सर्वतोमुखम्

सनीहारप्रस्थापनान्तं पूर्ववत् ।

अथ काठकाग्नियुक्त सर्वतोमुख प्रयोगः

तस्य कर्म द्वादशाहं दीक्षन्त इत्यादि । एवंभूते काले प्रातरग्निहोत्रं हुत्वा सर्वतोमुखेन साग्निचित्येन द्वादशशतदक्षिणेन यक्ष्ये । अहमेव सर्वेश्वरो भूयासम् । विद्युदसि । ततस्सोमप्रवाकवरणम् । एक एव सोमप्रवाकः । प्रभुत्वात् । यज्ञशर्मणस्सोमो भविष्यति तत्र भवता त्रिवृति आध्वर्यवं कर्तव्यम् । क ऋत्विज इत्यादि । नाहीनस्सर्वतोमुखस्त्रिवृत् । पित्र्युपस्थानान्तम् । एवं ब्रह्माणं त्रिवृति ब्रह्मत्वं कर्तव्यमिति । एवं होतुः हौत्रं कर्तव्यमिति । को यज्ञ इत्युक्ते सर्वतोमुखे त्रिवृत् । क ऋत्विज इत्यादि । एवमुद्गातुस्त्रिवृत्यौद्गात्रं कर्तव्यमित्यादि स्वेन विधिना प्रवृत्तिः । चतुर्णां वरणपक्षमाश्रित्य प्रयोगः । एवं पञ्चदशे । पुनश्च यज्ञशर्मण इत्यादि । त्रिवृत्स्थाने पञ्चदश इति विशेषः । उद्गातृवरणान्तम् । एवं सप्तदशे एकविंशे च यज्ञशर्मण इत्यादि । त्रिवृति ऋत्विजां सोमप्रवाकवरणानन्तरं मन्त्रवरणं च कृत्वा मधुपर्कः । इतरेषामेवमेव । केचित् सर्वेषां मन्त्रवरणं कृत्वा मधुपर्कः । तन्त्रेण देवतोपस्थानम् । तन्त्रेण नान्दीश्राद्धं । नान्दीश्राद्धे कृते अग्निं चेष्ये स्वर्गं लोकमवप्नवानि इति सङ्कल्पः ।

शर्कराणामुपकल्पनं । अथ विहारक्लृप्तिः । शम्यामात्रं गार्हपत्यं परिलिख्य । द्वादशप्रक्रमेषु चतुर्विंशतिप्रक्रमेषु वा आहवनीयः । तस्य पश्चाद्दार्शिकी वेदिः । प्रतिदिशं सौमिका विहाराः । सदक्षिणाग्निशालामुखीयसदोहविर्धानाग्नीध्रसहिताः । सर्वासु दिक्षु पुरुषस्य दक्षिणभागे दक्षिणाग्निर्मार्जालीयश्च । सव्यहस्तभागे प्रवर्ग्यदक्षिणाग्नीध्रशामित्रोत्करचात्वालाः ।

गृहे एव दीक्षणीया । दार्शिकीवेदिचतुष्टयं कृत्वा सम्भारयजुरादि सनीहारप्रस्थापनान्तं । अपवृत्ते दीक्षापरिमाणे पृथक्पृथगरण्योस्समारोप्य य इहाध्यवस्येदिति विधिना गमनं । यदि बहिर्दीक्षणीया तदा शार्कराणामरण्योस्समारोपणम् । देवयजनाध्यवसानं । अग्निं मथित्वोपावरोह्य गार्हपत्यं निदधाति । प्रतिविहारं षोडश ऋत्विजः । प्रतिविहारं पात्र भेदः । ऐष्टिकानां पाशुकानां सौमिकानां च । प्रतिविहरणादि सर्वं सौमिकं क्रियते ओदवसानीयायाः । प्रतिविहारं द्रव्यनिर्देशः । केचित्तन्त्रेण । पूर्वस्मिन्विहारे सप्तहोता । प्रतिविहारं वा । स्वेदक्ष इति सर्वत्र आवर्तते । सर्वविहारेषु संभवतां युगपदनुष्ठानम् । दीक्षणीयायामन्वाधाने यजमानेषु अग्न्यभिधानानाम् । अनूहेत्यापस्तम्बमतिः । केचिदूहं कुर्वन्ति । अग्नीन्गृह्णामि सुरथान् ये मयोभुवो य उद्यन्तमारोहन्ति सूर्यमह्ने । आदित्यं —-अद्य यज्ञेभ्यो रमन्तां देवताभ्यः । वसून् — स्वेष्वायतनेषु मनीषया । इमामूर्जमित्यादि । अग्नयो हव्यवाह इह तानावहन्तु दैक्षणीयं हविरिदमेषां मयि । अन्तराग्नी सर्वविहारेषु भेदेन । इहप्रजाः सकृदेव अनूहेन । इमे पितृणां अग्नयोऽवाक्षुर्हव्या पितृभ्य आ । तान् पूर्वः प्ररिगृह्णामि -?-?-?पितुंकरन् । अनूहो वा । इदमहमग्निः तन्त्रेणानूहेन । पयस्वतीरिति च । अग्ने व्रतपते पूर्वस्मिन् विहारे सर्वानग्नीनभिसंधाय सकृदूहेन ।

उभावग्नी आवृत्तिः । देवा देवेषु अनूहेन । भूश्च कश्च । को वो युनक्तीत्यविकारेण । ओं निवपत । अग्निं होतारमित्यनूहेन । ऊहपक्षे अग्नीन् होतॄनिह तान् हुवे —वियन्तु देवा हविषां म एषाम् ।

चतुश्शिखण्डा युवतयस्सुपेशसो घृतप्रतीका — मह्यं दुग्ध्वं यजमानाय कामान् । यो मा हृदेत्यनूहः । केचित् तस्येन्द्रवज्रैश्शिरश्छिनद्मि । इमानि तस्मै हर्म्याणि करोमि यो वो देवाः इत्यनूहः । यज्ञानां प्रमया । यदुद्घ्नन्त इत्यनूहः । तत्र स्फ्यैरन्तरिक्षमिति वा । वेदीश्चकृमेति वा । भूमयो भूत्वा महिमानं पुपुषुस्ततो देव्यो वर्धयन्ते —। यज्ञिया यज्ञान् —। ईडेन्येत्यनुहः । ऊर्णामृदूनि प्रथमानि स्योनानि देवेभ्यो जुष्टानि सदनेभ्यो बर्हीꣳ्षि । सुवर्गे — धत्त मां नाकस्य —। यज्ञानां प्रमया —। युक्ता मे । आज्यमसीति गत्वा गत्वा तन्त्रेण । अवेक्षणस्याशक्यत्वात् । अद्भिराज्यानि आज्यैरापः — शाक्वरैः इमान् यज्ञान् — ।

शुक्राणि वः शुक्रासो धाम्ने —। ज्योतींषि वो ज्योतिश्षु धाम्ने —। अर्चींषि वोऽर्चिश्षु धाम्ने —। पञ्चानां वो वातानां । उत्तरेष्वपि त्वा शब्दस्य वश्शब्दः । हविश्शब्दस्य अनूहो वा सर्वत्र । देवानां वो देवताभ्य इति केचित् । भूरस्माकं हवींषि देवानामाशिषो — देवानां वो देवताभ्यो गृह्णामि । अशिश्रेम बर्हीꣲ्ष्यन्तः पृथिव्या —- स्फ्यै श्शिवानः स्तास्सुहवाभवन्तु । चतुश्शिखण्डा युवतयस्सुपेशसो घृतप्रतीका वयुनानि वसतः । तास्तीर्यमाणा ___ ता मे धुग्ध्वम् यजमानाय कामान् । शिवाश्च मे श्ग्माश्च स्त स्योनाश्च मे सुषदाश्च स्तोर्जस्वतीश्चमे पयस्वतीश्च स्त । इषमूर्जं मे पिन्वध्वं ब्रह्म तेजो मे पिन्वध्वमित्यादि । ध्रुवा स्थ ध्रुवोऽहम् । उग्रास्थोग्रोऽहम् । अभिभुवस्थाभिभूरहम् । यज्ञशब्दे सर्वत्रानूहः । (एषु यज्ञेषूपभूयेष्विति केचित् । तत्तु भाष्यविरुद्धम्) अविक्षोभाय, तेजिष्ठा ते इत्यनयोरनूहः । (अग्न्यभिधानात् ऊहपक्षे अवभृथवत् । युनज्मि वो ब्रह्मणा — जातवेदसः । इन्धाना वः—वयं वः । यन्मे अग्ने — विष्णवः—।)

विच्छिनद्मि विधृतीभिः सपत्नान् — विशो यन्त्राभिः — देवाः । विशो यन्त्राणि नुदमानान्यरातिं — सीदन्त्यो देव्यः सुकृतस्य लोके धृतयः स्थ विधृतयः स्थ स्वधृतयः स्थ प्राणान्मयि धारयत प्रजां मयि धारयत पशून्मयि धारयत ॥ इमे प्रस्थराः उभयस्य धर्तारो धर्तारः प्रयाजानामुतानूयाजानाम् । ते दध्रुः समिधो विश्वरूपास्तेषु स्रुचो अध्यासादयामि ॥ अरोहत पथो जुह्व—वहास्थ—लोकाः ॥ जुहूस्थ घृताच्यः गायत्र्याम्न्यः— यज्ञमनु यच्छध्वं सुनीत्यो यज्ञन्नयथोप—दैव्येन ॥ अवाहं—उपभृद्भिः सपत्नान्—- दोहै यज्ञान्—-सपत्नाः ॥ सुभृदस्स्थ उपभृतो घृताच्यः—-यज्ञमनु यच्छध्वं सुनीत्यः यज्ञन्नयास्यः — दैव्येन ॥ ये मा वाचा महसा—- इमे —-सपत्नाः ॥ ध्रुवास्स्थ धरण्यः—-यज्ञमनु यच्छध्वं —दैव्येन ॥ स्योनोः मे सीदत सुषदाः पृथिव्यां—- सपत्नाः ॥ इमे स्रुवाः अभिजिहृतो होमान् शतक्षराः— समन्ताः विष्ठाः—दैव्येन ॥ इमाः स्थाल्यः घृतस्य पूर्णा अच्छिन्नपयसः शतधारा उत्साः—दैव्येन ॥

तृप्तयस्थ इति सवनीयवत् । आसन्नाभिमर्षणं क्रमेण । चित्तिस्रुगिति अविकारेण सकृत् । अङ्गिरसो मैषां यज्ञानां— अवन्तु । उच्छुष्म इति अनूहेन । अग्न्यभिधानात् । ऊहपक्षे उच्छुष्मा अग्नयः— दासते । अग्नयो देवेद्धा मन्विद्धा मन्द्रजिह्वा अमर्त्यानां वो होतर्मूर्धन्—सुवीर्याय ॥ समिद्धा अग्नय आहुताः स्वाहाकृताः पिप्रतुर्नः—नमः । मनांसिस्थ प्राजापत्यानि मनोभिर्मा भूतैराविशत । वागैस्यैन्द्री— केचित् मुख्यस्य अन्वारम्भमिच्छन्ति ॥ विप्रतिषेधात् तदा वाचस्थैन्द्रियः सपत्नक्षयण्यो वाग्भिर्मे््न्द्रियैः आविषत । देवाः पितर इति अविकारेण । अग्नय इदं अग्निभ्यः इमानि न मम इति वा ॥ वसन्तान् ऋतूनां—ते मा प्रीताः प्रीणन्तु । ग्रीष्मन्नृतूनां । वर्षा इत्यविकारेण । शरद ऋतूनां हेमन्त शिशिरावृतूनाम् । एको ममेत्यविकारेण । आज्यभागानुमन्त्रणे विशेषः । अग्न्गीषोमयोरहं देवयज्याभिः केचिद्देवयज्यया केचिदग्नीषोमानामहं देवयज्याभिरिति । अग्निभिर्यज्ञा-श्चक्षुष्मन्तोऽग्निनामहं देवयज्याभिः — । सोमैर्यज्ञाश्चक्षुष्मन्तस्सोमानामहं देवयज्याभि-श्चक्षुष्मान्— । तथैव प्रधानामनुमन्त्रणे । अग्नाविष्णुभ्यामिमानि न मम । अग्नाविष्णोरहं देवयज्याभिर्वृत्रहा भूयासम् । दब्धयस्थादब्धो भूयासं— । अग्नेस्विष्टकृतो अहं देवयज्याभिरायुष्मान्— ॥

अग्नयो मा दुरिष्टात्पान्तु सवितारोऽघषꣳ्सात्—तमेतैर्जेषम् । (अग्निषब्देन प्राशित्रमुच्यते ) सुरूपेत्यनूहेन । (अस्मिन् पुरोडाश कक्षे इडादेवताह्वानात् । सुरूपवर्षवर्णेति देवताभिदानम् । भूयसीत्यादि सपत्नान्तमावर्तते । इडानामहं देवयज्याभिः पशुमान् भूयासं । इडा धेनवः — आगुरूर्जं दुहानाः पयसाप्रपीनाः तानो अन्नेन हविषोत गोभिरिडा अभ्यस्मान् आगुः । इडाभागं जुषध्वम् नो जिन्वत गा जिन्वतार्वतः । तासान्नो भक्षिवानास्याम—मार्जनं पूर्वस्मिन् विहेरे एव । चतुर्धाकरणं त्रेधाकरणं वा । तत्राप्यावर्तते आग्नीध्रभागातम् ।

