क्षुद्रचयनम्

उत्तरवेदिदेशे मध्ये शङ्कुं निहत्य अर्धव्यायामेनातिरिक्ततृतीयेन सह मण्डलं करोति । समूलं हरितं दर्भस्तम्बमाहृत्य मध्येऽग्नेर्निखाय जुह्वां पञ्चगृहीतं गृहीत्वा दर्भस्तम्बे पञ्चाज्याहुतीर्जुहोति । सजूरब्दोऽयावभिर्घृतेन स्वाहा । अब्दायेदम् । सजूरुषा अरुणीभिर्घृतेन स्वाहा । उषस इदम् । सजूस्सूर्य एतशेन घृतेन स्वाहा । सूर्यायेदम् । सजोषावश्विना दꣳ्सोभिर्घृतेन स्वाहा । अश्विभ्यामिदम् । सजूरग्निर्वैश्वानर इडाभिर्घृतेन स्वाहा । अग्नये वैश्वानरायेदम् । ततः उद्धत्यावोक्ष्य ।

अथ पूर्वकृतपरिमण्डलरेखाया अभ्यन्तरं नव परिमण्डला लेखा लिखित्वा । सिकताभिरवकीर्य दर्भैः प्रच्छाद्य दध्ना मधुमिश्रेण शर्कराभिश्च दशम्या रेखायाः सम्पूरणं कृत्वा वसति ।

श्वोभूते प्रातरग्निहोत्रं हुत्वा । प्रजापतिस्त्वा — सीद उत्तरवेदिमभिमृश्य । मयि गृह्णाम्यग्रे अग्निꣳ् — सुवीराः ॥ यो नो अग्निः — परा गात् द्वाभ्यामात्मन्यग्निं गृहीत्वा । यास्ते अग्ने — प्रजानन्न् स्वयं चित्याभिमृशति । अग्नेर्भस्मास्यग्नेः पुरीषमसि इति सिकता निवपति । संज्ञानमसि — भूयात् इत्यूषां निवपति । तान् निवपन् यददश्चन्द्रमसि कृष्णं तदिहास्तु मनसा ध्यायति । संयावः प्रियास्तनुवस्सं — मम इत्यूषान्त्सिकतांश्च संसृज्य । चितस्थ परिचित — सीदत अपरिमिताभिः शर्कराभिः परिश्रयति । आप्यायस्व — सङ्गथे सिकता व्यूहति ।

मृन्मयपात्रमुदकेन पूरयित्वा । अग्नेरपरार्धे खात्वा वाक्त्वा समुद्र — वाजिनाय तया अभ्यन्तरं जघनार्धे उदपात्रमुपदधाति । वाङ्म आसन्नसोः — हिꣳ्सीः जपित्वारोहति ।

अथ चतस्रः स्वयमातृण्णा दिक्षूपदधाति भूरग्निं च पृथिवीं — सीद । भुवो वायुं — सीद । स्वरादित्यं — सीद । भूर्भुवस्स्वः — सीद ॥

लोकं पृण च्छिद्रं — देवतयाङ्गिरस्वद्ध्रुवासीद द्वाभ्यां द्वे इष्टके उपदधाति । एवंप्रकारेण लोकं पृणाभिः प्रच्छादयति । चात्वालात्पुरीषमाहृत्य पृष्टो दिवि इति चितावनुव्यूहति । वाङ्म आसन् इति जपित्वावरोहति । त्वमेव त्वां वेत्थ योऽसि सोऽसि — यावदुतापि ब्रह्म इत्यनुवाकेनोपतिष्ठते ॥

पुरस्तात्प्रत्यङ्मुखस्तिष्ठन् हिरण्यशकलशतद्वयेनाग्निं प्रोक्षति सहस्रस्य प्रमा असि । दक्षिणत उदङ्मुखस्तिष्ठन् सहस्रस्य प्रतिमा असि । पश्चात्प्राङ्मुखः सहस्रस्य विमा असि । उत्तरतो दक्षिणामुखः सहस्रस्योन्मा असि । साहस्रोऽसि सहस्राय त्वा मध्ये प्राङ्मुखः ।

यत्तेऽचित्तं यदु — इषꣴ्स्तोतृभ्य आ भर इति पञ्चभिरभिमृशति ॥ इमा मे अग्न इष्टका — अमुत्रामुष्मिन् लोके इष्टका धेनूर्यजमानः कुरुते ॥

अग्निरसि वैश्वानरोसि — कामꣳ् समच संहारविहाराभ्यां यजमानोऽग्निमुपतिष्ठते ।

अध्वर्युरुदङ्मुखस्तिष्ठन् उत्तमायामिष्टकायामर्कपर्णेनाजाक्षीरं जुहोति ॥ त्वमग्ने रुद्रो असुरो महो दिवः — भूर्भुवः स्वः स्वाहा ॥ त्रयस्त्रिंशादिभ्यो देवेभ्य इदम् । असंचरे पशूनामर्कपर्णमुपदस्यति । वल्मीकवपायां वा अवदधाति ॥

अपरेणोग्निं प्राङ्मुख उपविश्य संचितोक्थ्येन होतानुशंसति हिं ३ भूर्भुवस्स्वरो३मोजोबलं ब्रह्मक्षत्रं यशो महत्सत्यं तपो नाम रूपममृतं चक्षुः श्रोत्रं मन आयुर्विश्वं यशो महत्समं तपो हरो भों ३ जातवेदा यदि वा पावकोऽसि वैश्वानरो यदि वा वैद्युतोऽसि शं प्रजाभ्यो यजमानाय लोकमूर्जं पुष्टिं दददभ्या ववृत्स्वों ३ पौतुद्रवैः परिधिभिरित्याद्यतिमुक्तिहोमान्तं पशुवत् ।

अथ चतुर्गृहीतं जुहोति त्वमग्ने रुद्रो असुरो — भूर्भुवः स्वः स्वाहा । हुत्वा हुत्वा पात्र्यां सम्पातमवनयति । त्रयस्त्रिंशादिभ्यो देवेभ्य इदम् ॥

पुनश्चतुर्गृहीतं गृहीत्वा अग्नाविष्णू सजोषसा — भूर्भुवस्स्वस्स्वाहा अग्नाविष्ण्वादिभ्यो देवेभ्य इदम् ॥

अपरं चतुर्गृहीत्वा अन्नपतेऽन्नस्य नो देहि — भूर्भूवस्स्वस्स्वाहा । अन्नपत्यादिभ्यो देवेभ्य इदम् ॥

अपरं चतुर्गृहीत्वा सप्त ते अग्ने समिधस्सप्त जिह्वाः — भूर्भुवस्स्वस्स्वाहा । सप्तवत्यादिभ्यो देवेभ्य इदम् ॥

पुनश्चतुर्गृहित्वा वसूनां त्वाधीतेन — जुहोमि स्वाहा । वसूरुद्रादित्यविश्वेदेव मरुद्भ्य इदम् । पञ्चाहुतीनां संस्रावेण यजमानो मुखं विमृष्टे । राज्ञी विराज्ञी — सꣳ् सृजन्तु ।

अथ सकृत् सकृद्गृहीतेन जुहोति असवे स्वाहा । वसवे स्वाहा । विभुवे स्वाहा । विवस्वते स्वाहा । अभिभुवे स्वाहा । अधिपतये स्वाहा । दिवां पतये स्वाहा । अꣳ्हस्पत्याय स्वाहा । चाक्षुष्मत्याय स्वाहा । ज्योतिष्मत्याय स्वाहा । राज्ञे स्वाहा । विराज्ञे स्वाहा । संम्राज्ञे स्वाहा । स्वराज्ञे स्वाहा । शूषाय स्वाहा । सूर्याय स्वाहा । चन्द्रमसे स्वाहा । ज्योतिषे स्वाहा । सꣳ्सर्पाय स्वाहा । कल्याणाय स्वाहा । अर्जुनाय स्वाहा । यथालिङ्गं त्यागः । चतुर्थ्यन्ता देवताः ॥

उत्तरेण गार्हपत्यमित्यादि वपाश्रपण्यभिहोमान्तं पशुवत् । दक्षिणाकाले पशुदक्षिणां पञ्चाशीत्यधिकशतं सक्तून्, पष्ठौहीं, हिरण्यं, वासांश्चान्तर्वेदि स्थापयित्वा । ब्रह्माणि ब्रह्माणि स्थ ब्रह्मणे वो हुताद्य मा मा हिꣳ्सिष्टाहुतानि मह्यꣳ् शिवानि भवत ।

यजमानः ब्रध्न पिन्वस्वेत्यादि सहस्र धाराण्युत्सान्यक्षीयमाणानि तानि दध्नुः पृथिवीमन्तरिक्षं दिवं च तैरनुडुत्सक्तुपष्ठौहीहिरण्यवासोभिरतितराणि म्रुत्युम् ॥

ब्राह्मणाः इमानि अनुडुत्सक्तुपष्ठौहीहिरण्यवासांसि अहिंसन्तो यथाभागं प्रतिगृह्णीध्वम् । रुद्राय गाम् । ब्रह्मण ओदनम् । दक्षाय त्वा दक्षिणां प्रतिगृह्णामि । ग्नास्त्वा कृन्तन्नपसस्तन्वत वरुत्रयस्त्वा वयꣳ् सोमाय वासः । इति प्रतिग्रहः ॥ समुत्क्रम्य सहपत्नीका इत्यादि ।

यत्प्राङ्मनोतायास्तत्कृत्वा जुहूपभृतोर्हिरण्यशकलाववधाय मृत्युग्रहपक्षे औदुम्बरं ग्रहं पाशुकैः सह प्रयुज्य ग्रहं प्रक्षाल्य तस्मिन् गृह्णाति ॥ विपश्चिते — वृषा हरिः । उपयामगृहीतोऽसि मृत्यवे त्वा जुष्टं गृह्णामि गृहीत्वा ॥ एष ते योनिर्मृत्यवे त्वा सादयति ॥

अवदानादि स्विष्टकृतं हुत्वा वैश्वानरे हविः । आयतने स्रुचौ सादयित्वा । विद्युदसीत्यप उपस्पृश्य । अप मृत्युमप क्षुधम् — यजामहे स्वाहा । मृत्यव इदम् । वृष्टिरसीत्यप उपस्पृश्य । इडामार्जनान्ते ग्रहशेषं भक्षयति ॥ भक्षोऽस्यमृतभक्षः — भक्षयामि भक्षयित्वाचम्य । मन्द्राभिभूतिरिति प्राणनिह्नवानात्मन् प्रतिष्ठापयते ॥ मन्द्राभिभूतिः केतुर्यज्ञानां वागेहि । अन्धो जागृविः प्राण एहि । बधिर आक्रन्द इतरपान एहि । अहस्त्वोस्त्वा चक्षुरेहि । अपादाशो मन एहि । कवे विप्रचित्ते श्रोत्र एहि । सुहस्तः सुवासाः । शूषो नामास्यमृतो मर्त्येषु । तं त्वाहं तथा वेद । आत्मन्नेहि ॥

अग्निर्मे वाचि श्रितः — अन्तस्तिष्ठत्वमृतस्य गोपाः इत्यान्तादनुवाकस्य ब्रूयात् । अग्नीदौपयजादङ्गारानाहरेत्यादि ब्राह्मणतर्पणान्तं सन्तिष्ठते सावित्रः ॥

अनन्तरे पर्वणि मैत्रावरुण्यामिक्षया यजेत । सावित्राङ्गमैत्रावरुण्या यक्ष्ये । विद्युदसि । अग्नीनन्वाधाय शाखामाहृत्य व्रतप्रवेशः । उत्तरेण गार्हपत्यमित्यादि नेध्मप्रवृश्चनं वेदं कृत्वा वेदिः । अन्तर्वेदिशाखाया इत्यादि कुम्भीलेपनान्तम् । इमौ पर्णं च । वायवस्स्थः । परिस्तृणीत देवा देवेषु कर्मणे वाम् । पात्रप्रयोगकाले स्फ्यमग्निहोत्रहवणीमपरतः । स्रुवं जुहूं उपभृतं ध्रुवां वेदमाज्यस्थालीमिडापात्रं योक्त्रं वेदाग्राण्यन्वाहार्यस्थालीमुपवेषं प्रातर्दोहपात्राणि वाजिनपात्रं च प्रयुज्य । पवित्रकरणादि सं विशन्तां अग्निꣳ् होतारं कस्त्वा युनक्ति स त्वा युनक्तु । प्रोक्षणीः संस्कृत्य ब्रह्माणमामन्त्र्य पात्राणि प्रोक्ष्य प्रोक्षणीशेषं निधाय । एता आचरन्ति इत्यादि सङ्क्षालननिनयनान्तम् । मित्रावरुणाभ्यां हविः । बहुदुग्धि मित्रावरुणाभ्यां देवेभ्यो हव्यम् ॥ तप्ते प्रातर्दोहे लौकिकं दध्यानयति । अन्तरितं अविदहन्त श्रपयत । ब्रह्मन्नुत्तरं इत्यादि प्राशित्रवर्जं स्रुक् संमार्गः । विष्णूनि स्थेत्यन्तम् । यस्त आत्मा इत्यभिघार्य । दृꣳ्ह इत्युद्वास्य । प्रियेण इत्यासादनम् । इयमिन्द्रियं यत्पृथिवीमचरत् अयं यज्ञो ममाग्ने पञ्चहोता पुनः पञ्चहोता । मित्रावरुणभ्यामनुब्रूहि मित्रावरुणौ यज मित्रावरुणाभ्यामिदम् । मित्रावरुणयोरहं देवयज्ययेन्द्रियावी भूयासम् । जेमानं महिमानं इति वा । संस्रावान्ते वाजिनयागः । अन्वाहार्यो दक्षिणा । यज्ञो बभूव यज्ञ शं च म वर्जं ब्राह्मणं तर्पणान्तं इष्टिः सन्तिष्ठते ॥

॥ इति मैत्रावरुण्यामिक्षेष्टिः समाप्तः ॥

॥ अथ सावित्रचयनप्रारम्भः ॥

हरिः ओम् ॥ अथ सावित्रचयनमुच्यते । सावित्रमग्निं चेष्यमाण उपकल्पयते । पञ्चाशीतिशतं शर्कराः अभ्यक्ताः । चतस्रः स्वयमातृण्णाः । अपरिमिता लोकंपृणाः । दधिमधुघृतोदपात्रसहस्रहिरण्यशकलांश्च । चतुर्दश्यां प्रातरग्निहोत्रं हुत्वा दर्भेष्वासीनो दर्भान् धारयमाणः पवित्रपाणिः पत्न्या सह प्राणानायम्य देशकालौ सङ्कीर्त्य श्रीपरमेश्वरप्रीत्यर्थं पशुबन्धेन यक्ष्ये । आत्मन्नरण्योर्वा अग्निं समारोप्य यागोपकरणैस्सह देवयजनं गत्वा । आयतनानि कल्पयित्वा उद्धत्यावोक्ष्य मथित्वा उपावरोह्य । आत्मसमारोपणपक्षे लौकिकाग्नौ उपावरोह्य । विद्युदसि इत्यप उपस्पृश्य । अथाग्निसंकल्पः । सावित्रमग्निं चेष्ये । ततः षड्ढोत्रादि यूपकरणान्तं पशुवत् ।

{ तद्यथा - अन्वाधानाङ्गं आग्नावैष्णवेष्टिः :-

अध्वर्युः :- गार्हपत्यादाहवनीयं प्रणीय सकृद्गृहीत्वा । सूर्यं ते चक्षुः । वातं प्राणः । द्यां पृष्ठम् । अन्तरिक्षमात्मा । अङ्गैर्यज्ञम् । पृथिवीꣳ् शरीरैः । वाचस्पतेऽच्छिद्रया वाचा । अच्छिद्रया जुह्वा । दिवि देवावृधꣳ् होत्रा मेरयस्व स्वाहा । वाचस्पतये ब्रह्मण इदम् । अग्निं परित्यज्य । आग्नावैष्णवमेकादशकपालन्निर्वपति । अग्न्यन्वधानस्य प्रत्याम्नायो भवति । विहृत्य । देवा गातुविद इत्यादि । अद्य यज्ञाय । आग्नावैष्णवꣳ् हविः । पौर्णमासं तन्त्रम् । पञ्चदश सामिधेन्यः । पात्रप्रयोगकाले एकादशकपालानि स्फ्यश्च द्वन्द्वम् । अन्वाहार्यस्थालीवर्जमितराणि प्रकृतिवत् । निर्वपणकाले अग्नाविष्णुभ्यां जुष्टं निर्वपामि । अग्नाविष्णू हव्यꣳ् रक्षेथाम् । अग्नाविष्णुभ्यां वो जुष्टं प्रोक्षामि । अग्नाविष्णुभ्यां जुष्टमधिवपामि । कपालानामुपधानकाले अष्टावुपधाय । तूष्णीं त्रीणि । अग्नाविष्णुभ्यां जुष्टꣳ् संवपामि । तूष्णीमभिघारणम् । प्रियेणेत्यासादनम् । अयं यज्ञो, ममाग्ने चतुर्होता इत्यासन्नाभिमर्शनम् । प्रचरणकाले अग्नाविष्णुभ्यामनुब्रूहि । अग्नाविष्णू यज । अग्नाविष्णुभ्यामिदम् । अग्नाविष्ण्वोरहं देवयज्यया वृत्रहा भूयासम् । न पार्वणहोमः । नारिष्ठान् हुत्वा । अविरुज्य प्राशित्रम् । न चतुर्धाकरणम् । न दक्षिणादानम् । इदं यजमानस्य । वेदेन यजमानभागं परिहृत्य । हविश्शेषानुद्वास्येत्यादि । यज्ञो बभूव । यज्ञ शं च म वृष्टिवर्जम् । समाप्य धारयत्याहवनीयम्

