आरुणकेतुकचयनम्

॥ आरुणकेतुकचयनम् ॥

प्रातरग्निहोत्रं हुत्वा प्राणानायम्य आरुणकेतुकं चेष्यमाणः द्वादशाहिकं व्रतं चरिष्ये इति सङ्कल्प्य । वचनं स्नानं तर्पणानि मुखानि च । ऋषिहोमाद्युपस्थानं पुण्याहवाचनम् । स्नानम् । उद्धृतपरिपूताभिः स्नात्वा । मदन्तीरुपस्पृश्य ओं भद्रं कर्णेभि श्रुणुयाम देवाः । भद्रं पश्येमाक्षभिर्यजत्राः । स्थिरैरङ्गैस्तुष्टुवाग्ं सस्तनूभि ः । व्यशेम देवहितं यदायुः । स्वस्ति न इन्द्रो वृद्धश्रवाः । स्वस्ति नः पूषा विश्ववेदाः । स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः । स्वस्ति नो बृहस्पतिर्दधातु । ओं शान्तिः शान्तिः शान्तिः ।

आपमापामपस्सर्वाः । अस्मादस्मादितोऽमुतः । अग्निर्वायुश्च सूर्यश्च । सह सञ्चस्करर्धिया । वाय्वश्वा रश्मिपतयः । मरीच्यात्मानो अद्रुहः । देवीर्भुवनसूवरीः । पुत्रवत्त्वाय मे सुत । महानाम्नीर्महामानाः । महसो महसः स्वः । देवीः पर्जन्यसूवरीः । पुत्रवत्वाय मे सुत । अपाश्न्युष्णिमपारक्षः । अपाश्न्युष्णिमपारघम् । अपाघ्रामप चावर्तिम् । अप देवीरितो हित । वज्रं देवीरजीताꣲ्श्च । भुवनं देवसूवरीः । आदित्यानदितिं देवीम् । योनिनोर्ध्वमुदीषत महानाम्नीभिरभिमृश्य यजमानं वाचयेत् । आपमापामपस्सर्वाः — योनिनोर्ध्वमुदीषत ॥

शिवानश्शन्तमा भवन्तु । दिव्या आप ओषधयः ओषधीः स्पर्शयित्वा । सुमृडीका सरस्वती । मा ते व्योम संदृशि भूमिं स्पर्शयेत् । अथ मदन्तीभिस्तर्पयेत् । अरुणान् काण्डऋषीन् तर्पयामि । सदसस्पतिं तर्पयामि । यत्किञ्च उदककृत्यं उद्धृतपरिपूताभिः मदन्तीभिरेव तत्क्रियते । ततो लौकिकाग्निमाधाय पुनर्मामैत्विन्द्रियम् । पुनरायुः पुनर्भगः । पुनर्ब्राह्मणमैतु मा । पुनर्द्रविणमैतु मा । अग्नय इदम् । यन्मेऽद्य रेतः पृथिवीमस्कान् । यदोषधीरप्यस-रद्यदापः । इदं तत्पुनराददे । दीर्घायुत्वाय वर्चसे । अग्नय इदम् । यन्मे रेतः प्रसिच्यते । यन्म आजायते पुनः । तेन माममृतं कुरु । तेन सुप्रजसं कुरु । अग्नय इदम् । तिस्र औदुम्बरीस्समिध आधाय परिस्तरणादि मुखान्तं कृत्वा अथ आज्येन जुहोति । अथ आज्येन जुहोति । अरुणेभ्यः काण्डऋषिभ्यः स्वाहा । अरुणेभ्यः काण्डऋषिभ्यः इदम् । सदसस्पतिमद्भुतं प्रियमिन्द्रस्य काम्यम् । सनिं मेधामयासिषꣴ् स्वाहा । सदसस्पतय इदम् । अथैकादश व्रतहोमान् जुहोति । अग्नये स्वाहा । वायवे स्वाहा । सूर्याय स्वाहा । ब्रह्मणे स्वाहा । प्रजापतये स्वाहा । चन्द्रमसे स्वाहा । नक्षत्रेभ्यः स्वाहा । ऋतुभ्यः स्वाहा । संवत्सराय स्वाहा । वरुणाय स्वाहा । अरुणाय स्वाहा । यथा लिङ्गं त्यागः ।

अथ यजमानो व्रतमुपैति । अग्ने व्रतपते काण्डऋषिभ्यः आरुणकेतुकं व्रतं चरिष्यामि तच्छकेयं तन्मे राध्यताम् । वायो व्रतपते काण्डऋषिभ्यः आरुणकेतुकं व्रतं चरिष्यामि तच्छकेयं तन्मे राध्यताम् । आदित्य व्रतपते काण्डऋषिभ्यः आरुणकेतुकं व्रतं चरिष्यामि तच्छकेयं तन्मे राध्यताम् । व्रतानां व्रतपते काण्डऋषिभ्यः आरुणकेतुकं व्रतं चरिष्यामि तच्छकेयं तन्मे राध्यताम् । ततो यत्किञ्चिदध्ययनं कृत्वा जयादि प्रतिपद्यते । परिषेचनान्तं कृत्वा नान्दीं कुर्यात् । पूर्ववन्मदन्तीमुपस्पृश्येत्यादि । भूम्युपस्पर्शनान्तं करोति । एवमहरहः आ व्रतसमाप्तेः कुर्यात् । अरण्येऽधीयीरन् । अहरहः प्रातः मध्यन्दिने अपराह्णे च स्नायात् । तथा अहरहः भैक्षमश्नीयात् । चतुर्थकालपानभक्तः स्यात् इत्येके । अपराह्णे भिक्षां गृहीत्वा उदकादेः पानं भोजनं कर्तव्यमित्यर्थः । एवं द्वादशाहं व्रतं चरित्वा त्रयोदशेह्नि उत्सर्जनं कृत्वा पशुसङ्कल्पं कुर्यात् ।

आरुणकेतुक व्रतोत्सर्जनं चरिष्ये । उपक्रमवदुत्सर्गः । तत्र विशेषः । अग्ने व्रतपते काण्डऋषिभ्यः आरुणकेतुकं व्रतमचारिषं तदशकं तन्मे राधि । वायो व्रतपते काण्डऋषिभ्यः आरुणकेतुकं व्रतमचारिषं तदशकं तन्मे राधि । आदित्य व्रतपते काण्डऋषिभ्यः आरुणकेतुकं व्रतमचारिषं तदशकं तन्मे राधि । व्रतानां व्रतपते काण्डऋषिभ्यः आरुणकेतुकं व्रतमचारिषं तदशकं तन्मे राधि । नाध्ययनम् । तत्र श्लोकः ।

उत्सर्जनं त्वेवमेव सङ्कल्पस्तु विशेषतः ।

अचारिषं चाशकं च राधीत्येवं च सन्नमेत् ॥

प्रणीतामार्जनान्ते ब्रह्मणे वरं ददाति । धेनुर्दक्षिणा । कंसं वासश्च क्षौमम् । अन्यद्वा शुक्लं यथाशक्ति वा । प्रत्येकं ब्राह्मणान् भोजयेत् । व्रतोत्सर्गः समाप्तः ।

चतुर्दश्यां प्रातरग्निहोत्रं हुत्वा प्राणानायम्य सङ्कल्पं करोति । ऐन्द्राग्नेन निऽढपशुबन्धेन यक्ष्ये । न विद्युत् । अरणी समारोपणादि गार्हपत्यनिधानान्तं कृत्वा । उपावरोह्य ।

आरुणकेतुकमग्निं चेष्ये । तेन परमेश्वरं प्रीणयानि । ऋत्विग्वरणादि । चेष्यमाणः सम्भारानवकल्पयते । सम्भार्य आतपति वर्ष्या कूप्यास्थावरा वहन्तीः पल्वप्या जीवन्तं कूर्मं दीर्घदण्डं पुष्करपर्णं यावतीः संवत्सरा आयुः तावतीः मृन्मयीरिष्टकाः । कुष्ठिकाः (क्षुद्रकुम्भीः) ३६० तत्सङ्ख्याकान् हिरण्यशकलान् चतस्रः स्वयमातृण्णा षट् शतायिका चत्वारिंशत् लोकंपृणा हिरण्मयं पुरुषं रुक्ममौदुम्बरीः समिधः शङ्कून् अवका जालं दधि मधूनि प्रभूतानि पुष्करपर्णानि पुष्करदण्डानि पुष्कराणि सर्वा औषधीः । कृष्णाजिनमौदुम्बरीमासन्दीं आस्तम्बं वैहायसं मञ्चं मृन्मयमुदपात्रं हरितदर्भस्तम्बं हिरण्यशकलानां सहस्रं औदुम्बरम्मृत्युग्रहं अर्कपर्णं अजाक्षीरं चेति सिकतानां शर्कराणां स्वयमातृण्णानां पुरीषाणां लोकंपृणानां स्थाने संभार्या एव क्षेप्तव्या इति वचनात् ।

अथवा सर्वासां अपां स्थाने सम्भार्या एवेति वातरशनाः शाखिनः । सारस्वत्या इति वालखिल्याः । सारस्वत्या इति वैखानसाः । याः काञ्चणेत्यारुणाः शाखिनः । एतत् संभार्या इति परिकल्पन्ते ।

षड्ढोतारमित्येतदादि पाशुकं कर्म प्रतिपद्यते । उत्तरवेदिकरणान्तं सावित्रवत् । उत्तरवेदिदेशस्य मध्ये शङ्कुं निहत्य अष्टादशाङ्गुलपरिमितया रज्वा सर्वतः परिमण्डलं लिखेत् । इर्यक्षिप्रे प्रथमं चक्रम् । द्वौ सायौ मध्यमम् इति रथचक्रलक्षणम् । समूलं हरितं दर्भस्तम्बमित्यादि अवोक्षणान्ते तूष्णीं जानुदघ्नं त्रिवितस्थं वा खात्वा । वित्तायनी मेऽसीत्यादि सुग्ग्रहणान्तं करोति । खात्वोत्तरवेदिं मिमीते इति वचनात् । यन्मात्रमत्रोपवचनम् । अद्भिः पूरणविधानात् । नात्र संचरः । लेखातिसंभार्याद्भिरवकीर्य । दर्भैः प्रच्छाद्य । दध्ना मधुमिश्रेण सम्भार्य । अद्भिश्च लेखां सम्पूर्य वसति । महारात्रे बुध्वा मुहूर्तमिव वाग्यतः तपस्तप्यमान आस्ते । अनन्तरमेव प्रातरग्निहोत्रं जुहोति । उद्यत्सु रश्मिषु प्रजापतिस्त्वेत्यादि स्वयं चित्याभिमन्त्रणान्ते अग्नेर्भस्मासीति सम्भार्या निवपति ।