एता वो अग्नयः समिधस्ताभिर्वतध्वम् चाचप्यायध्वं वर्धतां च वो यज्ञपतिराचप्यायतां —यन्ते अग्नेत्यनूहः । अग्न्यभिधानात् । (अथवा यं वो अग्नयः सन्दहत— यागुश्चाह—)सप्तहोता तन्त्रेण । वेदिर्बर्हीत्यनूहः । केचित् (वेदयो बर्हीꣳ्षि श्रितानि हवीꣳ्षीध्माः— । आज्यानि यज्ञाः —यजूꣳ्षि — सन्नहनेषु हुतेषु ।) वाजस्य मा प्रसवैरुद्गाभिर्दग्रभीषुः — निग्राभैरधरां अकः । उद्ग्राभांश्च निग्राभांश्च— । समञ्जतां बर्हीꣳ्षि हविभिर्घृतैः— दीवेभिरञ्जतां दिव्यं— । उज्जितयो अविकारेण । एमा अग्मन्, सा मे सत्याशीरित्यविकारेण । रोहितेन वोऽग्निः— हरिभ्यां व इन्द्रः— एतशेन वः सूर्यः । दिवः खिला अवतताः पृथिव्या अध्युत्थिताः । तैस्सहस्रकाण्डैः द्विषन्तꣳ् — । ओषधयो मो अहम् । वि ते मुञ्चामीत्यविकारेण । (वि वो मुञ्चामि —दत्तास्मासु द्रविणं —ब्रूत भागधाम् । विष्णूनां शंयूनामहं देवयज्याभिः यज्ञैः प्रतिष्ठां गमेयम् । यज्ञ नमो वो यज्ञ नमो नमश्च वो यज्ञ । शिवेन मे सन्तिष्ठध्वं इत्यादि सर्वत्र । उप वो यज्ञ नम उप वो नम उप वो नमः ऊहो वा) इष्टा यज्ञा भृगुभिर्दविणोदसो यतिभिराशीर्दसो वसुभिराशीर्वन्तोऽथर्वभिस्तेषामेष्टानां वीतानां द्रविणेहा गमेः ।

सोमानामहं देवयज्याभिस्सुरेता रेतो धिषीय । त्वष्ट्रूणामहं देवयज्याभिः पशूनां रूपं पुषेयम् । देवानां पत्नीरग्नयओ गृहपतयो यज्ञानां मिथुनं तेषामहं देवयज्याभिर्मिथुनेन प्रभूयासम् । इडास्मानित्यविकारेण । (तेषामुपस्थानपक्षे भेदेनानुमन्त्रणम् । पक्षे यदि तन्त्रेण शक्यते । इडास्माननु वस्तां घृतेन यासां पदे पुनते देवयन्तः । वैश्वानर्यः शक्वर्यो वावृधाना उप यज्ञानस्थित वैश्वदेव्यः ।) एवं याजमान कॢप्तिः एवं दीक्षणीयादि सर्वत्र ।

एवं संस्थितासु ध्रौवाज्यधारणम् । उत्तरेण बहिः पाग्वंशमित्यादि त्वमग्ने अयासीत्येवमन्तं पूर्वस्मिन् विहारे । आ वो देवास ईमहे इत्यादि पूर्णाहुत्यन्तं प्रतिविहारमावर्तते । यज्ञोद्यमनार्थत्वात् । दीक्षाहुतयो यजमनासंस्कारार्थत्वात् । कृष्णाजिनादानादि सनीहारप्रस्थापनान्तं पूर्ववत् । समन्वारम्भहोमः सर्वत्र । अपैतुमृत्युरित्यादि । दादशाहप्रकृतिकत्वात् । व्रतश्रपणमित्यादि पूर्वस्मिन् विहारे ।

श्वोभूते सोमपरिवेषणादि सर्वत्र । प्रायणीया कर्म अहं त्वदस्म्याजुह्वान इत्येतदादि पूर्ववद्याजमानकृप्तिः । स्थाली निधाने कृते सोमक्रयः । श्ण्ठ्या क्रयः । एकमिष इत्यादि सखायः सप्तपदा इत्यान्तं प्रतिविहारमावर्तते । त्वे रायः । त्वो ते रायः । माहं रायस्पोषेण । सन्देवि च आवर्तते । त्वष्टीमती, त्वष्टुमन्तस्त्वेत्यावर्तते । तत्र तत्र सप्तपदाभिधानभेदेन पूर्वयोरुत्तरतः दक्षिणस्य पुरस्तात् । पश्चिमस्य दक्षिणतः । उत्तरस्य पश्चात् । एवं गार्हपत्याहवनीययोः शीते भस्मनि । अपि पन्थेत्यावर्तते । एष ते गायत्र इति च । सर्वत्र दशभिः क्रयः । एकमुष्णीषं विस्रस्य सद्ण्डं त्रिवृति मैत्रवरुणाय प्रयच्छति । इतरेषां न प्रयच्छति । छित्वा वा कुर्युः । मित्रो न एहि, इन्द्रस्योरुं उदायुषा उर्वन्तरिक्षिं इत्येकस्य कृत्वा इतरेषामावर्तते । आतिथ्यायां पूर्ववत् याजमानकॢप्तिः । पत्न्याः प्रतिविहारमन्वारम्भः । आतिथ्यायां संस्थितायां पूर्वस्यां शालायां व्रतप्रदानम् । तानूनप्त्राभिमर्शनावघ्राणानि प्रतिविहारमावर्तते । व्रतेश्वपि अवान्तरदीक्षोपायनं मदन्तीभिर्मार्जनं च पूर्वस्यामेव । प्रवर्ग्यसम्भरणं पूर्वस्योत्तरस्य च ।द्वितीयतृतीययोरुक्थ्यत्वान्न प्रवर्ग्यः । प्रवर्ग्यपात्राणामपि भेदः । नमो वाचे तन्त्रं सम्भवेत्तन्त्रेण इतरथा भेदेन । मेथी निहननकाले पूर्वस्यां न्युप्य उत्तरस्य पश्चान्निवपति । अनाधृष्या पुरस्तादित्यावर्तते । अपश्यं गोपामित्यूहः । तन्त्रेणेति केचित् । अवेक्षणस्य अशक्यत्वात् । अपश्यं गोपावनिपद्यमानावित्यादि । अस्निन् सर्वतोमुखतन्त्रेण भेदेनेति यदुक्तं तद्यजमानस्य घर्मशेषभक्षणकाले संसृज्य पूर्वस्मिन्नेव भक्षणम् । हुतं हविः । हुतानि हवींषि मधूनि हवींषि इन्द्रतमेष्वग्निषु पितरो न स्थ मा मा हिंसिष्टेति केचित् । हुते हविषी मधुनी हविषी इन्द्रतमयोरग्न्योः । पितरौ नस्थो मा मा हिंसिष्टम् । अपो हि ष्ठीयाभिर्मार्जनं पूर्वस्मिन् विहारे । मदन्तीभिर्मार्जनं च । उत्तम शान्तिस्तन्त्रेण तन्त्रं सम्भवे इतरथा भेदेन । उपसदि याजमानकॢप्तिः पूर्ववत् । पौर्वाह्णिकीभ्यां प्रचर्य वेदिकरणम् । सर्वत्र वेद्यभिमन्तणम् । चतुश्शिखन्डेतिच । उत्तरवेदि देशस्य मद्येश्शङ्कुमित्यादि । शर्कराभिरित्यादिबाह्यरेकापुर्णातम् । अपराह्णिक्यौ प्रवर्ग्योपसदौ । उपसदि सर्वत्र द्वादशाहवत् सम्भारयजूंशि व्याचष्ठे । यूपछेदन काले । अग्निष्ठ प्रथमांश्चतुरो यूपान्मत्रेणाछिनत्ति । तदा चतूरात्रवत् विभागो यूपानाम् । प्रतिविहारं त्रयस्त्रयः प्रथमस्य वा । तत्रापि प्रतिविहारमुपशयपात्नीवतयोर्भेदः । ततो द्वादशाहवत् औपवसथ्येऽहनि पौर्वाह्णिकीभ्यां प्रचर्य तदानिमेव अपराह्णिकीभ्यां इत्यादि । प्रवर्ग्योद्वासनकाले उच्छिष्टखरं संकृष्येत्यादि उभयत्र अजामग्नीध इत्यादि रायस्पोषेणेत्यन्तं पूर्वस्य कृत्वोत्तरस्य करोति । नात्रोछिष्टखरे मार्जनं पत्नीयजमान्योः । उदु त्यं चित्रं इममू षु त्यं इत्यन्तं प्रतिविहारं प्रतिविहारं प्रवर्ग्योद्वासनम् । अग्निप्रणयनाद्यतिमुक्तिहोमान्तं कृत्वा काठकाहुतयः सर्वत्र । केचिदुत्तरस्य षोडशिपक्षे काठको नेष्यते । षोडशिनि प्रतिषेधादिति । अथैकविंशतिमाहुतीर्जुहीर्जुहोतीत्येवमन्तम् । तत आग्निष्टोमिकं अग्निवत्युत्तरं परिग्राहमित्यादि । पत्न्या अवेक्षणान्तमावर्तते । प्र तद्विष्णुस्तवते, यस्योरुष्विति च याजमानं केचित् पूर्वस्मिन्नेव । अवेदिसंस्कारत्वात् । उपरवयाजमानान्यावर्तन्ते । अग्नीषोमीयपशौ त्रिवृत्पलाशे दर्भाः इयान्प्रादेशसम्मिताः । —पशून् हव्यं करोतु मे ऊहेन । इतरानैष्टिकानि पूर्ववत् । अवान्तरदीक्षाविसर्गः मुष्टिविसर्गश्च उत्तरे विहारे । आपो देवीरित्यादैष्टिकम् । यूपसम्मानकाले अग्निष्ठं पूर्वस्य । तस्योत्तरं दक्षिणस्य । तस्योत्तरं पश्चिमस्य । तस्योत्तरमुत्तरस्येति प्राप्त्यनुवादः । व्यत्यासेन सर्वत्रोपशयविधानात् । द्वैरशन्यं च । यजमानोऽग्रतश्शकलेनानक्तीत्यादि । परिव्ययणान्तं पूर्वस्य कृत्वा क्रमेणेतरेषां । केचित् यूपसम्मानकाले एकादशयूपान् विभज्य चतूरात्रचत् प्रतिविहारं मिन्वन्ति । ऋतुयाज्यावरणकाले पूर्वस्मिन्नेव यजमानस्य वरणम् । जुष्टो वाचो भूयासं, ऋचा स्तोमं प्रतिविहारमावर्तते । यजमानः रेवतीर्यज्ञपतिमित्यादि । पराङावर्तते यजमान इत्येकस्य कृत्वा क्रमेणेतरेषां । यासामूध इत्यावर्तते । शमितार उपेतनेति भेदेन यजमानः । नमस्त आतानेति सकृत् । अनर्वा प्रेहीति पत्नी कार्यमेकस्य कृत्वा इतरेषां । यजमानस्य वपाश्रपण्यन्वारम्भः आवर्तते । आपो देवीः शुद्धायुवः, आपो हि ष्टीयाभिर्मार्जनं च पत्नीयजमानयोः पूर्वस्मिन्नेव । सुरह्मण्यपितापुत्रीयं क्रमेण । सुब्रह्मण्याह्वानं । यजमानपत्न्योः अन्वारम्भस्य विद्यमानत्वात् । पूर्ववत् सुब्रह्मण्यान्वारम्भादि पशुपुरोडाशकाले ऐष्टिकमेव याजमानम् ।वसतीवरी परिहरणकाले क्रमेण वेद्यासनं यजमानपत्न्योः । सत्रौ दोहे विशेषः । त्रयस्त्रिंशास्स्थ तन्तूनां पवित्रैः सहागत । शिवा इमा रज्जवोऽभिधान्योऽघ्नियामुपसेवन्ताम् । अयक्ष्मावः प्रजया संसृजामि, द्यौश्चेनान् यज्ञान्पृथिवी च । उत्सं दुहन्ति कलशांश्चतुर्बिलान् । दोहे याजमनानि तन्त्रसम्भवे । इतरस्था भेदेन । सर्वत्र परिस्तरणान्तम् । महारात्रे बुध्वेत्यादि त्रिवृदग्निष्टोमे आग्नेयमेकमेवातिग्राह्यपात्रं प्रयुनक्ति । पञ्चदश ऐन्दमेकं, सप्तदशसौर्यमेकं । एकविंशे त्रीणि षोडशिपात्रं च । उक्थ्यपक्षे न त्वतिग्राह्याः । सवनीयपशूनां पात्रसंसादनकाले त्रिवृदादिषु पञ्चदशादिषु मैत्रावरुणदण्डानां भेदः । अग्नीषोमीये च अग्नीषोमीयकाले अन्यतः स्थित्वा प्रयोगः । अन्यत्रापि तेषामेव प्रयोगः । पन्नेजनीर्ग्रहणं पूर्वस्मिन्नेव विहारे । वसतीवरीणामनुप्रवेशनं क्रमेणैव । निग्राभ्यवाचनं क्रमेणैव । पवित्रस्य यजमान इत्यादि विरमति धारा इत्यन्तं क्रमेण । त्रिवृति ऐन्द्रवायवाग्राः । पञ्चदश् शुक्राग्राः । सप्तदशे आग्र्बयणाग्राः । एकविंशे ऐन्द्रवायवाग्राः । पृष्ठवशेन वा ग्रहाग्रता । पञ्चहोत्राभिमर्शनं आवर्तते । विप्रुढ्ढोमादि बहिष्पवमानस्य स्तुतस्येत्येवमन्तं एकस्य कृत्वा इतरेषां क्रमेण । विष्णो त्वन्न इत्यावर्तते । तृप्तयस्स्थेति पूर्ववत् । पशुकाले त्रिवृति सारस्वतीं मेषीम् तस्या अतिरात्रवत् कल्पः । अपशयनिर्देशः । पञ्चदशे बभ्रुः सौम्यः । सोमाय त्वा जुष्टं । उपशयनिर्देशः । सप्तदशे पौष्णः श्यामः । पूष्णे त्वा जुष्टम् । अपशयनिर्देशः । एकविंशे शितिपृष्ठोबार्हस्पत्यः । बृहस्पतये त्वा जुष्टमुपाकरोमि । उपशय निर्देशः । एवं पशोवपामार्जनान्तम् । केचित् ऐकादशिनां वारुणपर्यन्तान् चतूवत् विभज्य उपाकुर्वन्ति । पूर्वस्य अष्टौ द्वौ इतरेषां त्रयस्त्रयः केचित् कापेयानेवोपाकुर्वन्ति । अहीन धर्माश्च क्रियन्त इति भाष्यकारवचनात् । आद्याश्चतुरः आग्नेः पूर्वस्मिन् ऐन्द्रो दक्षिणस्य पश्चमस्योत्तरस्य सारस्वतम् । केचित् कापेयानां नखण्डता चतूरात्रवत् विभज्य कृत्सानुपाकुर्वन्ति । क्रतुपशून् वा यथा संस्थं आश्वलायनमतात् । आग्नेयं वा सर्वप्रति विहारं द्वादशाहे तथोक्तत्वात् । बौधायनेन मार्जनान्ते प्रातस्सव्णआ शाम्प्रसर्पन्तीत्यादि आगन्तपितर इत्येवमन्तं एतस्य कृत्वा इतरेषाम् । उपमा द्यावा पृथिवी धृडे स्थः शिथिरेत्यादि सूर्यं वायुं अग्निं यमं सरस्वतीं सकृत् । इतरत् सर्वेषु कुर्वन्ति । आसन्नाभिमर्षनं क्रमेण । द्विदेवत्यकाले सकृदेव आदित्य उपस्थानम् । केचित् सर्वत्र शुक्लान्वारंभ आवर्तते । इन्द्रेण मन्युनेत्यादि । इडान्वारंभ आवर्तते । इडाभक्षणं पूर्ववत् । तत्र गच्छति । हुतभक्षित शिष्टन्तु चमसे वाग्विहारके । आसेचयतु सम्पातं असर्वं सर्वमेव वा । यष्टा च प्राग्विहारस्थे । मन्त्रानूद्यैव भक्षयेत् । आप्याययनं चमसं यष्ट भक्षयेदिह इति श्रीनिवासकारिकायाम् । मध्यआसीनाय भक्षानाहरन्ति । सहशालायामेव बोधायनीय वचनात् । एवं भक्षणं सर्वत्र चमसाध्वर्यवः सर्वत्रस्मिन् विहारेसंस्थिता यजमानाय भक्षानाहरन्ति । सर्वान् एकस्मिन् पात्रे आनीय तन्त्रेण भक्षयन्ति । भक्षा एतमाविशत इत्यादि ऊहेन नतु सम्भवे । इतरथ भेदेन तन्त्रेणाप्यत्रस्थ एवं भक्षयति । यजमानः तन्त्रेणैव यजमान चमसानाप्याययति । पन्नेजनीस्सादयति पूर्वस्मिन्नेव तोत्रोपाकरण प्रभृतिस्तु तस्येत्यन्तं प्रतिविहारमावर्तते । उपगानार्थमिति तत्र तत्र आसीनस्य विहितत्वात् इडायै हिंकुरित्यादीनां आवर्तिः । स्तुतस्य स्तुतमसि इत्यावर्तिः । शस्त्रस्य शस्त्रमसीति च । आज्यमरुत्वतीय वैश्वदेवन् तन्त्रेण ऊहेन । शस्त्राणां शस्त्राणि स्थोर्जं मह्यं शस्त्राणि दुहामाशस्त्राणां शस्त्राणि गम्यासुः । इन्द्रियावन्तं इत्यविकारेण । ता मे सत्या आशिषो देवेषु भूयासु ब्रह्मवर्चसानिम आगम्यासुः यज्ञोबभूवुः एत्र जज्ञिरे तेववृधिरे । ते देवानां अधिपतयो बभूवुः ते अस्मान् अधिपतीं कुर्वन्तु वयमित्यादि केचित् आकारेण । एवं इतरेषु शस्त्रेषु एकवचनेन वा बहुवचनेन वा । तन्त्र संभवै इतरथां मदेनस्तुतस्य स्तुतमसि । ऊहपक्षे पूर्ववदूहः । स्तुतां स्तुतानि स्थोर्जं मखं स्थितानि—स्तुनां स्तुतानि गम्यासुः । एवं सर्वस्त्रोत्रेषु शस्त्रेषु च । माध्यन्दिनस्य अभिषवादि विष्णो त्वं नो अन्तम इति इत्येवनन्तं पूर्ववत् । दधिघर्म भक्षणं तन्त्रेण । तन्त्र सम्भवे इतरथ भेदेन तन्त्रपक्षेप्यनूहः । भक्षाभिधायित्वात् मन्त्रस्य । समनीयसाधनादि पूर्ववत् । प्रचरण्यां त्रिः गृहीत्वा इत्यादि यजमानस्य नीतानुमन्त्रणम् । विसुव इति अनुमन्त्रणान्तं पूर्वस्य कृत्वा पश्चात् इतरेषां सर्वत्र द्वादशशतं ऋत्विक् नमस्कार तन्त्रेण । विषाणाप्रासनमुत्तर विहारे चात्वाले । मरुत्वतीयाभ्यां इत्यादि अतिग्राह्यकाले गृहीनामेव होमः । शेषं पूर्ववत् । समनाहुत्यन्तम् । अथ तृतीयसवनं याजमानानि । आदित्यारम्भणं लोकद्वारं इत्यावर्तते । सर्वत्र निग्राभ्यास्थ वाचनं क्रमेण । आशिरावनयनं क्रमेण मन्थन प्रभृति होतृचमसान्वारम्भक्रमेण । पञ्चहोतृग्रहावकाशादि शृतस्त्वमित्यन्तं प्रतिविहारम् । सप्तहोतृहोमादि विष्णो त्वन्नो अन्तमः इत्युपस्थानान्तम् प्रातस्सवनात् । ऋतं हवी३ः शमितरित्याद्यानाराशंस सादनान्तम् पूर्ववत् । नात्र शुक्रान्वारम्भः । पिण्डदानं प्रतिविहारमावर्तते । षड्डोता प्रजापते नत्वदेतानीति तन्त्रेण मदेनैव वा । वाममद्येत्यादि पन्नेजनीनिनयनं पूर्वस्मिन् विहारे । त्रिवृदग्निष्ठॊमसंस्थः । पञ्चदश उक्थ्यसंस्थः । सप्तदश उक्थ्यसंस्थः । एकविंशः षोडशी उक्थ्यो वा । द्वादशहे एन्तरेष्टा उक्थ्याः इति शृतेः । यथात्वं सूर्यासीति तन्त्रेण । आयुर्म इन्द्रियमावर्तते इति केचिद्यज्ञान् न आगच्छन्तिति । षोडशिहोमान्ते अग्नीदौपयजानीति यज्ञपुच्छः सर्वत्र । तत्र याजमानानि बर्हिषा महं देव यज्याभिरित्यादि हारियोजन भक्षण मावर्तते । पुर्ववत् तन्त्रेण वा । अप्सु धौतस्य इति पूर्वस्मिन् विहारे । केचिदावर्तते इति । दधिद्रप्स भक्षणं तथैव सर्गभेदेन शूलोद्वासनादि समिदाधानान्त मावर्तते उत्कर्षपक्षे । अनुत्कर्षपक्षे तु विण्वतिक्रमादि सहरय्येत्यन्तं पूर्वस्मिन्नेव । समिद्धो अग्ने वसुमान् योनः सपत्न इत्यावर्तते । अग्ने गृहपते इति सकृत् । अग्ने वह्ने इत्यावर्तते । ज्योतिषे तन्तवे इत्यादि गोमज्जापान्तं पूर्वस्मिन्नेव । यूपोपस्थानं भेदेन वा । अग्निना देवेनेत्यादि जागतान् विष्णुक्रमान् पूर्वस्मिन्नेव केचित्प्रतिविहारं इच्छन्ति । इन्द्रेण सयुजेत्यावर्तते । अवभृतादि सर्वत्र अप्सु प्रचारः । तन्त्रेण स्नानं एकस्मिन् सोमोपनहनादि सोमोष्णीषपरिधानान्तम् । अपामसोममित्यादि तन्त्रेण समिदाधानमुपस्थानं च भेदेन । उदयनीयादि तन्त्रेण । अनूबन्ध्यावपाहोमेकृते पयस्या होमः । प्रकृते प्रतिविहारं पात्नीतःकर्म । अनूबन्ध्यां समाप्य पयस्या वा । सदसोहविर्धानस्येत्यादि । यत्कुसीदमित्यादि वेद्युपोषणान्तमावर्तते । अयं नो नभसा पुरः, सत्वन्नो नभसः पते, देव संस्फानेत्युत्तरविहारस्यैव । केचिदयन्न इति एकं प्रतिविहारम् । केचिदुपस्थान ब्राह्मणतर्पणान्तमुत्तरस्मिन्विहारे केचित्पूर्वस्मिन् इति । उपोषणादि सर्वर्वत्रेति स्वसिद्धान्तः । अथ प्राजहितं समारोप्येत्यादि । इदमून्विति अध्यवसाय मध्ये गार्हपत्ये इति विधिना दार्शिकवेदिचतुष्टयम् । अग्न्यन्वाधानादि उदवसानीयान्तं प्रतिविहारम् । पूर्णाहुतिर्वा प्रतिविहारम् । केचित् एकमेव विहारं कुर्वन्ति । तस्मिन्नुदवसानीया पूर्णाहुतिर्वा, प्रतिदिशं सौमिकविहारा इति वचनात् । अनन्तरे पर्वणि सौत्रामणी मैत्रावरुणी वा । वैकृतेषु कर्मसु यात्वत्सम्भवेत्ता वद्याजमानम् । तथान्यानि कर्माणि भरद्वाजवचनादेवमादिषुकर्मसु निवेशः ॥ २ ॥॥ इति काठकाग्नियुक्त सर्वतोमुख प्रयोगः ॥