शाखाहरणं, यूपाहरणञ्च :-

शाखाहरणमिष्ट्यन्ते वायवस्थादिकं न हि ।

इषे त्वा इत्यादि शाखामाहृत्य । तूष्णीं प्लक्षशाखामाहृत्य व्रतप्रवेशः । आदित्योपस्थानान्ते स्रुवेणाहवनीये यूपाहुतिं जुहोति । उरु विष्णो विक्रमस्वोरु क्षयाय न: कृधि । घृतं घृतयोने पिब प्रप्र यज्ञपतिं तिर स्वाहा । विष्णव इदम् । स्रुवमाज्यशेषं चाध्वर्युरादत्ते । तक्षा शस्त्रम् । यत्र यूपस्तद्यन्ति । यूप्या वृक्षाः पलाशखदिरबिल्वरौहीतकाः । समे जातमशाखाजं बहुपर्णशाखमप्रतिशुष्काग्र-मसुशिरमव्यावृत्तमघूर्णमृजुमूर्ध्वमूर्ध्वशकलमग्रे ईशदुपावनतं प्रागुदक् प्रत्यग्वोपनतम् । न दक्षिणावनतम् । अतिक्रम्य यूप्यान् यं जोषयते तमभिमन्त्रयते अत्यन्यानगान्नान्यानुपागामर्वाक्त्वा परैरविदं परोऽवरैः । अथैनमुपस्पृशति तं त्वा जुषे वैष्णवं देवयज्यायै । देवस्त्वा सविता मध्वानक्तु स्रुवेण सर्वतो मूलं प्रदक्षिणं पर्यणक्ति । ओषधे त्रायस्वैनम् ऊर्ध्वाग्रं दर्भमन्तर्धाय । स्वधिते मैनꣳ् हिꣳ्सीः स्वधितिना प्रहरति । प्रथमपरापातिनं शकलमाहरति । तं प्रज्ञातं निदधाति । गुल्फदघ्ने वृश्चेज्जानुदघ्नेऽनक्षसङ्गं वा । दिवमग्रेण मा लेखीरन्तरिक्षं मध्येन मा हिꣳ्सीः पृथिव्याः संभव प्राञ्चं पातयति । वनस्पते शतवल्शो वि रोह स्वाहा आव्रश्चने जुहोति । वनस्पतय इदम् । सहस्रवल्शा वि वयꣳ् रुहेम आत्मानं प्रत्यभिमृश्याप उपस्पृश्य । यं त्वाऽयꣴ् स्वधितिस्तेऽतिजानः प्रणिनाय महते सौभगाय अन्वग्रमद्गांश्छिनत्ति । अच्छिन्नो रायस्सुवीरः अग्रं परिवासयति । पञ्चारत्निः मूलतोऽतष्टमुपरम् । अष्टाश्रिरनुपूर्वोऽग्रतोऽणीयान्प्रज्ञाताग्निष्ठाश्श्रिरस्थूलोऽनणुः । अवतक्षणानां स्वरुरधिमन्थनश्च शकलः । अग्राच्चषालं पृथमात्रमष्टाश्रि मध्ये सन्नतम् । यावदुत्तममङ्गुलिकाण्डं तावदूर्ध्वं चषालाद्यूपस्यातिरिक्तं द्व्यङ्गुलं त्र्यङ्गुलं चतुरङ्गुलं वा । }

ततो वेदिमानं षड्विंशत्यङ्गुलपरिमितेन दण्डेन दशभिः पश्चाद्वादशभिः प्राची अष्टभिः पुरस्तात् । वेदिकरणादि प्रागुत्तरात्परिग्राहात्कृत्वा ।

{ तद्यथा - त्वया वेदिं इति वेदं कृत्वा देवस्य त्वा इत्यादि । पूर्वपरिग्रहे ऋतमसि, ऋतसदनमसि, ऋतश्रीरसि । अपाररुम इत्यादि, सन्नमनवर्जं प्रागुत्तरात् परिग्राहात् कृत्वा }

उत्तरवेदिदेशे मध्ये शङ्कुं निहत्य अर्धव्यायामेनातिरिक्ततृतीयेन सह मण्डलं करोति । समूलं हरितं दर्भस्तम्बमाहृत्य मध्येऽग्नेर्निखाय जुह्वां पञ्चगृहीतं गृहीत्वा दर्भस्तम्बे पञ्चाज्याहुतीर्जुहोति । सजूरब्दोऽयावभिर्घृतेन स्वाहा । अब्दायेदम् । सजूरुषा अरुणीभिर्घृतेन स्वाहा । उषस इदम् । सजूस्सूर्य एतशेन घृतेन स्वाहा । सूर्यायेदम् । सजोषावश्विना दꣳ्सोभिर्घृतेन स्वाहा । अश्विभ्यामिदम् । सजूरग्निर्वैश्वानर इडाभिर्घृतेन स्वाहा । अग्नये वैश्वानरायेदम् । ततः उद्धत्यावोक्ष्य ।

शम्यां पुरस्तादुदगग्रां निधायेत्यादि भूतेभ्यस्त्वेति स्रुचमुद्गृह्येत्यन्तं पशुवत् । { तद्यथा - अपरेण यूपावटदेशं सञ्चरमवशिष्य वेद्यां शम्यामात्रीमुत्तरवेदिं करोति । शम्यां पुरस्तादुदगग्रान्निधाय । स्फ्येनोदीचीमभ्यन्तरं परिलिखति वित्तायनी मेऽसि । अप उपस्पृश्य । एवं दक्षिणतः प्राचीं तिक्तायनी मेऽसि । पश्चादुदीचीं अवातान्मा नाथितम् । उत्तरतः प्राचीं अवतान्मा व्यथितम् । उत्तरस्माद्वेद्यंसादुदक्प्रक्रमे चात्वालः । तमुत्तरवेदिवत्तूष्णीं शम्यया परिमित्य । देवस्य त्वा —ट्ठहस्ताभ्यामाददेऽभ्रिरसि नारिरसि अभ्रिमादाय । परिलिखितꣳ् रक्षः परिलिखिता अरातय इदमहꣳ् रक्षसो ग्रीवा अपि कृन्तामि योऽस्मान्द्वेष्टि यं च वयं द्विष्म इदमस्य ग्रीवा अपि कृन्तामि त्रिः प्रदक्षिणं परिलिख्य । तूष्णीं जानुदघ्नं त्रिवितस्तं वा खात्वोत्तर वेद्यर्थान्पांसून् हरति विदेरग्निर्नभो नामाग्ने अङ्गिरो योऽस्यां पृथिव्यामस्यायुषा नाम्नेहि यत्तेऽनाधृष्टं नाम यज्ञियं तेन त्वाऽऽदधे । सिꣳ्हीरसि महिषीरसि उत्तरवेद्यां निवपति । एतेनैव विदेरग्निर्नभो नामाग्ने अङ्गिरो यो द्वितीयस्यां पृथिव्यामस्यायुषा नाम्नेहि यत्तेऽनाधृष्टं नाम यज्ञियं तेन त्वाऽऽदधे इति द्वितीयम् । विदेरग्निर्नभो नामाग्ने अङ्गिरो यस्तृतीयस्यां पृथिव्यामस्यायुषा नाम्नेहि यत्तेऽनाधृष्टं नाम यज्ञियं तेन त्वाऽऽदधे इति तृतीयम् । तूष्णीं चतुर्थं हृत्वा । सिꣳ्हीरसि महिषीरसि इति निवपति । उरु प्रथस्वोरु ते यज्ञपतिः प्रथतां प्रथयित्वा । ध्रुवासि शम्यया संहत्य । देवेभ्यः कल्पस्व अभिमन्त्र्य । देवेभ्यश्शुन्धस्व अद्भिरवोक्ष्य । देवेभ्यश्शुम्भस्व सिकताभिरवकीर्य । प्रोक्षणीशेषमुत्तरत उत्तरवेद्यै निनीय । आपो रिप्रं निर्वहत स्फ्येनोदीचीमेकस्फ्यां निस्सार्य । विभ्राड्बृहत्पिबतु सोम्यं मध्वायुर्दधद्यज्ञपतावविह्रुतम् । वातजूतो यो अभिरक्षति त्मना प्रजाः पिपर्ति बहुधा विराजति उत्तरवेद्या अन्तान्त्संमृशति । अथास्या मध्ये प्रादेशमात्रीं गोपदमात्री-मश्वशफमात्रीं वोत्तरनाभिं चतुस्स्रक्तिं कृत्वा । चतुश्शिखण्डे युवती कनीने घृतप्रतीके भुवनस्य मध्ये । तयोर्देवा अधि सं वसन्त उत्तमे नाक इह मादयन्तां उभे अभिमन्त्र्य । इन्द्रघोषस्त्वा वसुभिः पुरस्तात्पातु पुरस्तात्प्रत्यङ्तिष्ठन्नुत्तरवेदिं प्रोक्षति । मनोजवास्त्वा पितृभिर्दक्षिणतः पातु दक्षिणतः । प्रचेतास्त्वा रुद्रै: पश्चात्पातु पश्चात् । विश्वकर्मा त्वादित्यैरुत्तरत: पातु उत्तरत: । त्वष्टा त्वा रूपैरुपरिष्टात्पातु मध्यम् । प्रोक्षणीशेषं दक्षिणत उत्तरवेद्यै निनयेत् शुचा त्वार्पयमि पाप्मन् । आपो रिप्रं निर्वहत । पूर्ववदेकस्फ्यां दक्षिणतो निस्सार्य्य ।

उत्तरवेदिव्याघारणम् सम्भारनिवपनञ्च :-

जुह्वां पञ्चगृहीतं गृहीत्वा । सर्वत्र हिरण्यमुपास्यन्नक्ष्णयोरुत्तरवेदिमुत्तरनाभिं वा व्याघारयति । सिꣳ्हीरसि सपत्नसाही स्वाहा । सिꣴ्ह्या इदम् । दक्षिणमंसम् । सिꣳ्हीरसि सुप्रजावनिस्स्वाहा । सिꣴ्ह्या इदम् । उत्तरां श्रोणिम् । सिꣳ्हीरसि रायस्पोषवनिस्स्वाहा । सिꣴ्ह्या इदम् । दक्षिणां श्रोणिम् । सिꣳ्हीरस्यादित्यावनिस्स्वाहा । सिꣴ्ह्या इदम् । उत्तरमंसम् । सिꣳ्हीरस्यावह देवान्देवयते यजमानाय स्वाहा । सिꣴ्ह्या इदम् । मध्यम् । भूतेभ्यस्त्वा स्रुचमुद्गृह्य । }

अथ पूर्वकृतपरिमण्डलरेखाया अभ्यन्तरं नव परिमण्डला लेखा लिखित्वा । सिकताभिरवकीर्य दर्भैः प्रच्छाद्य दध्ना मधुमिश्रेण शर्कराभिश्च दशम्या रेखायाः सम्पूरणं कृत्वा वसति ।

श्वोभूते प्रातरग्निहोत्रं हुत्वा । प्रजापतिस्त्वा सादयतु तया देवतयाङ्गिरस्वद्ध्रुवा सीद । उत्तरवेदिमभिमृश्य । मयि गृह्णाम्यग्रे अग्निꣳ् रायस्पोषाय सुप्रजास्त्वाय सुवीर्याय । मयि प्रजां मयि वर्चो दधाम्यरिष्टास्याम तनुवा सुवीराः ॥ यो नो अग्निः पितरो हृथ्स्वन्तरमर्त्यो मर्त्याꣳ् आविवेश । तमात्मन्परि गृह्णीमहे वयं मा सो अस्माꣳ् अवहाय परा गात् द्वाभ्यामात्मन्यग्निं गृहीत्वा । यास्ते अग्ने समिधो यानि धाम या जिह्वा जातवेदो यो अर्चिः । ये ते अग्ने मेडयो य इन्दवस्तेभिरात्मानं चिनुहि प्रजानन्न् स्वयं चित्याभिमृशति । अग्नेर्भस्मास्यग्नेः पुरीषमसि इति सिकता निवपति । संज्ञानमसि कामधरणं मयि ते कामधरणं भूयात् इत्यूषां निवपति । तान् निवपन् यददश्चन्द्रमसि कृष्णं तदिहास्तु मनसा ध्यायति । संयावः प्रियास्तनुवस्सं प्रिया हृदयानि वः । आत्मा वो अस्तु सं प्रियस्सं प्रियास्तनुवो मम इत्यूषान्त्सिकतांश्च संसृज्य । चितस्थ परिचित ऊर्ध्वचितश्श्रयध्वं तया देवतयाङ्गिरस्वद्ध्रुवास्सीदत अपरिमिताभिः शर्कराभिः परिश्रयति । आप्यायस्व समेतु ते विश्वतस्सोम वृष्णियम् । भवा वाजस्य सङ्गथे सिकता व्यूहति । यथा रेखा अविनष्टा भवन्ति ।

मृन्मयपात्रमुदकेन पूरयित्वा । अग्नेरपरार्धे खात्वा वाक्त्वा समुद्र उपदधे सुप्रजावनिꣳ् रायस्पोषवनिं मह्यं वाजिनाय तया अभ्यन्तरं जघनार्धे उदपात्रमुपदधाति । वाङ्म आसन्नसोः प्राणोऽक्ष्योश्चक्षुः कर्णयोः श्रोत्रं बाहुवोर्बलमूरुवोरोजोरिष्टा विश्वान्यङ्गानि तनूस्तनुवा मे सह नमस्ते अस्तु मा मा हिꣳ्सीः जपित्वारोहति । पुरस्तादारभ्य प्रदक्षिणमुपदधाति । पुरस्तात् समाप्तिः ।

नवम्यां वान्त्यायां लेखायां पञ्चदश पूर्वपक्षस्याहान्युपदधाति । संज्ञानं तया । विज्ञानं तया । प्रज्ञानं तया । जानत् तया । अभिजानत् तया । सङ्कल्पमानं तया । प्रकल्पमानं तया । उपकल्पमानं तया । उपकॢप्तं तया । कॢप्तं तया । श्रेयस्तया । वसीयस्तया । आयत् तया । सम्भूतं तया । भूतं तया । पूर्वपक्षस्याहान्युपदधामि इति मनस्यभिसन्धायोपदध्यात् । एवमुत्तरत्रापि सन्धायोपधानम् । १५

तेषामुपहितानामह्नामन्तराले पञ्चदशमुहूर्तानुपदधाति चित्रस्तया । केतुस्तया । प्रभाꣲ्स्तया । आभाꣲ्स्तया । सम्भाꣲ्स्तया । ज्योतिष्माꣲ्स्तया । तेजस्वाꣲ्स्तया । आतपꣴ्स्तया । तपꣴ्स्तया । अभितपꣴ्स्तया । रोचनस्तया । रोचमानस्तया । शोभनस्तया । शोभमानस्तया । कल्याणस्तया ॥ १५ + १५ = ३०

अथान्तरस्यामष्टम्यां रेखायां पञ्चदशपूर्वपक्षस्य रात्रीरुपदधाति । दर्शा तया । दृष्टा तया । दर्शता तया । विश्वरूपा तया । सुदर्शना तया । आप्यायमाना तया । प्यायमाना तया । प्याया तया । सूनृता तया । इरा तया । आपूर्यमाणा तया । पूर्यमाणा तया । पूरयन्ती तया । पूर्णा तया । पौर्णमासी तया । १५ + ३० = ४५

तासामन्तराले पूर्वपक्षस्य रात्रीणां पञ्चदश मुहूर्तान्युपदधाति दाता तया । प्रदाता तया । आनन्दस्तया । मोदस्तया । प्रमोदस्तया । आवेशयꣴ्स्तया । निवेशयꣴ्स्तया । संवेशनस्तया । सꣳ्श्शान्तस्तया । शान्तस्तया । आभवꣴ्स्तया । प्रभवꣴ्स्तया । सम्भवꣴ्स्तया । सम्भूतस्तया । भूतस्तया । १५ + ४५ = ६०

अथान्तरस्यां सप्तम्यां रेखायां पञ्चदशापरपक्षस्याहान्युपधाति प्रस्तुतं तया । विष्टुतं तया । सꣴ्स्तुतं तया । कल्याणं तया । विश्वरूपं तया । शुक्रं तया । अमृतं तया । तेजस्वि तया । तेजस्तया । समिद्धं तया । अरुणं तया । भानुमत्तया । मरीचिमत्तया । अभितपत्तया । तपस्वत्तया । १५ + ६० = ७५

तासामन्तराले पञ्चदश मुहूर्तान्युपदधाति सविता तया । प्रसविता तया । दीप्तस्तया । दीपयꣴ्स्तया । दीप्यमानस्तया । ज्वलꣴ्स्तया । ज्वलिता तया । तपꣴ्स्तया । वितपꣴ्स्तया । सन्तपꣴ्स्तया । रोचनस्तया । रोचमानस्तया । शुम्भूस्तया । शुम्भमानस्तया । वामस्तया । १५ + ७५ = ९०

अथान्तरस्यां षष्ठ्यां रेखायां पञ्चदशापरपक्षस्य रात्रीरुपदधाति । सुता तया । सुन्वती तया । प्रसुता तया । सूयमाना तया । अभिषूयमाणा तया । पीती तया । प्रपा तया । सम्पा तया । तृप्तिस्तया । तर्पयन्ती तया । कान्ता तया । काम्या तया । कामजाता तया । आयुष्मती तया । कामदुघा तया । १५ + ९० = १०५

तासां रात्रीणामन्तराले पञ्चदशमुहूर्तानुपदधाति अभिशास्ता तया । अनुमन्ता तया । आनन्दस्तया । मोदस्तया । प्रमोदस्तया । आसादयꣴ्स्तया । निषादयꣴ्स्तया । सꣳ्सादनस्तया । सꣳ्सन्नस्तया । सन्नस्तया । आभूस्तया । विभूस्तया । प्रभूस्तया । शम्भूस्तया । भुवस्तया । १५ + १०५ = १२०

अथान्तरस्यां पञ्चम्यां रेखायां द्वादशपूर्वपक्षानुपदधाति पवित्रं तया । पवयिष्यꣴ्स्तया । पूतस्तया । मेध्यस्तया । यशस्तया । यशस्वाꣲ्स्तया । आयुस्तया । अमृतस्तया । जीवस्तया । जीविष्यꣴ्स्तया । स्वर्गस्तया । लोकस्तया । १२ + १२० = १३२

अथान्तरस्यां चतुर्थ्यां रेखायां द्वादशापरपक्षानुपदधाति सहस्वाꣲ्स्तया । सहीयाꣲ्स्तया । ओजस्वाꣲ्स्तया । सहमानस्तया । जयꣴ्स्तया । अभिजयꣴ्स्तया । सुद्रविणस्तया । द्रविणोदास्तया । आर्द्रपवित्रस्तया । हरिकेशस्तया । मोदस्तया । प्रमोदस्तया । १२ + १३२ = १४४

अथान्तरस्यां तृतीयायां रेखायां त्रयोदश मासानुपदधाति अरुणस्तया । अरुणरजास्तया । पुण्डरीकस्तया । विश्वजित्तया । अभिजित्तया । आर्द्रस्तया । पिन्वमानस्तया । अन्नवाꣲ्स्तया । रसवाꣲ्स्तया । इरावाꣲ्स्तया । सर्वौषधस्तया । सम्भरस्तया । महस्वाꣲ्स्तया । १३ + १४४ = १५७