संज्ञानमित्यपि सम्भार्या एव । सं याव इति जलम् सङ्गृह्य । चितः स्थ परिचित इति अपरिमिताभिः अबीष्टकाभिः परिचित्य । आप्यायस्व समेतु ते विश्वतस्सोम वृष्णियम् । भवा वाजस्य सङ्गथे इति सम्भार्याणां व्यूहनं करोति । उदपात्रमुपधाय मधु वाता ऋतायते मधुक्षरन्ति सिन्धवः । माध्वीर्नस्सन्त्वोषधीः ॥ मधुनक्तमुतोषसि मधुमत्पार्थिवꣳ् रजः । मधु द्यौरस्तु नः पिता ॥ मधुमान्नो वनस्पतिर्मधुमाꣳ् अस्तु सूर्यः । माध्वीर्जावो भवन्तु नः इति तिसृभिः दध्ना मधुमिश्रेण कूर्ममभ्यज्य । मही द्यौः पृथिवी चन इमं यज्ञं मिमिक्षतम् । पिपृतान्नो भरीमभिस्तया देवतयाङ्गिरस्वद्ध्रुवा सीद इति पत्यञ्चमुखं जीवन्तं कूर्मं प्राङ्मुख उपदधाति । उपहितं कूर्ममवकाभिः परीतं सजालेन प्रच्छाद्य । शङ्कुभिः परिणिहत्य । अपां गम्भीरं गच्छ मा त्वा सूर्यः परीता सीन्मो अग्निर्वैश्वानरोऽघोरः प्रजा अभि विपश्य अनु त्वा दिव्या वृष्टिः सचतां संसर्पतीन् समुद्रान् स्वर्गान् लोकानपां पतिर्वृषभ इष्टकानां तत्र गच्छ यत्र पूर्वेऽपरे ताः पुरीषं वसानः स्वां योनिं यथायथं दर्भस्तम्बेषु पुष्करपर्णमयोदण्डं वेदेः द्व्यङ्गुलेन यथा तिष्ठति तथा निधाय । तस्या दण्डं दर्भस्तम्बे निबध्नाति । पुष्करपर्णमन्वारभ्य तपो योनिरसीत्यभिमन्त्रयते । अद्भिः कुम्भीं पूरयित्वा हिरण्यशकलानवधाय वक्ष्यमाणैर्मन्त्रैः पुष्करपर्णस्याधस्तात् अबीष्टका उपदधाति । सर्वत्र मन्त्रान्ते तयादेवतं भवति । यत्र नास्ति वचनं तत्र उदगपवर्गाः । सर्वत्र पुरस्तान्मुखवादः । चतस्रः दिक्षूपधाय अष्टाभ्यः प्रतिदिक्षु, सामान्येन सर्वत्र चतुर्वाक्यमन्त्राः । विशेषः तत्र तत्र उच्यते । वाङ्म आसन्न् नसोः प्राणोऽक्ष्योश्चक्षुः कर्णयोःश्रोत्रं बाहुवोर्बलमूरुवोरोजोऽरिष्टा विश्वान्यङ्गानि तनूस्तनुवा मे सह नमस्ते अस्तु मा मा हिꣳ्सीः इत्यारोहणं जपति ।

अथ इष्टका उपदधाति । भद्रं कर्णेभिरिति द्वे जपित्वा । तासां च इष्टके उपदधाति उदगपवर्गः । ओं भद्रं कर्णेभिः श्रुणुयाम देवाः । भद्रं पश्येमाक्षभिर्यजत्राः । स्थिरैरङ्गैस्तुष्टुवाꣳ् सस्तनूभिः । व्यशेम देवहितं यदायुः । स्वस्ति न इन्द्रो वृद्धश्रवाः । स्वस्ति नः पूषा विश्ववेदाः । स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः । स्वस्ति नो बृहस्पतिर्दधातु । ओं शान्तिः शान्तिः शान्तिः इति जपित्वा । भद्रं कर्णेभिः श्रुणुयाम — देवहितं यदायुस्तया देवतयाङ्गिरस्वद्ध्रुवा सीद । स्वस्ति नः पूषा — बृहस्पतिर्दधातु तया ।

आपमापामपामिति पञ्चभिः माहानाम्नीभिः यजमानः उष्णं शीतं उदकं मिश्रित्य अध्वर्यवे दद्यात् । आपमापामपस्सर्वाः — योनिनोर्ध्वमुदीषत इति यजमानः ।

उदकं विभज्य अध्वर्युः यजमानेन सह ताभिः पञ्चभिः पञ्चेष्टका उपदधाति । उदकं मिश्रित्य अध्वर्युः यजमानश्च आपमापामपस्सर्वाः । अस्मादस्मादितोऽमुतः । अग्निर्वायुश्च सूर्यश्च । सह सञ्चस्करर्धिया तया ॥

वाय्वश्वा रश्मिपतयः । मरीच्यात्मानो अद्रुहः । देवीर्भुवनसूवरीः । पुत्रवत्त्वाय मे सुत तया ॥ महानाम्नीर्महामानाः । महसो महसः स्वः । देवीः पर्जन्यसूवरीः । पुत्रवत्वाय मे सुत तया ॥ अपाश्न्युष्णिमपारक्षः । अपाश्न्युष्णिमपारघम् । अपाघ्रामप चावर्तिम् । अप देवीरितोहित तया ॥ वज्रं देवी रजीताꣲ्श्च । भुवनं देवसूवरीः । आदित्यानदितिं देवीं । योनिनोर्ध्वमुदीषत तया ॥ इत्युत्तरमुत्तरमुपदधाति ।

शिवा नश्शन्तमा भवन्तु इति वाक्यद्वयेन यजमानः सर्वा ओषधीः उदकं च मिश्रित्याध्वर्यवे दद्यात् । तदध्वर्युः तेन वाक्यद्वयेन यजमानेन सह उपदध्यात् । शिवानश्शन्तमा भवन्तु । दिव्या आप ओषधयः इति मिश्रित्य । अध्वर्युर्यजमानश्च शिवा नः —ओषधयः तया । अध्वर्युरेव या जाता ओषधयः ओषधिसूक्तेन उपहिता उपतिष्ठते । या जाता ओषधयः — पारयामसि इत्यन्तम् ।

इमा नुकं भुवनासीषधेम इति द्विपदास्तिस्र उपधाय । अग्ने त्वं नो अन्तम इति द्विपदास्तिस्र उपदधाति । सर्वे द्विवाक्या मन्त्राः । इमानुकं भुवनासीषधेमेन्द्रश्च विश्वे च देवाः तया । यज्ञं चनस्तन्वं च प्रजां चादित्यैरिन्द्रस्सहसीषधातु तया । आदित्यैरिन्द्रः सगणो मरुद्भिरस्माकं भुत्वविता तनूनां तया । अग्ने त्वं नो अन्तम उत त्राता शिवो भव वरूथ्यस्तया । तं त्वा शोचिष्ठ दीदिवस्सुम्नाय नूनमीमहे सखीभ्यस्तया । वसुरग्निर्वसु श्रवाः अच्छा नक्षि द्युमत्तमो रयिं दास्तया ।

विश्वतश्चक्षुः, विश्वं भूतं, ब्रह्म वनं ब्रह्म, परो मात्रया इति चतसृभिः अन्त्येन प्रणवं कृत्वा यावत् प्रशान्ते भवति तावत् प्राणं नासित्वा च तिस्रो लोकोत्तराणां इष्टका उपदध्यात् । प्रतिदिशम् । विश्वतश्चक्षुरुत विश्वतोमुखो विश्वतोहस्तट्ठउत विश्वतस्पात् । सं बाहुभ्यां नमति सं पतत्रैर्द्यावापृथिवी जनयन् देव एकस्तया ॥ विश्वं भूतं भुवनं चित्रंट्ठबहुधा जातं जायमानं च यत् । सर्वो ह्येष रुद्रस्तस्मै रुद्राय नमो अस्तु तया ॥ ब्रह्म वनं ब्रह्म स वृक्ष आसीद्यतो द्यावापृथिवी निष्टतक्षुः । मनीषिणो मनसा पृच्छतेदु तद्यदद्यतिष्ठद्भुवनानि धारयन्तया ॥ परो मात्रया तनुवा वृधान न ते महित्वमन्वश्नुवन्ति । उभे ते विद्म रजसी पृथिव्या विष्णो देवत्वं परमस्य वित्सो४म् तया । प्रणवस्य मात्राकालं प्रतिदिशमुपधाय सुमृडीकेति वाक्यद्वयेन भूमिमुपस्पृशन् भूमिवतीमुपदधाति । सुमृडीका सरस्वती । मा ते व्योम सन्दृशि तया ।

स्मृतिः प्रत्यक्षमिति अष्टौ दर्भस्तम्बस्य दक्षिणतश्चोत्तरतश्च उपदधाति । स्मृतिः प्रत्यक्षमैतिह्यम् । अनुमानश्चतुष्टयम् । एतैरादित्यमण्डलम् । सर्वैरेव विधास्यते तया ॥ सूर्यो मरीचिमादत्ते । सर्वस्माद्भुवनादधि । तस्याः पाकविशेषेण । स्मृतं काल विशेषणं तया ॥ नदीव प्रभवात्काचित् । अक्षय्यात्स्यन्दते यथा । तां नद्योऽभि समायन्ति । सोरुस्सती न निवर्तते तया ॥ एवं नानासमुत्थानाः । कालास्संवत्सरग्ग श्रिताः । अणुशश्च महशश्च । सर्वे समवयन्त्रितं तया ॥ स तैस्सर्वैस्समाविष्टः । ऊरुस्सन्न निवर्तते । अधि संवथ्सरं विद्यात् । तदेव लक्षणे तया ॥ अणुभिश्च महद्भिश्च । समारूढः प्रदृश्यते । संवथ्सरः प्रत्यक्षेण । नाधिस्वतः प्रदृश्यते तया ॥ पटरो विक्लिधः पिङ्गः । एतद्वरुणलक्षणं । यत्त्रैतदुपदृश्यते । सहस्रं तत्र नीयते तया ॥ एकꣳ् हि शिरोनानामुखे । कृथ्न्सं तदृतुलक्षणम् । उभयतस्सप्तेन्द्रियानि । जल्पितं त्वेव दिह्यते तया ॥ इति दक्षिणतश्चोत्तरतश्चोपधाय अवशिष्टं मध्ये । शुक्लकृष्णे संवत्सरस्येति ब्राह्मणम् ।

यत्पुरस्तादुपधानं तत्र आतपति वर्ष्या नियताः । तथा कूप्या दक्षिणतः स्थावराः पश्चात् वहन्तीरुत्तरतः संभार्या मध्ये । तत इन्द्रघोषा वो वसुभिरित्येतैः यथालिङ्गमुपधाय द्वादशेष्टकाः त्रिःकृत्वः आवृत्य षट्त्रिंशदिष्टका उपदधाति । इन्द्र घोषा वो वसुभिः पुरस्तादुपदधतां तया पुरस्तात् । मनोजवसो वः पितृभिर्दक्षिणत उपदधतां तया दक्षिणतः । प्रचेता वोट्ठरुद्रैः पश्चादुपदधतां तया पश्चात् । विश्वकर्मा वट्ठआदित्यैरुत्तरत उपदधतां तया उत्तरतः । त्वष्टा वो रूपैतुपरिष्टादुपदधतां तया मध्ये ।

दर्भस्तम्बस्य पुरस्तात् । संज्ञानं वः पश्चादुपदधतां तया । आदित्यस्सर्वोपदधतां तया दर्भस्तम्बस्य पश्चात् । अग्निः पृथिव्योपदधतां तया पुरस्तात् । वातुरन्तरिक्ष उपदधतां तया दक्षिणतः । सूर्यो दिव्युपदधतां तया पश्चात् । चन्द्रमा दिक्षूपदधतां तया उत्तरतः । नक्षत्राणि स्व लोक उपदधतां तया मध्ये ।

दर्भस्तम्बस्य पुरस्तात् ये ग्रहाः पञ्चजनीनामित्येकामुपदधाति । ये ग्रहाः पञ्चजनीना येषां तिस्रः परमजाः । दैव्यः कोशः समुब्जितः । तेषां विशिप्रियाणामिषमूर्जꣳ् समग्रभीं तया दर्भस्तम्बस्य पश्चात् । एवं द्वादशेष्टकाः त्रिःकृत्व आवर्तयेत् ।