अथ साग्निचित्सर्वतोमुख प्रयोगः

तस्य कर्म द्वादशाहं दीक्षन्त इत्यादि । एवं भूते काले प्रातरग्निहोत्रं हुत्वा साग्निचित्येन सर्वतोमुखेन द्वादशशतदक्षिणेन यक्ष्ये । अहमेव सर्वेश्वरो भूयासम् । विद्युदसि । ततस्सोप्रवाकवरणम् । एक एव सोमप्रवाकः । प्रभुत्वात् । यज्ञशर्मणस्सोमो भविष्यति तत्र भवता त्रिवृति आध्वरं कर्तव्यम् । क ऋत्विज इत्यादि । नाहीनस्सर्वतोमुखस्त्रिवृत् । पित्र्युपस्थानान्तं । एवं ब्रह्माणं त्रिवृति ब्रह्मत्वं कर्तव्यमिति । एवं होतुः हौत्रं कर्तव्यमिति । को यज्ञ इत्युक्ते सर्वतोमुखे त्रिवृत् । क ऋत्विज इत्यादि । एवमुद्गातुस्त्रिवृत्यौद्गात्रं कर्तव्यमित्यादि स्वेन विधिना प्रवृत्तिः । चतुर्णां वरणमाश्रित्य प्रयोगः ।

एवं पञ्चदशे । पुनश्च यज्ञशर्मण इत्यादि । त्रिवृत्स्थाने पञ्चदश इति विशेषः । उद्गातृवरणान्तम् । एवं सप्तदशे एकविंशे च यज्ञशर्मण इत्यादि । त्रिवृति ऋत्विजां सोमप्रवाकवरणानन्तरं मन्त्रवरणं च कृत्वा मधुपर्कः । इतरेषामेवमेव । केचित् सर्वेषां मन्त्रवरणं कृत्वा मधुपर्कः । तन्त्रेण सक्षेदमिति देवतोपस्थानं । तन्त्रेण नान्दीश्राद्धम् । नान्दीश्राद्धे कृते अग्निं चेष्ये स्वर्गं लोकमवाप्नवानि इति सङ्कल्पः । अथ विहारक्लृप्तिः । शम्यामात्रं गार्हपत्यं परिलिख्य । द्वादशप्रक्रमेषु चतुर्विंशतिप्रक्रमेषु वा आहवनीयः । तस्य पश्चाद्दार्शिकी वेदिः । प्रतिदिशं सौमिका विहाराः । सदक्षिणाग्निशालामुखीय सदोहविर्धानाग्नीध्रसहिताः । सर्वासु दिक्षु पुरुषस्य दक्षिणभागे दक्षिणाग्निर्मार्जालीयश्च । सव्यहस्तभागे प्रवर्ग्यदक्षिणाग्नीध्रशामित्रोत्करचात्वालाः । गृहे एव दीक्षणीया । दार्शिकीवेदिचतुष्टयं कृत्वा बृहस्पत्यादिनाहुतीः । सर्वे संभूय मृत्खनं प्रति गच्छन्ति । सर्वेषामेक एवाश्वः विभुत्वात् गर्दभस्तु पृथक् पृथक् । प्राग्विहारस्याध्वर्युरेव आगत्य मन्त्रादि परिलिखत्यन्तं कुर्यात् । देवस्यत्वेत्यारभ्य सर्वेध्वर्यवो खननादि कुर्वन्ति । यजमानः रुद्रा सम्भृत्येति मृत्सक्षेपं प्रदानं च क्रमेण सर्वेषां कुरुते । वसवो वो कृण्वन्तु गयत्रेण छन्दसाङ्गिरस्वत् पृथिवी स्थ ध्रुवा स्थ धारयत मयि प्रजां रायस्पोषं— यजमानाय । रुद्रा वो कृण्वन्तु त्रैष्टुभेन छन्दसाङ्गिरस्वत् अन्तरिक्ष स्थ ध्रुवा स्थ धारयत मयि प्रजां— यजमानाय । आदित्या वो कृण्वन्तु जागतेन छन्दसाङ्गिरस्वत् पृथिवी स्थ ध्रुवा स्थ धारयत मयि प्रजां रायस्पोषं— यजमानाय । विश्वे वो देवा वैश्वानराः कृण्वन्त्वानुष्टुभेन छन्दसाङ्गिरस्वत् पृथिवी स्थ ध्रुवा स्थ धारयत मयि प्रजां रायस्पोषं— यजमानाय । इति क्रियमाणा उखाः यजमानोऽनु मन्त्रयते । आछृन्दनान्तं सर्वत्र अषाडान्तं सर्वे कुर्वन्ति ।