एतस्यां रेखयामन्तरालेषु सिकता उपदधाति एजत्कास्तया । जोवत्कास्तया । क्षुल्लकास्तया । शिपिविष्टकास्तया । सरिस्ररास्तया । सुशेरवस्तया । अजिरासस्तया । गमिष्णवस्तया ।

अथान्तरस्यां द्वितीयायां रेखायां पञ्चदश मुहूर्तानां मुहूर्तानुपदधाति इदानीं तया । तदानीं तया । एतर्हि तया । क्षिप्रं तया । अजिरं तया । आशुस्तया । निमेषस्तया । फणस्तया । द्रवꣴ्स्तया । अतिद्रवꣴ्स्तया । त्वरꣴ्स्तया । त्वरमाणस्तया । आशुस्तया । आशीयाꣲ्स्तया । जवस्तया । १५ + १५७ = १७२

अथान्तरस्यां प्रथमायां रेखायां षड्यज्ञक्रतून् त्रीणि चर्तुनामान्युपदधाति अग्निष्टोमस्तया । उक्थ्यस्तया । अतिरात्रस्तया । द्विरात्रस्तया । त्रिरात्रस्तया । चतूरात्रस्तया । अग्निर्ऋतुस्तया । सूर्य ऋतुस्तया । चन्द्रमा ऋतुस्तया । ९ + १७१ = १८१

अथ नाभ्यां चत्वारि संवत्सरनामान्युपदधाति प्रजापतिस्तया । संवत्सरस्तया । महाꣲ्स्तया । कस्तया । ४ + १८० = १८५

अथ चतस्रः स्वयमातृष्णा दिक्षूपदधाति भूरग्निं च पृथिवीं च मां च । त्रीꣲ्श्च लोकान्थ्संवत्सरं च । प्रजापति स्त्वा सादयतु । तया देवतयाङ्गिरस्वद्ध्रुवासीद ।

भुवो वायुं चान्तरिक्षं च मां च । त्रीꣲ्श्च लोकान्थ्संवत्सरं च । प्रजापति स्त्वा सादयतु । तया देवतयाङ्गिरस्वद्ध्रुवासीद ।

स्वरादित्यं च दिवं च मां च । त्रीꣲ्श्च लोकान्थ्संवत्सरं च । प्रजापति स्त्वा सादयतु । तया देवतयाङ्गिरस्वद्ध्रुवासीद ।

भूर्भुवस्स्वश्चन्द्रमसं च दिंश च मां च । त्रीꣲ्श्च लोकान्थ्संवत्सरं च । प्रजापति स्त्वा सादयतु । तया देवतयाङ्गिरस्वद्ध्रुवासीद ॥

लोकं पृण च्छिद्रं पृण । अथो सीद शिवा त्वम् । इन्द्राग्नी त्वा बृहस्पतिः । अस्मिन् योनावसीषदन्तया ॥ ता अस्य सूददोहसः । सोमꣴ् श्रीणन्ति पृश्नयः । जन्मन्देवानां विशः । त्रिष्वा रोचने दिवस्तया देवतयाङ्गिरस्वद्ध्रुवासीद द्वाभ्यां द्वे इष्टके उपदधाति ॥

एवं लोकम्पृणाभिः यावदग्निं प्रच्छादयति । चात्वालात्पुरीषमाहृत्य पृष्टो दिवीति चितावनुव्यूहति । वाङ्म आसन्निति जपित्वावरोहति ॥

त्वमेव त्वां वेत्थ योऽसि सोऽसि । त्वमेव त्वामचैषीः । चितश्चासि सञ्चितश्चास्यग्ने । एतावाꣲ्श्चासि भूयाꣲ्श्चास्यग्ने । यत्ते अग्ने न्यूनं यदु तेऽतिरिक्तम् । आदित्यास्तदङ्गिरसश्चिन्वन्तु । विश्वे ते देवाश्चितिमापूरयन्तु । चितश्चासि सञ्चितश्चास्यग्ने । एतावाꣲ्श्चासि भूयाꣲ्श्चास्यग्ने । मा ते अग्ने च येन माऽति च येनाऽऽयुरा वृक्षि । सर्वेषां ज्योतिषां ज्योतिर्यददावुदेति । तपसो जातमनिभृष्टमोजः । तत्ते ज्योतिरिष्टके । तेन मे तप । तेन मे ज्वल । तेन मे दीदिहि । यावद्देवाः । यावदसाति सूर्यः । यावदुतापि ब्रह्म इत्यनुवाकेनोपतिष्ठते ॥

पुरस्तात्प्रत्यङ्मुखस्तिष्ठन् हिरण्यशकलशतद्वयेनाग्निं प्रोक्षति सहस्रस्य प्रमा असि । दक्षिणत उदङ्मुखस्तिष्ठन् सहस्रस्य प्रतिमा असि । पश्चात्प्राङ्मुखः सहस्रस्य विमा असि । उत्तरतो दक्षिणामुखः सहस्रस्योन्मा असि । साहस्रोऽसि सहस्राय त्वा मध्ये प्राङ्मुखः ।

यत्तेऽचित्तं यदु चितन्ते अग्ने । यत्त ऊनं यदु तेऽतिरिक्तम् । आदित्यास्तदङ्गिरस-श्चिन्वन्तु । विश्वे ते देवाश्चितिमापूरयन्तु । चितश्चासि सञ्चितश्चास्यग्ने । एतावाꣲ्श्चासि भूयाꣲ्श्चास्यग्ने चितिकॢप्त्याभिमृशति ॥

अग्ने देवाꣳ् इहावह । जज्ञानो वृक्तबर्हिषे । असि होता न ईड्यः ॥ अगन्म महा मनसा यविष्ठम् । यो दीदाय समिद्धस्स्वे दुरोणे । चित्रभानू रोदसी अन्तरुर्वी । स्वाहुतं विश्वतः प्रत्यञ्चम् ॥ मेधाकारं विदथस्य प्रसाधनम् । अग्निꣳ् होतारं परिभूतमं मतिम् । त्वामर्भस्य हविषस्समानमित् । त्वां महो वृणते नरो नान्यन्त्वत् ॥ मनुष्वत्त्वा निधीमहि । मनुष्वथ्समिधीमहि । अग्ने मनुष्वदङ्गिरः । देवान्देवायते यज ॥ अग्निर्हि वाजिनं विशे । ददाति विश्वचर्षणिः । अग्नी राये स्वाभुवम् । स प्रीतो याति वार्यम् । इषꣴ्स्तोतृभ्य आ भर इति पञ्चभिरभिमृशति ।

इमा मे अग्न इष्टका धेनवः सन्त्वेका च शतं च सहस्रं चायुतं च नियुतं च प्रयुतं चार्बुदं च न्यर्बुदं च समुद्रश्च मध्यं चान्त्यश्च परार्धश्चेमा मे अग्न इष्ठका धेनवः सन्तु षष्टिः सहस्रमयुतमक्षीमाणा ऋतस्थाः स्थर्तावृधो घृतश्चुतो मधुश्चुत ऊर्जस्वातीः स्वधाविनीस्ता मे अग्न इष्टका धेनवस्सन्तु विराजो नाम कामदुघा अमुत्रामुष्मिन् लोके इष्टका धेनूर्यजमानः कुरुते ॥

संवत्सरोसि परिवत्सरोऽसि । इदावत्सरोऽसीदुवत्सरोऽसि । इद्वत्सरोऽसि वत्सरोऽसि । तस्य ते वसन्तश्शिरः । ग्रीष्मो दक्षिणः पक्षः । वर्षाः पुच्छम् । शरदुत्तरः पक्षः । हेमन्तो मध्यम् । पूर्वपक्षाश्चितयः । अपरपक्षाः पुरीषम् । अहोरात्राणीष्टकाः । ऋषभोऽसि स्वर्गो लोकः । यस्यां दिशि महीयसे । ततो नो मह आवह । वायुर्भूत्वा सर्वा दिश आवाहि । सर्वा दिशोऽनु विवाहि । सर्वा दिशोऽनु संवाहि । चित्या चितिमा पृण । अचित्या चितिमा पृण । चिदसि समुद्रयोनिः । इन्दुर्दक्षः श्येन ऋतावा । हिरण्यपक्षः शकुनो भुरण्युः । महान्थ्सधस्थे ध्रुव आ निषत्तः । नमस्ते अस्तु मा मा हिꣳ्सीः । एति प्रेति वीति समित्युदिति । दिवं मे यच्छ । अन्तरिक्षं मे यच्छ । पृथिवीं मे यच्छ । पृथिवीं मे यच्छ । अन्तरिक्षं मे यच्छ । दिवं मे यच्छ । अह्ना प्रसारय । रात्र्या समच । रात्र्या प्रसारय । अन्हा समच । कामं प्रसारय । कामꣳ् समच संहारविहाराभ्यां यजमानोऽग्निमुपतिष्ठते ।

अध्वर्युरुदङ्मुखस्तिष्ठन् उत्तमायामिष्टकायामर्कपर्णेनाजाक्षीरं जुहोति ॥ त्वमग्ने रुद्रो असुरो महो दिवः । त्वꣳ् शर्धो मारुतं पृक्ष ईशिषे । त्वं वातैररुणैर्यासि शङ्गयः । त्वं पूषा विधतः पासि नु त्मना ॥ देवा देवेषु श्रयध्वम् । प्रथमा द्वितीयेषु श्रयध्वम् । द्वितीयास्तृतीयेषु श्रयध्वम् । तृतीयाश्चतुर्थेषु श्रयध्वम् । चतुर्थाः पञ्चमेषु श्रयध्वम् । पञ्चमाष्षष्ठेषु श्रयध्वम् । षष्ठास्सप्तमेषु श्रयध्वम् । सप्तमा अष्टमेषु श्रयध्वम् । अष्टमा नवमेषु श्रयध्वम् । नवमा दशमेषु श्रयध्वम् । दशमा एकादशेषु श्रयध्वम् । एकादशा द्वादशेषु श्रयध्वम् । द्वादशास्त्रयोदशेषु श्रयध्वम् । त्रयोदशाश्चतुर्दशेषु श्रयध्वम् । चतुर्दशाः पञ्चदशेषु श्रयध्वम् । पञ्चदशाष्षोडशेषु श्रयध्वम् । षोडशास्सप्तदशेषु श्रयध्वम् । सप्तदशा अष्टादशेषु श्रयध्वम् । अष्टादशा एकान्नविꣳ्शेषु श्रयध्वम् । एकान्नविꣳ्शा विꣳ्शेषु श्रयध्वम् । विꣳ्शा एकविꣳ्शेषु श्रयध्वम् । एकविꣳ्शा द्वाविꣳ्शेषु श्रयध्वम् । द्वाविꣳ्शास्त्रयोविꣳ्शेषु श्रयध्वम् । त्रयोविꣳ्शाश्चतुर्विꣳ्शेषु श्रयध्वम् । चतुर्विꣳ्शाः पञ्चविꣳ्शेषु श्रयध्वम् । पञ्चविꣳ्शाष्षड्विꣳ्शेषु श्रयध्वम् । षड्विꣳ्शास्सप्तविꣳ्शेषु श्रयध्वम् । सप्तविꣳ्शा अष्टाविꣳ्शेषु श्रयध्वम् । अष्टाविꣳ्शा एकान्नत्रिꣳ्शेषु श्रयध्वम् । एकान्नत्रिꣳ्शास्त्रिꣳ्शेषु श्रयध्वम् । त्रिꣳ्शा एकत्रिꣳ्शेषु श्रयध्वम् । एकत्रिꣳ्शा द्वात्रिꣳ्शेषु श्रयध्वम् । द्वात्रिꣳ्शास्त्रयस्त्रिꣳ्शेषु श्रयध्वम् । देवास्त्रिरेकादशास्त्रि स्त्रयस्त्रिꣳ्शाः । उत्तरे भवत । उत्तरवर्त्मान उत्तरसत्वानः । यत्काम इदं जुहोमि । तन्मे समृध्यताम् । वयꣴ् स्याम पतयो रयीणाम् । भूर्भुवः स्वः स्वाहा ॥ त्रयस्त्रिंशादिभ्यो देवेभ्य इदम् । असंचरे पशूनामर्कपर्णमुपदस्यति । वल्मीकवपायां वा अवदधाति ॥

अपरेणोग्निं प्राङ्मुख उपविश्य संचितोक्थ्येन होतानुशंसति हिं ३ भूर्भुवस्स्वरो३मोजोबलं ब्रह्मक्षत्रं यशो महत्सत्यं तपो नाम रूपममृतं चक्षुः श्रोत्रं मन आयुर्विश्वं यशो महत्समं तपो हरो भों ३ जातवेदा यदि वा पावकोऽसि वैश्वानरो यदि वा वैद्युतोऽसि शं प्रजाभ्यो यजमानाय लोकमूर्जं पुष्टिं दददभ्या ववृत्स्वों ३ पौतुद्रवैः परिधिभिरित्याद्यतिमुक्तिहोमान्तं पशुवत् ।

{ तद्यथा = पौतुद्रवै: (देवदारू) परिधिभिरुत्तरवेदिं परिदधाति । विश्वायुरसि पृथिवीं दृꣳ्ह मध्यमम् । ध्रुवक्षिदस्यन्तरिक्षं दृꣳ्ह दक्षिणम् । अच्युतक्षिदसि दिवं दृꣳ्ह उत्तरम् । अग्नेर्भस्मास्यग्ने: पुरीषमसि उत्तरवेद्यां सम्भारान्निवपति । गुल्गुलु सुगन्धितेजनं श्वेतामूर्णास्तुकाम् पेत्वस्यान्तराशृङ्गीयाम् ।

अग्निप्रणयनम् :-

आहवनीये प्रणयनीयमिध्ममादीप्य सिकताभिरुपयम्य अग्नये प्रणीयमानायानुब्रू३हि इति सम्प्रेष्यति । उद्यम्याग्निमाहवनीय उद्यतहोमं जुहोति यत्ते पावक चकृमा कच्चिदागः पूर्वो यत्सन्नपरो भवासि । घृतेन त्वं तन्वं वर्धयस्व मा मा हिꣳ्सीरधिगतं पुरस्तात् स्वाहा । अपादानभूताय पावकायेदम् । प्रथमायां त्रिरनूक्तायां उपयमनीभिरुपयम्य हरति । ऊर्णावन्तं प्रथमस्सीद योनिमिति होतुरभिज्ञाय । अग्ने बाधस्व वि मृधो नुदस्वापामीवा अप रक्षाꣳ्सि सेध । अस्मात्समुद्राद्बृहतो दिवो नोऽपां भूमानमुप नस्सृजेह । यज्ञ प्रतितिष्ठ सुमतौ सुशेवा आ त्वा वसूनि पुरुधा विशन्तु । दीर्घमायुर्यजमानाय कृण्वन्नधाऽमृतेन जरितारमङ्ग्धीह यज्ञः प्रत्यष्ठात् सम्भारेषु प्रतिष्ठाप्य । अग्ने: पुरिषमसि उत्तरत उपयमनीर्न्युप्य । मनुष्वत्वा निधीमहि मनुष्वत्समिधीमहि । अग्ने मनुष्वदङ्गिरो देवान्देवायते यज उपसमिध्य । द्वादशगृहीतेन स्रुचं पूरयित्वा सप्त ते अग्ने समिधस्सप्त जिह्वास्सप्तऋषयस्सप्त धाम प्रियाणि । सप्त होत्रास्सप्तधा त्वा यजन्ति सप्त योनीरा पृणस्वा घृतेन स्वाहा । अग्नये सप्तवत इदम् । सप्तवत्या पूर्णाहुतिं जुहोति । अग्निर्यज्ञं नयतु प्रजानन्मैनं यज्ञहनो विदन् । देवेभ्यो यज्ञं प्रब्रूतात्प्रप्र यज्ञपतिं तिर स्वाहा । अग्नय इदम् । वार्युयज्ञं नयतु प्रजानन्मैनं यज्ञहनो विदन् । देवेभ्यो यज्ञं प्रब्रूतात्प्रप्र यज्ञपतिं तिर स्वाहा । वायव इदम् । आदित्यो यज्ञं नयतु प्रजानन्मैनं यज्ञहनो विदन् । देवेभ्यो यज्ञं प्रब्रूतात्प्रप्र यज्ञपतिं तिर स्वाहा । आदित्यायेदम् । विष्णुयर्ज्ञं नयतु प्रजानन्मैनं यज्ञहनो विदन् । देवेभ्यो यज्ञं प्रब्रूतात्प्रप्र यज्ञपतिं तिर स्वाहा । विष्णव इदम् । चतस्रोऽतिमुक्तीर्जुहोति । }

अथ चतुर्गृहीतं जुहोति त्वमग्ने रुद्रो असुरो — भूर्भुवः स्वः स्वाहा । हुत्वा हुत्वा पात्र्यां सम्पातमवनयति । त्रयस्त्रिंशादिभ्यो देवेभ्य इदम् ॥

पुनश्चतुर्गृहीतं गृहीत्वा अग्नाविष्णू सजोषसा । इमा वर्धन्तु वां गिरः । द्युम्नैर्वाजेभिरा गतम् । राज्ञी विराज्ञी । सम्म्राज्ञी स्वराज्ञी । अर्चिश्शोचिः । तपो हरो भाः । अग्निस्सोमो बृहस्पतिः । विश्वेदेवा भुवनस्य गोपाः । ते सर्वे सङ्गत्य । इदं मे प्रावता वचः । वयꣴ्स्याम पतयो रयीणाम् । भूर्भुवस्स्वस्स्वाहा अग्नाविष्ण्वादिभ्यो देवेभ्य इदम् ॥

अपरं चतुर्गृहीत्वा अन्नपतेऽन्नस्य नो देहि । अनमीवस्य शुष्मिणः । प्रप्रदातारन्तारिषः । ऊर्जन्नो धेहि द्विपदे चतुष्पदे । अग्ने पृथिवी पते । सोम वीरुधां पते । त्वष्टस्समिधां पते । विष्णवाशानां पते । मित्र सत्यानां पते । वरुण धर्माणां पते । मरुतो गणानां पतयः । रुद्र पशूनां पते । इन्द्रौजसां पते । बृहस्पते ब्रह्मणस्पते । आरुचा रोचेऽहꣴ् स्वयम् । रुचा रुरुचे रोचमानः । अतीत्यादस्वरा भरेह । तस्मिन् योनौ प्रजनौ प्रजायेय । वयꣴ्स्याम पतयो रयीणाम् । भूर्भूवस्स्वस्स्वाहा । अन्नपत्यादिभ्यो देवेभ्य इदम् ॥