अथ यजमानः दक्षिणपूर्वस्यामित्येतैः यथालिङ्गं नरकत्राणैरिष्टकाः चतस्र उपधाय एतैरेव मन्त्रैः उपहिता उपतिष्ठते । सर्वे द्विवाक्या मन्त्राः ।

दक्षिणपूर्वस्यां दिशि विसर्पि नरकः । तस्मान्नः परिपाहि तया ॥ दक्षिणापरस्यां दिश्यविसर्पी नरकः । तस्मान्नः परि पाहि तया ॥ उत्तरपूर्वस्यां दिशि विषादी नरकः । तस्मान्नः परि पाहि तया ॥ उत्तरपरस्यां दिश्यविषादी नरकः । तस्मान्नः परि पाहि तया इति विदिक्षु उपधयोपतिष्ठते । दक्षिणपूर्वस्यां दिशि — परि पाहि ।

ततः आ यस्मिन् सप्त वासवाः इन्द्रियाणि शतक्रतविति द्वे इष्टके दर्बस्तम्बस्य दक्षिणतः उत्तरत उपदधाति । प्रथमे पाठे अरुणपाठं मन्यन्ते । आ यस्मिन्स्तप्त वासवा तिष्ठन्ति स्वा रुहो यथा । ऋषिर्ह दीर्धश्रुत्तम इन्द्रस्य घर्मो अतिथिस्तया ॥ इद्रियाणि शतक्रतो या ते जनेषु पञ्चसु । इन्द्र तानि त आवृणे तया ॥

सङ्ख्यावतीः एकादश साकं जानामित्युपदधाति । द्वितीय दशम एकादशाः त्रिवाक्याः । तृतीयमन्त्रे इति शब्दं वर्जयेत् एवमन्यत्रापि मन्त्रान्ते इतिशब्दस्य परित्यागः । साकञ्जानाꣳ् सप्तथमाहुरेकजम् । षडुद्यमा ऋषयो देवजा इति । तेषामिष्टानि विहितानि धामशः । स्थात्रे रेजन्ते विकृतानि रूपशस्तया ॥ को नु मर्या अमिथितः । सखा सखायमब्रवीत् । जहाको अस्मदीषते तया ॥ यस्तित्याज सखिविदꣳ् सखायम् । न तस्य वाच्यपि भागो अस्ति । यदीꣳ् शृणोत्यलकꣳ् शृणोति । न हि प्रवेद सुकृतस्य पन्थां तया ॥ ऋतुर् ऋतुना नुद्यमानः । विननादाभिधावः । षष्टिश्च त्रिꣳ्शका वल्गाः । शुक्लकृष्णौ च षाष्टिकौ तया ॥ सारागवस्त्रैर्जरदक्षः । वसन्तो वसुभिस्सह । संवथ्सरस्य सवितुः । प्रैषकृत्प्रथमस्स्मृतस्तया ॥ अमूनादयतेऽत्यन्यान् । अमूꣲ्श्च परिरक्षतः । एता वाचः प्रयुज्यन्ते । यत्रैतदुपदृश्यते तया ॥ एतदेव विजानीयात् । प्रमाणं कालपर्यये । विशेषणं तु वक्ष्यामः । ऋतूनां तन्निबोधत तया ॥ शुक्लवासा रुद्रगणः । ग्रीष्मेणावर्तते सह । निजहन्पृथीवीꣳ् सर्वाम् । ज्योतिषाऽप्रतिख्येन सस्तया ॥ विश्वरूपाणि वासꣳ्सि । आदित्यानां निबोधत । संवथ्सरीणं कर्मफलम् । वर्षाभिर्ददताꣳ् सह तया ॥ अदुःखो दुःखचक्षुरिव । तद्माऽऽपीत इव दृश्यते । शितेनाव्यथयन्निव तया ॥ रुरुदक्ष इव दृश्यते । ह्लादयते ज्वलतश्चैव । शाम्यतश्चास्य चक्षुषी तया इत्युदगपवर्गमुपधाय ।

अक्षिदुःखोत्थितस्यैव इति ऋतुमतीष्टका उपदधाति । अख्षि दुःखोत्थितस्यैव । विप्रसन्ने कनीनिके । आङ्क्ते चाद्गणं नास्ति । ऋभूणां तन्निबोधत तया ॥ कनकाभानिवासाꣳ्सि । अहतानि निबोधत । अन्नमश्नीत मृज्मीत । अहं वो जीवनप्रदस्तया ॥ एता वाचः पयुज्यन्ते । शरद्यत्रोपदृश्यते । अभिधून्वन्तोऽभिघ्नन्त इव । वातवन्तो मरुद्गणास्तया ॥ अमुतो जेतुमिषुमुखमिव । सन्नद्धास्सह ददृशे ह । अपध्वस्तैर्वस्तिवर्णैरिव । विशि खासः कपर्दिनस्तया ॥ अक्रुध्दस्य योत्स्यमानस्य । क्रुध्दस्यैव लोहिनी । हेमतश्चक्षुषी विद्यात् । अक्ष्णयोः क्षिपणोरिव तया ॥ दुर्भिक्षं देवलोकेषु । मनूनामुदकं गृहे । एता वाचः प्रवदन्तीः । वैद्युतो यान्ति शैशिरीस्तया इत्युदगपवर्गमुपधाय । ता अग्निः पवमाना इति ब्राह्मणम् ।

अति ताम्राणीति चतस्रः प्रतिदिशमुपदधाति । तासामाद्यन्त्ययोः प्रवर्ग्यवत् शान्तिं कुर्वन्ति । नमो वाचे —ट्ठपितरोऽनुमदन्तु । ओं शान्तिः शान्तिः शान्तिः । अतिताम्राणि वासाꣳ्सि । अष्टि वज्रि शतघ्नि च । विश्वे देवा विप्रहरन्ति । अग्निजिह्वा असश्चत तया ॥ नैव देवो न मर्त्यः । न राजा वरुणो विभुः । वाग्निर्नेन्द्रो न पवमानः । मातृक्कच्चन विद्यते तया ॥ दिव्यस्यैका धनुरार्त्निः । पृथिव्यामपरा श्रिता । तस्येन्द्रो वम्रिरूपेण । धनुर्ज्यामछिनथ्स्वयं तया ॥ तदिन्द्रधनुरित्यज्यम् । अभ्रवर्णेषु चक्षते । एतदेव शंयोर्बार्हस्पत्यस्य । एतद्रुद्रस्य धनुस्तया ॥ रुद्रस्य त्वेति ब्राह्मणम् । शन्नो वातः पवतां — मा हासीत् । ओं शान्तिः शान्तिः शान्तिः ।

अत्यूर्ध्वाक्ष इति त्रीणि ऋतुमण्डलान्युपदधाति । अत्यूर्ध्वाक्षोऽतिरश्चात् । शिशिरः प्रदृश्यते । नैव रूपं न वासाꣳ्सि । न चक्षुः प्रतिदृश्यते तया ॥ अन्योन्यं तु न हिꣴ्स्रातः । सतस्तद्देवलक्षणम् । लोहितोऽक्ष्णिशारशीर्ष्णिः । सूर्यस्योदयनं प्रति तया ॥ त्वं करोषि न्यञ्जलिकाम् । त्वं करोषि निजानुकाम् । नि जानुका मे न्यञ्जलिका । अमी वाचमुपासताꣲ्स्तया ॥ अवद्रप्स इति ईप्सवतीमेकामुपदधाति । नकञ्चन दूष्येत् । अव द्रप्सो अꣳ्शुमतीमतिष्ठत् । इयानः कृष्णो दशभिस्सहस्रैः । आवर्तमिन्द्रश्शच्या धमन्तम् । उप स्नुहि तं नृमणामथद्राꣲ्स्तया ॥

आरोगो भ्राज इति उदीचीरात्मन्नधिविद्यं सप्तोपधाय । यत्ते शिल्पमित्यष्टमीम् । दर्भस्तम्बे कश्यपमुपदधाति । आरोगस्तया ॥ भ्राजस्तया ॥ पटरस्तया ॥ पतङ्गस्तया ॥ स्वर्णरस्तया ॥ ज्योतिषीमान् तया ॥ विभासस्तया इति सप्तोपधाय । यत्ते शिल्पं कश्यप रोचनावत् । इन्दियावत्पुष्कलं चित्रभानु । यस्मिन्त्सूर्या अर्पिताः सप्त साकम् । तस्मिन्राजानमधि विश्रयेमन्तया ॥

तासामेवानुपश्चाद्यजमानः आरोगस्य स्थाने स्वतेजसा भानीत्यष्टावात्मेष्टकामुपधाय व्याहृत्यादि रीढ्वमित्यन्तेनोपतिष्ठते । आरोगस्य स्थाने स्वतेजसा भानि तया ॥ भ्राजस्य स्थाने स्वतेजसा भानि तया ॥ पटरस्य स्थाने स्वतेजसा भानि तया ॥ पतङ्गस्य स्थाने स्वतेजसा भानि तया ॥ स्वर्णरस्य स्थाने स्वतेजसा भानि तया ॥ ज्योतिषीमतस्य स्थाने स्वतेजसा भानि तया ॥ विभासस्य स्थाने स्वतेजसा भानि तया ॥ कश्यपस्य स्थाने स्वतेजसा भानि तया इत्युपधाय । ओं भूर्भुवः स्वः । आपो वो मिथुनं मा नो मिथुनꣳ् रीढ्वम् इत्युपतिष्ठते ।

अध्वर्युः सप्तसूर्या इत्येकामुपधाय । सप्तदिशो नाना सूर्या इत्येकामुपदधाति । सप्त सूर्या दिवमनुप्रविष्टाः । तानन्वेति पथिभिर्दक्षिणावान् । ते अस्मै सर्वे घृतमातपन्ति । ऊर्जं दुहाना अनपस्फुरन्तस्तया ॥ सप्त दिशो नानासूर्याः । सप्त होतार ऋत्विजः । देवा आदित्या ये सप्त । तेभिः सोमाऽभी रक्षणस्तया ॥

यद्या व इन्द्र ते इति वैशम्पायनस्यैकामुपधाय चित्रं देवानामित्येकामुपदधाति । यद्याव इन्द्र ते शतꣳ् शतं भूमीः । उत स्युः । न त्वा वज्रिन्त्सहस्रꣳ् सूर्याः । अनु न जातमष्ट रोदसी तया ॥ चित्रं देवानामुदगादनीकम् । चक्षुर्मित्रस्य वरुणस्याग्नेः । आप्रा द्यावापृथिवी अन्तरिक्षम् । सूर्य आत्मा जगतस्तस्थुषश्च तया ॥

काला अप्सु निविशन्त इति तिस्र उपदधाति । आद्ये द्वे त्रिवाक्ये । काला अप्सु निविशन्ते । आपः सूर्ये समाहिताः । अभ्राण्यपः प्रपद्यन्ते तया ॥ विद्युत्सूर्ये समाहिता । अनवर्णे इमे भूमी । इयं चासौ च रोदसी तया ॥ किꣳ्स्विदत्रान्तरा भूतम् । येनेमे विधृते उभे । विष्णुना विधृते भूमी । इति वत्सस्य वेदना तया ॥