ततो वायव्य पशोः कर्म सर्वे कुर्वन्ति । अग्निं चेष्यमाणो वायव्यै पशुभिर्यक्ष्ये । न विद्युत् । षड्डोत्राद्याः क्रियाः सर्वाः तत्र तत्र प्रकुर्वते । पश्विष्टिषु समाप्तासु शाखाहरणादि कुर्वते । व्रतं पूर्वविहारे स्यात् । पूर्वविहारस्थः आग्नीध्रः पत्नी सन्नहनं कुर्यात् । सर्व आग्नीध्राः स्वे स्वेऽग्नौ आज्यं निरुप्य क्रमेण पत्नी दद्युः । पत्नी क्रमेण महीनां इति आवृत्या आज्यं अवेक्षते । वायोर्नियुत्वान् सर्वत्र पशूनां देवता । प्राजापत्याघारे पूर्वस्मिन् विहारे यजमानोऽन्वारभते ( केचित् क्रमेण प्रतिविहारं अन्वारम्भं इच्छन्ति तदा अनूहः याजमानानुमन्त्रणस्य ।) वाचः स्थ प्राजापत्या सपत्नक्षयण्यो वाचा मेन्द्रियेणाविशत । रेवतीर्यज्ञमित्यादि प्राङावर्ततेऽवधि क्रमेण सर्वत्र । यासामूधश्च प्रतिविहारम् । शमितार उपेतनेति भेदेन । प्रतिप्रस्थातृणां पत्न्युदानयनं भेदेन । नमस्त आतानेति आदित्योपस्थानं अपो देवीरिति अपोवमर्शनं सकृदेव । पश्वङ्गाप्यायनं भेदात् वपान्वारंभणं भिदा । अनड्वान् दक्षिणा तत्र तन्त्र भेदान् मखे मुखे । यष्टुः पत्न्याश्च पूर्वस्मिन् विहारे मार्जनं सकृत् । ऐन्द्रः प्राणेकृते सर्वपशूनां शिरसां छिदिः । तेषां सुरक्षणं कृत्वा पशुतन्त्रं समाप्यते । तन्त्रेण यष्टा सर्व वेदाभिमर्शनं करोति । (केचित् भेदेन कुर्वन्ति ) वेदास्थ वित्तयस्थ पाप्मनो व्यावर्तिं विदेय कर्मास्थ करणं स्थ क्रियासं सनिस्थ सानितास्थ सनेयं घृतवन्तं कुलायिनं रायस्पोषं सहस्रिणं वेदा ददतु वाजिनम् । पत्नी वेदप्रदानादि होताकुर्यात् पुरतस्स्थितः । ( केचित् प्रतिविहारं इच्छन्ति ) शूलोद्वासो मार्जनं च सूर्यस्योपस्थितिः सकृत् । तन्त्रेण समिदाधानं भेदेनैवेति केचन । यजमानः प्राग्विहारे एव अग्निना देवेन इत्यादि पुण्या भवन्त्वित्यन्तम् । अग्नेरुपस्तितिर्भेदेन । कस्त्वा युनक्त्विति यज्ञविमोकः अग्ने व्रतपते व्रतमचारिषमिति व्रतविमोकः पुर्वस्मिन्विहारे । न यज्ञो बभूव । गोमज्जपान्तं करोति । यज्ञ शं च म वृष्टि वर्जम् । पश्वन्ते समाप्तेऽस्मिन्नथाप्यवसरोऽस्ति चेत् । घर्म सम्भरणं कुर्यादन्यथानुगुणे दिने । नोक्थ्ये प्रवृञ्ज्यादित्येषः प्रतिषेधो न युज्यते । पौर्वाह्णिकीभ्यां श्वो भूते प्रचर्येति विधानतः । आदीक्षायाः प्राग्विहारे जुहुयादग्निहोत्रकम् ।

दीक्षादिने प्रातरग्निहोत्रं हुत्वा नान्दीश्राद्धम् । सकृदेव द्रव्यपृथक्क्रिया । गृहे एव दीक्षणीया । सर्वत्र सम्भार यजुः सोमावेषश्च भेदतः । सप्तहोता सकृत् स्यात्तु स्वे दक्षे सर्वतः क्रमात् । सर्वत्र दीक्षणीयाद्याः साग्निकाश्च प्रकुर्वते ।

प्रतिविहारं षोडश ऋत्विजः । प्रतिविहारं पात्र भेदः । ऐष्टिकानां पाशुकानां सौमिकानं च । प्रतिविहरणादि सर्वं सौमिकं क्रियते ओदवसानीयायाः । सर्वविहारेषु संभवतां युगपदनुष्ठानम् । दीक्षणीयायामन्वाधाने याजमानेषु अग्न्यभिधानानामनूह इत्यापस्तम्बमतिः । यज्ञशब्दे सर्वत्रानूहः । केचिदूहं कुर्वन्ति ।

अग्निं गृह्णामीत्याद्यनूहेन अन्वाधानजपः (अग्नीन्गृह्णामि सुरथान् ये मयोभुवो य उद्यन्तमरोहन्ति सूर्यमह्ने । आदित्यं —-अद्य यज्ञेभ्यो रमन्तां देवताभ्यः ।) वसून् —- स्वेष्वायतनेषु मनीषया । इमामूर्जमित्यादि । (अग्नयो हव्यवाह इहतानावहन्तु ।) दैक्षणीयं हविरिदमेषां मयि । अन्तराग्नी सर्वविहारेषु भेदेन । इह प्रजाः सकृदेव अनूहेन । (इमे पितृणां अग्नयोऽवाक्षु हव्या पितृभ्य आ । तान् पूर्वः परिगृह्णामि — पितुं करन् ।) अनूहो वा । इदमहमग्निः तन्त्रेणानूहेन । पयस्वतीरिति च । अग्ने व्रतपते पूर्वस्मिन् विहारे सर्वानग्नीनभिसन्धाय सकृदनूहेन । उभावग्नी आवृत्तिः । देवा देवेषु अनूहेन । भूश्च कश्च । को वो युनक्तीत्यविकारेण । ओं निर्वपत । अग्निं होतारमित्यनूहेन । ऊहपक्षे (अग्नीन् होतॄनिह तान् हुवे —वियन्तु देवा हविषां म एषाम्)। चतुश्शिखण्डा युवतयस्सुपेशसो घृतप्रतीका — मह्यं दुग्ध्वं यजमानाय कामान् । यो मा हृदेत्यनूहः । (केचित् तस्येन्द्रवज्रैश्शिरश्छिनद्मि ।) इमानि तस्मै हर्म्याणि करोमि यो वो देवाः — । यज्ञस्य वः प्रमया — (यज्ञानां वः प्रमया)। यदुद्घ्नन्त इत्यनूहः । तत्र स्फ्यैरन्तरिक्षमिति वा । वेदीश्चकृमेति वा । भूमयो भूत्वा महिमानं पुपुषुः ततो देव्यो वर्धयन्ते —। यज्ञिया यज्ञं — (यज्ञिया यज्ञान् —)।

ईडेन्येत्यनूहः । ऊर्णामृदूनि प्रथमानि स्योनानि देवेभ्यो जुष्टानि सदनेभ्यो बर्हींषि । सुवर्गे — धत्त मां नाकस्य —। यज्ञस्य वः प्रमया — (यज्ञानां वः प्रमया)। युक्ता मे । आज्यमसीति भ्देन । गत्वा तन्त्रेणावेक्षस्याशक्यत्वात् । अद्भिराज्यानि आज्यैरपः — शाक्वरैरिमं यज्ञं — । (अद्भिराज्यानि आज्यैरपः — शाक्वरैरिमान् यज्ञान् — ।)

शुक्राणि वः शुक्रासो धाम्ने —। ज्योतीꣳ्षि वो ज्योतिश्षु धाम्ने —। अर्चीꣳ्षि वोऽर्चिष्षु धाम्ने —। पञ्चानां वो वातानां । उत्तरेष्वपि त्वा शब्दस्य वः शब्दः । हविश्शब्दस्य अनूहो वा सर्वत्र । देवानां वो देवताभ्य इति केचित् । भूरस्माकं हविर्देवानामाशिषो — देवानां वो देवताभ्यो गृह्णामि । (भूरस्माकं हवीꣳ्षि देवानामाशिषो — देवानां वो देवताभ्यो गृह्णामि । ) अशिश्रेम बर्हीꣳ्ष्यन्तः पृथिव्या —- स्फ्यैश्शिवानस्तास्सुहवा भवन्तु । चतुश्शिखण्डा युवतयस्सुपेशसो घृतप्रतीका वयुनानि वसतः । तास्तीर्यमाणा ___ ता मे धुग्ध्वम् यजमानाय कामान् । शिवाश्च मे श्ग्माश्च स्त स्योनाश्च मे सुषदाश्च स्तोर्जस्वतीश्चमे पयस्वतीश्च स्त । इषमूर्जं मे पिन्वध्वं ब्रह्म तेजो मे पिन्वध्वमित्यादि । ध्रुवा स्थ ध्रुवोऽहम् । उग्रास्थोग्रोऽहम् । अभिभुवस्थाभिभूरहम् । अस्मिन् यज्ञ इत्यनूहः (एषु यज्ञेषूपभूयेष्विति केचित् । तत्तु भाष्यविरुद्धम्) अविक्षोभाय, । युनज्मि त्वा, तेजिष्ठा ते इत्यनूहः (अग्न्यभिधानात् ऊहपक्षे अवभृथवत् । युनज्मि वो ब्रह्मणा — जातवेदसः । इन्धाना वः—वयं वः । यन्मे अग्नयो एषां यज्ञानां — विष्णवः । तेजिष्ठा वः—या वो अग्नयः । —व्ययध्वं मावो दभन् — ।)

विच्छिनद्मि विधृतीभिः सपत्नान् — विशो यन्त्राभिः — देवाः । विशो यन्त्राणि नुदमानान्यरातिं — सीदन्त्यो देव्यः सुकृतस्य लोके धृतयः स्थ विधृतयः स्थ स्वधृतयः । प्राणान्मयि धारयत प्रजां मयि धारयत पशून्मयि धारयत । इमे प्रस्तराः उभयस्य धर्तारो धर्तारः प्रयाजानामुतानूयाजानाम् । ते दध्रुः समिधो विश्वरूपास्तेषु स्रुचो अध्यासादयामि ॥ अरोहत पथो जुह्वः—वहास्थ—लोकाः ॥ जुहूस्थ घृताच्यः गायत्र्याम्न्यः— यज्ञमनु यच्छध्वं सुनीत्यो यज्ञन्नयथोप(यज्ञाननु यच्छध्वं सुनीत्यो यज्ञान्नयथोप)— दैव्येन ॥ अवाहं—- उपभृद्भिः सपत्नान्—- दोहै यज्ञं(यज्ञान्)—-सपत्नाः ॥ सुकृतस्थ उपभृतो घृताच्यः—-यज्ञमनु यच्छध्वं सुनीत्यो यज्ञन्नयथोप(यज्ञाननु यच्छध्वं सुनीत्यो यज्ञान्नयथोप)— दैव्येन ॥ ये मा वाचा महसा—- इमे —-सपत्नाः ॥ ध्रुवास्थ धरण्यः—-यज्ञमनु यच्छध्वं सुनीत्यो यज्ञन्नयथोप(यज्ञाननु यच्छध्वं सुनीत्यो यज्ञान्नयथोप)—दैव्येन ॥ स्योनोः मे सीदत सुषदाः पृथिव्यां—- सपत्नाः ॥ इमे स्रुवाः अभिजिहृतो होमान् शतक्षराः— समन्ताः विष्ठाः—दैव्येन ॥ इमाः स्थाल्यः घृतस्य पूर्णा अच्छिन्नपयसः शतधारा उत्साः—दैव्येन ॥ तृप्तयस्थ इति सवनीयवत् । आसन्नाभिमर्शनं क्रमेण ।

चित्तिस्रुगिति अविकारेण सकृत् । अङ्गिरसो मास्य — अवन्तु । (अङ्गिरसो मैषां यज्ञानां — अवन्तु )। उच्छुष्म इति अनूहेन । अग्न्यभिधानात् । (उच्छुष्मा अग्नयः— दासते । अग्नयो देवेद्धा मन्विद्धा मन्द्रजिह्वा अमर्त्यानां वो होतर्मूर्धन्—- सुवीर्याय ॥ समिद्धा अग्नय आहुताः स्वाहाकृताः पिप्रतुर्नः—-नमः ।) मनांसि स्थ प्राजापत्यानि मनोभिर्मा भूतैराविशत । वागैस्यैन्द्री भेदेन अन्वारम्भभेदात् । केचित् मुख्यस्य अन्वारम्भमिच्छन्ति । तदा ऊहेन वाचस्थैन्द्रियः सपत्नक्षयण्यो वाचा मेन्द्रियेणाविशत । देवाः पितर इति अविकारेण । प्रयाजादिषु सर्वत्र अग्नय इदं इत्येव । (अग्निभ्यः इमानि न मम इति वा )॥ वसन्तान् ऋतूनां— ते मा प्रीताः प्रीणन्तु । ग्रीष्मान्नृतूनाम् । वर्षा इत्यविकारेण । शरद ऋतूनां । हेमन्तशिशिरावृतूनाम् । एको ममेत्यविकारेण ।