अपरं चतुर्गृहीत्वा सप्त ते अग्ने समिधस्सप्त जिह्वाः । सप्त ऋषयस्सप्त धाम प्रियाणि । सप्त होत्रा अनु विद्वान् । सप्त योनीरा पृणस्वा घृतेन । प्राची दिक् । अग्निर्देवता । अग्निꣳ् स दिशां देवं देवतानामृच्छतु । यो मैतस्यै दिशोऽभिदासति । दक्षिणा दिक् । इन्द्रो देवता । इन्द्रꣳ् स दिशां देवं देवतानामृच्छतु । यो मैतस्यै दिशोऽभिदासति । प्रतीची दिक् । सोमो देवता । सोमꣳ् स दिशां देवं देवतानामृच्छतु । यो मैतस्यै दिशोऽभिदासति । उदीची दिक् । मित्रावरुणौ देवता । मित्रावरुणौ स दिशां देवौ देवतानामृच्छतु । यो मैतस्यै दिशोऽभिदासति । ऊर्ध्वा दिक् । बृहस्पतिर्देवता । बृहस्पतिꣳ् स दिशां देवं देवतानामृच्चतु । यो मैतस्यै दिशोऽभिदासति । इयं दिक् । अदितिर्देवता । अदितिꣳ् स दिशां देवीं देवतानामृच्छतु । यो मैतस्यै दिशोऽभिदासति । पुरुषो दिक् । पुरुषो मे कामान्त्समर्धयतु । अन्धो जागृविः प्राण । असावेहि । बधिर आक्रन्दयितरपान । असावेहि । उषसमुषसमशीय । अहमसो ज्योतिरशीय । अहमसोऽपोशीय । वयꣴ्स्याम पतयो रयीणाम् । भूर्भुवस्स्वस्स्वाहा । सप्तवत्यादिभ्यो देवेभ्य इदम् ॥

पुनश्चतुर्गृहित्वा वसूनां त्वाधीतेन । रुद्राणामूर्म्या । आदित्यानां तेजसा । विश्वेषां देवानां क्रतूना । मरुतामेम्ना जुहोमि स्वाहा । वसूरुद्रादित्यविश्वेदेवमरुद्भ्य इदम् । पञ्चाहुतीनां संस्रावेण यजमानो मुखं विमृष्टे । राज्ञी विराज्ञी । सम्म्राज्ञी स्वराज्ञी । अर्चिः शोचिः । तपो हरो भाः । अग्निरिन्द्रो बृहस्पतिः । विश्वे देवा भुवनस्य गोपाः । ते मा सर्वे यशसा सꣳ् सृजन्तु ।

अथ सकृत् सकृद्गृहीतेन जुहोति असवे स्वाहा । वसवे स्वाहा । विभुवे स्वाहा । विवस्वते स्वाहा । अभिभुवे स्वाहा । अधिपतये स्वाहा । दिवां पतये स्वाहा । अꣳ्हस्पत्याय स्वाहा । चाक्षुष्मत्याय स्वाहा । ज्योतिष्मत्याय स्वाहा । राज्ञे स्वाहा । विराज्ञे स्वाहा । संम्राज्ञे स्वाहा । स्वराज्ञे स्वाहा । शूषाय स्वाहा । सूर्याय स्वाहा । चन्द्रमसे स्वाहा । ज्योतिषे स्वाहा । सꣳ्सर्पाय स्वाहा । कल्याणाय स्वाहा । अर्जुनाय स्वाहा । यथालिङ्गं त्यागः । चतुर्थ्यन्ता देवताः ॥

दक्षिणाकाले पशुदक्षिणां अनड्वाहं, पञ्चाशीत्यधिकशतं मन्थान् (सक्तून्) पष्ठौहीं, हिरण्यं, वासांश्चान्तर्वेदि स्थापयित्वा । ब्रह्माणि ब्रह्माणि स्थ ब्रह्मणे वो हुताद्य मा मा हिꣳ्सिष्टाहुतानि मह्यꣳ् शिवानि भवत ।

यजमानः ब्रध्न पिन्वस्वेत्यादि सहस्र धाराण्युत्सान्यक्षीयमाणानि तानि दध्रुः पृथिवीमन्तरिक्षं दिवं च तैरनुडुत्सक्तुपष्ठौहीहिरण्यवासोभिरतितराणि म्रुत्युम् ॥

ब्राह्मणाः इमानि अनुडुत्सक्तुपष्ठौहीहिरण्यवासांसि अहिंसन्तो यथाभागं प्रतिगृह्णीध्वम् । रुद्राय गाम् । ब्रह्मण ओदनम् । दक्षाय त्वा दक्षिणां प्रतिगृह्णामि । ग्नास्त्वा कृन्तन्नपसस्तन्वत वरुत्रयस्त्वा वयꣳ् सोमाय वासः । इति प्रतिग्रहः ॥ समुत्क्रम्य सहपत्नीका इत्यादि ।

यत्प्राङ्मनोतायास्तत्कृत्वा जुहूपभृतोर्हिरण्यशकलाववधाय मृत्युग्रहपक्षे औदुम्बरं ग्रहं पाशुकैः सह प्रयुज्य ग्रहं प्रक्षाल्य तस्मिन् गृह्णाति ॥ विपश्चिते पवमानाय गायत । मही न धाराऽत्यन्धो अर्षति । अहिर्ह जीर्णामति सर्पति त्वचम् । अत्यो न क्रीडन्नसरद्वृषा हरिः । उपयामगृहीतोऽसि मृत्यवे त्वा जुष्टं गृह्णामि गृहीत्वा ॥ एष ते योनिर्मृत्यवे त्वा सादयति ॥

अवदानादि स्विष्टकृतं हुत्वा वैश्वानरे हविः । आयतने स्रुचौ सादयित्वा । विद्युदसीत्यप उपस्पृश्य । अप मृत्युमप क्षुधम् । अपेतः शपथं जहि । अथा नो अग्न आवह । रायस्पोशꣳ् सहस्रिणम् । ये ते सहस्रमयुतं पाशाः । मृत्यो मर्त्याय हन्तवे । तान् यज्ञस्य मायया सर्वानव यजामहे स्वाहा । मृत्यव इदम् । वृष्टिरसीत्यप उपस्पृश्य । इडामार्जनान्ते ग्रहशेषं भक्षयति ॥ भक्षोऽस्यमृतभक्षः । तस्य ते मृत्युपीतस्यामृतवतः । स्वगा कृतस्य मधुमतः । उपहूतस्योपहूतो भक्षयामि भक्षयित्वाचम्य । मन्द्राभिभूतिरिति प्राणनिह्नवानात्मन् प्रतिष्ठापयते ॥ मन्द्राभिभूतिः केतुर्यज्ञानां वागेहि । अन्धो जागृविः प्राण एहि । बधिर आक्रन्द इतरपान एहि । अहस्त्वोस्त्वा चक्षुरेहि । अपादाशो मन एहि । कवे विप्रचित्ते श्रोत्र एहि । सुहस्तः सुवासाः । शूषो नामास्यमृतो मर्त्येषु । तं त्वाहं तथा वेद । आत्मन्नेहि ॥

अग्निर्मे वाचि श्रितः । वाग्घृदये । हृदयं मयि । अहममृते । अमृतं ब्रह्मणि । वायुर्मे प्राणे श्रितः । प्राणो हृदये । हृदयं मयि । अहममृते । अमृतं ब्रह्मणि । सूर्यो मे चक्षुषि श्रितः । चक्षुर्हृदये । हृदयं मयि । अहममृते । अमृतं ब्रह्मणि । चन्द्रमा मे मनसि श्रितः । मनो हृदये । हृदयं मयि । अहममृते । अमृतं ब्रह्मणि । दिशो मे श्रोत्रे श्रिताः । श्रोत्रꣳ् हृदये । हृदयं मयि । अहममृते । अमृतं ब्रह्मणि । आपो मे रेतसि श्रिताः । रेतो हृदये । हृदयं मयि । अहममृते । अमृतं ब्रह्मणि । पृथिवी मे शरीरे श्रिता । शरीरꣳ् हृदये । हृदयं मयि । अहममृते । अमृतं ब्रह्मणि । ओषधिवनस्पतयो मे लोमसु श्रिताः । लोमानि हृदये । हृदयं मयि । अहममृते । अमृतं ब्रह्मणि । इन्द्रो मे बले श्रितः । बलꣳ् हृदये । हृदयं मयि । अहममृते । अमृतं ब्रह्मणि । पर्जन्यो मे मूर्ध्नि श्रितः । मूर्धा हृदये । हृदयं मयि । अहममृते । अमृतं ब्रह्मणि । ईशानो मे मन्यौ श्रितः । मन्युर् हृदये । हृदयं मयि । अहममृते । अमृतं ब्रह्मणि । आत्मा म आत्मनि श्रितः । आत्मा हृदये । हृदयं मयि । अहममृते । अमृतं ब्रह्मणि । पुनर्म आत्मा पुनरायुरागात् । पुनः प्राणः पुनराकूतमागात् । वैश्वानरो रश्मिभिर्वावृधानः । अन्तस्तिष्ठत्वमृतस्य गोपाः इत्यान्तादनुवाकस्य ब्रूयात् । अग्नीदौपयजादङ्गारानाहरेत्यादि ब्राह्मणतर्पणान्तं सन्तिष्ठते सावित्रः ॥

अनन्तरे पर्वणि मैत्रावरुण्यामिक्षया यजेत । सावित्राङ्गमैत्रावरुण्या यक्ष्ये । विद्युदसि । अग्नीनन्वाधाय शाखामाहृत्य व्रतप्रवेशः । उत्तरेण गार्हपत्यमित्यादि । नेध्मप्रव्रश्चनम् । वेदं कृत्वा वेदिः । अन्तर्वेदिशाखाया इत्यादि कुम्भीलेपनान्तम् । इमौ पर्णं च । वायवस्स्थः । परिस्तृणीत, देवा देवेषु, कर्मणे वाम् । पात्रप्रयोगकाले स्फ्यमग्निहोत्रहवणीमपरतः । स्रुवं जुहूं उपभृतं ध्रुवां वेदमाज्यस्थालीमिडापात्रं योक्त्रं वेदाग्राण्यन्वाहार्यस्थालीमुपवेषं प्रातर्दोहपात्राणि वाजिनपात्रं च प्रयुज्य । पवित्रकरणादि सं विशन्तां अग्निꣳ् होतारं कस्त्वा युनक्ति स त्वा युनक्तु । प्रोक्षणीः संस्कृत्य ब्रह्माणमामन्त्र्य पात्राणि प्रोक्ष्य प्रोक्षणीशेषं निधाय । एता आचरन्ति इत्यादि सङ्क्षालननिनयनान्तम् । मित्रावरुणाभ्यां हविः । बहुदुग्धि मित्रावरुणाभ्यां देवेभ्यो हव्यम् ॥ तप्ते प्रातर्दोहे लौकिकं दध्यानयति । अन्तरितं अविदहन्त श्रपयत । ब्रह्मन्नुत्तरं इत्यादि प्राशित्रवर्जं स्रुक् संमार्गः । विष्णूनि स्थेत्यन्तम् । यस्त आत्मा इत्यभिघार्य । दृꣳ्ह इत्युद्वास्य । प्रियेण इत्यासादनम् । इयमिन्द्रियं यत्पृथिवीमचरत् अयं यज्ञो ममाग्ने पञ्चहोता पुनः पञ्चहोता । मित्रावरुणभ्यामनुब्रूहि मित्रावरुणौ यज मित्रावरुणाभ्यामिदम् । मित्रावरुणयोरहं देवयज्ययेन्द्रियावी भूयासम् । जेमानं महिमानं इति वा । संस्रावान्ते वाजिनयागः । अन्वाहार्यो दक्षिणा । यज्ञो बभूव यज्ञ शं च म वर्जं ब्राह्मणतर्पणान्तं इष्टिः सन्तिष्ठते ॥

॥ इति मैत्रावरुण्यामिक्षेष्टिः समाप्तः ॥

॥ अथ नाचिकेत चयनम् ॥

अथ नाचिकेतः । एतेन नाचिकेतो व्याख्यातः । नाचिकेतमग्निं चेष्यमाण उपकल्पयते । एकविंशतिः शर्कराः अभ्यक्ताः । चतस्रः स्वयमातृण्णाः । अपरिमिता लोकंपृणाः । दधिमधुघृतोदपात्र-सहस्रहिरण्यशकलांश्च । चतुर्दश्यां प्रातरग्निहोत्रं हुत्वा दर्भेष्वासीनो दर्भान् धारयमाणः पवित्रपाणिः पत्न्या सह प्राणानायम्य देशकालौ सङ्कीर्त्य श्रीपरमेश्वरप्रीत्यर्थं पशुबन्धेन यक्ष्ये । आत्मन्नरण्योर्वा अग्निं समारोप्य यागोपकरणैस्सह देवयजनं गत्वा । आयतनानि कल्पयित्वा उद्धत्यावोक्ष्य मथित्वा उपावरोह्य । आत्मसमारोपणपक्षे लौकिकाग्नौ उपावरोह्य । विद्युदसि इत्यप उपस्पृश्य । अथाग्निसंकल्पः । नाचिकेतमग्निं चेष्ये । मृत्युग्रहो नित्यः । तस्यौदुम्बरपात्रकल्पनं उदपात्रं च द्वन्द्वम् ॥

ततः षड्ढोत्रादि यूपकरणान्तं पशुवत् । ततो वेदिमानं षड्विंशत्यङ्गुलपरिमितेन दण्डेन दशभिः पश्चाद्वादशभिः प्राची अष्टभिः पुरस्तात् । वेदिकरणादि प्रागुत्तरात्परिग्राहात्कृत्वा ।

उत्तरवेदिदेशे मध्ये शङ्कुं निहत्य अर्धव्यायामेनातिरिक्ततृतीयेन सह मण्डलं करोति । समूलं हरितं दर्भस्तम्बमाहृत्य मध्येऽग्नेर्निखाय जुह्वां पञ्चगृहीतं गृहीत्वा दर्भस्तम्बे पञ्चाज्याहुतीर्जुहोति । सजूरब्दोऽयावभिर्घृतेन स्वाहा । अब्दायेदम् । सजूरुषा अरुणीभिर्घृतेन स्वाहा । उषस इदम् । सजूस्सूर्य एतशेन घृतेन स्वाहा । सूर्यायेदम् । सजोषावश्विना दꣳ्सोभिर्घृतेन स्वाहा । अश्विभ्यामिदम् । सजूरग्निर्वैश्वानर इडाभिर्घृतेन स्वाहा । अग्नये वैश्वानरायेदम् । ततः उद्धत्यावोक्ष्य ।

शम्यां पुरस्तादुदगग्रां निधायेत्यादि भूतेभ्यस्त्वेति स्रुचमुद्गृह्येत्यन्तं पशुवत् । नात्र रेखा भवन्ति बाह्यरेखा भवत्येव । सिकताभिरवकीर्य दर्भैः प्रच्छाद्य दध्ना मधुमिश्रेण शर्कराभिश्च बाह्यरेखायाः सम्पूरणं कृत्वा वसति ॥

श्वोभूते प्रातरग्निहोत्रं हुत्वा । प्रजापतिस्त्वा — सीद उत्तरवेदिमभिमृश्य । मयि गृह्णाम्यग्रे अग्निꣳ् — सुवीराः ॥ यो नो अग्निः — परा गात् द्वाभ्यामात्मन्यग्निं गृहीत्वा । यास्ते अग्ने — प्रजानन्न् स्वयं चित्याभिमृशति । अग्नेर्भस्मास्यग्नेः पुरीषमसि इति सिकता निवपति । संज्ञानमसि — भूयात् इत्यूषां निवपति । तान् निवपन् यददश्चन्द्रमसि कृष्णं तदिहास्तु मनसा ध्यायति । संयावः प्रियास्तनुवस्सं — मम इत्यूषान्त्सिकतांश्च संसृज्य । चितस्थ परिचित — सीदत अपरिमिताभिः शर्कराभिः परिश्रयति । आप्यायस्व — सङ्गथे सिकता व्यूहति । यथा रेखा अविनष्टा भवन्ति ।

मृन्मयपात्रमुदकेन पूरयित्वा । अग्नेरपरार्धे खात्वा वाक्त्वा समुद्र — वाजिनाय तया अभ्यन्तरं जघनार्धे उदपात्रमुपदधाति । वाङ्म आसन्नसोः — हिꣳ्सीः जपित्वारोहति ।

१. लोकोऽसि स्वर्गोऽसि । अनन्तोऽस्यपारोऽसि । अक्षितोऽस्यक्षय्योऽसि । तपसः प्रतिष्ठा । त्वयीदमन्तः । विश्वं यक्षं विश्वं भूतं विश्वꣳ् सुभूतम् । विश्वस्य भर्ता विश्वस्य जनयिता । तं त्वोपदधे कामदुघमक्षितम् । प्रजापतिस्त्वा सादयतु । तया देवतयाङ्गिरस्वद्ध्रुवा सीद ।

२. तपोऽसि लोके श्रितम् । तेजसः प्रतिष्ठा । त्वयीदमन्तः । विश्वं यक्षं विश्वं भूतं विश्वꣳ् सुभूतम् । विश्वस्य भर्तृ विश्वस्य जनयितृ । तत् त्वोपदधे कामदुघमक्षितम् । प्रजापतिस्त्वा सादयतु । तया देवतयाङ्गिरस्वद्ध्रुवा सीद ।

३. तेजोऽसि तपसि श्रितम् । समुद्रस्य प्रतिष्ठा । त्वयीदमन्तः । विश्वं यक्षं विश्वं भूतं विश्वꣳ् सुभूतम् । विश्वस्य भर्तृ विश्वस्य जनयितृ । तत् त्वोपदधे कामदुघमक्षितम् । प्रजापतिस्त्वा सादयतु । तया देवतयाङ्गिरस्वद्ध्रुवा सीद ।

४. समुद्रोऽसि तेजसि श्रितः । अपां प्रतिष्ठा । त्वयीदमन्तः । विश्वं यक्षं विश्वं भूतं विश्वꣳ् सुभूतम् । विश्वस्य भर्ता विश्वस्य जनयिता । तं त्वोपदधे कामदुघमक्षितम् । प्रजापतिस्त्वा सादयतु । तया देवतयाङ्गिरस्वद्ध्रुवा सीद ।