इरावतीं वैष्णवीं प्रस्तारस्योत्तमां उत्तरत उपदधाति । इरावती धेनुमती हि भूतम् । सूयवसिनी मनुषे दशस्ये । व्यष्टभ्नाद्रोदसी विष्णवेते । दाधर्थ पृथिवीमभितो मयूखैस्तया । एवं यजुष्मतीरिष्टकाः । अष्टादशाधिकशतमुपधाय द्वाभ्यां द्वाभ्यां मन्त्राभ्यां एकैकां लोकंपृणां महाग्निचयनवत् द्वाविशतिमुपदधाति । सर्वे द्विशताः प्रस्तराः । साहस्रं तु सम्पद्यत इति वचनात् । लोकंपृण छिद्रं पृण — रोचने दिवस्तया इति संहिता पाठेन सर्वा उपधाय पृष्टो दिवीति सम्भार्याद्भिः प्रच्छादयति । पृष्टो दिवि पृष्टो — पातु नक्तम् । पुष्करपर्णैः पुष्करदण्डैः पुष्करैश्च सम्प्रच्छादयति । समाप्ता प्रथमा चितिः ।

अथ द्वितीया चितिः

अथ द्वितीयां चितिं चिनोति । क्वेदमभ्रं निविशत इति द्वौ संपातावुपदधाति । क्वेदमभ्रं निविशते । क्वायꣳ् संवत्सरो मिथः । क्वाहः क्वेयं देवरात्री । क्व मासा ऋतवः श्रितास्तया ॥ अर्धमासा मुहूर्ताः । निमेषास्त्रुटिभिस्सह । क्वेमा आपो निविशन्ते । यदीतो यान्ति सम्प्रति तया ॥

किं तद्विष्णोर्बलमिति तिस्र उपदधाति । अन्त्या द्विवाक्या । किं तद्विष्णोर्बलमाहुः । का दीप्तिः किं परायणम् । एको यद्धारयद्देवः । रेजती रोदसी उभे तया ॥ वाताद्विष्णोर्बलमाहुः । अक्षराद्दीप्तिरुच्यते । त्रिपदाद्धारयद्देवः । यद्विष्णोरेकमुत्तमन्तया ॥ अग्नयो वायवश्चैव । एतदस्य परायणन्तया ।

पृच्छमि त्वा परं मृत्युमिति मृत्युवतीश्चतस्र उपदधाति तृतीयचतुर्थौ त्रिवाक्यौ। पृच्छामि त्वा परं मृत्युम् । अवमं मध्यमं चतुम् । लोकं च पुण्य पापानाम् । एतत्पृच्छामि सम्प्रति तया ॥ अमुमाहुः परं मृत्युम् । पवमानं तु मध्यमम् । अग्निरेवावमो मृत्युः । चन्द्रमाश्चतुरुच्यते तया । अनाभोगाः परं मृत्युम् । पापाः संयन्ति सर्वदा । आभोगास्त्वेव संयन्ति तया ॥ यत्र पुण्यकृतो जनाः । ततो मध्यममायन्ति । चतुमग्निं च सम्प्रति तया । प्रतिदिशमुपधाय ।

पृच्छामि त्वा पापकृत इति निरयवतीश्चतस्रः प्रतिदिशमुपदधाति । पृच्छामि त्वा पापकृतः । यत्र यातयते यमः । त्वं नस्तद्ब्रह्मन्प्रब्रूहि । यदि वेत्थासतो गृहान्तया ॥ कश्यपादुदिताः सूर्याः । पापान्निर्ध्नन्ति सर्वदा । रोदस्योरन्तर्देशेषु । तत्र न्यस्यन्ते वासवैस्तया ॥ तेऽशरीराः प्रपद्यन्ते । यथाऽपुण्यस्य कर्मणः । अपाण्यपादकेशासः । तत्र तेऽयोनिजा जनास्तया ॥ मृत्वा पुनर्मृत्युमापद्यन्ते । अद्यमानास्स्वकर्मभिः । आशातिकाः क्रिमय इव । ततः पूयन्ते वासवैस्तया ॥ अपैतं मृत्युं जयतीति ब्राह्मणम् ।

अपैतु मृत्युः, परं मृत्यो, मा छिदो मृत्यो, तमेव मृत्युममृतं, विपश्चिते पवमानाय, तदित्पदमिति षडुपदधाति । अपैतु मृत्युरमृतं न आगन्वैवस्वतो नो अभयं कृणोतु । पर्णं वनस्पतेरिवाभिनश्शीयताꣳ् रयिस्सचतां नश्शचीपतिस्तया ॥ परं मृत्यो अनु परेहि पन्थां यस्ते स्व इतरो देवयानात् । चक्षुष्मते शृण्वते ते ब्रवीमि मा नः प्रजाꣳ् रीरिषो मोत वीरान्तया ॥ मा छिदो मृत्यो मा वधीर्मा मे बलं विवृहो मा प्रमोषीः । प्रजां मा मे रीरिष आयुरुग्र नृचक्षसं त्वा हविषा विधेम तया ॥ तमेवमृत्युममृतं तमाहुस्तं भर्तारं तमु गोप्तारमाहुः । स भृतो भ्रियमाणो बिभर्ति य एनं वेद सत्येन भर्तुं तया ॥ विपश्चिते पवमानाय गायत मही न धारात्यन्धो अर्षति । अहिर्ह जीर्णामति सर्पति त्वचमत्यो न क्रीडन्नसरद्वृषा हरिस्तया ॥ तदित्पदन्न विचिकेत विद्वान्, यन्मृतः पुनरप्येति जीवान् । त्रिवृद्यद्भुवनस्य रथवृज्जीवो गर्भो न मृतस्स जीवात्तया ॥ हरिꣳ् हरन्तमनुयन्ति देवा विश्वस्येशानं वृषभं मतीनां । ब्रह्म सरूपमनु मेदमागादयनं मा विवधीर्विक्रमस्व तया ॥ मा छिदो मृत्यो मा वधीर्मा मे बलं विवृहो मा प्रमोषीः । प्रजां मा मे रीरिष आयुरुग्र नृचक्षसं त्वा हविषाट्ठविधेम तया ॥ सद्यश्चकमानाय प्रवेपानाय मृत्यवे । प्रास्मा आशा अशृण्वन् कामेनाजनयन्पुनस्तया ॥ कामेन मे काम आगाद्धृदयाद्धृदयं मृत्योः । यदमीशामदः प्रियं तदैतूपमामभि तया ॥ परं मृत्यो अनु परेहि पन्थां यस्ते स्व इतरो देवयानात् । चक्षुष्मते शृण्वते ते ब्रवीमि मा नः प्रजाꣳ् रीरिषो मोत वीरान्तया ॥ प्र पूर्व्यं मनसा वन्दमानो नाधमानो वृषभं चर्षणीनाम् । यः प्रजामेकराण्मानुषीणां मृत्युं यजे प्रथमजा ऋतस्य तया ॥

ततः मृत्योः पूर्णपात्रं अन्नं पायसं संकल्प्य अध्वर्यवे दद्यात् । यजमानः अध्वर्यो मृत्योः पूर्णपात्रं अन्नं पायसं ते ददामि । न मन्त्रेण प्रतिग्रहः । आयस्मिन् सप्त वासवाः इत्येकां दर्भस्तम्बस्य दक्षिणतः उपदधाति । आ यस्मिन्त्सप्त वासवाः । रोहन्ति पूर्व्या रुहः । ऋषिर्ह दीर्घश्रुत्तमः । इद्रस्य धर्मो अतिथिस्तया । अग्निश्च जातवेदाश्चेत्यष्टौ पुरुषानुपदधाति । अग्निस्तया ॥ जातवेदास्तया ॥ सहोजास्तया ॥ अजिराप्रभुस्तया ॥ वैश्वानरस्तया ॥ नर्यापास्तया ॥ पङ्क्तिराधास्तया ॥ विसर्पी तया ॥ तासामेवानुपश्चाद्यजमानः अग्नेः पूर्वदिश्यस्य स्थानेति अष्टौ आत्मेष्टकामुपधाय व्याहृत्यादि रीढ्वमित्यन्तेनोपतिष्ठते । अग्नेः पूर्वदिश्यस्य स्थाने स्वतेजसा भानि तया ॥ जातवेदस उपदिश्यस्य स्थाने स्वतेजसा भानि तया । सहोजसो दक्षिणदिश्यस्य स्थाने स्वतेजसा भानि तया ॥ अजिराप्रभव उअपदिश्यस्य स्थाने स्वतेजसा भानि तया ॥ वैश्वानरस्यापरदिश्यस्य स्थाने स्वतेजसा भानि तया ॥ नर्यापस उपदिश्यस्य स्थाने स्वतेजसा भानि तया ॥ पङ्क्तिराधस उदग्दिश्यस्य स्थाने स्वतेजसा भानि तया ॥ विसर्पिण उपदिश्यस्य स्थाने स्वतेजसा भानि तया इत्युपधाय ओं भूर्भुवस्वः दिशो वो मिथुनं मा नो मिथुनꣳ् रीढ्वं इत्युपतिष्ठते ।

अध्वर्युः कूप्याभ्यः कूल्याभ्य इति स्वाहाकारवर्जितैः विंशतिः सशिनीरुपदधाति । कूप्याभ्यस्तया ॥ कूल्याभ्यस्तया ॥ विकर्याभ्यस्तया ॥ अवट्याभ्यस्तया ॥ खन्याभ्यस्तया ॥ ह्रद्याभ्यस्तया ॥ सूद्याभ्यस्तया ॥ सरस्याभ्यस्तया ॥ वैशन्तीभ्यस्तया ॥ पल्वल्याभ्यस्तया ॥ वर्ष्याभ्यस्तया ॥ अवर्ष्याभ्यस्तया ॥ ह्रादुनीभ्यस्तया ॥ पृष्वाभ्यस्तया ॥ स्यन्दमानाभ्यस्तया ॥ स्थावराभ्यस्तया ॥ नादेयीभ्यस्तया ॥ सैन्धवीभ्यस्तया ॥ समुद्रियाभ्यस्तया ॥ सर्वाभ्यस्तया ॥ इत्युपधाय अद्भ्यो वहन्तीभ्य इति स्वाहााकारवर्जितैः अष्टौ वारुणीरुपदधाति । प्रतिदिशम् । अद्भ्यस्तया ॥ वहन्तीभ्यस्तया ॥ परिवहन्तीभ्यस्तया ॥ समन्तं वहन्तीभ्यस्तया ॥ शीघ्रं वहन्तीभ्यस्तया ॥ शीभं वहन्तीभ्यस्तया ॥ उग्रं वहन्तीभ्यस्तया ॥ भीमं वहन्तीभ्यस्तया इति प्रतिदिशमुपदधाति । मन्त्रेष्टकास्सप्ततिः ततो लोकंपृणास्त्रिंशदुत्तरशतमुपदधाति । पूर्ववत् पुष्करपर्णानि प्रच्छादनान्तम् । समाप्ता द्वितीया चितिः ॥