आज्यभागानुमन्त्रणे विशेषः । अग्नीषोमयोरहं देवयज्याभिः — । (केचित् अग्नीषोमयोरहं देवयज्यया—। केचित् अग्नीषोमानामहं देवयज्याभिः—। इति) एवमेव सर्वत्र प्रधानानामनुमत्रणम् । (अग्निभिर्यज्ञाश्चक्षुष्मन्तोऽग्निनामहं देवयज्याभिः । सोमैर्यज्ञाश्चक्षुष्मन्तस्सोमानामहं देवयज्याभिश्चक्षुष्मान्) । अग्नये वैश्वानराय इमानि । अग्नेर्वैश्वनरस्याहं देवयज्याभिः — । अग्नाविष्णुभ्यामिमानि न मम । अग्नाविष्णोरहं देवयज्याभिर्वृत्रहा भूयासम् । अदित्या इमानि । अदित्या अहं देवयज्याभिः — जनिषीय । {यत्र यत्र आज्यहविर्यागानुमन्त्रणं तत्र दब्धयस्थादब्धो भूयासं—} अग्नेस्विष्टकृतो अहं देवयज्याभिरायुष्मान्— ।

अग्निर्मा दुरुष्टादित्यनूहः । (अग्निशब्देन प्राशित्रमुच्यते इति येषां मतं तदा एवमूहः अग्नयो मा दुरिष्टात्पान्तु सवितारोघषंसात्—तमेतैर्जेषम् ।) सुरूपेत्यनूहेन । (अस्मिन् पुरोडाश खण्डे इडादेवताह्वानात् । सुरूपवर्षवर्णेति देवताभिधानम् ।) भूयस्येहीत्यादि सपत्नान् इत्यन्तमावर्तते । इडानामहं देवयज्याभिः पशुमान् भूयासम् । इडा धेनवः—आगुरूर्जं दुहानाः पयसा प्रपीनाः । ता नो अन्नेन हविषोत गोभिरिडा अभ्यस्मान् आगुः । इडा भागं जुषध्वम् नो जिन्वत गा जिन्वतार्वतः । तासान्नो भक्षिवाणः स्याम—। मार्जनं पूर्वस्मिन् विहारे एव । चतुर्धाकरणकाले त्रेधाकरणं वा । तत्राप्यावर्तते आग्नीध्रभागान्तम् । एतास्ते अग्ने समिधस्ताभिर्वर्धस्व — । (एता वो अग्नयः समिधस्ताभिर्वतध्वम् चाचप्यायध्वं वर्धतां च वो यज्ञपतिराचप्यायतां —।) यन्ते अग्नेत्यनूहः । (अथवा यं वो अग्नयः सन्दहत— यागुश्चाह—) सप्तहोता तन्त्रेण । वेदिर्बर्हीत्यनूहः । केचित् (वेदयो बर्हींषि श्रितानि हवींषीध्माः । आज्यानि यज्ञाः यजूंषि सन्नहनेषु हुतेषु ।) वाजस्य मा प्रसवैरुद्गाभैरुदग्रभीषुः । अथा — निग्राभैरधराꣳ् अकः । उद्ग्राभांश्च निग्राभांश्च— । समञ्जतां बर्हींषि हविषा घृतैः— देवेभिरञ्जतां दिव्यं — ।

उज्जितयो अविकारेण । एमा अग्मन् सा मे सत्याशीरित्यविकारेण । रोहितेन वोऽग्निः— हरिभ्यां व इन्द्रः— एतशेन वः सूर्यः । दिवः खिला अवतताः पृथिव्या अध्युत्थिताः । तैस्सहस्रकाण्डैः द्विषन्तꣳ् — । ओषधयो मो अहम् । वि ते मुञ्चामीत्यविकारेण । (वि वो मुञ्चामि —दत्तास्मासु द्रविणं —ब्रूत भागधां — । विष्णोश्शंयोरहं देवयज्याभिः यज्ञेन प्रतिष्ठां गमेयम् । यज्ञ नमस्ते यज्ञ, इष्टो यज्ञ इत्यविकारेण । (यज्ञ नमो वो यज्ञ नमो नमश्च वो यज्ञ । शिवेन मे सन्तिष्ठध्वं इत्यादि सर्वत्र । उप वो यज्ञ नम उप वो नम उप वो नमः । इष्टा यज्ञा भृगुभिर्दविणोदसो यतिभिराशीर्दसो वसुभिराशीर्वन्तोऽथर्वभिस्तेषामेष्टानां वीतानां द्रविणेहा गमेः ।) सोमस्याहं देवयज्याभिस्सुरेता रेतो धिषीय । त्वष्टुरहं देवयज्याभिः पशूनां रूपं पुषेयम् । देवानां पत्नीरग्निर्गृहपतिर्यज्ञस्य मिथुनं तयोरहं देवयज्याभिर्मिथुनेन प्रभूयासम् । इडास्मानित्यविकारेण । (तेषामुपस्थानपक्षे भेदेनानुमन्त्रणम् । पक्षे यदि तन्त्रेण शक्यते । इडास्माननु वस्तां घृतेन यासां पदे पुनते देवयन्तः । वैश्वानर्यः शक्वर्यो वावृधाना उप यज्ञानस्थित वैश्वदेव्यः ।) एवं याजमानकॢप्तिः दीक्षणीयादिषु सर्वत्र (वायव्यपशोरपि इत एव गृह्णीयात्) । एवं संस्थितासु ध्रौवाज्यधारणम् ।

ततः प्राचीनवंशं करोति । उत्तरेण बहिः प्राग्वंशमित्यादि त्वमग्ने अयासि इत्यच्छिद्रानुवाकं च यजमानः पूतो जपतीत्यन्तं पूर्वस्मिन् विहारे । आ वो देवास ईमहे इत्यादि आध्वरिकीः आग्निकीश्च दीक्षाहुतीर्हुत्वा । पूर्णाहुत्यन्तं प्रतिविहारमावर्तते । यज्ञोद्यमनार्थत्वात् । दीक्षाहुतयो यजमनसंस्कारार्थत्वात् । अन्तर्वेदि कृष्णाजिनमित्यादि सम्भारयजूंशिचयनमध्वर्युर्वाचयतीत्यन्तम् पूर्वस्मिन् विहारे । शणकुलायेन मुञ्जकुलायेन वोखां प्रच्छाद्य इत्यादि षडुद्यामे द्वादशोद्यामे वोखामवदधातीत्यन्तं प्रतिविहारमावर्तते । संशितं म उदेषां बाहू यष्टानि वाचते । एकविंशतिनिर्बाध इत्यादि भेदतः क्रमात् । येन देवा ज्योतिषोर्ध्वा इत्युख्यस्यासमिन्धनात् । तत्कृत्वा मुष्टिकरणप्रभृतीस्समाचरेत् ।

ततः समन्वारम्भहोमः सर्वत्र । अपैतुमृत्युरित्यादि । द्वादशाहप्रकृतिकत्वात् । व्रतश्रपणमित्यादि समिदाधान सहितं आ नाभ्यभिमर्शनात् पूर्वस्मिन् विहारे । ततः सनीहारहर्तृणां संशास्तिस्सद्य एव हि । उपोदये वाग्यमादि उदिते वाग्विसृज्यते । सोमपरिवेषणं वात्सप्रोपस्थानं सर्वतह् क्रमात् । विश्न्ह्णुक्रमादि पूर्वेद्युर्वात्सप्रोपस्थितिः परे । व्रतमुक्तेषु कालेषु वाग्यमादिश्च कालयोः । दीक्षादिनानि नीत्वैवं यदहस्तु प्रयास्यति । आरोपयन्ति शकटेष्वग्नीन् प्रत्येकतोऽखिलान् । प्रयाण विधिनासर्वे यान्ति प्रेदग्न आदिना । स्वां स्वां शालामिते एदमगन्मेति यष्टाध्यवस्यति । मुख्यादिषु यथास्थानं स्थापितेषु यथाक्रमम् । उख्यानामपि सर्वेषां येनेत्य्पसमिन्धनम् । घृतानुषिक्तास्समिधः आदध्युः सर्वतः क्रमात् । ततो मध्यन्दिने पूर्वस्मिन् विहारे व्रतम् । यद्युखामित्यादि बोधवतीभ्यामुपस्थानान्तं नैमित्तिकमधिक भस्मविषयम् । (यस्मिन् विहारे उखायामधिक भस्म भवेत् तत्र कर्तव्यम् ) ततोपरेद्युरुदिते यष्टावाचं विसृज्य च । विष्णुक्रममुपस्थानं सोमावेषश्च भेदतः । अहं त्वदादि सर्वत्र प्रायणीयास्समाप्य च । प्रायणीया कर्म अहं त्वदस्म्याजुह्वान इत्येतदादि पूर्ववद्याजमानकृप्तिः । स्थालीन्निधाय वेदीनां करणं पृथक् पृथक् । द्विपद प्रक्रमेणैव सर्वाश्शालाः पृथक् पृथक् । एवं सप्तविधेऽग्नौ पक्षः, क्षुद्रेण पदेनैकविधादिषु ।सर्वत्र वेद्यभिमन्त्रणम् । चतुश्शिखन्डेति च । ततश्च प्रायणीयायाः ध्रौवादित्यादि कुर्वते । प्रतिविहारं सोमक्रयः । सर्वत्र श्ण्ठ्या क्रयः । एकमिष इत्यादि सखायः सप्तपदा इत्यान्तं प्रतिविहारमावर्तते । त्वे रायः, त्वो ते रायः, माहं रायस्पोषेण, सन्देवि देव्योर्वश्या, त्वष्टीमती, त्वष्टुमन्तस्त्वेति च आवर्तते । तत्र तत्र सप्तपदाभिधानं भेदेन । पूर्वयोरुत्तरतः दक्षिणस्य पुरस्तात् । पश्चिमस्य दक्षिणतः । उत्तरस्य पश्चात् । एवं गार्हपत्याहवनीययोः शीते भस्मनि । अपि पन्था, अꣳ्शुना ते इत्यावर्तते । एष ते गायत्र इति च । सर्वत्र दशभिः क्रयः । गृहीतोर्णुस्तुका प्रज्ञाताश्च निदधाति । पूर्वमुखे उष्णीषं विस्रस्य सदण्डं त्रिवृतो मैत्रावरुणाय प्रयच्छति । इतरेषां न प्रयच्छति । छित्वा वा कुर्युः । मित्रो न एहि, इन्द्रस्योरुं, उदायुषा, उर्वन्तरिक्षिं इत्येकस्य कृत्वा इतरेषामावर्तते । शकटेष्वजिनास्तराद्याः सम्प्रैषाश्च भिदा भवेत् । प्रच्यवस्वाद्यूह्यमानप्रतीक्षान्तं भिदा चरेत् । अवस्थितेषु शकटेष्वातिथ्येष्टीः प्रकुर्वते ।

आतिथ्यायां पूर्ववत् याजमानकॢप्तिः । पत्न्याः प्रतिविहारमन्वारम्भः । हविष्कृदन्ते सर्वत्र सोमानन्तः प्रवेश्य च । ततोऽवहननादिडाभक्षान्ते पुरतो व्रतम् । आतिथ्यायां संस्थितायां पूर्वस्यां शालायां व्रतप्रदानम् । ततस्समूलमित्यादि सिकता व्यूहनान्तम् । मध्ये यष्टा च तैस्सार्धमग्नेराक्रमणं भिदा । स्योनापृथिवि बळित्थापर्वतानां इत्येताभ्याम् विमितस्याग्नेराक्रमणं प्रतिविहारमावर्तते । विमुच्यध्वमिति विमुक्ताननडुहः प्रतिविहारमध्वर्यवे ददाति । तानूनप्त्राभिमर्शनावघ्राणानि प्रतिविहारमावर्तते । आप्यायननिह्नवौ च । अवान्तर दीक्षोपायनं मदन्तीभिर्मार्जनं च पूर्वस्यामेव । प्रवर्ग्यास्सर्वतः कार्या शान्तिस्तन्त्रं भिदाथ वा । प्रवर्ग्यपात्राणामपि भेदः । नमो वाचे सम्भवे तन्त्रेण । इतरथा भेदेन । मेथी निहननकाले पूर्वस्यां न्युप्य क्रमेण इतारासाम् । उत्तरस्य पश्चान्निवपति । अनाधृष्या पुरस्तादित्यावर्तते । अपश्यं गोपामिति च । अस्मिन् सर्वतोमुखे तन्त्रेण भेदेनेति यदुक्तं तद्यजमानस्य । घर्मशेषभक्षणकाले सꣳ्सृज्य पूर्वस्मिन्नेव भक्षणम् । हुतं हविः । हुतानि हवींषि मधूनि हवींषि इन्द्रतमेऽग्नौ पितरो न स्थ मा मा हिंसिष्ट । आपो हि ष्ठीयाभिर्मार्जनं पूर्वस्मिन् विहारे । मदन्तीभिर्मार्जनं च । उत्तमशान्तिस्तन्त्रेण सम्भवे इतरथा भेदेन । उपसदि याजमानकॢप्तिः पूर्ववत् । सुब्रह्मण्यान्ते अहीनपक्षे सम्भारयजुर्व्याख्या मुखे मुखे । सकृद्यष्टुर्वाचनं चेत् पूर्वस्मिन्नेव नान्यतः । सर्वत्र सुब्रह्मण्यायां अन्वार्म्भस्तु भेदतः ।

चित्यग्निभ्यः सञ्चितोक्थ्ये होता यष्टैव नापरः । हिरण्यगर्भ इत्यादिः अभिप्रव्रजनं भिदा । उपधानं स्वयङ्कर्तुं यष्टा विद्वानपि स्वयम् । अशक्ते युगपत्कर्तुं चिन्वन्त्यध्वर्यवोऽखिलाः । प्रस्तोतारोऽपि सर्वत्र यष्टारं तु मुखे मुखे । गाययन्ति च सामानि गातव्यानि पृथक् पृथक् । पुरुषाकृत्युपस्थानं सर्वत्रावर्तते क्रमात् । आग्नेय्या गायत्र्या प्रथमां चितिमभिमृशेदित्यन्तं कृत्वा ।