५. आपस्स्थ समुद्रे श्रिताः । पृथिव्याः प्रतिष्ठा युष्मासु । इदमन्तः । विश्वं यक्षं विश्वं भूतं विश्वꣳ् सुभूतम् । विश्वस्य भर्त्र्यो विश्वस्य जनयित्र्यः । ता व उपदधे कामदुघा अक्षिताः । प्रजापतिस्त्वा सादयतु । तया देवतयाङ्गिरस्वद्ध्रुवासीद ।

६. पृथिव्यस्यप्सु श्रिता । अग्नेः प्रतिष्ठा । त्वयीदमन्तः । विश्वं यक्षं विश्वं भूतं विश्वꣳ् सुभूतम् । विश्वस्य भर्त्री विश्वस्य जनयित्री । तां त्वोपदधे कामदुघामक्षिताम् । प्रजापतिस्त्वा सादयतु । तया देवतयाङ्गिरस्वद्ध्रुवा सीद ।

७. अग्निरसि पृथिव्याꣲ् श्रितः । अन्तरिक्षस्य प्रतिष्ठा । त्वयीदमन्तः । विश्वं यक्षं विश्वं भूतं विश्वꣳ् सुभूतम् । विश्वस्य भर्ता विश्वस्य जनयिता । तं त्वोपदधे कामदुघमक्षितम् । प्रजापतिस्त्वा सादयतु । तया देवतयाङ्गिरस्वद्ध्रुवा सीद ।

८. अन्तरिक्षमस्यग्नौ श्रितम् । वायोः प्रतिष्ठा । त्वयीदमन्तः । विश्वं यक्षं विश्वं भूतं विश्वꣳ् सुभूतम् । विश्वस्य भर्तृ विश्वस्य जनयितृ । तत् त्वोपदधे कामदुघमक्षितम् । प्रजापतिस्त्वा सादयतु । तया देवतयाङ्गिरस्वद्ध्रुवा सीद ।

९. वायुरस्यन्तरिक्षे श्रितः । दिवः प्रतिष्ठा । त्वयीदमन्तः । विश्वं यक्षं विश्वं भूतं विश्वꣳ् सुभूतम् । विश्वस्य भर्ता विश्वस्य जनयिता । तं त्वोपदधे कामदुघमक्षितम् । प्रजापतिस्त्वा सादयतु । तया देवतयाङ्गिरस्वद्ध्रुवा सीद ।

१०. द्यौरसि वायौ श्रितः । आदित्यस्य प्रतिष्ठा । त्वयीदमन्तः । विश्वं यक्षं विश्वं भूतं विश्वꣳ् सुभूतम् । विश्वस्य भर्ता विश्वस्य जनयिता । तं त्वोपदधे कामदुघमक्षितम् । प्रजापतिस्त्वा सादयतु । तया देवतयाङ्गिरस्वद्ध्रुवा सीद ।

११. आदित्योऽसि दिवि श्रितः । चन्द्रमसः प्रतिष्ठा । त्वयीदमन्तः । विश्वं यक्षं विश्वं भूतं विश्वꣳ् सुभूतम् । विश्वस्य भर्ता विश्वस्य जनयिता । तं त्वोपदधे कामदुघमक्षितम् । प्रजापतिस्त्वा सादयतु । तया देवतयाङ्गिरस्वद्ध्रुवा सीद ।

१२. चन्द्रमा अस्यादित्ये श्रितः । नक्षत्राणां प्रतिष्ठा । त्वयीदमन्तः । विश्वं यक्षं विश्वं भूतं विश्वꣳ् सुभूतम् । विश्वस्य भर्ता विश्वस्य जनयिता । तं त्वोपदधे कामदुघमक्षितम् । प्रजापतिस्त्वा सादयतु । तया देवतयाङ्गिरस्वद्ध्रुवा सीद ।

१३. नक्षत्राणि स्थ चन्द्रमसि श्रितानि । संवथ्सरस्य प्रतिष्ठा युष्मासु । इदमन्तः । विश्वं यक्षं विश्वं भूतं विश्वꣳ् सुभूतम् । विश्वस्य भर्तॄणि विश्वस्य जनयितॄणि । तनि व उपदधे कामदुघान्यक्षितानि । प्रजापतिस्त्वा सादयतु । तया देवतयाङ्गिरस्वद्ध्रुवा सीद ।

१४. संवथ्सरोऽसि नक्षत्रेषु श्रितः । ऋतूनां प्रतिष्ठा । त्वयीदमन्तः । विश्वं यक्षं विश्वं भूतं विश्वꣳ् सुभूतम् । विश्वस्य भर्ता विश्वस्य जनयिता । तं त्वोपदधे कामदुघमक्षितम् । प्रजापतिस्त्वा सादयतु । तया देवतयाङ्गिरस्वद्ध्रुवा सीद ।

१५. ऋतवस्स्थ संवथ्सरे श्रिताः । मासानां प्रतिष्ठा युष्मासु । इदमन्तः । विश्वं यक्षं विश्वं भूतं विश्वꣳ् सुभूतम् । विश्वस्य भर्तारो विश्वस्य जनयितारः । तान् व उपदधे कामदुघानक्षितान् । प्रजापतिस्त्वा सादयतु । तया देवतयाङ्गिरस्वद्ध्रुवा सीद ।

१६. मासास्स्थर्तुषु श्रिताः । अर्धमासानां प्रतिष्ठा युष्मासु । इदमन्तः । विश्वं यक्षं विश्वं भूतं विश्वꣳ् सुभूतम् । विश्वस्य भर्तारो विश्वस्य जनयितारः । तान् व उपदधे कामदुघानक्षितान् । प्रजापतिस्त्वा सादयतु । तया देवतयाङ्गिरस्वद्ध्रुवा सीद ।

१७. अर्धमासास्स्थ मासु श्रिताः । अहोरात्रयोः प्रतिष्ठा युष्मासु । इदमन्तः । विश्वं यक्षं विश्वं भूतं विश्वꣳ् सुभूतम् । विश्वस्य भर्तारो विश्वस्य जनयितारः । तान् व उपदधे कामदुघानक्षितान् । प्रजापतिस्त्वा सादयतु । तया देवतयाङ्गिरस्वद्ध्रुवा सीद ।

१८. अहोरात्रे स्थोर्धमासेषु श्रिते । भूतस्य प्रतिष्ठे भव्यस्य प्रतिष्ठे । युवयोरिदमन्तः । इदमन्तः । विश्वं यक्षं विश्वं भूतं विश्वꣳ् सुभूतम् । विश्वस्य भर्त्र्यौ विश्वस्य जनयिर्त्र्यौ । ते वामुपदधे कामदुघे अक्षिते । प्रजापतिस्त्वा सादयतु । तया देवतयाङ्गिरस्वद्र्धुवा सीद ।

१९. पौर्णमास्यष्टकाऽमावास्या । अन्नादास्स्थाऽन्नदुघो युष्मासु । इदमन्तः । विश्वं यक्षं विश्वं भूतं विश्वꣳ् सुभूतम् । विश्वस्य भर्त्र्यो विश्वस्य जनयित्र्यः । ता व उपदधे कामदुघा अक्षिताः । प्रजापतिस्त्वा सादयतु । तया देवतयाङ्गिरस्वद्ध्रुवा सीद ।

२०. राडसि बृहती श्रीरसीन्द्रपत्नी धर्मपत्नी । विश्वं भूतमनु प्रभूता । त्वयीदमन्तः । विश्वं यक्षं विश्वं भूतं विश्वꣳ् सुभूतम् । विश्वस्य भर्त्री विश्वस्य जनयित्री । तां त्वोपदधे कामदुघामक्षिताम् । प्रजापतिस्त्वा सादयतु । तया देवतयाङ्गिरस्वध्रुवा सीद ।

२१. ओजोऽसि सहोऽसि । बलमसि भ्राजोऽसि । देवानां धामामृतम् । अमर्त्यस्तपोजाः । त्वयीदमन्तः । विश्वं यक्षं विश्वं भूतं विश्वꣳ् सुभूतम् । विश्वस्य भर्ता विश्वस्य जनयिता । तं त्वोपदधे कामदुघमक्षितम् । प्रजापतिस्त्वा सादयतु । तया देवतयाङ्गिरस्वद्ध्रुवा सीद ।

अथ चतस्रः स्वयमातृण्णा दिक्षूपदधाति भूरग्निं च पृथिवीं — सीद । भुवो वायुं — सीद । स्वरादित्यं — सीद । भूर्भुवस्स्वः — सीद ॥

लोकं पृण च्छिद्रं — देवतयाङ्गिरस्वद्ध्रुवासीद द्वाभ्यां द्वे इष्टके उपदधाति । एवंप्रकारेण लोकं पृणाभिः प्रच्छादयति । चात्वालात्पुरीषमाहृत्य पृष्टो दिवि इति चितावनुव्यूहति । वाङ्म आसन् इति जपित्वावरोहति । त्वमेव त्वां वेत्थ योऽसि सोऽसि — यावदुतापि ब्रह्म इत्यनुवाकेनोपतिष्ठते ॥

लोकं पृण च्छिद्रं — देवतयाङ्गिरस्वद्ध्रुवासीद द्वाभ्यां द्वे इष्टके उपदधाति । एवंप्रकारेण लोकं पृणाभिः प्रच्छादयति । चात्वालात्पुरीषमाहृत्य पृष्टो दिवि इति चितावनुव्यूहति । वाङ्म आसन् इति जपित्वावरोहति । त्वमेव त्वां वेत्थ योऽसि सोऽसि — यावदुतापि ब्रह्म इत्यनुवाकेनोपतिष्ठते ॥

यत्तेऽचित्तं यदु — इषꣴ्स्तोतृभ्य आ भर इति पञ्चभिरभिमृशति ॥ इमा मे अग्न इष्टका — अमुत्रामुष्मिन् लोके इष्टका धेनूर्यजमानः कुरुते ॥

अग्निरसि वैश्वानरोसि — कामꣳ् समच संहारविहाराभ्यां यजमानोऽग्निमुपतिष्ठते ।

अध्वर्युरुदङ्मुखस्तिष्ठन् उत्तमायामिष्टकायामर्कपर्णेनाजाक्षीरं जुहोति ॥ त्वमग्ने रुद्रो असुरो महो दिवः — भूर्भुवः स्वः स्वाहा ॥ त्रयस्त्रिंशादिभ्यो देवेभ्य इदम् । असंचरे पशूनामर्कपर्णमुपदस्यति । वल्मीकवपायां वा अवदधाति ॥

अपरेणोग्निं प्राङ्मुख उपविश्य संचितोक्थ्येन होतानुशंसति हिं ३ भूर्भुवस्स्वरो३मोजोबलं ब्रह्मक्षत्रं यशो महत्सत्यं तपो नाम रूपममृतं चक्षुः श्रोत्रं मन आयुर्विश्वं यशो महत्समं तपो हरो भों ३ जातवेदा यदि वा पावकोऽसि वैश्वानरो यदि वा वैद्युतोऽसि शं प्रजाभ्यो यजमानाय लोकमूर्जं पुष्टिं दददभ्या ववृत्स्वों ३ पौतुद्रवैः परिधिभिरित्याद्यतिमुक्तिहोमान्तं पशुवत् ।

अग्निरसि वैश्वानरोसि — कामꣳ् समच संहारविहाराभ्यां यजमानोऽग्निमुपतिष्ठते ।

अध्वर्युरुदङ्मुखस्तिष्ठन् उत्तमायामिष्टकायामर्कपर्णेनाजाक्षीरं जुहोति ॥ त्वमग्ने रुद्रो असुरो महो दिवः — भूर्भुवः स्वः स्वाहा ॥ त्रयस्त्रिंशादिभ्यो देवेभ्य इदम् । असंचरे पशूनामर्कपर्णमुपदस्यति । वल्मीकवपायां वा अवदधाति ॥

अपरेणोग्निं प्राङ्मुख उपविश्य संचितोक्थ्येन होतानुशंसति हिं ३ भूर्भुवस्स्वरो३मोजोबलं ब्रह्मक्षत्रं यशो महत्सत्यं तपो नाम रूपममृतं चक्षुः श्रोत्रं मन आयुर्विश्वं यशो महत्समं तपो हरो भों ३ जातवेदा यदि वा पावकोऽसि वैश्वानरो यदि वा वैद्युतोऽसि शं प्रजाभ्यो यजमानाय लोकमूर्जं पुष्टिं दददभ्या ववृत्स्वों ३ पौतुद्रवैः परिधिभिरित्याद्यतिमुक्तिहोमान्तं पशुवत् ।

अथ चतुर्गृहीतं जुहोति त्वमग्ने रुद्रो असुरो — भूर्भुवः स्वः स्वाहा । हुत्वा हुत्वा पात्र्यां सम्पातमवनयति । त्रयस्त्रिंशादिभ्यो देवेभ्य इदम् ॥

पुनश्चतुर्गृहीतं गृहीत्वा अग्नाविष्णू सजोषसा — भूर्भुवस्स्वस्स्वाहा अग्नाविष्ण्वादिभ्यो देवेभ्य इदम् ॥

अपरं चतुर्गृहीत्वा अन्नपतेऽन्नस्य नो देहि — भूर्भूवस्स्वस्स्वाहा । अन्नपत्यादिभ्यो देवेभ्य इदम् ॥

अपरं चतुर्गृहीत्वा सप्त ते अग्ने समिधस्सप्त जिह्वाः — भूर्भुवस्स्वस्स्वाहा । सप्तवत्यादिभ्यो देवेभ्य इदम् ॥

पुनश्चतुर्गृहित्वा वसूनां त्वाधीतेन — जुहोमि स्वाहा । वसूरुद्रादित्यविश्वेदेव मरुद्भ्य इदम् । पञ्चाहुतीनां संस्रावेण यजमानो मुखं विमृष्टे । राज्ञी विराज्ञी — सꣳ् सृजन्तु ।

अथ सकृत् सकृद्गृहीतेन जुहोति असवे स्वाहा । वसवे स्वाहा । विभुवे स्वाहा । विवस्वते स्वाहा । अभिभुवे स्वाहा । अधिपतये स्वाहा । दिवां पतये स्वाहा । अꣳ्हस्पत्याय स्वाहा । चाक्षुष्मत्याय स्वाहा । ज्योतिष्मत्याय स्वाहा । राज्ञे स्वाहा । विराज्ञे स्वाहा । संम्राज्ञे स्वाहा । स्वराज्ञे स्वाहा । शूषाय स्वाहा । सूर्याय स्वाहा । चन्द्रमसे स्वाहा । ज्योतिषे स्वाहा । सꣳ्सर्पाय स्वाहा । कल्याणाय स्वाहा । अर्जुनाय स्वाहा । यथालिङ्गं त्यागः । चतुर्थ्यन्ता देवताः ॥

उत्तरेण गार्हपत्यमित्यादि वपाश्रपण्यभिहोमान्तं पशुवत् । दक्षिणाकाले पशुदक्षिणां पञ्चाशीत्यधिकशतं सक्तून्, पष्ठौहीं, हिरण्यं, वासांश्चान्तर्वेदि स्थापयित्वा । ब्रह्माणि ब्रह्माणि स्थ ब्रह्मणे वो हुताद्य मा मा हिꣳ्सिष्टाहुतानि मह्यꣳ् शिवानि भवत ।

यजमानः ब्रध्न पिन्वस्वेत्यादि सहस्र धाराण्युत्सान्यक्षीयमाणानि तानि दध्नुः पृथिवीमन्तरिक्षं दिवं च तैरनुडुत्सक्तुपष्ठौहीहिरण्यवासोभिरतितराणि म्रुत्युम् ॥

ब्राह्मणाः इमानि अनुडुत्सक्तुपष्ठौहीहिरण्यवासांसि अहिंसन्तो यथाभागं प्रतिगृह्णीध्वम् । रुद्राय गाम् । ब्रह्मण ओदनम् । दक्षाय त्वा दक्षिणां प्रतिगृह्णामि । ग्नास्त्वा कृन्तन्नपसस्तन्वत वरुत्रयस्त्वा वयꣳ् सोमाय वासः । इति प्रतिग्रहः ॥ समुत्क्रम्य सहपत्नीका इत्यादि ।

यत्प्राङ्मनोतायास्तत्कृत्वा जुहूपभृतोर्हिरण्यशकलाववधाय मृत्युग्रहपक्षे औदुम्बरं ग्रहं पाशुकैः सह प्रयुज्य ग्रहं प्रक्षाल्य तस्मिन् गृह्णाति ॥ विपश्चिते — वृषा हरिः । उपयामगृहीतोऽसि मृत्यवे त्वा जुष्टं गृह्णामि गृहीत्वा ॥ एष ते योनिर्मृत्यवे त्वा सादयति ॥

अवदानादि स्विष्टकृतं हुत्वा वैश्वानरे हविः । आयतने स्रुचौ सादयित्वा । विद्युदसीत्यप उपस्पृश्य । अप मृत्युमप क्षुधम् — यजामहे स्वाहा । मृत्यव इदम् । वृष्टिरसीत्यप उपस्पृश्य । इडामार्जनान्ते ग्रहशेषं भक्षयति ॥ भक्षोऽस्यमृतभक्षः — भक्षयामि भक्षयित्वाचम्य । मन्द्राभिभूतिरिति प्राणनिह्नवानात्मन् प्रतिष्ठापयते ॥ मन्द्राभिभूतिः केतुर्यज्ञानां वागेहि । अन्धो जागृविः प्राण एहि । बधिर आक्रन्द इतरपान एहि । अहस्त्वोस्त्वा चक्षुरेहि । अपादाशो मन एहि । कवे विप्रचित्ते श्रोत्र एहि । सुहस्तः सुवासाः । शूषो नामास्यमृतो मर्त्येषु । तं त्वाहं तथा वेद । आत्मन्नेहि ॥

अग्निर्मे वाचि श्रितः — अन्तस्तिष्ठत्वमृतस्य गोपाः इत्यान्तादनुवाकस्य ब्रूयात् । अग्नीदौपयजादङ्गारानाहरेत्यादि ब्राह्मणतर्पणान्तं सन्तिष्ठते नाचिकेतः ॥