॥ अथ तृतीया चितिः ॥

अथ तृतीयां चितिं चिनोति । प्रभ्राजमाना व्यवदाता इत्येकादश विद्युतीरुपदधाति । अष्टौ दिक्षु विदिक्षु तिस्रो मध्ये । प्रभ्राजमानास्तया ॥ व्यवदातास्तया ॥ वसुकिवैद्युतास्तया ॥ रजतास्तया ॥ परुषास्तया ॥ श्यामास्तया ॥ कपिलास्तया ॥ अतिलोहितास्तया इति दिक्षूपधाय । ऊर्ध्वास्तया ॥ अवपतन्तास्तया ॥ वैद्युतस्तया मध्ये उपदधाति । तासामेवानुपश्चाद्यजमानः प्रभ्राजमानानाꣳ् रुद्राणाꣲ् स्थाने स्वतेजसा भानीत्येकादशभिः आत्मेष्टका उपधाय व्याहृत्यादि रीड्वमित्यन्तेनोपतिष्ठते । तासूपधीयमानासु वासुकिवैद्युतामिति तृतीयां तूष्णीं पत्नी अन्वारभते । तासूपहितासु प्रभ्राहमानीनाꣳ् रुद्राणीनामित्येकादशभिः पत्नी पदमनुमन्त्रयते । यजमानः पभ्राजमानानाꣳ् रुद्राणाꣲ् स्थाने स्वतेजसा भानि तया ॥ व्यवदातानाꣳ् रुद्राणाꣲ् स्थाने स्वतेजसा भानि तया ॥ वासुकिवैद्युतानाꣳ् रुद्राणाꣲ् स्थाने स्वतेजसा भानि तया ॥ रजतानाꣳ् रुद्राणाꣲ् स्थाने स्वतेजसा भानि तया ॥ परुषाणाꣳ् रुद्राणाꣲ् स्थाने स्वतेजसा भानि तया ॥ श्यामानाꣳ् रुद्राणाꣲ् स्थाने स्वतेजसा भानि तया ॥ कपिलानाꣳ् रुद्राणाꣲ् स्थाने स्वतेजसा भानि तया ॥ अतिलोहितानाꣳ् रुद्राणाꣲ् स्थाने स्वतेजसा भानि तया ॥ ऊर्ध्वानाꣳ् रुद्राणाꣲ् स्थाने स्वतेजसा भानि तया ॥ अवपतन्तानां रुद्राणाꣲ् स्थाने स्वतेजसा भानि तया ॥ वैद्युतानाꣳ् रुद्राणाꣲ् स्थाने स्वतेजसा भानि तया इत्युपदधाति ।

पत्नी वासुकिवैद्युतानां इत्युपधीयमानानामन्वारभ्य प्रभ्राजमानीनां रुद्राणीनामित्येकादशभिः पत्नी पदमनुमन्त्रयते । प्रभ्राजनानीनाꣳ् रुद्राणीनाꣲ् स्थाने स्वतेजसा भानि । व्यवदातीनाꣳ् रुद्राणीनाꣲ् स्थाने स्वतेजसा भानि । वासुकीवैद्युतीनाꣳ् रुद्राणीनाꣲ् स्थाने स्वतेजसा भानि । रजतानाꣳ् रुद्राणीनाꣲ् स्थाने स्वतेजसा भानि । परुषाणाꣳ् रुद्राणीनाꣲ् स्थाने स्वतेजसा भानि । श्यामानाꣳ् रुद्राणीनाꣲ् स्थाने स्वतेजसा भानि । कपिलानाꣳ् रुद्राणीनाꣲ् स्थाने स्वतेजसा भानि । अतिलोहितानाꣳ् रुद्राणीणीनाꣲ् स्थाने स्वतेजसा भानि । ऊर्ध्वानाꣳ् रुद्राणीनाꣲ् स्थाने स्वतेजसा भानि । अवपतन्तीनाꣳ् रुद्राणीनाꣲ् स्थाने स्वतेजसा भानि । वैद्युतीनाꣳ् रुद्राणीनाꣲ् स्थाने स्वतेजसा भानि । यजमानः ओं भूर्भुवस्स्वः रूपाणि वो मिथुनं मानो मिथुनꣳ् रीढ्वम् इत्युपतिष्ठते ।

अध्वर्युः स्वान भ्राडित्येकादश गन्धर्वगणानुपधाय । गौरीमिमायेत्येकामुपदधाति । स्वान तया । भ्राट् तया । अङ्घारिस्तया । बम्भारिस्तया । हस्तस्तया । सुहस्तस्तया । कृशानुस्तया । विश्वावसुस्तया । मूर्धन्वान्तया । सूर्यवर्चास्तया । कृतिस्तया इत्युपधाय । गौरी मिमाय सलिलानि तक्षती । एकपदी द्विपदी सा चतुष्पदी । अष्टापदी नवपदी बभूवुषी । सहस्राक्षरा परमे व्योमन्तया ।

वराहवः स्वतपस इति वर्षोदीरणानुपधाय समानमेतदुदकमित्यष्टमीं पृष्टिमतीमेकामुपदधाति । वराहवस्तया ॥ स्वतपसस्तया ॥ विद्युन्महसस्तया ॥ धूपयस्तया ॥ श्वापयस्तया ॥ गृहमेधास्तया ॥ अशिमिविद्विषस्तया इत्युपधाय ।

समानमेतदुदकम् । उच्चैत्यवचाहभिः । भूमिं पर्जन्या जिन्वन्ति । दिवं जिन्वन्त्यग्नयस्तया । सोमपानां लोकमुपदधामीति सङ्कल्पः ।

यदक्षरं भूतकृतं, जमदग्निमकुर्वतेति द्वाभ्यां त्रिवाक्याभ्यां जमदग्नेः द्वे उपधाय । राज्ञस्सोमस्य तृप्तासः इति वाक्यत्रयेण हरितानामेकामुपदधाति । यदक्षरं भूतकृतम् । विश्वे देवा उपासते । महिर्षिमस्य गोप्तारन्तया ॥ जमदग्निमकुर्वत । जमदग्निराप्यायते । छन्दोभिश्चतुरुत्तरैस्तया ॥ राज्ञः सोमस्य तृप्तासः । ब्रह्मण्या वीर्यावता । शिवा नः प्रदिशो दिशस्तया ॥ तच्छंयोरावृणीमहे । गातुं यज्ञाय । गातुं यज्ञपतये । दैवी स्वस्तिरस्तुनः । स्वस्तिर्मानुषेभ्यः । ऊर्ध्वं जिगातु भेषजम् । शन्नो अस्तु द्विपदे । शं चतुष्पदे तया ॥

सहस्रवृदियं भूमिः इत्यष्टौ संयानीरुपदधाति । सहस्रवृदियं भूमिः । परं व्योम सहस्रवृत् । अश्विना भुज्यू नासत्या । विश्वस्य जगतस्पती तया ॥ जाया भूमिः पतिर्व्योम । मिथुनं ता अतुर्यथुः । पुत्रो बृहस्पती रुद्रः । सरमा इति स्रोपुमन्तया ॥ शुक्रं वामन्यद्यजतं वामन्यत् । विषुरूपे अहनी द्यौरिव स्थः । विश्वा हि माया अवथः स्वधावन्तौ । भद्रा वां पूषणाविह रातिरस्तु तया ॥ वासात्यौ चित्रौ जगतो निधानौ । द्यावाभूमी चरथः सꣳ्सखायौ । तावश्विना रासभाश्वा हवं मे । शुभस्पती आगतꣳ् सूर्यया सह तया ॥ त्युग्रो ह भुज्युमश्विनोदमेधे । रयिं न कश्चिन्ममृवां आवाहाः । तमूहथुर्नोभिरात्मन्वतीभिः । अन्तरिक्षप्रुड्भिरपोदकाभिस्तया ॥

तिस्रः क्षपस्त्रिरहाऽतिव्रजद्भिः । नासत्या भुज्युमूहथुः पतङ्गैः । समुद्रस्य धन्वन्नार्द्रस्य पारे । त्रिभी रथैः शतपद्भिः षडश्वैस्तया ॥ सवितारं वितन्वन्तम् । अनुबध्नाति शाम्बरः । आपपूरुषम्बरश्चैव । सविताऽरेपसो भवत्तया ॥ त्यꣳ् सुतृप्तं विदित्यैव । बहुसोमगिरं वशी । अन्वेति तुग्रो वक्रियान्तम् । आयसूयान्त्सोमतृप्सुषु तया इति प्रतिदिशमुपधाय । ससङ्ग्रामस्तम इत्येतयोः परित्यागः ।

पवित्रवन्त इति चतस्रः आङ्गीरसीरुपदधाति प्रतिदिशम् । ब्रह्मा देवानामिति प्रतीकग्रहणम् । पवित्रवन्तः परि वाजमासते । पितैषां प्रत्नो अभि रक्षति व्रतम् । महः समुद्रं वरुणः स्तिरो दधे । धीरा इच्छेकुर्धरिणेष्वारभन्तया ॥ पवित्रं ते विततं ब्रह्मणस्पते । प्रभुर्गात्राणि पर्येषि विश्वतः । अतप्ततनूर्न तदामो अश्नुते । शृतास इद्वहन्तस्तत्समाशत तया ।

ब्रह्मा देवानां पदवीः कवीनामृषिर्विप्राणां महिषोमृगाणाम् । श्येनो गृध्राणाꣲ्-स्वधितिर्वनानाꣳ् सोमः पवित्रमत्येऽति रेभन्तया ॥ असतः सद्ये ततक्षुः । ऋषयः सप्तात्रिश्च यत् । सर्वेऽत्रयो अगस्त्यश्च । नक्षत्रैः शङ्कृतोऽवसन्तया ॥

अमी य ऋक्षा इति श्यावाश्वस्य सप्तोपदधाति । द्वितीयषष्ठौ त्रिवाक्यौ सप्तमः पञ्चवाक्यः । अमी य ऋक्षा निहितास उच्चा । नक्तं ददृश्रे कुहचिद्दिवेयुः । अदब्धानि वरुणस्य व्रतानि । विचाकशच्चन्द्रमा नक्षत्रमेति तया ॥ तत्सवितुर्वरेण्यम् । भर्गो देवस्य धीमहि । धियो योनः प्रचोदयात्तया ॥ तत्सवितुर्वृणीमहे । वयं देवस्य भोजनम् । श्रेष्ठꣳ् सर्वधातमम् । तुरं भगस्य धीमहि तया ॥ अपागूहत सविता तृभीन् । सर्वां दिवो अन्धसः । नक्तं तान्यभवन्दृशे । अस्थ्यस्न्था सम्भविष्यामस्तया ॥ नाम नामैव नाम मे । नपुꣳ्सकं पुमाꣲ्स्त्र्यस्मि । स्थावरोऽस्म्यथ जङ्गमः । यजेऽयक्षि यष्टाहे च तया ॥ मया भूतान्ययक्षत । पशवो मम भूतानि । अनूवन्ध्योऽस्म्यहं विभुस्तया ॥ स्त्रियः सतीः । ता उ मे पुꣳ्स आहुः । पश्यदक्षण्वान्न विचेतदन्धः । कविर्यः पुत्रः स इमा चिकेत । यस्ता विजानात्सवितुः पिताऽसत्तया ॥

अन्धो मणिमविन्ददिति पञ्च वैश्वदेवीरुपदधाति । अन्धो मणिमविन्दत् । तमनङ्गुलिरावयत् । अग्रीवः प्रत्यमुञ्चत् । तमजिह्वा असश्चत तया ॥ ऊर्ध्वमूलमवाक्छाखम् । वृक्षं यो वेद सम्प्रति । न स जातुः जनः श्रद्दध्यात् । मृत्युर्मा मारयादितिस्तया ॥ हसितꣳ् रुदितं गीतम् । वीणा पण वलासितम् । मृतं जीवं च यत्किञ्चित् । अङ्गानि स्नेव विद्धि तत्तया ॥ अतृष्यꣴ्स्तृष्यध्यायत् । अस्माज्जाता मे मिथू चरन् । पुत्रो निर्ऋत्या वैदेहः । अचेता यश्च चेतनस्तया ॥ स तं मणिमविन्दत् । सोऽनङ्गुलिरावयत् । सोऽग्रीवः प्रत्यमुञ्चत् । सोऽजिह्वो असश्चत तया ॥ ता उपधाय प्रयोजनार्थमपि नगरं न प्रविशेत् । तत्प्रभृति ऐकान्तव्यक्तिः स्यात् । नैतमृषिमित्यादि ब्राह्मणम् ।