तत आपराह्णिक्यौ प्रवर्ग्योपसदौ । उपसदि सर्वत्र द्वादशाहवत् सम्भारयजूंशि व्याचष्टे । एकैकस्मिन्नथैकैका चितिस्तु द्व्यहमन्तिमा । तृयाचितिं समाप्य व्रतं प्रदाय यूपछेदनम् । एकाहपक्षे अग्निष्ठ प्रथमांश्चतुरो यूपान्मत्रेण छिनत्ति । प्रतिविहारमेकैकम् । प्रतिविहारमुपशयपात्नीवतयोर्भेदः । अहीनपक्षे अग्निष्ठ प्रथमान्स्त्रयोदशयूपान्मत्रेण छिनत्ति । तदा चतूरात्रवत् विभागो यूपानाम् । प्रतिविहारं त्रयस्त्रयः प्रथमस्य वा । तत्रापि प्रतिविहारमुपशयपात्नीवतयोर्भेदः । ततो द्वादशाहवत् औपवसथ्येऽहनि पौर्वाह्णिकीभ्यां प्रचर्य । पञ्चम्याश्चितेश्शेषं समाप्य आग्नेय्या पङ्क्त्या पञ्चमीं चितिमभिमृशतीत्यन्तं कृत्वा अपराह्णिकीभ्यामित्यादि ।

चित्यन्त आपराह्णिक्यौ अग्नेयुक्ष्वाहि सर्वतः । सर्वत्र धेनूकरणं ततोऽन्वारोहवाचनम् । सर्वत्राध्वर्यवे दद्यात्तस्य धेनूर्मुखे मुखे । यत्ते रुद्रेति सर्वत्र दोहे च स्तुत शस्त्रयोः । अथ प्रवर्ग्योद्वासादि कर्म कुर्वन्ति चर्त्विजः ।

प्रवर्ग्योद्वासनकाले उच्छिष्टखरं संकृष्येत्यादि सर्वत्र । अजामग्नीध इत्यादि रायस्पोषेणेत्यन्तं पूर्वस्य कृत्वा इतरासां करोति । नान्यत्रोछिष्टखरे मार्जनं पत्नीयजमान्योः । उदु त्यं चित्रं, इममू षु त्यं इत्यन्तं प्रतिविहारं प्रवर्ग्योद्वासनम् ।

कार्ष्णी चिते त्वा पृथिवीमिति भेदेन सर्वतः । नानासूक्ताभ्यां द्वे आहुती हुत्वा इत्यन्ते । उदेनमुत्तरां नयेति घृतोषितां समिध आधाय । आहवनीये प्रणयनीयमिध्ममादीत्येत्यादि अग्निप्रणयनाद्यतिमुक्तिहोमान्तं सर्वत्र । अग्निवत्युत्तरपरिग्राहः, प्रतिप्रस्थातुः मैत्रावरुण्यायाः पयस्यायाः वत्सापाकरणं, प्रोक्ष्य बर्हिस्त्रिर्वेदिं प्रोक्षतीति च । वैश्वानरस्य तन्त्रेण याजमानं यथा पुरा । तत्र यष्टैव होता स्यात् आदिमे तु मुखे ध्रुवम् । अन्यत्र तत्तथा नैव कुर्यात् विप्रतिषेधतः । समुद्रादिति भेदेन वसोर्धारानुमन्त्रणम् । चतस्रश्च चतस्रश्च धेनूर्दद्यात् मुखे मुखे ॥ प्राग्विहारगतस्याग्नेर्दक्षिणे त्वपिपक्षके । आसन्दीस्थं च यष्टारमध्वर्युः प्राग्विराहगः । ग्राम्यारण्याहुतोच्छिष्टान् सम्पातानेकपात्रतः । कृत्वा तैरभिषिञ्चेत्तमग्नेस्त्वाद्यादि पूर्ववत् । त्रित्वतस्त्रीनश्वांश्च सरथानध्वर्युभ्यो मुखे मुखे । सर्वत्र समुद्रस्यादौ ऋचां होमतः कृते । वेद्यास्स्तरणयारभ्य सौमिकी सर्वतः क्रिया ।

शकटाञ्जनकं पत्नी कुर्यात्सर्वत्र च क्रमात् । प्राची प्रेतादि भेदेन नभ्यस्थस्थापनावधि । प्रतद्विष्णुश्च यस्योरु आवर्तेत सकृत्तु वा । याजमानन्तु सर्वत्र उपरवार्थं पृथक् भिदा । धिष्ण्योपधानमारभ्य प्रव्रतं यच्छतामिति ।

कृतेऽग्नीषोमीयपशूनां प्रक्रमा भिदा । पशुः प्रयोगस्सर्वत्र वायव्येषु प्रदर्शितः ।

अग्नीषोमीयपशौ त्रिवृत्पलाशे दर्भाः इयान्प्रादेशसम्मिताः । —पशून् हव्यं करोतु मे ऊहेन । इतरानैष्टिकानि पूर्ववत् ।

तत्राज्येषु गृहीतेषु प्रैतुब्रह्मणादिकम् । वैश्वानरं ज्योतिरित्याहवनीय इति क्रमात् । अत्र अवान्तरदीक्षोत्सर्जनं पूर्वविहारके । केचित् अवान्तरदीक्षाविसर्गः मुष्टिविसर्गश्च उत्तरे विहारे । अभिमन्त्रणमादाय प्रोक्षणीनां तु सर्वतः । आपो देवीरित्याद्यैष्टिकम् । यूपसम्मानकाले अग्निष्ठं पूर्वस्य । तस्योत्तरं दक्षिणस्य । तस्योत्तरं पश्चिमस्य । तस्योत्तरमुत्तरस्येति प्राप्त्यनुवादः । व्यत्यासेन सर्वत्रोपशयविधानात् । द्वैरशन्यं च । यजमानोऽग्रतश्शकलेनानक्तीत्यादि । परिव्ययणान्तं पूर्वस्य कृत्वा क्रमेणेतरेषां । केचित् यूपसम्मानकाले एकादशयूपान् विभज्य चतूरात्रचत् प्रतिविहारं मिन्वन्ति ।

ऋतुयाज्यावरणकाले पूर्वस्मिन्नेव यजमानस्य वरणम् । जुष्टो वाचो भूयासं, ऋचा स्तोमं प्रतिविहारमावर्तते । तत्र नान्यद्याजमानमैष्टिकं पाशुकं विना । यजमानः रेवतीर्यज्ञपतिमित्यादि । पराङावर्तते यजमान इत्येकस्य कृत्वा क्रमेणेतरेषां । यासामूध इत्यावर्तते । शमितार उपेतनेति भेदेन यजमानः । नमस्त आतानेति सकृत् । अनर्वा प्रेहीति पत्नी कार्यमेकस्य कृत्वा इतरेषां । यजमानस्य वपाश्रपण्यन्वारम्भः आवर्तते । आपो देवीः शुद्धायुवः, आपो हि ष्टीयाभिर्मार्जनं च पत्नीयजमानयोः पूर्वस्मिन्नेव । सुरह्मण्यपितापुत्रीयं क्रमेण । सुब्रह्मण्याह्वानं । यजमानपत्न्योः अन्वारम्भस्य विद्यमानत्वात् । पूर्ववत् सुब्रह्मण्यान्वारम्भादि पशुपुरोडाशकाले ऐष्टिकमेव याजमानम् ।

प्राक्शालायां यदाऽऽसाते यष्टृपत्न्यौ तदा निशि । कुर्यादध्वर्युर्वसतीवरीणां च परिक्रियाम् । एवं सर्वासु परितो हरन्ति वसतीवरीः । वसतीवरी परिहरणकाले क्रमेण वेद्यासनं यजमानपत्न्योः । सादनेषु याजमानानि तन्त्र वा भेदतोऽपि वा ।

रात्रौ दोहे विशेषः । त्रयस्त्रिंशास्स्थ तन्तूनां पवित्रैः सहागत । शिवा इमा रज्जवोऽभिधान्योऽघ्नियामुपसेवन्ताम् । अयक्ष्मावः प्रजया संसृजामि, द्यौश्चेमं यज्ञं (द्यौश्चैनान् यज्ञान्पृथिवी च — ।) उत्सं दुहन्ति कलशांश्चतुर्बिलान् — । दोहे याजमनानि तन्त्रं सम्भवे । इतरथा भेदेन । सर्वत्र परिस्तरणान्तम् ।

यष्टा सर्वैर्महारात्रे बुध्वाचम्यानुसन्दधत् । लोकद्वारं साम गायेद्यष्टा होमं मुखे मुखे ।

त्रिवृदग्निष्टोमे आग्नेयमेकमेवातिग्राह्यपात्रं प्रयुनक्ति । पञ्चदश ऐन्दमेकं, सप्तदशे सौर्यमेकम् । एकविंशे त्रीणि । षोडशिपात्रं च । (उक्थ्यपक्षे न त्वतिग्राह्याः ।) सवनीयपशूनां पात्रसंसादनकाले त्रिवृदादिषु पञ्चदशादिषु मैत्रावरुणदण्डानां भेदः अग्नीषोमीये च । अग्नीषोमीयकाले यद्यन्यतः स्थित्वा प्रयोगः अन्यत्रापि तेषामेव प्रयोगः ।

पन्नेजनीर्ग्रहणं पूर्वस्मिन्नेव विहारे । वसतीवरीणामनुप्रवेशनं क्रमेणैव । निग्राभ्यवाचनं क्रमेणैव । पवित्रस्य यजमान इत्यादि विरमति धारा इत्यन्तं क्रमेण । त्रिवृति ऐन्द्रवायवाग्राः । पञ्चदश् शुक्राग्राः । सप्तदशे आग्र्बयणाग्राः । एकविंशे ऐन्द्रवायवाग्राः । पृष्ठवशेन वा ग्रहाग्रता । पञ्चहोत्राभिमर्शनं आवर्तते । विप्रुढ्ढोमादि बहिष्पवमानस्य स्तुतस्येत्येवमन्तं एकस्य कृत्वा इतरेषां क्रमेण । विष्णो त्वन्न इत्यावर्तते । तृप्तयस्स्थेति पूर्ववत् ।

पशुकाले त्रिवृति सारस्वतीं मेषीम् तस्या अतिरात्रवत् कल्पः । सरस्वत्यै त्वा जुष्टामुपाकरोमि । उपशयनिर्देशः । पञ्चदशे बभ्रुः सौम्यः । सोमाय त्वा जुष्टमुपाकरोमि । उपशयनिर्देशः । सप्तदशे पौष्णः श्यामः । पूष्णे त्वा जुष्टमुपाकरोमि । उपशयनिर्देशः । एकविंशे शितिपृष्ठो बार्हस्पत्यः । बृहस्पतये त्वा जुष्टमुपाकरोमि । उपशय निर्देशः । एवं पशोर्वपामार्जनान्तम् । केचित् ऐकादशिनान् वारुणपर्यन्तान् चतूरात्रवत् विभज्य उपाकुर्वन्ति ।

पूर्वस्य द्वौ इतरेषां त्रयस्त्रयः । केचित् कापेयानेवोपाकुर्वन्ति । अहीनधर्माश्च क्रियन्त इति भाष्यकारवचनात् । आद्याश्चतुरः । अग्नेः पूर्वस्मिन् विहारे । ऐन्द्रो दक्षिणस्य पश्चिमस्य च । उत्तरस्य सारस्वतम् । केचित् कापेयानां न खण्डता चतूरात्रवत् विभज्य कृत्स्नानुपाकुर्वन्ति । क्रतुपशूनां यथा संस्थं आश्वलायनमतात् । आग्नेयं वा सर्वत्र । द्वादशाहे बौधायनेन तथोक्तत्वात् ।

यष्टृपत्न्योस्तु पूर्वस्मिन् विहारे मार्जनं सकृत्। मार्जनान्ते प्रातस्सवनाय संप्रसर्पन्तीत्यादि । आगन्त पितर इत्येवमन्तं एकस्य कृत्वा इतरेषाम् । उप मा द्यावापृथिवी, दृढे स्थः शिथिरेत्यादि सूर्यं वायुं अग्निं यमं सरस्वतीं सकृत् । इतरत् सर्वेषु कुर्वन्ति । आसन्नाभिमर्शनं क्रमेण । द्विदेवत्यकाले सकृदेव आदित्य उपस्थानम् । इन्द्रेण मन्युनेति शुक्रान्वारम्भ सर्वत्र आवर्तते इडान्वारम्भश्च । तत्र तत्र गच्छति । इडाभक्षणं पूर्ववत् । हुतभक्षित शिष्टन्तु चमसे प्राग्विहारके । आसेचयन्ति सम्पातमसर्वं सर्वमेव वा । यष्टा च प्राग्विहारस्थो मन्त्रानूह्यैव भक्षयेत् । आप्याययते चमसं यष्टा यं भक्षयेदिह ।

इति श्रीनिवासकारिकायाम् । मध्ये आसीनाय भक्षानाहरन्ति । सहशालायामेव बोधायनीय वचनात् । एवं भक्षणं सर्वत्र । यजमानचमसाध्वर्यवः पूर्वस्मिन् विहारे संस्थिताय यजमानाय भक्षानाहरन्ति । सर्वान् एकस्मिन् पात्रे आनीय तन्त्रेण भक्षयति । भक्षा एतमाविशत इत्यादि ऊहेन न तु सम्भवे । इतरथा भेदेन । तन्त्रेणाप्यत्रस्थ एव भक्षयति । यजमानः तन्त्रेणैव चमसानाप्याययति । पन्नेजनीस्सादयति पूर्वस्मिन्नेव । स्तोत्रोपाकरण प्रभृतिस्तु स्तुतस्येत्यन्तं प्रतिविहारमावर्तते । उपगानार्थमिति तत्र तत्र आसीनस्य विहितत्वात् । इडायै हिंकुरु इत्यादीनां आवृत्तिः । स्तुतस्य स्तुतमसि, शस्त्रस्य शस्त्रमसि इति च ।