॥ इति नाचिकेतचयनम् ॥

॥ अथ चातुर्होत्रीयचयनम् ॥

अथ चातुर्होत्रीयमग्निं चेष्यमाण उपकल्पयते । पञ्चाशीतिशतं शर्कराः अभ्यक्ताः । चतस्रः स्वयमातृण्णाः । अपरिमिता लोकम्पृणाः । दधिमधुघृतोदपात्रसहस्रहिरण्यशकलांश्च । चतुर्दश्यां प्रातरग्निहोत्रं हुत्वा दर्भेष्वासीनो दर्भान् धारयमाणः पवित्रपाणिः पत्न्या सह प्राणानायम्य देशकालौ सङ्कीर्त्य श्रीपरमेश्वरप्रीत्यर्थं पशुबन्धेन यक्ष्ये । आत्मन्नरण्योर्वा अग्निं समारोप्य यागोपकरणैस्सह देवयजनं गत्वा । आयतनानि कल्पयित्वा उद्धत्यावोक्ष्य मथित्वा उपावरोह्य । विद्युदसि इत्यप उपस्पृश्य । अथाग्निसङ्कल्पः । पुनः प्राणानायम्य चातुर्होत्रीयमग्निं चेष्ये । यजुष्मत्यः पदानि मन्त्राः । षडशीतिरनुसूत्रं चेत्तदा शाखान्तरियोपधानम् । अनुब्राह्मणं चेत् द्व्यूनं शतं शर्करा वाभ्यक्ता लोकंपृणाद्युपकल्पनं दधिमध्वादीनां पूर्ववत् । ततः षड्ढोत्रादि यूपकरणान्तं पशुवत् । ततो वेदिमानं षड्विंशत्यङ्गुलपरिमतेन दण्डेन दशभिः पश्चाद्वादशभिः प्राची अष्टभिः पुरस्तात् । वेदिकरणादि प्रागुत्तरात्परिग्राहात्कृत्वा । नात्र लोखाः ।

श्वोभूते प्रातरग्निहोत्रं हुत्वा । प्रजापतिस्त्वा — सीद उत्तरवेदिमभिमृश्य । मयि गृह्णाम्यग्रे अग्निꣳ् — सुवीराः ॥ यो नो अग्निः — परा गात् द्वाभ्यामात्मन्यग्निं गृहीत्वा । यास्ते अग्ने — प्रजानन्न् स्वयं चित्याभिमृशति । अग्नेर्भस्मास्यग्नेः पुरीषमसि इति सिकता निवपति । संज्ञानमसि — भूयात् इत्यूषां निवपति । तान् निवपन् यददश्चन्द्रमसि कृष्णं तदिहास्तु मनसा ध्यायति । संयावः प्रियास्तनुवस्सं — मम इत्यूषान्त्सिकतांश्च संसृज्य । चितस्थ परिचित — सीदत अपरिमिताभिः शर्कराभिः परिश्रयति । आप्यायस्व — सङ्गथे सिकता व्यूहति ।

मृन्मयपात्रमुदकेन पूरयित्वा । अग्नेरपरार्धे खात्वा वाक्त्वा समुद्र — वाजिनाय तया अभ्यन्तरं जघनार्धे उदपात्रमुपदधाति । वाङ्म आसन्नसोः — हिꣳ्सीः जपित्वारोहति ।

पुरस्तादारभ्य प्रदक्षिणमुपदधाति । उदपात्रमुपधाय पूर्वेण दर्भस्तम्बं सप्तहोतुरवकाशमवशिष्य पुरस्ताद्दशहोतारं प्रतिमन्त्रमुदीच्या रीत्योपदधाति ।

दशभिर्मन्त्रैः दशेष्टकाः । चित्तिस्रुक् तया देवतायाङ्गिरस्वद्ध्रुवासीद । चित्तमाज्यं तया । वाग्वेदिस्तया । आधीतं बर्हिस्तया । केतो अग्निस्तया । विज्ञातमग्निस्तया । वाक्पतिर्होता तया । मन उपवक्ता तया । प्राणो हविस्तया । सामाध्वर्युस्तया । १०

अथ हृदयमुत्तरत उपदधाति । सुवर्णं घर्मं परिवेदमेनम् । इन्द्रस्यात्मानं दशधा चरन्तम् । अन्तस्समुद्रे मनसा चरन्तम् ॥ ब्रह्मान्वविन्दद्दशहोतारमर्णे । अन्तः प्रविष्टश्शास्ता जनानाम् । एकस्सन्बहुधा विचारः । शतꣳ् शुक्राणि यत्रैकं भवन्ति । सर्वे वेदा यत्रैकं भवन्ति । सर्वे होतारो यत्रैकं भवन्ति । समानसीन आत्माजनानाꣳ् सर्वात्मा । सर्वाः प्रजा यत्रैकं भवन्ति । चतुर्होतारो यत्र सम्पदं गच्छन्ति देवैः । समानसीन आत्माजनानान्तया चतुर्दशभिर्वाक्यैरेकामुपदधाति । १ + १० = ११

अथ हृदयमुत्तरेण दशहोतुर्ग्रहमुपदधाति वाचस्पते विधेनामन् । विधेम ते नाम । विधेस्त्वमस्माकं नाम । वाचस्पतिस्सोमं पिबतु । आस्मासु नृम्णं धात्स्वाहा तया ॥ १ + ११ = १२

ग्रहमुत्तरेण प्रतिग्रहं देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यां प्रतिगृह्णामि । राजा त्वा वरुणो नयतु देवि दक्षिणेऽग्नये हिरण्यम् । तेनामृतत्वमश्याम् । वयो दात्रे । मयो मह्यमस्तु प्रतिगृहीत्रे । क इदं कस्मा अदात् । कामः कामाय । कामो दाता । कामः प्रतिग्रहीता । कामꣳ् समुद्रमाविश । कामेन त्वा प्रतिगृह्णामि । कामैतत्ते । एषा ते कामदक्षिणा । उत्तानस्त्वाङ्गीरसः प्रतिगृह्णातु तया ॥ १ + १२ = १३

प्रतिग्रहमुत्तरेण चत्वार्यजूंष्युपदधाति अग्निर्यजुर्भिस्तया । सविता स्तोमैस्तया । इन्द्र उक्थामदैस्तया । मित्रावरुणा वाशिषा तया । ४ + १३ = १७

तासामुत्तरेण द्वे पत्न्यौ । सेनेन्द्रस्य तया । धेना बृहस्पतेस्तया । २ + १७ = १९

दक्षिणतो दर्भस्तम्बस्य प्राञ्चं चतुर्होतारम् पृथिवी होता तया । द्यौरध्वर्युस्तया । रुद्रोऽग्नीत्तया । बृहस्पतिरुपवक्ता तया ॥ ४ + १९ = २३

अथ हृदयम् । ब्रह्मेन्द्रमग्निं जगतः प्रतिष्ठाम् । दिव आत्मानꣳ् सवितारं बृहस्पतिम् । चतुर्होतारं प्रदिशोऽनु क्लृप्तम् । वाचो वीर्यं तपसान्वविन्दत् । अन्तः प्रविष्टं कर्तारमेतम् । त्वषारꣳ् रूपाणि विकुर्वन्तं विपश्चिम् । अमृतस्य प्राणं यज्ञमेतम् । चतुर्होतृणामात्मानं कवयो निचिक्युः । अन्तः प्रविष्टं कर्तारमेतम् । देवानां बन्धु निहितं गुहासु । अमृतेन कॢप्तं यज्ञमेतम् । चतुर्होतृणामात्मानं कवयो निचिक्युस्तया द्वादशभिरेकामुपदधाति । १ + २३ = २४

अथ चतुहोतृग्रहस्योपधानम् । वाचस्पते वाचो वीर्येण । सम्भृततमेना यक्ष्यसे । यजमानाय वार्यम् । आसुवस्करस्मै । वाचस्पतिस्सोमं पिबति । जजनदिन्द्रमिन्द्रियाय स्वाहा तया ॥ १ +२४ = २५

अथ प्रतिग्रहम् । देवस्य त्वा सवितुः — प्रतिगृह्णामि । राजा त्वा वरुणो नयतु देवि दक्षिणे ग्नास्त्वा कृन्तन्नतपसस्त्वा तन्वत वरूत्रयस्त्वा वयꣳ् सोमाय वासः । तेनामृतत्वमश्याम् — प्रतिगृह्णातु तया ॥ १ + २५ = २६

अथ यजूंषि अङ्गिरसो धिष्णियैरग्निभिस्तया । मरुतस्सदोहविर्धानाभ्याꣲ्स्तया । आपः प्रोक्षणीभिस्तया । ओषधयो बर्हिषा तया । ४ + २५ =२९

अथ पत्न्यौ पथ्या पूष्णस्तया । वाग्वायोस्तया । २ + २९ = ३१

पश्चादुदञ्चं पञ्चहोतारम् । दर्भस्तम्बस्य पश्चादुदीच्या रीत्योपदधाति अग्निर्होता तया । अश्विनाध्वर्यू तया । त्वष्टाग्नीत्तया । मित्र उपवक्ता तया । ४ + ३२ = ३६

अथ हृदयम् शतं नियुतः परि वेद विश्वा विश्ववारः । विश्वमिदं वृणाति । इन्द्रस्यात्मा निहितः पञ्चहोता । अमृतं देवाना मायुः प्रजानाम् । इन्द्रꣳ् राजानꣳ् सवितारमेतम् । वायोरात्मानं कवयो विचिक्युः । रश्मिꣳ् रश्मीनां मध्ये तपन्तम् । ऋतस्य पदे कवयो निपान्ति । य आण्डकोशे भुवनं बिभर्ति । अनिर्भिण्णस्सन्नथ लोकान् विचष्टे । यस्याण्डकोशꣳ् शुष्ममाहुः प्राणमुल्बम् । तेन क्लृप्तोऽऽमृतेनाहमस्मि तया द्वादशभिरेकामुपदधाति । १ + ३६ = ३७

अथ पञ्चहोतृग्रहस्योपधानम् सोमस्सोमस्य पुरोगाः । शुक्रश्शुक्रस्य पुरोगाः । श्रातास्त इन्द्र सोमाः । वातापेर्हवनश्रुतस्स्वाहा तया ॥ १ + ३७ = ३८

अथ प्रतिग्रहम् देवस्य त्वा सवितुः — देविदक्षिणे रुद्राय गाम् । तेनामृतत्वमश्याम् — प्रतिगृह्णातु तया ॥ १ + ३८ =३९

अथ यजूंषि अदितिर्वेद्या तया । सोमो दीक्षया तया । त्वष्टेध्मेन तया । विष्णुर्यज्ञेन तया । ४ + ३९ = ४३

अथ पत्न्यौ दीक्षा सोमस्य तया । पृथिव्यग्नेस्तया । २ + ४३ =४५

उत्तरतः प्राञ्चं षढ्ढोतारम् । दर्भस्तम्भस्योत्तरतः प्राञ्चोपदधाति वाघ्घोता तया । दीक्षा पत्नी तया । वातोऽध्वर्युस्तया । आपोऽभिगरस्तया । मनो हविस्तया । तपसि जुहोमि तया । ६ + ४५ = ५१

अथ हृदयं सुवर्णं कोशꣳ् रजसा परीवृतम् । देवानां वसुधानीं विराजाम् । अमृतस्य पूर्णां तामु कलां विवक्षते । पादꣳ् षड्ढोतुर्न किला विवित्से । येनर्तवः पञ्चधोतकॢप्ताः । उत वा षड्धा मनसोत कॢप्ताः । तꣳ् षड्ढोतारमृतुभिः कल्पमानम् । ऋतस्य पदे कवयो निपान्ति । अन्तः प्रविष्टं कर्तारमेतम् । अन्तश्चन्द्रमसि मनसा चरन्तम् । सहैव सन्तं न विजानन्ति देवाः । इन्द्रस्यात्मानꣳ् शतधा चरन्तन्तया द्वादशभिरेकामुपदधाति ॥ १ + ५१ =५२

अथ ग्रहम् भूर्भुवस्सुवः । ब्रह्म स्वयम्भु । ब्रह्मणे स्वयम्भुवे स्वाहा तया ॥ १ + ५२ = ५३

अथ प्रतिग्रहम् देवस्य त्वा सवितुः — देवि दक्षिणे वरुणायाश्वम् । तेनामृतत्वमश्याम् — प्रतिगृह्णातु तया ॥ १ + ५३ = ५४

अथ सम्भार यजूंषि वसव आज्येन तया । आदित्या दक्षिणाभिस्तया । विश्वे देवा ऊर्जा तया । पूषा स्वगाकारेण तया ॥ ४ + ५४ = ५८

अथ पत्न्यौ वसूनां गायत्री तया । रुद्राणां त्रिष्टुक्तया ॥ २ + ५८ = ६०

उपरिष्टात्प्राञ्चं सप्तहोतारम् । दर्भस्तम्बस्य पुरस्तात् प्राच्या रीत्योपदधाति महाहविर्होता तया । सत्यहविरध्वर्युस्तया । अच्युतपाजा अग्नीत्तया । अच्युतमना उपवक्ता तया । अनाधृष्यश्चाप्रतिधृष्यश्च तया । यज्ञस्याभिगरौ तया । अयास्य उद्गाता तया ॥ ७ + ६० = ६७

अथ हृदयम् । इन्द्रो राजा जरातो य इशे । सप्तहोता सप्तधा विकॢप्तः । परेण तन्तुं परिषिच्यमानम् । अन्तरादित्ये मनसा चरन्तम् । देवानाꣳ् हृदयं ब्रह्मान्वविन्दत् । ब्रह्मैतद् ब्रह्मण उज्जभार । अर्कꣴ् श्चोतन्तꣳ् सरिरस्य मध्ये । आयस्मिन्थ्सप्तपेरवः । मेहन्ति बहुलाꣲ् श्रियम् । बह्वश्वामिन्द्रगोमतीम् । अच्युतां बहुलाꣲ् श्रियम् । सहरिर्वसु वित्तमः । पेरुरिन्द्राय पिन्वते । बह्वश्वामिन्द्र गोमतीम् । अच्युतां बहुलाꣲ् श्रियम् । मह्यमिन्द्रो नियच्छतु । शतꣳ् शता अस्य युक्ता हरीणाम् । अर्वाङायातु वसुभीरश्मिरिन्द्रः । प्रमꣳ्हमाणो बहुलाꣲ् श्रियम् । रश्मिरिन्द्रः सविता मे नि यच्छतु । धृतं तेजो मधुमदिन्द्रियम् । मय्ययमग्निर्दधातु । हरिः पतङ्गः पटरी सुपर्णः । दिविक्षयो नभसा य एति । स न इन्द्रः कामवरं ददातु । पञ्चारं चक्रं परिवर्तते पृथु । हिरण्यज्योतिः सरिरस्य मध्ये । अजस्रं ज्योतिर्नभसा सर्पदेति । स न इन्द्रः कामवरं ददातु । सप्त युञ्जन्ति रथमेकचक्रम् । एको अश्वो वहति सप्तनामा । त्रिनाभिचक्रमजरमनर्वम् । येनेमा विश्वा भुवनानि तस्थुः । भद्रं पश्यन्त उपसेदुरग्रे । तपो दीक्षामृषयः सुवर्विदः । ततः क्षत्रं बलमोजश्च जातम् । तदस्मै देवा अभिसन्नमन्तु । श्वेतꣳ् रश्मिं बोभुज्यमानम् । अपां नेतारं भुवनस्य गोपाम् । इन्द्रं निचिक्युः परमे व्योमन् । रोहिणीः पिङ्गला एकरूपाः । क्षरन्तीः पिङ्गला एकरूपाः । शतꣳ् सहस्राणि प्रयुतानि नाव्यानाम् । अयं यः श्वेतो रश्मिः । परि सर्वमिदं जगत् । प्रजां पशून् धनानि । अस्मकं ददातु । श्वेतो रश्मिः परि सर्वं बभूव । सुवर्मह्यं पशून् विश्वरूपान् । पतङ्गमक्तमसुरस्य मायया । हृदा पश्यन्ति मनसा मनीषिणः । समुद्रे अन्तः कवयो विचक्षते । मरीचीनां पदमिच्छन्ति वेधसः । पतङ्गो वाचं मनसा बिभर्ति । तां गन्धर्वो वदद्गर्भे अन्तः । तां द्योतमानाꣲ् स्वर्यं मनीषाम् । ऋतस्य पदे कवयो निपान्ति । ये ग्राम्याः पशवो विश्वरूपाः । विरूपास्सन्तो बहुधैकरूपाः । अग्निस्ताꣳ् अग्रे प्रमुमोक्तु देवः । प्रजापतिः प्रजया संविदानः । वीतꣴ् स्तुकेस्तुके । युवमस्मासु नियच्छतम् । प्रप्र यज्ञपतिं तिर । ये ग्राम्याः पशवो विश्वरूपाः । विरूपास्सन्तो बहुधैकरूपाः । तेषाꣳ् सप्तानामिहरन्तिरस्तु । रायस्पोषाय सुप्रजास्त्वाय सुवीर्याय । य आरण्याः पशवो विश्वरूपाः । विरूपास्सन्तो बहुधैकरूपाः । वायुस्ताꣳ् अग्रे प्रमुमोक्तु देवः । प्रजापतिः प्रजया संविदानः । इडायै सृप्तं घृतवच्चराचरम् । देवा अन्वविन्दन् गुहा हितम् । य आरण्याः पशवो विश्वरूपाः । विरूपास्सन्तो बहुधैकरूपाः । तेषाꣳ् सप्तानामिह रन्तिरस्तु । रायस्पोषाय सुप्रजास्त्वाय सुवीर्याय तया अष्टसप्ततिभिरेकामुपदधाति ॥ १ + ६७ = ६८

अथ सप्तहोतृग्रहस्योपधानम् । वाचस्पते हृद्विधे नामन् । विधेम ते नाम । विधेस्त्वमस्माकं नाम । वाचस्पतिस्सोममपात् । मा दैव्यस्तन्तुश्छेदि मा मनुष्यः । नमो दिवे । नमः पृथिव्यै स्वाहा तया ॥ १ + ६८ = ६९

अथ प्रतिग्रहम् देवस्य त्वा — देवि दक्षिणे प्रजापतये पुरुषम् । तेनामृतत्वमश्याम् — प्रतिगृह्णातु तया ॥ १ + ६९ = ७०

अथ सम्भारयजूंषि बृहस्पतिः पुरोधया तया । प्रजापतिरुद्गीथेन तया । अन्तरिक्षं पवित्रेण तया । वायुः पात्रैस्तया । अहꣴ् श्रद्धया तया ॥ ५ + ७० = ७५