आतमग्न इति तिस्र आग्नेयीरुपदधाति । आ तमग्ने रथं तिष्ठ । एकाश्वमेकयोजनम् । एकचक्रमेकधुरम् । वातध्राजिगतिं विभो तया ॥ न रिष्यति न व्यथते । नास्याक्षो यातु सज्जति । यच्छ्वेतान्रोहिताꣲ्श्चानेः । रथे युक्त्वाऽधितिष्ठति तया ॥ एकया च दशभिश्च स्वभूते । द्वाभ्यामिष्टये विꣳ्शत्या च । तिसृभिश्च वहसे त्रिꣳ्शता च । नियुद्भिर्वायविह ता विमुञ्च तया ॥

यददस्सम्प्रयतीरहावनदता हते । तस्मादा नद्यो नाम स्थ ता वो नामानि सिन्धवस्तया ॥ यत्प्रेषिता वरुणेन ताश्शीभꣳ् समवल्गत । तदाप्नोदिन्द्रो वो यतीस्तस्मादापो अनु स्थन तया ॥ अपकामꣴ् स्यन्दमाना अवीवरत वो हिकम् । इन्द्रो वश्शक्तिभिर्देवी-स्तस्माद्वार्णाम वो हितन्तया ॥ एको देवो अप्यतिष्ठथ्स्यन्दमाना यथावशम् । उदानिषुर्महीरिति तस्मादुदकमुच्यते तया इत्युपधाय तदेवाग्निरिति नारायणपठिताः पञ्चाध्यात्मिकीः उपदधाति ।

तदेवाग्निस्तद्वायुस्तत्सूर्यस्तदु चन्द्रमाः । तदेव शुक्रममृतं तद्ब्रह्म तदापस्स प्रजापतिस्तया । सर्वे निमेषा जज्ञिरे विद्युतः पुरुषादधि । कला मुहूर्ताः काष्ठाश्चाहोरात्राश्च सर्वशस्तया ॥ अर्धमासा मासा ऋतवस्संवत्सरश्च कल्पन्ताम् । स आपः प्रदुघे उभे इमे अन्तरिक्षमथो सुवस्तया ॥ नैनमूर्ध्वं न तिर्यञ्चं न मध्ये परि जघ्रभत् । न तस्येशे कश्चन तस्य नाम महद्यशस्तया ॥ न सन्दृशे तिष्ठति रूपमस्य न चक्षुषा पश्यति कश्चनैनम् । हृदा मनीषा मनसाभि कॢप्तो य एनं विदुरमृतास्ते भवन्ति तया । इत्युपाधाति । मन्त्रेष्टका द्वावशतिः । अथ अष्टादशाधिकशतं लोकंपृणा उपदधाति । पूर्ववत्पुष्करपर्णानि प्रच्छादनान्तम् । समाप्ता तृतीया चितिः ॥

अथ चतुर्थी चितिः

अथ चतुर्थीं चितिं चिनोति । आतनुष्वेति चतस्रोऽध्वर्युरुपदधाति । प्रतिदिशं । तृतीया त्रिवाक्या । आतनुष्व प्रतनुष्व । उद्धमाऽधम सन्धम । आदित्ये चन्द्रवर्णानाम् । गर्भमाधेहि यः पुमान्तया ॥ इतः सिक्तꣳ् सूर्यगतम् । चन्द्रमसे रसं कृधि । वारादं गनयाग्रेऽग्निं । य एको रुद्र उच्यते तया । असंख्याताः सहस्राणि । स्मर्यते न च दृश्यते । एवमेतं निबोधत तया ॥ आ मन्द्रैरिन्द्र हरिभिः । याहि मयूररोमभिः । मा त्वा केचिन्न्येमुरिन्न पाशिनः । दधन्वेव ता इहि तया ॥

मामन्द्रैरिन्द्र इति पञ्चमीं यजमान उपधत्ते । मा मन्द्रैरिन्द्र हरिभिः । यामि मयूररोमभिः । मा मा केचिन्न्येमुरिन्न पाशिनः । निधन्वेव तां३ इमि तया ॥

अध्वर्युः अणुभिश्चेति द्वे उपदधाय सुह्मण्योमिति पञ्चवाक्येन एकामुपदधाति । अणुभिश्च महद्भिश्व । निधृष्वैरसमायुतैः । कालैर्हरित्वमापन्नैः । इद्राऽऽयाहि सहस्रयुक् तया ॥ अग्निर्विभ्राष्टिवसनः । वायुश्वेत सिकद्रुकः । संवत्सरो विषूवर्णैः । नित्यास्तेऽनुचरास्तव तया ॥ सुब्रह्मण्योꣳ् सुब्रह्मण्योम् सुब्रह्मण्योम् । इन्द्राऽऽगच्छ हरिव आगच्छ मेधातिथेः । मेष वृषणश्वस्य मेने । गौरावस्कदिन्नहल्यायै जार । कौषिक ब्राह्मण गौतम ब्रुवाण तया ॥

अरुणाश्वा इति मेधावतीः चतस्र उपदधाति । द्वितीया पञ्चवाक्या । अरुणाश्वा इहाऽऽगताः । वसवः पृथिविक्षितः । अष्टौ दिग्वाससोऽग्नयः । अग्निश्च जातवेदाश्चेत्येते तया ॥ ताम्राश्वास्ताम्ररथाः । ताम्रवर्णास्तथाऽसिताः । दण्डहस्ताः खादग्दतः । इतो रुद्राः परां गताः । उक्त स्थानं प्रामाणं च पुर इत तया ॥ बृहस्पतिश्च सविता च । विश्वरूपैरिहाऽऽगताम् । रथेनोदकवर्त्मना । अप्सुषा इति तद्वयोस्तया ॥ उक्तो वेषो वासाꣳ्सि च । कालावयवानामितः प्रतीच्या । वासात्या इत्यश्विनोः । कोऽन्तरिक्षे शब्दं करोति तया । इति प्रतिदिशमुपदधाति इति प्रयोगकारः ।

असितवर्णा इति तिस्र उपधाय वाश्रेव विद्युदिति तिस्र उपदधाति । असितवर्णा हरयस्सुपर्णामिहो वसाना दिवमुत्पतन्ते । त आववृत्रन् सदनानि कृत्वादित्पृथिवी घृतैर्व्युद्यते तया ॥ हिरण्यकेशो रजसो विसारेहिर्धुनिर्वात इव ध्रजीमान् । शुचिभ्राजा उषसो नवेदा यशस्वतीरपस्युवो न सत्यास्तया ॥ आ ते सुपर्णा अमिनन्त एवैः कृष्णो नोनाव वृषभो यदीदम् । शिवाभिर्न स्मयमानाभिरागात्पतन्तिमिह स्तनयन्त्यभ्रास्तया ॥ वाश्रेव विद्युन्मिमाति वत्सं न मातासिषक्ति । यदेषां वृष्टिरसर्जि तया ॥

{ भाष्यकारस्तु अरुणाश्वा इति द्वे उपधाय बृहस्पतिश्चेत्येकामुपदधाति उक्तग्ग् स्थान इति ब्राह्मणम् । उक्तो वेष इति ब्राह्मणमेव इति भाष्यकारः । अरुणश्वा इहागताः — इत्येते तया । ताम्राश्वाः — पुर इत तया । बृहस्पतिश्च — तद्वयोः इत् ब्राह्मणम् । वाश्रेव विद्युदित्येकात् प्रतिवचनं च इति भाष्ये निरस्ता ।}

पर्वतश्चिन्महि वृद्धो बिभाय दिवश्चित्सानुरेजत स्वने वः । यत्क्रीडत मरुतऋष्टिमन्त आप इव सध्रियं चो धवध्वे तया ॥ अभिक्रन्दस्तनय गर्भमाधा उदन्वता परिधीया र्थेन । दृतिꣳ् सुकर्ष विशितं न्यञ्चꣳ् समाभवन्त्यूद्वता नि पादास्तयाः ।

दिवो नो वृष्टिमिति सप्त वृष्टिमतीः उपदधाति । उदुत्यं चित्रमिति प्रतीकग्रहणम् । दिवो नो वृष्टिं मरुतो ररीध्वं प्रपिन्वत वृष्णो अश्वस्य धाराः । अर्वाङेतेन स्तनयित्नुनेह्यपो निषिंचन्नसुरः पिता नस्तया । पिन्वन्त्यपोम्नान्तम् । समाप्ता चतुर्थी चितिः ॥

अथ पञ्चमी चितिः ॥

आप्लवस्व प्रप्लवस्वेति षोडश दुःखक्षिपणीरुपदधाति । युवासु वासाश्शतमिन्नुशरद इति प्रतिग्रहणम् । आप्लवस्व प्रप्लवस्व । आणडी भव ज मा मुहुः । सुखादीं दुःखनिधनाम् । प्रतिमुंचस्व स्वां पुरन्तया ॥ मरीचयः स्वायंभुवाः । ये शरीराणयकल्पयन् । ते ते देहं कल्पयन्तु । मा च ते ख्या स्म तीरिषत्तया ॥ उत्तिष्ठत मा सप्त । अग्निमिच्छध्वं भारताः । राज्ञः सोमस्य तृप्तासः । सूर्येण सयुजोषसस्तया । युवा सुवासाः ( परिवीत आगात । स उ श्रेयान्भवति जायमानः । तं धीरासः कवय उन्नयन्ति । स्वाधियो मनसा देवयन्तस्तया ॥ अष्टा चक्रा नव द्वारा । देवानां पूरयोध्या । तस्याꣳ् हिरण्यमयः कोशः । स्वर्गो लोको ज्योतिषाऽऽवृत्तस्तया ॥ यो वै तां ब्रह्मणो वेद । अमृतेनाऽऽवृतां पुरीम् । तस्मै ब्रह्म च ब्रह्मा च । आयुः कीर्तिं प्रजां दधुः । विभ्राजामानाꣳ् हरीणीम् । यशसा संपरीवृताम् । पुरꣳ् हिरण्मयीं ब्रह्मा । विवेशाऽपराजिता तया ॥ पराङ्त्येज्यामयि । पराङ्त्येनाशकी । इह चामुत्र चान्वेति । विद्वान्देवासुरानुभयान्तया ॥ यत्कुमारीमन्द्रयते । यद्यौषिद्यत्पतिव्रता । अरिष्टं यत्किंच क्रियते । अग्निस्तदनुवेधति तया ॥ अशृतासः शृतासश्च । यज्वानो येऽप्ययज्वनः । स्वर्यंतो नापेक्षंते । इन्द्रमग्निं च ये विदुस्तया ॥ सिकता इव संयन्ति । रश्मिमिः समुदीरिताः । अस्माल्लोकादमुश्माच्च । ऋषिभिरदात्फृश्निभिस्तया ॥ अपेत वीत वि च सर्पतातः । येऽत्र स्थ पुराणा ये च नूतनाः । अहोभिरद्भिरक्तुभिर्व्यक्तम् । यमो ददात्ववसानमस्मै तया ॥ नृ मुणन्तु नृ पात्वर्यः । अकृष्टा ये च कृष्टजाः । कुमारीषु कनीनीषु । जरिणीषु च ये हितास्तया ॥ रेतः पिता आणडपिताः । अङ्गारेषु च ये हुताः । उभयान्पुत्रपौत्रकान् । युवेऽहं यमराजगान् तया । श्तमिन्नु शरदः शरदो अन्ति देवा यत्रानश्चक्रा जरसं तनूनां । पुत्रासो यत्र पितरो भवन्ति मा नो मद्यारीरिषतायुर्गन्तोस्तया ॥ अदो यद्ब्रह्म विलवम् । पितृणां च यमस्य च । वरुणस्याश्विनोरग्नेः । मरुतां च विहायसाꣴ् स्तया ॥ कामप्रयवणमित्यस्य परित्यागः । एवा ह्येवेति दिशो देवताः षडुपदधाति । चतस्रः प्रतिदिशं द्वे मध्ये । एवाह्येव तया ॥ एवाह्यग्ने तया ॥ एवा हि वायो तया ॥ एवाहीन्द्र तया ॥ एवा हि पूषन् तया ॥ एवा हि देवास्तया ॥ इत्युपधाय कामस्तदग्र इति सङ्कल्पवतीमेकामुपदधाति । कामस्तदग्रे समवर्तताधि मनसो रेतः प्रथमं यदासीत् । सतो बन्धुमसति निरविन्दन् हृदि प्रदीश्या कवयो मनीषा तया ।