आज्यमरुत्वतीय वैश्वदेवान् तन्त्रेण ऊहेन शस्त्राणां शस्त्राणि स्थोर्जं मह्यं शस्त्राणि दुहा मा मा शस्त्राणां शस्त्राणि गम्यासुः । इन्द्रियावन्तं इत्यविकारेण । ता मे सत्या आशिषो देवेषु भूयासु ब्रह्मवर्चसानि माऽगम्यासुः । यज्ञो बभूवेत्यनूहः । (यज्ञोबभूवुः एत्र जज्ञिरे तेववृधिरे । ते देवानां अधिपतयो बभूवुः ते अस्मान् अधिपतीं कुर्वन्तु वयमित्यादि केचित्) एवं इतरेषु शस्त्रेषु एकवचनेन बहुवचनेन वा । तन्त्रसंभवे इतरथा भेदेन । स्तुतस्य स्तुतमसि । ऊहपक्षे पूर्ववदूहः । (स्तुतां स्तुतानि स्थोर्जं मखं स्थितानि—स्तुनां स्तुतानि गम्यासुः ।) एवं सर्वत्र स्तोत्रेषु शस्त्रेषु च ।

माध्यन्दिनस्य अभिषवादि विष्णो त्वं नो अन्तम इति इत्येवनन्तं पूर्ववत् । दधिघर्म भक्षणं तन्त्रेण । तन्त्र सम्भवे इतरथा भेदेन तन्त्रपक्षेप्यनूहः । भक्षाभिधायित्वात् मन्त्रस्य । सवनीयासादनादि पूर्ववत् । प्रचरण्यां त्रिर्गृहीत्वा इत्यादि यजमानस्य नीतानुमन्त्रणान्तम् । विसुव इति अनुमन्त्रणान्तं पूर्वस्य कृत्वा पश्चात् इतरेषां । सर्वत्र द्वादशशतं । ऋत्विक् नमस्कार तन्त्रेण । विषाणाप्रासनमुत्तर विहारे चात्वाले । मरुत्वतीयाभ्यां इत्यादि अतिग्राह्यकाले गृहीतानामेव होमः । शेषं पूर्ववत् । सवनाहुत्यन्तम् ।

अथ तृतीयसवनयाजमानानि । आदित्यारम्भणं लोकद्वारं इत्यावर्तते । सर्वत्र निग्राभ्यास्स्थ वाचनं क्रमेण । आशिरावनयनं क्रमेण । मन्थन प्रभृति होतृचमसान्वारम्भश्च । पञ्चहोतृग्रहावकाशादि शृतस्त्वमित्यन्तं प्रतिविहारम् । सप्तहोतृहोमादि विष्णो त्वन्नो अन्तमः इत्युपस्थानान्तम् प्रातस्सवनवत् । ऋतं हवी३ः शमितरित्याद्यानाराशंस सादनात् पूर्ववत् । नात्र शुक्रान्वारम्भः । पिण्डप्रदानं प्रतिविहारमावर्तते । षड्ढोता, प्रजापते न त्वदेतानीति तन्त्रेण भेदेनैव वा । वाममद्येत्यादि पान्नेजनीनिनयनं पूर्वस्मिन् विहारे । त्रिवृदग्निष्ठोमसंस्थः । पञ्चदश उक्थ्यसंस्थः । सप्तदश उक्थ्यसंस्थः । एकविंशः षोडशी उक्थ्यो वा । द्वादशहे येऽन्तरेष्टावुक्थ्याः इति श्रुतेः । यथा त्वं सूर्यासीति तन्त्रेण । आयुर्म इन्द्रियमावर्तते । केचिद्यज्ञाः म आगच्छन्त्विति ।

षोडशिहोमान्ते अग्नीदौपयजानीति यज्ञपुच्छः सर्वत्र । तत्र याजमानानि बर्हिषोऽहं देवयज्याभिरित्यादि । हारियोजनभक्षणमावर्तते । अप्सु धौतस्य इति पूर्वस्मिन् विहारे । केचिदावर्तते इति । दधिद्रप्स भक्षणं तथैव सख्यविसर्गः भेदेन । शूलोद्वासनादि समिदाधानान्तमावर्तते उत्कर्षपक्षे । अनुत्कर्षपक्षे तु विष्ण्वतिक्रमादि समहं प्रजयेत्यन्तं पूर्वस्मिन्नेव । समिद्धो अग्ने, वसुमान्, यो नः सपत्न इत्यावर्तते । अग्ने गृहपते इति सकृत् । अग्ने वह्ने इत्यावर्तते । ज्योतिषे तन्तवे इत्यादि गोमज्जापान्तं पूर्वस्मिन्नेव । यूपोपस्थानं भेदेन । अग्निना देवेनेत्यादि जागतान् विष्णुक्रमान् पूर्वस्मिन्नेव । केचित्प्रतिविहारं इच्छन्ति । इन्द्रेण सयुजेत्यावर्तते ।

सर्वर्विजोऽप्येकमुखाश्चरन्त्यवभृथेष्टिभिः । इष्टकास्वेक यागस्यान्नतृणप्रहृतिर्भवेत् । तन्त्रेण स्नानमेकस्मिन्नुष्णीष परिधापनम् ।

अवभृथादि सर्वत्र इष्टकासु प्रचारः । तन्त्रेण स्नानम् । एकस्य सोमोपनहनसोमोष्णीषपरिधानान्तम् । सकृत् सूर्योपस्थितिः स्यात् तथा प्रतियुतो वरुण । अपाम सोममित्यादि तन्त्रेण । समिदाधानमुपस्थानं च भेदेन । उदयनीयादि सर्वत्र । अनूबन्ध्यावपाहोमे कृते क्षौरस्नाने कृते यजमाने अहीनपक्षे त्वाष्ट्रपशोः क्रिया । एकाहके तु न त्वाष्ट्री तत औदुम्बरीं स्रुचम् । पयस्या होमः कृते प्रतिविहारं पात्नीवतकर्म । अनूबन्ध्यां समाप्य पयस्या वा । सदसो हविर्धानस्येत्यादि । यत्कुसीदमित्यादि वेद्युपोषणान्तमावर्तते । यष्टा तु यत्कुसीदादिरा धूमस्यानुमन्त्रणात् । अध्वर्यवो यदाकूतादिति हुत्वा दशाहुतीः । अवरुह्योपतिष्ठेरन् स्वान् स्वानग्नीन्पुनर्मनः । अयं नो नभसा पुरः, स त्वन्नो नभसस्पते, देव संस्फानेत्युत्तरविहारस्यैव । केचिदयन्न इति एकं प्रतिविहारम् । उत्तरस्मिन् विहारे वा पूर्वस्मिन्वा विहारके । यष्टा वेदमुपस्थे तु आधाया द्विजतर्पणात् । ततः कर्ता यज्ञ शं च इत्याप्तीरुपस्थितिः । चित्यग्नीनां च भेदेन कुर्यात्तन्त्रेण वा सकृत् । उपोषणादि वृष्ट्यन्तं सर्वत्र इति आण्विळ्ळा ।

समारोप्य प्राजहितं गच्छन् मार्गे यदृच्छया । पश्येच्चित्यग्निमन्येषां उपतिष्ठेदुपादिभिः । इदमून्विति अध्यवसाय मध्ये गार्हपत्ये इति विधिना दार्शिकी वेदिचतुष्टयम् । ततो मन्थनादि । कृत्वा गार्हपत्यायतनेऽग्निमवरोप्य च । चतुष्टयं विहाराणां कल्पयन्ति दिशं दिशम् । उदवसानीयया यक्ष्ये । विद्युदसि । अग्न्यन्वाधानादि उदवसानीयान्तं प्रतिविहारम् । पूर्णाहुतिर्वा प्रतिविहारम् । केचित् एकमेव विहारं कुर्वन्ति । तस्मिन्नुदवसानीया पूर्णाहुतिर्वा, प्रतिदिशं सौमिकविहारा इति वचनात् ।

अनन्तरे पर्वणि सौत्रामणी मैत्रावरुणी च । वैकृतेषु कर्मसु यावत्सम्भवेत्तावद्याजमानम् । तथान्यानि कर्माणि भरद्वाजवचनादेवमादिषु कर्मसु निवेशः ॥