अथ पत्न्यौ आदित्यानां जगती तया । विष्णोरनुष्टुक्तया । वरुणस्य विराट् तया । यज्ञस्य पङ्क्तिस्तया । प्रजापतेरनुमतिस्तया । मित्रस्य श्रद्धा तया । सवितुः प्रसूतिस्तया । सूर्यस्य मरीचिस्तया । चन्द्रमसो रोहिणी तया । ऋषीणामरुन्धती तया । पर्जन्यस्य विद्युत्तया । चतस्रो दिशस्तया । चतस्रोऽवान्तरदिशास्तया । अहश्च रात्रिश्च तया । कृषिश्च वृष्टिश्च तया । त्विषिश्चापचितिश्च तया । आपश्चौषधयश्च तया । ऊर्क्च सूनृता च तया । देवानां पत्नयस्तया ॥ ( चतस्रो दिश इत्यारभ्यदेवानां पत्नय इत्यन्तं एक एव मन्त्रः इति कपर्दिभाष्यम् ) १९ + ७५ = ९४

अथ चतस्रः स्वयमातृण्णा दिक्षूपदधाति भूरग्निं च पृथिवीं — सीद । भुवो वायुं — सीद । स्वरादित्यं — सीद । भूर्भुवस्स्वः — सीद ॥

लोकं पृण च्छिद्रं — सीद द्वाभ्यां द्वे इष्टके उपदधाति । एवंप्रकारेण लोकंपृणाभिः प्रच्छादयति । चात्वालात्पुरीषमाहृत्य पृष्टो दिवि इति चितावनुव्यूहति । वाङ्म आसन् इति जपित्वावरोहति । त्वमेव त्वां वेत्थ — यावदुतापि ब्रह्म इत्यनुवाकेनोपतिष्ठते ॥

पुरस्तात्प्रत्यङ्मुखस्तिष्ठन् हिरण्यशकलशतद्वयेनाग्निं प्रोक्षति सहस्रस्य प्रमा असि । दक्षिणत उदङ्मुखस्तिष्ठन् सहस्रस्य प्रतिमा असि । पश्चात्प्राङ्मुखः सहस्रस्य विमा असि । उत्तरतो दक्षिणामुखः सहस्रस्योन्मा असि । साहस्रोऽसि सहस्राय त्वा मध्ये प्राङ्मुखः ।

यत्तेऽचित्तं यदु — आ भर इति पञ्चभिरभिमृशति ॥ इमा मे अग्न — अमुत्रामुष्मिन् लोके इष्टका धेनूर्यजमानः कुरुते ॥

अग्निरसि वैश्वानरोसि — कामꣳ् समच संहारविहाराभ्यां यजमानोऽग्निमुपतिष्ठते ।

अध्वर्युरुदङ्मुखस्तिष्ठन् उत्तमायामिष्टकायामर्कपर्णेनाजाक्षीरं जुहोति ॥ त्वमग्ने रुद्रो असुरो — भूर्भुवः स्वः स्वाहा ॥ त्रयस्त्रिंशादिभ्यो देवेभ्य इदम् । असंचरे पशूनामर्कपर्णमुदस्यति । वल्मीकवपायां वा अवदधाति ॥

अपरेणाग्निं प्राङ्मुख उपविश्य सञ्चितोक्थ्येन होतानुशंसति हिं ३ भूर्भुवस्स्वरो३मोजोबलं ब्रह्मक्षत्रं यशो महत्सत्यं तपो नाम रूपममृतं चक्षुः श्रोत्रं मन आयुर्विश्वं यशो महत्समं तपो हरो भों ३ जातवेदा यदि वा पावकोऽसि वैश्वानरो यदि वा वैद्युतोऽसि शं प्रजाभ्यो यजमानाय लोकमूर्जं पुष्टिं दददभ्या ववृत्स्वो३म् ॥ पौतुद्रवैः परिधिभिरित्याद्यतिमुक्तिहोमान्तं पशुवत् ।

अथ चतुर्गृहीतं जुहोति त्वमग्ने रुद्रो असुरो — भूर्भुवः स्वः स्वाहा । हुत्वा हुत्वा पात्र्यां सम्पातमवनयति । त्रयस्त्रिंशादिभ्यो देवेभ्य इदम् ॥

पुनश्चतुर्गृहीतं गृहीत्वा अग्नाविष्णू सजोषसा — भूर्भुवस्स्वस्स्वाहा अग्नाविष्ण्वादिभ्यो देवेभ्य इदम् ॥

अपरं चतुर्गृहीत्वा अन्नपतेऽन्नस्य नो देहि — भूर्भूवस्स्वस्स्वाहा । अन्नपत्यादिभ्यो देवेभ्य इदम् ॥

अपरं चतुर्गृहीत्वा सप्त ते अग्ने समिधस्सप्त जिह्वाः — भूर्भुवस्स्वस्स्वाहा । सप्तवत्यादिभ्यो देवेभ्य इदम् ॥

पुनश्चतुर्गृहित्वा वसूनां त्वाधीतेन — जुहोमि स्वाहा । वसुरुद्रादित्यविश्वेदेवमरुद्भ्य इदम् । पञ्चाहुतीनां संस्रावेण यजमानो मुखं विमृष्टे राज्ञी विराज्ञी — सꣳ् सृजन्तु ।

अथ सकृत् सकृद्गृहीतेन जुहोति असवे स्वाहा । वसवे स्वाहा । विभुवे स्वाहा । विवस्वते स्वाहा । अभिभुवे स्वाहा । अधिपतये स्वाहा । दिवां पतये स्वाहा । अꣳ्हस्पत्याय स्वाहा । चाक्षुष्मत्याय स्वाहा । ज्योतिष्मत्याय स्वाहा । राज्ञे स्वाहा । विराज्ञे स्वाहा । सम्राज्ञे स्वाहा । स्वराज्ञे स्वाहा । शूषाय स्वाहा । सूर्याय स्वाहा । चन्द्रमसे स्वाहा । ज्योतिषे स्वाहा । सꣳ्सर्पाय स्वाहा । कल्याणाय स्वाहा । अर्जुनाय स्वाहा । यथालिङ्गं त्यागः । चतुर्थ्यन्ता देवताः ॥

उत्तरेण गार्हपत्यमित्यादि वपाश्रपण्यभिहोमान्तं पशुवत् । दक्षिणाकाले पशुदक्षिणां पञ्चाशीत्यधिकशतं सक्तून्, पष्ठौहीं, हिरण्यं, वासांश्चान्तर्वेदि स्थापयित्वा । ब्रह्माणि ब्रह्माणि स्थ ब्रह्मणे वो हुताद्य मा मा हिꣳ्सिष्टाहुतानि मह्यꣳ् शिवानि भवत ।

यजमानः ब्रध्न पिन्वस्वेत्यादि सहस्र धाराण्युत्सान्यक्षीयमाणानि तानि दध्रुः पृथिवीमन्तरिक्षं दिवं च तैरनुडुत्सक्तुपष्ठौहीहिरण्यवासोभिरतितराणि म्रुत्युम् ॥

ब्राह्मणाः इमानि अनुडुत्सक्तुपष्ठौहीहिरण्यवासांसि अहिंसन्तो यथाभागं प्रतिगृह्णीध्वम् । रुद्राय गाम् । ब्रह्मण ओदनम् । दक्षाय त्वा दक्षिणां प्रतिगृह्णामि । ग्नास्त्वा कृन्तन्नतपसस्त्वा तन्वत वरुत्रयस्त्वा वयꣳ् सोमाय वासः इति प्रतिग्रहः । समुत्क्रम्य सहपत्नीका इत्यादि ।

अत्र मृत्युग्रहो विकल्पः । यदि कुर्यात् यत्प्राङ्मनोतायास्तत्कृत्वा जुहूपभृतोर्हिरण्यशकलाववधाय औदुम्बरं ग्रहं पाशुकैः सह प्रयुज्य ग्रहं प्रक्षाल्य तस्मिन् गृह्णाति ॥ विपश्चिते — वृषा हरिः । उपयामगृहीतोऽसि मृत्यवे त्वा जुष्टं गृह्णामि गृहीत्वा ॥ एष ते योनिर्मृत्यवे त्वा सादयति ॥

अवदानादि स्विष्टकृतं हुत्वा वैश्वानरे हविः । आयतने स्रुचौ सादयित्वा । विद्युदसीत्यप उपस्पृश्य । अप मृत्युमप क्षुधम् — यजामहे स्वाहा । मृत्यव इदम् । वृष्टिरसीत्यप उपस्पृश्य । इडामार्जनान्ते ग्रहशेषं भक्षयति । भक्षोऽस्यमृतभक्षः — भक्षयामि भक्षयित्वाचम्य । मन्द्राभिभूतिरिति प्राणनिह्नवानात्मन् प्रतिष्ठापयते । मन्द्राभिभूतिः केतुर्यज्ञानां वागेहि । अन्धो जागृविः प्राण एहि । बधिर आक्रन्द इतरपान एहि । अहस्त्वोस्त्वा चक्षुरेहि । अपादाशो मन एहि । कवे विप्रचित्ते श्रोत्र एहि । सुहस्तः सुवासाः । शूषो नामास्यमृतो मर्त्येषु । तं त्वाहं तथा वेद । आत्मन्नेहि ॥

अग्निर्मे वाचि श्रितः — अन्तस्तिष्ठत्वमृतस्य गोपाः इत्यान्तादनुवाकस्य ब्रूयात् । अग्नीदौपयजादङ्गारानाहरेत्यादि ब्राह्मणतर्पणान्तम् । सन्तिष्ठते चातुर्होत्रीयम् ॥

॥ श्री कृष्णार्पणमस्तु ॥

॥ अथ वैश्वसृजाग्नि चयनम् ॥

ऌÄख्ॐअ ज्ञ्ॐैग्रू इक्तह्वÄद्गॐठह्वश्ह्व द्यह्वअष्ठह्वक्तह्वठह्वैद्गह्वÄद्गह्वक्तह्वÄॢ त्र्ञ०त्ह्वÄत्तरूठह्वÄ. ष्ष्ठाैँरूद्गॐ ग्श्ह्व०त्ह्वÄऑ षै्द्मञ्ह्वक्तह्वÄद्गॐठाॉऑ ॡअश्ह्वÄ ष्ठह्वश्ह्वैँठॐञ्ह्वञ्ह्वÄह्णारूह्यञ्ह्वÄद्गह्व उक्ताँॢअश्ह्वÄठह्वैद्गह्वÄश्ह्व ग्ष्ज्ञ्ह्वै०तरूँरह्वद्गह्वक्तह्वÄॢ त्र्ञ०त्ह्वÄत्तरूठह्वÄ.

अथ वैश्वसृजमग्निं चेष्यमाण उपकल्पयते । द्विचत्वारिंशत् शर्करा अभ्यक्ताः । चतस्रः स्वयमातृण्णाः । अपरिमिता लोकम्पृणाः । दधिमधुघृतोदपात्रसहस्रहिरण्यशकलांश्च । चतुर्दश्यां प्रातरग्निहोत्रं हुत्वा दर्भेष्वासीनो दर्भान् धारयमाणः पवित्रपाणिः पत्न्या सह प्राणानायम्य देशकालौ सङ्कीर्त्य श्रीपरमेश्वरप्रीत्यर्थं पशुबन्धेन यक्ष्ये । आत्मन्यरण्योर्वा अग्निं समारोप्य यागोपकरणैस्सह देवयजनं गत्वा । आयतनानि कल्पयित्वा उद्धत्यावोक्ष्य मथित्वा वोपावरोह्य । विद्युदसि इत्यप उपस्पृश्य । अथाग्निसङ्कल्पः । वैश्वसृजमग्निं चेष्ये । ततः षड्ढेत्रादि यूपकरणान्तं पशुवत् । ततो वेदिमानम् । षड्विंशत्यङ्गुलपरिमितेन दण्डेन दशभिः पश्चाद्वादशभिः प्राची अष्टभिः पुरस्तात् । वेदिकरणादि प्रागुत्तरात्परिग्राहात्कृत्वा उत्तरवेदिदेशे मध्ये शङ्कुं निहत्य । अर्धव्यायामेनातिरिक्ततृतीयेन सह मण्डलं करोति । यच्चामृतं यच्चामर्त्यमित्यादि परिमण्डलमेवादर्शाकृतिं चिनोति ॥

अथवा तिस्रश्चितयस्त्रिभिरनुवाकैः एकैकेनानुवाकेन एकैकाम् प्रदक्षिणमित्यर्थः । प्रथमेनानुवाकेनोपधाय । स्वयमातृण्णा उपधाय । लोकम्पृणा उपधाय पुरीषम् । तासामुपरि द्वितीयेनानुवाकेनोपधाय स्वयमातृण्णा उपधाय । लोकम्पृणा उपधाय पुरीषम् । तासामुपरि तृतीयेनानुवाकेनोपधाय । स्वयमातृण्णा उपधाय । लोकम्पृणभिः प्रच्छादयति । पृष्टो दिवि इति पुरीषम् । वाङ्म आसन् इत्यादि पूर्ववत् ।

अन्यत्रानुशंसनात् । ऋचां प्राचीमित्यनुशंसति । ऋगन्तः प्रणवः । पञ्चपञ्चाशदित्यादि ओमित्यन्तमेकम् । त्रिःप्रथममाति क्वचित् । मृत्युग्रहो नित्यः । एवं पशुबन्धे । सोमे तु मध्यमायामुपसदि चतुश्शिखण्डेत्यभिमर्श-नान्तं कृत्वा उत्तरवेदिदेशस्य मध्ये शङ्कुं निहत्येत्यादि बाह्यरेखां सम्पूर्य वसतीत्यन्तं कृत्वा आपराह्णिकीभ्यां प्रचर्य । श्वो भूते पूर्वाह्णिकीभ्यां प्रचर्य प्रजापतिस्त्वा सादयतु इत्याद्यनुशंसनान्तम् । आपराह्णिकीभ्यां प्रचर्य अग्निं प्रणयतीत्याद्यतिमुक्तिहोमान्तं कृत्वा चतुर्गृहीतमित्यादि एकविंशतिमाहुत्यन्तं कृत्वा । अग्निवत्युत्तरमित्यादि सौमिकं कर्म । सवनीयपशोः यूष्णः मृत्यवे ग्रहं गृह्णाति । अहर्गणेषु आद्येऽहनि गृह्णाति ।

समूलं हरितं दर्भस्तम्बमाहृत्य मध्येऽग्नेर्निखाय जुह्वां पञ्चगृहीतं गृहीत्वा दर्भस्तम्बे पञ्चाज्याहुतीर्जुहोति । सजूरब्दोऽयावभिर्घृतेन स्वाहा । अब्दायेदम् । सजूरुषा अरुणीभिर्घृतेन स्वाहा । उषस इदम् । सजूस्सूर्य एतशेन घृतेन स्वाहा । सूर्यायेदम् । सजोषावश्विना दꣳ्सोभिर्घृतेन स्वाहा । अश्विभ्यामिदम् । सजूरग्निर्वैश्वानर इडाभिर्घृतेन स्वाहा । अग्नये वैश्वानरायेदम् । ततः उद्धत्यावोक्ष्य । शम्यां पुरस्यादुदगग्रां निधायेत्यादि भूतेभ्यस्वेति स्रुचमुद्गृह्येत्यन्तं पशुवत् ।

अथ पूर्वकृतपरिमण्डलरेखां सिकताभिरवकीर्य दर्भैः प्रच्छाद्य दध्ना मधुमिश्रेण शर्कराभिश्च रेखायाः सम्पूरणं कृत्वा वसति ।

श्वोभूते प्रातरग्निहोत्रं हुत्वा । प्रजापतिस्त्वा — सीद उत्तरवेदिमभिमृश्य । मयि गृह्णाम्यग्रे अग्निꣳ् — सुवीराः ॥ यो नो अग्निः — परा गात् द्वाभ्यामात्मन्यग्निं गृहीत्वा । यास्ते अग्ने — प्रजानन्न् स्वयं चित्याभिमृशति । अग्नेर्भस्मास्यग्नेः पुरीषमसि इति सिकता निवपति । संज्ञानमसि — भूयात् इत्यूषां निवपति । तान् निवपन् यददश्चन्द्रमसि कृष्णं तदिहास्तु मनसा ध्यायति । संयावः प्रियास्तनुवस्सं — मम इत्यूषान्त्सिकतांश्च संसृज्य । चितस्थ परिचित — सीदत अपरिमिताभिः शर्कराभिः परिश्रयति । आप्यायस्व — सङ्गथे सिकता व्यूहति । यथा रेखा अविनष्टा भवन्ति ।

मृन्मयपात्रमुदकेन पूरयित्वा । अग्नेरपरार्धे खात्वा वाक्त्वा समुद्र — वाजिनाय तया अभ्यन्तरं जघनार्धे उदपात्रमुपदधाति । वाङ्म आसन्नसोः — हिꣳ्सीः जपित्वारोहति । पुरस्तादारभ्य प्रदक्षिणमुपदधाति । पुरस्तात् समाप्तिः ॥ 

१ . यच्चामृतं यच्च मर्त्यम् । यच्च प्राणिति यच्च न । सर्वास्ता इष्टकाः कृत्वा । उप कामदुघा दधे । तेनर्षिणा तेन ब्रह्मणा । तया देवतयाङ्गिरस्वद्ध्रुवा सीद ॥

२. सर्वास्स्त्रियस्सर्वान्पुꣳ्सः । सर्वन्न स्त्री पुमं च यत् । सर्वास्ता इष्टकाः कृत्वा — सीद ॥

३. यावन्तः पाꣳ्सवो भूमेः । सङ्ख्याता देवमायया । सर्वास्ता इष्टकाः कृत्वा — सीद ॥

४. यावन्त ऊषाः पशूनाम् । पृथिव्यां पुष्टिर्हिताः । सर्वास्ता इष्टकाः कृत्वा — सीद ॥

५. यावतीस्सिकतास्सर्वाः । अप्स्वन्तश्च याः श्रिताः । सर्वास्ता इष्टकाः कृत्वा — सीद ॥

६. यावतीश्शर्करा धृत्यै । अस्यां पृथिव्यामधि । सर्वास्ता इष्टकाः कृत्वा — सीद ॥

७. यावन्तोऽश्मानोऽस्यां पृथिव्याम् । प्रतिष्ठासु प्रतिष्ठिताः । सर्वास्ता इष्टकाः कृत्वा — सीद ॥

८. यावतीर्वीरुधस्सर्वाः । विष्ठिताः पृथिवीमनु । सर्वास्ता इष्टकाः कृत्वा — सीद ॥

९. यावतीर्वीरुधस्सर्वाः । विष्ठिताः पृथिवीमनु । सर्वास्ता इष्टकाः कृत्वा — सीद ॥

१०. यावन्तो वनस्पतयः । अस्यां पृथिव्यामधि । सर्वास्ता इष्टकाः कृत्वा — सीद ॥

११. यावन्तो ग्राम्याः पशवस्सर्वे । आरण्याश्च ये । सर्वास्ता इष्टकाः कृत्वा — सीद ॥