{भाष्य् तुतस्मादधि ब्रह्म स्वयंभ्विति चतुर्थपदं अध्याहार्य चतुष्पदा इयं ऋक् इति प्रतिपादिता । अत्र भाष्यकारः आपमापामिति तिस्रो जपित्वा अपाश्न्युश्निमिति द्वे उपधाय केतवो अरुणासश्चेति एकामुपदधाति । इति एकविंशानुवाकभाष्ये प्रिपादयति । प्रयोगकारस्तु अत्र केतवो अरुणासश्च इति एकामुपदधाति । तदनुसारेणोपधानमन्त्रः ।}

आपो ह यद्बृहतीमित्योघवतीं एकामुपदधाति । आपो ह यद्बृहतीं गर्बमायन् । दक्षं दधानाः जनयन्ती रग्नि । तत इमेध्यसृज्यन्त सर्गास्तया ॥ एषां त्रिपदा ।

विधाय लोकानिति संभवनं एकामुपदधाति । विधाय लोकान् — सहस्रधायसं तया । पूर्वं देवा अपरेण प्राणापानाविति पुष्करपर्णस्याधस्तात् जन्मानुस्मृतावुपदधाति । पूर्वं देवा अपरेणानुपश्यन् जन्मभिः जन्मान्यवरैः पराणि । वेदानि देवा अयमस्मीति मां अहꣳ् हित्वा शरीरं जरसः परस्तात्तया ॥ प्राणापानौ चक्षुः श्रोत्रं वाचं मनसि समृतां । हित्वा शरीरं जरसः परस्तादाभूतिं भूतिं वयमश्नवामहै तया ॥

हꣳ्सश्शुचुषदिति पुष्करपर्णस्य पुरस्ताद्दूरोहणमुपदधाति । हꣳ्सश्शुचिषद्वसुरन्तरिक्षसद्धोता वेदिषदतिथिर्दुरोणसत् । नृषद्वरसदृतसद्व्योमसदब्जा गोजा ऋतजा अद्रिजा ऋतं बृहत्तया । ब्रह्मजज्ञानमिति पुष्करतपर्णस्याधस्ताद्रुक्ममुपदधाति । ब्रह्म जज्ञानं प्रथमं पुरस्ताद्विसीमतस्सुरुचो वेन आवः । सबिध्निया उपमा अस्य विष्ठाः सतश्च योनिमसश्च विवस्तया । हिरण्यगर्भस्समवर्तताग्र इति अष्टर्चाख्यं सूक्तं त्रिः प्रणुत्य रुक्मस्योपरिष्टात् हिरण्मयं पुरुषं उपदधाति । हिरण्यगर्भः समवर्तताग्रेभूतस्य जातः पतिरेक आसीत् । सदाधार प्रिथिवीं द्यामुतेमां कस्मै देवाय हविषा विधेमों ओं तया । नात्र रुक्मपुरुषयोर्व्याघारणम् । अवचनात् ।

ततो यजमानः पश्चदवस्थाय प्राङ्मुखः पुरुषमभिसन्धाय ओमिति ब्रह्मेत्यनुवाकेन त्रिचा उपनिषदि पठितेन त्रिः प्रथमामन्वाह त्रिरुत्तमामिति न्यायेन अनुशंसति । ओमिति ब्रह्मा ओमित्यीदꣳ् सर्वमोमित्येतदनुकृति हस्म वा अप्योश्रावयेत्याश्रावयन्तों त्रिः । ओमिति सामानिगायन्योꣳ् शोमिति शस्त्राणि शंसन्ति । ओमित्यध्वर्युः प्रतिगरः प्रतिगृणात्योमिति ब्रह्माप्रसौत्योमित्यग्निहोत्रमनुजानाति । ओमिति ब्राह्मणः प्रवक्ष्यन्नाह ब्रह्मोपाप्नवानो३म् त्रिः ॥ ब्रह्मैवोपाप्नोतीति फलश्रुतिः ॥

एवं सहस्रशीर्षा पुरुष इति पुरुषसूक्तेन होतानुशंसति । हिं भूर्भुवस्स्वरो३म् सहस्रशीर्षा पुरुषः । सहस्राक्षः सहस्रपात् । स भूमिं विश्वतो वृत्वा । अत्यतिष्ठद्दशाङ्गुलो३म् त्रिः पुरुष एवेदꣳ् सर्वं यद्भूतं यच्च भव्यम् । उताम्रतत्वस्येशानो यदन्नेना तिरोहतो३मेतावानस्य महिमातो ज्यायाꣲ्श्च पूरुषः । पादोऽस्य विश्वा भूतानि त्रिपादस्या मृतन्दिवो३न्त्रिपादूर्ध्व उदैत्पुरुषः पादोऽस्येहाभवात्पुनः । ततो विष्वङ् व्यक्रामत्साशनानशने अभो३न्तस्माद्विराडजायत विराजो अधि पुरुषः । स जातो अत्यरिच्यत पश्चाद्भूमिमथो पुरो३य्यँत्पुरुषेण हविषा देवा यज्ञमतन्वत । वसन्तो अस्यासीदाज्यङ्ग्रीष्म इध्मश्शरद्धवो३म् सप्तास्यासन्परिधयस्त्रिस्सप्त समिधः कृताः । देवा यद्यज्ञं तन्वाना अबध्नन् पुरुषं पशो३न्तं यज्ञं बर्हिषि प्रौक्षन्पुरुषं जातमग्रतः । तेन देवा अयजन्त साध्या ऋषयश्च यो३न्तस्माद्यज्ञाथ्सर्व हुतस्सम्भृतं पृशदाज्यम् । पशूꣲ्स्ताꣲ्श्चक्रे वायव्यानारण्यान्ग्राम्याश्च यो३न्तस्माद्यज्ञाथ्सर्व हुत ऋचस्सामानिजज्ञिरे । छन्दाꣳ्सि जज्ञिरे तस्माद्यजुस्तस्मादजायतो३न्तस्मादश्वा अजायन्त ये के चोभयादतः । गावो ह जज्ञिरे तस्मात्तस्माज्जाता अजावयो३य्यँत्पुरुषं व्यददुः कतिधा व्यकल्पयन् । मुखं किमस्य कौ बाहू कावूरू पादा उच्येतो३म्ब्राह्मणोऽस्य मुखमासीद्बाहू राजन्यः कृतः । ऊरू तदस्य यद्वैश्यः पद्भ्याꣳ् शूद्रो अजायतो३ञ्चन्द्रमा मनसो जातश्चक्षोस्सूर्यो अजायत । मुखादिन्द्रश्चाग्निश्च प्राणाद्वायुरजायतो३न्नाभ्या आसीदन्तरिक्षꣳ् शीर्ष्णोद्यौस्समवर्तत । पद्भ्यां भूमिर्दिशश्श्रोत्रात्तथा लोकाꣳ् अकल्पयो३व्वेँदाहमेतं पुरुषं महान्तमादित्यवर्णं तमसस्तु पारे । सर्वाणि रूपाणि विचित्य धीरो नामानि कृत्वाभिवदन् यदास्तो३न्धाता पुरस्ताद्यमुदाजहार शक्रः प्रविद्वान्प्रदिशश्चतस्रः । तमेवव्विँद्वानमृत इह भवति नान्यः पन्था अयनाय विद्यतो३य्यँज्ञेन यज्ञमयजन्त देवास्तानि धर्माणि प्रथमान्यासन् । ते ह नाकं महिमानस्सचन्ते यत्र पूर्वे साध्यास्सन्ति देवो३म् त्रिः ।

पुरुषसाम्ना भूर्भुवस्सुवो भूर्भुवस्सुवरित्यनुवाकेन ब्रह्मा उपतिष्टते । भूर्भुवस्सुवो भुर्भुवस्सुवो भुर्भुवस्सुवः । भुवोद्धायि भुवोद्धायि भुवोद्धायि । नृम्णायि नृम्णं नृम्णायि नृम्णं नृम्णायि नृम्णम् । निधाय्योवायि निधाय्योवायि निधाय्योवायि । ते अस्मे अस्मे । सुवर्न ज्योतीः इत्युपतिष्ठते । अध्वर्युर्ब्रह्मा च विष्णोर्नुकं तदस्य प्रियं प्रतद्विष्णुः परो मात्रया इदं विष्णुः त्रिर्देव इति षडृचैः अनुशंसति । भूर्भुवस्स्वरो३म् विष्णोर्नुकं वीर्याणि प्रवोचं यः पार्थिवानि विअमे रजांसि यो अस्कभायदित्तरं सधस्थं विचक्रमाणस्त्रेधोरुगायो३म् त्रिः । तदस्य प्रियमभि पातो अश्यां नरो यत्र देवयवो मदन्ति । उरुक्रमस्य सहि बन्धुरित्था विष्णोः पदे परमे मध्व उत्सो३म् प्रतद्विष्णुस्तवते वीर्याय मृगो न भीमः कुचरो गिरिष्ठाः । यस्योरुषु त्रिषु विक्रमणेष्वधि क्षियन्ति भुवनानि विश्वो३म्परो मात्रया तनुवा वृधान न ते महित्वमन्वश्नुवन्ति । उभे ते विद्म रजसी पृथिव्या विष्णो देवत्वं परमस्य वित्सो३म् विचक्रमे पृथिवीमेष एतां क्षेत्राय विष्णुर्मनुषे दशस्यन् । ध्रुवासो अस्य कीरयो जनास उरुक्षितिꣳ् सुजनि मा चकारो३म् त्रिर्देवः पृथिवीमेष एतां विचक्रमे शतर्चसं महित्वा । प्रविष्णुरस्तु तवसस्तवीयान्त्वेषꣴ् ह्यस्य स्थविरस्य नामो३म् त्रिः ॥

