he cuts, with urje tvā he makes it straight or moves his hand from the thick side towards thin side.
अपि वेषे त्वेत्याच्छिनत्त्यूर्जे त्वेति सन्नमयत्यनुमार्ष्टि वा ११
इति प्रथमा कण्डिका