१२. ये द्विपादश्चतुष्पादः । अपाद उदरसर्पिणः । सर्वास्ता इष्टकाः कृत्वा — सीद ॥

१३. यावदाञ्जनमुच्यते । देवत्रा यच्च मानुषम् । सर्वास्ता इष्टकाः कृत्वा — सीद ॥

१४. यावत्कृष्णायसꣳ् सर्वम् । देवत्रा यच्च मानुषम् । सर्वास्ता इष्टकाः कृत्वा —सीद ॥

१५. यावल्लोहायसꣳ् सर्वम् । देवत्रा यच्च मानुषम् । सर्वास्ता इष्टकाः कृत्वा — सीद ॥

१६. सर्वꣳ् सीसꣳ् सर्वं त्रपु । देवत्रा यच्च मानुषम् । सर्वास्ता इष्टकाः कृत्वा — सीद ॥

१७. सर्वꣳ् हिरण्यꣳ् रजतम् । देवत्रा यच्च मानुषम् । सर्वास्ता इष्टकाः कृत्वा — सीद ॥

१८. सर्वꣳ् सुवर्णꣳ् हरितम् । देवत्रा यच्च मानुषम् । सर्वास्ता इष्टकाः कृत्वा — सीद ॥

१९. सर्वा दिशो दिक्षु । यच्चान्तर्भूतं प्रतिष्ठितम् । सर्वास्ता इष्टकाः कृत्वा । — सीद ॥

२०. अन्तरिक्षं च केवलम् । यच्चास्मिन्नन्तराहितम् । सर्वास्ता इष्टकाः कृत्वा । — सीद ॥

२१. आन्तरिक्ष्यश्च याः प्रजाः । गन्धर्वाप्सरसश्च ये । सर्वास्ता इष्टकाः कृत्वा । — सीद ॥

२२. सर्वानुदारान्थ्सलिलान् । अन्तरिक्षे प्रतिष्ठितान् । सर्वास्ता इष्टकाः कृत्वा । — सीद ॥

२३. सर्वानुदारान्थ्सलिलान् । स्थावराः प्रोष्याश्च ये । सर्वास्ता इष्टकाः कृत्वा — सीद ॥

२४. सर्वान्धुनिꣳ् सर्वान्ध्वꣳ्सान् । हिमो यच्च शीयते । सर्वास्ता इष्टकाः कृत्वा — सीद ॥

२५. सर्वान्मरीचीन् विततान् । नीहारो यच्च शीयते । सर्वास्ता इष्टकाः कृत्वा — सीद ॥

२६. सर्वा विद्युतस्सर्वान्त्स्तनयित्नून् । ह्रादुनीर्यच्च शीयते । सर्वास्ता इष्टकाः कृत्वा — सीद ॥

२७. सर्वास्स्रवन्तीस्सरितः । सर्वमप्सुचरञ्च यत् । सर्वास्ता इष्टकाः कृत्वा — सीद ॥

२८. याश्च कूप्या याश्च नाद्यास्समुद्रियाः । याश्च वैशन्तीरुत प्रासचीर्याः । सर्वास्ता इष्टकाः कृत्वा — सीद ॥

२९. ये चोत्तिष्ठन्ति जीमूताः । याश्च वर्षन्ति वृष्टयः । सर्वास्ता इष्टकाः कृत्वा — सीद ॥

३०. तपस्तेज आकाशम् । यच्चाकाशे प्रतिष्ठितम् । सर्वास्ता इष्टकाः कृत्वा — सीद ॥

३१. वायुं वयाꣳ्सि सर्वाणि । अन्तरिक्षचरं च यत् । सर्वास्ता इष्टकाः कृत्वा — सीद ॥

३२. अग्निꣳ् सूर्यं चन्द्रम् । मित्रं वरुणं भगम् । सर्वास्ता इष्टकाः कृत्वा — सीद ॥

३३. सत्यꣴ् श्रद्धां तपो दमम् । नाम रूपं च भूतानाम् । सर्वास्ता इष्टकाः कृत्वा — सीद ॥

३४. सर्वान्दिवꣳ् सर्वान्देवान्दिवि । यच्चान्तर्भूतं प्रतिष्ठितम् । सर्वास्ता इष्टकाः कृत्वा — सीद ॥

३५. यावतीस्तारकास्सर्वाः । वितता रोचने दिवि । सर्वास्ता इष्टकाः कृत्वा — सीद ॥

३६. ऋचो यजूꣳ्षि सामानि । अथर्वाङ्गिरसश्च ये । सर्वास्ता इष्टकाः कृत्वा — सीद ॥

३७. इतिहासपुराणं च । सर्पदेवजनाश्च ये । सर्वास्ता इष्टकाः कृत्वा — सीद ॥

३८. ये च लोका ये चालोकाः । अन्तर्भूतं प्रतिष्ठितम् । सर्वास्ता इष्टकाः कृत्वा — सीद ॥

३९. यच्च ब्रह्म यच्चाब्रह्म । अन्तर्ब्रह्मन्प्रतिष्ठितम् । सर्वास्ता इष्टकाः कृत्वा — सीद ॥

४०. अहोरात्राणि सर्वाणि । अर्धमासाꣲ्श्च केवलान् । सर्वास्ता इष्टकाः कृत्वा — सीद ॥

४१. सर्वानृतून्थ्सर्वान्मासान् । संवथ्सरं च केवलम् । सर्वास्ता इष्टकाः कृत्वा — सीद ॥

४२. सर्वं भूतꣳ् सर्वं भव्यम् । यच्चातोऽधि भविष्यति । सर्वास्ता इष्टकाः कृत्वा । उप कामदुघा दधे । तेनर्षिणा तेन ब्रह्मणा । तया देवतयाङ्गिरस्वद्ध्रुवा सीद ॥

अथ चतस्रः स्वयमातृण्णा दिक्षूपदधाति भूरग्निं च पृथिवीं — सीद । भुवो वायुं — सीद । स्वरादित्यं — सीद । भूर्भुवस्स्वः — सीद ॥

लोकं पृण च्छिद्रं — देवतयाङ्गिरस्वद्ध्रुवासीद द्वाभ्यां द्वे इष्टके उपदधाति । एवंप्रकारेण लोकम्पृणाभिः प्रच्छादयति । चात्वालात्पुरीषमाहृत्य पृष्टो दिवि इति चितावनुव्यूहति । वाङ्म आसन् इति जपित्वावरोहति । त्वमेव त्वां वेत्थ योऽसि सोऽसि — यावदुतापि ब्रह्म इत्यनुवाकेनोपतिष्ठते ॥

पुरस्तात्प्रत्यङ्मुखस्तिष्ठन् हिरण्यशकलशतद्वयेनाग्निं प्रोक्षति सहस्रस्य प्रमा असि । दक्षिणत उदङ्मुखस्तिष्ठन् सहस्रस्य प्रतिमा असि । पश्चात्प्राङ्मुखः सहस्रस्य विमा असि । उत्तरतो दक्षिणामुखः सहस्रस्योन्मा असि । साहस्रोऽसि सहस्राय त्वा मध्ये प्राङ्मुखः ।

यत्तेऽचित्तं यदु — इषꣴ्स्तोतृभ्य आ भर इति पञ्चभिरभिमृशति ॥ इमा मे अग्न इष्टका — अमुत्रामुष्मिन् लोके इष्टका धेनूर्यजमानः कुरुते ॥

अग्निरसि वैश्वानरोसि — कामꣳ् समच संहारविहाराभ्यां यजमानोऽग्निमुपतिष्ठते ।

अध्वर्युरुदङ्मुखस्तिष्ठन् उत्तमायामिष्टकायामर्कपर्णेनाजाक्षीरं जुहोति ॥ त्वमग्ने रुद्रो असुरो महो दिवः — भूर्भुवः स्वः स्वाहा ॥ त्रयस्त्रिंशादिभ्यो देवेभ्य इदम् । असञ्चरे पशूनामर्कपर्णमुपदस्यति । वल्मीकवपायां वा अवदधाति ॥

अपरेणाग्निं प्राङ्मुख उपविश्य सञ्चितोक्थ्येन होतानुशंसति । ऋचां प्राची महती दिगुच्यते दक्षिणामाहुर्यजुषामपाराम् । अथर्वणामङ्गिरसां प्रतीची साम्नामुदीची महती दिगुच्यतो३मृग्भिः पूर्वाह्णे दिवि देव ईयते यजुर्वेदे तिष्ठति मध्ये अह्नः । सामवेदेनास्तमये महीयते वेदैरशून्यस्त्रिभिरेति सूर्यो३मृग्भ्यो जाताꣳ् सर्वशो मूर्तिमाहुस्सर्वा गतिर्याजुषी हैव शश्वत् । सर्वं तेजस्सामरूप्यꣳ् ह शश्वत्सर्वꣳ् हेदं ब्रह्मणा हैव सृष्टो३मृग्भ्यो जातं वैश्यं वर्णमाहुर्यजुर्वेदं क्षत्रियस्याहुर्योनिम् । सामवेदो ब्राह्मणानां प्रसूतिः पूर्वे पूर्वेभ्यो वच एतदूचो३मादर्शमग्निं चिन्वानाः पूर्वे विश्वसृजोऽमृताः । शतं वर्षसहस्राणि दीक्षितास्सत्रमासतोन्तप आसीद्गृहपतिर्ब्रह्म ब्रह्माभवथ्स्वयम् । सत्यꣳ् ह होतैषामासी-द्यद्विश्वसृज आसतो३ममृतमेभ्य उदगायत्सहस्रं परिवथ्सरान् । भूतꣳ् ह प्रस्तोतैषामासी-द्भविष्यत्प्रति चाहरो३म् प्राणो अध्वर्युरभवदिदꣳ् सर्वꣳ् सिषासताम् । अपानो विद्वानावृतः प्रति प्रातिष्ठदध्वरो३मार्तवा उपगातारः सदस्या ऋतवो भवन् । अर्धमासाश्च मासाश्च चमसाध्वर्यवोऽभवो३मशꣳ्सद्ब्रह्मणस्तेजोऽच्छावाकोऽभवद्यशः । ऋतमेषां प्रशास्ताऽऽसीद्यद्विश्वसृज आसतो३मूर्ग्राजानमुदवहद्ध्रुवगोपस्सहोऽभवत् । ओजोभ्यष्टौद्ग्राव्ण्णो यद्विश्वसृज आसतो३मपचितिः पोत्रीयामयजन्नेष्ट्रीयामयजत्त्विषिः । आग्नीध्रा द्विदुषी सत्यं श्रद्धा हैवायजथ्स्वयो३मिरा पत्नी विश्वसृजामाकूतिरपिनड्ढविः । इध्मꣳ्ह क्षुच्चैभ्य उग्रे तृष्णा चावहतामुभो३म् वागेषाꣳ् सुब्रह्मण्याऽऽसीच्छन्दोयोगान् विजानती । कल्पतन्त्राणि तन्वानाऽहस्सꣴ्स्थाश्च सर्वशो३महोरात्रे पशुपाल्यौ मुहूर्ताः प्रेष्या अभवन् । मृत्युस्तदभवद्धाता शमितोग्रो विशां पतो३म् विश्वसृजः प्रथमास्सत्रमासत सहस्रसमं पसुतेन यन्तः । ततो ह जज्ञे भुवनस्य गोपा हिरण्मयश्शकुनिर्ब्रह्म नामो३य्येँन सूर्यस्तपति तेजसेद्धः पिता पुत्रेण पितृमान् योनि योनौ । नावेदविन्मनुते तं बृहन्तं सर्वानुभुमात्मानꣳ् सम्परायो३मेष नित्यो महिमा ब्राह्मणस्य न कर्मणा वर्धते नो कनीयान् । तस्यैवात्मा पदवित्तं विदित्वा न कर्मणा लिप्यते पापकेनो३म् पञ्च पञ्चाशतस्त्रिवृतः संवत्सराः पञ्च पञ्चाशतः पञ्चदशाः । पञ्च पञ्चाशतः सप्तदशाः पञ्च पञ्चाशत एकविꣳ्शाो३म् विश्वसृजाꣳ् सहस्रसंवत्सरमेतेन वै विश्वसृज इदं विश्वमसृजन्त । यद्विश्वमसृजन्त तस्माद्विश्वसृजो३म् विश्वमेनाननु प्रजायते ब्रह्मणः सायुज्यꣳ् सलोकतां यन्ति । एतासामेव देवतानाꣳ् सायुज्यं सार्ष्टिताꣳ् समानलोकतां यन्तो३य्यँ एतदुपयन्ति ये चैनत्प्राहुः । येभ्यश्चैनत्प्राहुरोम् ॥

पौतुद्रवैः परिधिभिरित्याद्यतिमुक्तिहोमान्तं पशुवत् । अथ चतुर्गृहीतं जुहोति त्वमग्ने रुद्रो असुरो — भूर्भुवः स्वः स्वाहा । हुत्वा हुत्वा पात्र्यां सम्पातमवनयति । त्रयस्त्रिंशादिभ्यो देवेभ्य इदम् ॥

पुनश्चतुर्गृहीतं गृहीत्वा अग्नाविष्णू सजोषसा — भूर्भुवस्स्वस्स्वाहा अग्नाविष्ण्वादिभ्यो देवेभ्य इदम् ॥

अपरं चतुर्गृहीत्वा अन्नपतेऽन्नस्य नो देहि — भूर्भूवस्स्वस्स्वाहा । अन्नपत्यादिभ्यो देवेभ्य इदम् ॥

अपरं चतुर्गृहीत्वा सप्त ते अग्ने समिधस्सप्त जिह्वाः — भूर्भुवस्स्वस्स्वाहा । सप्तवत्यादिभ्यो देवेभ्य इदम् ॥

पुनश्चतुर्गृहित्वा वसूनां त्वाधीतेन — जुहोमि स्वाहा । वसूरुद्रादित्यविश्वेदेवमरुद्भ्य इदम् । पञ्चाहुतीनां संस्रावेण यजमानो मुखं विमृष्टे राज्ञी विराज्ञी — सꣳ् सृजन्तु ।

अथ सकृत् सकृद्गृहीतेन जुहोति असवे स्वाहा । वसवे स्वाहा । विभुवे स्वाहा । विवस्वते स्वाहा । अभिभुवे स्वाहा । अधिपतये स्वाहा । दिवां पतये स्वाहा । अꣳ्हस्पत्याय स्वाहा । चाक्षुष्मत्याय स्वाहा । ज्योतिष्मत्याय स्वाहा । राज्ञे स्वाहा । विराज्ञे स्वाहा । संम्राज्ञे स्वाहा । स्वराज्ञे स्वाहा । शूषाय स्वाहा । सूर्याय स्वाहा । चन्द्रमसे स्वाहा । ज्योतिषे स्वाहा । सꣳ्सर्पाय स्वाहा । कल्याणाय स्वाहा । अर्जुनाय स्वाहा । यथालिङ्गं त्यागः । चतुर्थ्यन्ता देवताः ॥

उत्तरेण गार्हपत्यमित्यादि वपाश्रपण्यभिहोमान्तं पशुवत् । दक्षिणाकाले पशुदक्षिणां द्विचत्वारिंशत् सक्तून्, पष्ठौहीं, हिरण्यं, वासांश्चान्तर्वेदि स्थापयित्वा । ब्रह्माणि ब्रह्माणि स्थ ब्रह्मणे वो हुताद्य मा मा हिꣳ्सिष्टाहुतानि मह्यꣳ् शिवानि भवत ।

यजमानः ब्रध्न पिन्वस्वेत्यादि सहस्र धाराण्युत्सान्यक्षीयमाणानि तानि दध्नुः पृथिवीमन्तरिक्षं दिवं च तैरनुडुत्सक्तुपष्ठौहीहिरण्यवासोभिरतितराणि म्रुत्युम् ॥

ब्राह्मणाः इमानि अनुडुत्सक्तुपष्ठौहीहिरण्यवासांसि अहिंसन्तो यथाभागं प्रतिगृह्णीध्वम् । रुद्राय गाम् । ब्रह्मण ओदनम् । दक्षाय त्वा दक्षिणां प्रतिगृह्णामि । ग्नास्त्वा कृन्तन्नतपसस्त्वा तन्वत वरुत्रयस्त्वा वयꣳ् सोमाय वासः । इति प्रतिग्रहः । समुत्क्रम्य सहपत्नीका इत्यादि ।

यत्प्राङ्मनोतायास्तत्कृत्वा जुहूपभृतोर्हिरण्यशकलाववधाय मृत्युग्रहपक्षे औदुम्बरं ग्रहं पाशुकैः सह प्रयुज्य ग्रहं प्रक्षाल्य तस्मिन् गृह्णाति । विपश्चिते — वृषा हरिः । उपयामगृहीतोऽसि मृत्यवे त्वा जुष्टं गृह्णामि गृहीत्वा ॥ एष ते योनिर्मृत्यवे त्वा सादयति ॥

अवदानादि स्विष्टकृतं हुत्वा वैश्वानरे हविः । आयतने स्रुचौ सादयित्वा । विद्युदसीत्यप उपस्पृश्य । अप मृत्युमप क्षुधम् — यजामहे स्वाहा । मृत्यव इदम् । वृष्टिरसीत्यप उपस्पृश्य । इडामार्जनान्ते ग्रहशेषं भक्षयति ॥ भक्षोऽस्यमृतभक्षः — भक्षयामि भक्षयित्वाचम्य । मन्द्राभिभूतिरिति प्राणनिह्नवानात्मन् प्रतिष्ठापयते ॥ मन्द्राभिभूतिः केतुर्यज्ञानां वागेहि । अन्धो जागृविः प्राण एहि । बधिर आक्रन्द इतरपान एहि । अहस्त्वोस्त्वा चक्षुरेहि । अपादाशो मन एहि । कवे विप्रचित्ते श्रोत्र एहि । सुहस्तः सुवासाः । शूषो नामास्यमृतो मर्त्येषु । तं त्वाहं तथा वेद । आत्मन्नेहि ॥

अग्निर्मे वाचि श्रितः — अन्तस्तिष्ठत्वमृतस्य गोपाः इत्यान्तादनुवाकस्य ब्रूयात् । अग्नीदौपयजादङ्गारानाहरेत्यादि ब्राह्मणतर्पणान्तं संतिष्ठते वैश्वसृजः ।

। इत्यापस्तंबीय वैश्वसृजाग्निचयनम् ।