पत्नी पुरुषं साक्षान्न पश्यति तथा वाससान्तरितं कृत्वा स्प्रजसस्त्वा वयमित्यृचेन पत्नी अनुशंसति । सुप्रजसस्त्वा वयꣳ् सुपत्नीरुप सेदिम । अग्ने सपत्नदम्भनमदब्धासो अदाभ्यो३म् त्रिः इमं विष्यामि वरुणस्य पाशं यमबध्नीत सविता सुकेतः । धातुश्च योनौ सुकृतस्य लोके स्योनं मे सह पत्या करोम्यो३म् समायुषा सं प्रजया समग्ने वर्चसा पुनः । सं पत्नी पत्याहं गच्छे समात्मा तनुवा ममो३म् त्रिः ततो यजमानः भवा मित्रो नशेव्य इत्यृचेनानुशंसति । हिं भूर्भुवस्स्वरो३म् भवा मित्रो न शेव्यो घृतासुतिर्विभूतद्युम्न एवया उ सप्रथाः । अधा ते विष्णो विदुषा चिदृध्यस्तोमो यज्ञस्य राध्यो हविष्मतो३म् यः पूर्व्याय वेधसे नवीयसे सुमज्जानये विष्नवे ददाशति । यो जातमस्य महतो महि ब्रवात्सेदु श्रवोभिर्युज्यं चिदभ्यसो३न्तमुस्तोतारः पुर्व्यं यथा विद ऋतस्य गर्भꣳ् हविषा पिपर्तु नः । आस्य जानन्तो नाम चिद्विवक्तन बृहत्ते विष्णो सुमतिं भजामहो३म् त्रिः ॥

ओं ओं ओं इति त्रिः प्रणम्य ताम्रपर्णे वडबे अश्वौ ताम्ररथेन सहाध्वर्यवे ददाति । अध्वर्यो ताम्रपर्णेन सह वडबे अश्वौ ताम्ररथं च ते ददामि । प्रतिगृह्णामि । प्राकृताः पष्ठौही प्रभृतयः सर्वेषामध्वर्य्वादीनां साधारणम् । तथा अरुणपाठकानां च शक्त्या उदपात्राणि च दद्यात् । ततो भूरग्निं चेति दिक्षु सम्भार्या उपदधाति । भूरग्निं चेति ध्रुवासीत्यन्तं दिक्षु चतस्रः स्वयमातृण्णा उपदधाति । मन्त्रेष्टका एकोन त्रिंशत् । एकविंशत्य्धिकशतं लोकंपृणाः उपदधाति । सम्भारद्भिः प्रच्छाद्य पुष्करपर्णैः पुष्करदण्डैः संप्रच्छाद्य । उपहिते शिष्टानुदकसम्पातानेकस्मिन् पात्रे समवनीय दक्षिणे वेद्यन्ते अग्निमन्वारब्धं औदुम्बर्यामासन्द्यां कृष्णाजिन आसीनं यजमानं देवस्य त्वेति महाग्निवदभिषिञ्चति । देवस्य त्वा — अभिषिञ्चामि । तैः उदकसम्पातैः शनैरभिषिच्यमानः आपो हिष्ठादिभिः समस्तं शरीरं आप्लवयेत् । ततो यजमानः योऽसौ तपन्नुदेत्यनुवाकेन आदित्यमुपतिष्ठते । योऽसौ तपन्नुदेति । स सर्वेषां भूतानां प्राणानादायोदेति । मा मे प्रजाया मा पशूनाम् । मा मम प्राणानादायोदगाः । असौ योऽस्तमेति । स सर्वेषां भूतानां प्राणानादायोदेति । मा मे प्रजाया मा पशूनाम् । मा मम प्राणानादायास्तंगाः । असौ य आपूर्यति । स सर्वेषां भूतानां प्राणैरापूर्यति । मा मे प्रजाया मा पशूनाम् । मा मम प्राणैरापूरिष्ठाः । असौ योऽपक्षीयति । स सर्वेषां भूतानां प्राणैरपक्षीयति । मा मे प्रजाया मा पशूनाम् । मा मम प्राणैरपक्षेष्ठाः । अमूनि नक्षत्राणि । सर्वेषां भूतानां प्राणैरप प्रसर्पंति चोत्सर्पंति च । मा मे प्रजाया मा पशूनाम् । मा मम प्राणैरप प्रसृपत मोत्सृपत । इमे मासाश्चार्धमासाश्च । सर्वेषां भूतानां प्राणैरप प्रासर्पंति चोत्सर्पंति च । मा मे प्रजाया मा पशूनाम् । मा मम प्राणैरपप्रसृपत मोत्सृपत । इम ऋतवः सर्वेषां भूतानां प्राणैरप प्रसर्पन्ति चोत्सर्पंति च । मा मे प्रजाया मा पशूनाम् । मा मम प्राणैरप प्रसृपत मोत्सृपत । अयꣳ् संवत्सरः । सर्वेषां भूतानां प्राणैरप प्रसर्पति चोत्सर्पति च । मा मे प्रजाया मा पशूनाम् । मा मम प्राणैरप प्रसृप चोत्सृप । इदमहः । सर्वेषां भूतानां प्राणैरप प्रसर्पति चोस्तर्पति च । मा मे प्रजाया मा पशूनाम् । मा मम प्राणैरप प्रसृप चोत्सृप । इयꣳ्रात्रिः । सर्वेषां भूतानां प्राणैरप प्रसर्पति चोत्सर्पति च । मा मे प्रजाया मा पशूनाम् । मा मम प्राणैरप प्रसृप मोत्सृप । ओं भूर्भुवः स्वः । एतद्वोमिथुनं मा नो मिथुनꣳ् रीढ्वम् । अध्वर्युः अवरोहणं जपति । वाङ्म आसन्नित्यादि । अग्निप्रणयनात् कृत्वा तिभिः स्थाणुभिः स्थितं मंचं उपरिष्टाच्चित्यस्य प्रतिष्ठाप्य तस्मिन्नग्निप्रणयनं कुर्यात् । अप्सु अग्निप्रणयनस्यात्यन्तासम्भवात् । ततोऽग्निं प्रणीय प्रतिप्रस्थात्रेऽग्निं प्रदाय पौतुद्रवैः परिधिभिः इत्यादि अग्नेर्भस्मासीत्यन्तं कृत्वा । यथा पुरुषं प्रत्याहुतीर्जुहोति । ततो मंचे अग्निं प्रतिष्ठापयति । अग्ने बाधस्वेत्याद्यासमाप्तेः सावत्रवत् अत्र ग्रहो नियतः ।

य एतानग्नीन् समासेन चिन्वानः सौम्येध्वरे चिन्वीत । सावित्रः प्रथमा चितिः । लोकंपृणा द्वितीया । नाचिकेतस्तृतीयः । लोकंपृणा चतुर्थी । चातुर्होत्रः पञ्चमी । वैश्वसृजः षष्ठी । आरुणकेतुकस्सप्तमी इति महाग्निवत् मध्यमोपसदि । अग्नीषोमीयदिने चिनुयात् । सवनीय यूष्णो म्रुत्यवे ग्रहं गृह्णाति । उभयीर्दक्षिणा ददाति । आरुणकेतुकाग्निं चितः प्रकरणात् व्रतनियमः । न सावित्रादौ । नाप्सु मूत्रपुरीषं कुर्यात् इत्यादि ब्राह्मणवचनात् । एवं संवत्सरं व्रतं चरेत् । संवत्सरग्ं हि व्रतं नाति इति श्रुतेः । यावज्जीवं सावशेषात् ।

यस्मिन्नहनि आरुणकेतुकोऽग्निः तस्मिन् यजमानः पशुक्रमान्तैः वैश्रवणयज्ञेन यजेत । सायमग्निहोत्रं वा हुत्वा प्राणानायम्य वैश्रवणेन यक्ष्ये इति सङ्कल्प्य उत्तरमपरमवान्तरदेशं गत्वा सर्वत्रचतुष्पथे गोमयेन स्थण्डिलस्य मध्ये वटपर्णमास्थाय अद्भ्यस्थिरोदाजायतेति चतसृभिः वैश्रवणमावाहयेत् । अद्भ्यस्तिरोधाऽऽजायत । तन वैश्रवणः सदा । तिरोधेहि सपत्नान्नः । ये आपोऽश्नंति केचन । त्वाष्ट्रीं मायां वैश्रवणः । रथꣳ् सहस्र बन्धुरम् । पुरुश्चक्रꣳ् सहस्राश्वम् । आस्थायाऽऽयाहि नो बलिम् । यस्मै भूतानि बलिमावहन्ति । धनं गावो हस्ति हिरण्यमश्वान् । असाम सुमतौ यज्ञियस्य । श्रियं विभ्रतोऽऽन्नमुखीम् विराजम् । सुदर्शने च क्रौंचे च । मैनागे च माहागिरौ । सतद्वाट्टारगमन्ता । सꣳ्हार्यं नगरं नव वैश्रवणमावाहयामि । एतैरेव मन्त्रैः षोडशोपचारपूजां कुर्यात् । यदि बलिं हरेत् पायसं गुडमिश्रितं पिपीलिकामांसमिश्रित ओदनं दधिविकारान् क्षीरपिष्टफल विकारांश्च मिश्रीकृत्य हिरण्यनाभय इति नमोऽन्तेन वटपर्णे पिण्डं दद्यात् । हिरण्यनाभये वितुदये कौवेरायायं बलिः । सर्वभूताधिपतये नमः पिण्डं दत्वोपतिष्ठते । क्षत्रं क्षत्रं वैश्रवणः । ब्राह्मणा वयꣲ्स्मः । नमस्ते अस्तु मा मा हिꣳ्सीः । अस्मात्प्रविश्यान्नमद्धि इत्युपस्थाय प्रतिनिवर्तते । यद्यग्नौ बलिहरणं कुर्वीत पूर्ववत् आवाहनादि पूजान्ते तिरोधा भूरित्याद्यग्निमादधाति । तिरोधा भूः । तिरोधा भुवः । तिरोधा स्वः । तॊरोधा भूर्भुवः स्वः । सर्वेषां लोकानामाधिपत्ये सीद इत्यग्निं प्रतिष्ठाप्य । तमग्निमिन्धीत तिरोधा भूः स्वाहा । तिरोधा भुवः स्वाहाः । तिरोधा स्वः स्वाहा । तिरोधा भूर्भुवः स्वः स्वाहा इति चतस्रः औदुम्बरीस्समिध आधायाथ बलिं जुहोति । ओदनं गृहीत्वा हस्तेन जुहोति यस्ते विघातुक इति । यस्ते विधातुको भ्राता । ममान्तर्हृदये श्रितः । तस्मा इममग्रपिण्डं जुहोमि । स मेऽर्थान्मा विव धीत् । मयि स्वाहा । कुबेरायेदम् । अनन्तरं मिश्रीकृत्य पिण्डं दद्यात् हिरण्यनाभय इति । पिण्डं दत्वोपतिष्ठते क्षत्रं क्षत्रं इति । अथोपतिष्ठते राजाधिराजायेति । राजाधिराजाय प्रसह्यसाहिने । नमो वयं वैश्रवणाय कुर्महे । स मे कामान्माम कामाय मह्यम् । कामेश्वरो वैश्रवणो ददातु । कुबेराय वैश्रवणाय । महाराजाय नमः इति । केतवो अरुणासश्चेत्यनुवाकशेषेण उपस्थाय । केतवो अरुणासश्च । ऋषयो वातरशनाः । प्रतिष्ठाꣳ् शतधा हि । समाहितासो सहस्रधायसम् । शिवा नः शंतमा भवन्तु । दिव्या आप ओषधयः । सुमृडीका सरस्वती । मा ते व्योम संदृशि इत्युपस्थाय प्रतिनिवर्तते । समाप्त आरुणकेतुकोऽग्निः ॥