॥ इति साग्निचित् सर्वतोमुख प्रयोगः ।

अथ सर्वतोमुखकारिकाः

सर्वतोमुख कारिका प्रारम्भः ।

उत्तरेषु कृतुष्वग्निरित्युक्तेः सर्वतोमुखे ।

महाग्निः काठकाग्निर्वा कर्तव्यस्यादितिस्थिते ।

पुनर्विधानात् पक्षीभ्यामित्युक्तेः स विकल्पते ।

सत्वतोमुखयागस्य द्वादशाहातिदेशतः ।

द्वादशाहे साग्निचित्यो भवतीति पुनर्विधेः ।

माहाग्निः काठकाग्निर्वा कर्तव्य इति निश्चयः ।

तालवृन्त निवास्यत्र काठगिन्तु उक्तवान् ।

मग्निचित् क्रिया नोक्ता तालवृन्तिनिवासिना ।

विद्वांसः पूर्वकालीनाश्चिन्वन्ति प्रथमे मुखे ।

अशक्तेः सर्वतः कर्तुमिति मन्यामहे वयम् ।

प्रतिषेधात् षोडशिन उत्तरं तु मुखं विना ।

महाग्निस्त्रिष्वपि मुखे वाचरन्ति विपश्चितः ।

तस्मिन्पक्षे पूर्वमुखे ह्यग्निर्नेष्टो भविष्यति ।

अथोऽखिलेष्वपि मुखेष्वग्निः कार्य इति स्थितिः ।

अयमैकाहिकोऽप्यासीदुताप्याहीनकोऽपि वा ।

तालवृन्तनिवास्याह सर्वदाहीनकं त्विति ।

तस्माद्दीक्षाश्चोपसदो द्वादश द्वादशैव तु ।

मीमांसकाः श्रौतिनश्च विद्वांसश्च पुरातनः ।

सर्वतोमुखयागं तु तथैकाहिकमाचरन् ।

छन्दोगकल्पसूत्रस्य भाष्यकारेण चिन्तितम् ।

हविश्चतुर्ष्वपि बहिष्पवमानं स्तूयते ।

एकाहेषु विधानादेतदप्यैकाहिकं विदुः ।

तस्माच्च तुल्यबलयोर्विकल्प इति शास्त्रतः ॥

विकल्प इति न्यायः स्यादतो यत्किञ्चिदैकाहिकम् ।

अखिलेषु मुखेष्वग्निर्महाग्निसहितस्य च ॥

प्रयोगानुक्रमस्तत्र प्रोच्यते सर्वतोमुखे ।

अभावादवकाशस्य कुर्यादायतनं लघु ॥

गृह एव भवेद्दीक्षा ह्यशक्ये तु बहिर्वजेत् ।

मध्ये च गार्हपत्यं तु कृत्वा प्रतिदिशं पुनः ॥

चतस्रो दार्शिकीर्वेद्यः कुर्यात्तत्र यथापुरम् ।

चतुर्दिक्षु विहारास्स्युः पूर्वादिषु यथाक्रमे ।

पदप्रक्रमतो चात्र द्विपदप्रक्रमेण वा ।

वेद्यौपि द्वादशपदैर्द्वादशप्रक्रमैस्तु वा ।

अग्निं मथित्वायतने क्षिपेन्नत्ववसिताहुतिः ।

सर्वतोमुखसंकल्पं कृत्वा सम्भारसम्भृतिः ।

महाग्निना वा कुर्वीत काठकाग्नि युतेन वा ।

साग्निचित्येन वा यक्ष्ये मोक्षार्थमिति संस्मरन् ।

द्रुश्यादृश्यमिदं सर्वं भवेयमिति वा वदन् ।

विद्युदेकं सोमवाकं वृत्वाथ चतुरो वरान् ।

चतुर्णा मृत्विजां कुर्याद्वरणं तु मुखे मुखे ।

तेष्वागतेषु क्रमशो मधुपर्कं प्रदाय च ।

सक्षेदमित्युपस्थायाहवनीयं च दक्षिणम् ।

मुखे मुखे कल्पयित्वाहवनीयान् विहृत्य च ।

सर्वत्र सर्वे जुहुयुर्बृहस्पत्यादिनाहुतीः ।

सर्वत्र सर्वे कुर्वन्ति स्वं स्वं कृत्यं स्वयं स्वयम् ।

इदं तन्त्रमिदं भेदाद्यष्टृकृत्यमिहोच्यते ।

सर्वे सम्भूय गच्छेयुः गत्वाद्यं मृत्खनं प्रति ।

अन्यस्य च स्रुक्स्रुवयोन्नैर्ऋतिर्दक्षिणामुखे ।

अभुप्रव्रजनाः प्रत्यायनाः स्तन्तेण यज्वनः ।

एकेनाश्वेनाश्वकार्यं विभुत्वात्संभवेदिह ।

ततोश्वपदिक एव स्यात् गर्दणस्तु पृथक् पृथक् ।

आगत्यमन्त्राद्यध्वर्युः प्राग्विहारगतः स्वयम् ।

कुर्यात्परिलिखत्यन्तं खनन्त्यध्वर्यवोखिलाः ।

मृत्संक्षेपप्रदानं च सर्वेषां वर्तते क्रमात् ।

उखानां करणे मन्त्रानष्टौ हि न वदेत् सकृत् ।

आच्छृन्दनान्तं सर्वत्र ह्यषाढान्तं प्रवर्तते ।

दर्शपूर्णमास्या वारभेश्चतुरः पशून् ।

नान्यत्रोदवसानीयैव तत्रतत्र पशुक्रिया ।

उपयुज्य मनुष्या इत्यस्य व्याख्योच्यतेऽधुना ।

पुनः प्रयान्ति कर्मत्व गृहमत्र विवक्षितम् ।

सर्वलोकविवक्षा चेद्यष्टा नोदवसायते ।

इत्येत्यपक्षमाश्रित्य तत्राकुर्वन् पशुक्रिया ।

वायव्यानां पशूनां तु चतुर्णां तन्त्रमुच्यते ।

वायव्यैः पशुभुर्यक्ष्ये विद्युद्वृष्टिर्नचात्र तु ।

षड्ढोत्राद्याः क्रियाः सर्वाः तत्रतत्र प्रकुर्वते ।

पश्विष्टिषु समाप्तासु शाखाहरणादि कुर्वते ।

व्रतं पूर्वविहारे स्यात् युवा चेद्योनिरोधवत् ।

अग्निप्रणयनादीनि कर्माण्यत्र प्रयुञ्जते ।

आग्नीध्रः पूर्वविहारस्थः पत्निसन्नहनं क्रमात् ।

स्वेस्वेग्नौ सर्व आग्नीध्राः निरूप्याज्यं क्रमेण तु ।

पत्न्यै दद्युः क्रमात् सा चेत् महीनामित्यवेक्षते ।

वायुर्नियुत्वान् सर्वत्र पशूनां देवता भवेत् ।

ब्राह्मणार्थं च वायव्यः कार्या इति च स्मरेत् ।

हुरण्यगर्भ आघारे ततस्तन्त्रप्रया भिदा ।

सन्ते प्राणादि सर्वत्र प्राच्यां कर्म प्रकुर्वते ।

रेवतीर्यज्ञमित्यादि पराङावर्ततेवधि ।

सर्वत्र वर्तते यासामूध इत्यादि भेदतः ।

ततः संज्ञप्तहोमान्ते शमितारो भिदा चरेत् ।

ततः प्रतिप्रस्थात्रादि पत्न्यायतनं भिदा ।

सकृत्सूर्योपस्थितिः स्यादापोदेवीः पुरः सकृत् ।

पश्वङ्गाप्यायनं भेदाद्वपान्वारम्भणं भिदा ।

अनड्वान् दक्षिणा तत्र तन्त्रभेदान्मुखे मुखे ।

यष्टुः पत्न्याश्च पूर्वस्मिन् विहारे मार्जनं सकृत् ।

येषु कृत्यं पुरोडाशे चाङ्गयागे यथा पुरा ।

ऐन्द्रः प्राणे कृते सर्वपशूनां शिरसां छिदिः ।

तेषां सुरक्षणं कृत्वा पशुतन्त्रं समाप्यते ।

तन्त्रेण वाथ भेदाद्वा यष्टुर्वेदाभिमर्शनम् ।

पत्नीवेदप्रदानादि होता कुर्यात्पुरा गतः ।

विष्णुनिष्क्रमणादीनि कुर्याद्यष्टा पुरः कृते ।

शूलोद्वासो मार्जनं च सूर्यस्योपस्थितिः सकृत् ।

तन्त्रेण समिदाधानं भेदेनैवेति केचन ।

अग्नेरुपस्थितिर्भेदादन्यत्राप्येवमेव तु ।

तत्र यज्ञो बभूवेति जपो नैवात्र युज्यते ।

यज्ञ शं चेति मन्त्रस्य जपः कार्यो भवेन्न वा ।

प्रकृतौ पशु सोमेषु जपेदन्यत्र नेष्यते ।

इत्युक्त्वा सूत्रकारस्तु पश्वन्तेप्येवमब्रवीत् ।

जपेद्यज्ञ शमित्यादि तत्क्रमार्थं पचक्ष्महे ।

भाष्यसंग्रहकारेन पश्वन्तेप्येवमुच्यते ।

यज्ञ शं च म इत्येतदुक्तेभ्योन्यत्र नेष्यते ।

निरुतानपि त्वेन्यत् याजमानं पशौ न वा ।

अन्यश्लोकस्य चार्यस्तु प्रष्टव्यः संग्रहार्थकृत् ।

तथाप्यस्माभिरत्रपि तस्यार्हस्तु विमृश्यते ।

विकृतौ पशुबन्धे तु यज्ञ शं यदि जप्यते ।

तथा पशुं तु सर्वं तु याजमानं न वा भवेत् ।

पशुतन्त्रे समाप्तेस्मिन्तथाप्यवसरोऽस्ति चेत् ।

घर्मसम्भरणं कुर्यादन्यथानुगुणे दिने ।

नोक्थ्ये प्रवृञ्च्यादित्येष प्रतिषेधो न युज्यते ।

पौर्वाह्निकीभ्यां श्वोभूते प्रचर्येति विधानतः ।

आदीक्षायाः प्राग्विहारे जुहुयादग्निहोत्रकम् ।

षष्ठ्यां वा चैत्रमासस्य षष्ट्यष्टा इत्यनेन हि ।

दीक्षणिया गृहार्हा च श्राद्धं द्रव्यपृथक्क्रिया ।

सर्वत्र सम्भारयजुः सोमावेषश्च भेदतः ।

सप्तहोता सकृत् स्यात्तु स्वे दक्षे सर्वतः क्रमात् ।

सर्वत्र दीक्षणीयाद्याः साग्निकाश्च प्रकुर्वते ।

तत्राह्यान्यप्यनूह्यानि याजमानस्य कर्म च ।

उक्तानि तत्रैवानुसर्तव्यानि तान्यपि ।

समाप्य दीक्षणीयां तु प्राग्विहारे तु तत्रतः ।

यष्टा पवनमारभ्य पूत इत्यन्तमाचरेत् ।

आ वो देवास आरभ्य पूर्णाहुत्यन्तिमं भिदा ।

पूर्वा कृष्णाजिनेनाद्याः सम्भारयजुरादिना ।

भेदाच्छणकुलायाद्याः शिक्येषूखा निधानतः ।

संशितं म उदेषां बाहू यष्टनि वाचते ।

एकविंशतिनिर्बाध इत्यादि भेदतः क्रमात् ।

येन देवा ज्योतिषोर्ध्वा इत्युख्यस्यासमिन्धनात् ।

तत्कृत्वा मुष्टिकरणप्रभृतीस्समाचरेत् ।

अहीनपक्षे सर्वत्र समन्वारम्भहोमकाः ।

गार्हपत्ये दीक्षितस्येत्यादि नाभ्याभिमर्शनात् ।

समिदाधानसहितं पूर्वस्मिन्नत्र जागरः ।

ततस्सनीहारहर्तॄणां संशास्तिस्सद्य एव हि ।

उपोदये वाग्यमादिः उदिते वाग्विसृज्यते ।

सोमावेषश्च वात्सप्रोपस्थानं सर्वतः क्रमात् ।

विष्णुक्रमादि पूर्वेद्युर्वात्सप्रोपस्थितिः परे ।

व्रतमुक्तेषु कालेषु वाग्यमादिश्च कालयोः ।

दीक्षादिनाति नीत्वैवं यदहस्तु प्रयास्यति ।

आरोपयन्ति शकटेष्वग्नीन् प्रत्येकतोऽखिलान् ।

प्रयाणविधिना सर्वे यान्ति प्रेदग्न आदिना ।

स्वां स्वां शालामिते स्वेदक्ष इति यष्टाध्यवस्यति ।

मुख्यादिषु यथास्थानं स्थापितेषु यथाक्रमम् ।

उख्यानामपि सर्वेषां येनेत्युपसमिन्धनम् ।

घृतानुषिक्तास्समिधः आदध्युः सर्वतः क्रमात् ।

नैमत्तिकं यद्युखामित्यादि बोधद्वन्द्वान्तिमम्।

येनेत्युपसमिध्योख्यानाक्रमन्त्रेण च स्वपेत् ।

ततो परेद्युरुदिते यष्टा वाचं विसृज्य च ।

विष्णुक्रममुपस्थानं सोमावेषश्च भेदतः ।

अहं त्वदादि सर्वत्र प्रायणीयास्समाप्य च ।

स्थाली निधाय वेदीनां करणानि पृथक्पृथक् ।

द्विपदप्रक्रमेणैव सर्वाश्शालाः पॄथक्पृथक् ।

एवं सप्तविधे पक्षः क्षुद्रेणैेकविधादिषु ।

ततश्च प्रायणीयायाः ध्रौवादित्यादि कुर्वते ।

यष्टैकमिष इत्यादि संख्यायान्तु भिदां चरेत् ।

तोते रायस्त्वष्टुमन्तः सर्वत्रावर्तते क्रमात् ।

अपि पन्थामंशुना ते सर्वत्रावर्तते द्वयम् ।

गृहीतोर्णास्तुका प्रज्ञातास्ता निधाय च ।

यष्टा पूर्वमुखे शीर्षवस्त्रमादाय तत्पुनः ।

तत्रत्याय प्रशास्त्रे वा छित्वा सर्वेभ्य एव वा ।

यष्टा मित्रोन एह्युर्वन्तरिक्षान्तिमं क्रमात् ।

शकटेष्वजिनास्तराद्या सम्प्रेषाद्भिदा भवेत् ।

प्रच्यवस्वाद्यूह्यमानप्रतीक्षान्तं भिदा चरेत् ।

अवस्थितेषु शकटेष्वातिथ्येष्टीः प्रकुर्वते ।

शकटारम्भणं पत्न्याः सर्वत्रावर्तते क्रमात् ।

हविष्कृदन्ते सर्वत्र सोमानन्तः प्रवेश्य च ।

ततोऽवहननादीडाभक्षान्ते पुरतो व्रतम् ।

ततस्समूलमित्यादि सिकता व्यूहनन्तिमम् ।

मध्ये यष्टा च तैस्सार्धमग्नेराक्रमणं भिदा ।

योक्त्रोन्मुक्ताननडुहस्त्वध्वर्योस्तु प्रदाय च ।

तानूनप्त्रावमर्शान्तं घ्राणं भेदेन सर्वतः ।

आप्यायनं निह्नवनं सर्वत्रावर्तते क्रमात् ।

ततोऽवान्तरदीक्षा च मार्जनं पुरतस्सकृत् ।

प्रवर्ग्याः सर्वतः कार्याः शान्तिस्तन्त्रं भिदाथ वा ।

अनाधृष्या पुरस्तादपश्यं गोपामावर्तते क्रमात् ।

घर्मशेषास्तु संसृज्य पुरस्तादूह्य भक्षयेत् ।

पूर्वस्मिन्नेव तु मुखे आपो हिष्ठीयमार्जनम् ।

तन्त्रभेदेन वा शान्ति उपसत्सूक्तमूहनम् ।

अहीनपक्षे सम्भारयजुर्व्याख्या मुखे मुखे ।

सकृद्यष्टुर्वाचनम् चेत् पूर्वस्मिन्नेव नान्यतः ।

सर्वत्र सुब्रह्मण्यायां अन्वारम्भस्तु भेदतः ।

चित्यग्निभ्यः सञ्चितोक्थ्ये होता यष्टैव नापरः ।

हिरण्यगर्भ इत्यादिः अभिप्रव्रजनं भिदा ।

उपधानं स्वयङ्कर्तुं यष्टा विद्वानपि स्वयम् ।

अशक्ते युगपत्कर्तुं चिन्वन्त्यध्वर्यवोऽखिलाः ।

प्रस्तोतारोऽपि सर्वत्र यष्टारं तु मुखे मुखे ।

गाययन्ति च सामानि गातव्यानि पृथक् पृथक् ।

पुरुषाकृत्युपस्थानं सर्वत्रावर्तते क्रमात् ।

—नगाद्यां समप्यान्याश्चितयोप्येवमेव हि ।

सत्रमध्ये यूपकृतिस्तालवृन्त निवासिना ।

बहुधोक्ताहीनपक्षे प्रकृत्यैकाहिका यदि ।

एकैकस्मिन्नथैकैका चितिस्तु द्व्यहमन्तिमा ।

चित्यन्त आपराह्णिक्यौ अग्नेयुक्ष्वाहि सर्वतः ।

सर्वत्र धेनूकरणं ततोऽन्वारोहवाचनम् ।

सर्वत्राध्वर्यवे दद्यात्तस्य धेनूर्मुखे मुखे ।

यत्ते रुद्रेति सर्वत्र दोहे च स्तुत शस्त्रयोः ।

अथ प्रवर्ग्योद्वासादि कर्म कुर्वन्ति चर्त्विजः ।

सर्वत्राग्नीदजामादीममूष्वन्तिमं भिदा ।

कार्ष्णी चिते त्वा पृथिवीमिति भेदेन सर्वतः ।

वैश्वानरस्य तत्रेण याजमानं यथा पुरा ।

तत्र यष्टैवहोता स्यात् आदिमे तु मुखे ध्रुवम् ।

अन्यत्र तत्तथा नैव कुर्यात् विप्रतिषेधतः ।

समुद्रादिति भेदेन वसोर्धारानुमन्त्रणम् ।

चतस्रश्च चतस्रश्च धेनूर्दद्यात् मुखे मुखे ॥

प्राग्विहारगतस्याग्नेर्दक्षिणे त्वपिपक्षके ।

आसन्दीस्थं च यष्टारमध्वर्युः प्राग्विराहगः ।

ग्राम्यारण्याहुतोच्छिष्टान् सम्पातानेकपात्रतः ।

कृत्वा तैरभिषिञ्चेत्तमग्नेस्त्वाद्यादि पूर्ववत् ।

त्रित्वतस्त्रीनश्वांश्च सरथानध्वर्युभ्यो मुखे मुखे ।

सर्वत्र समुद्रस्यादौ ऋचां होमतः कृते ।

वेद्यास्स्तरणयारभ्य सौमिकी सर्वतः क्रिया ।

शकटाञ्जनकं पत्नी कुर्यात्सर्वत्र च क्रमात् ।

प्राची प्रेतादि भेदेन नभ्यस्थस्थापनावधि ।

प्रतद्विष्णुश्च यस्योरु आवर्तेत सकृत्तु वा ।

याजमानन्तु सर्वत्र उपरवार्थं पृथक् भिदा ।

धिष्ण्योपधानमारभ्य प्रव्रतं यच्छतामिति ।

कृतेऽग्नीषोमीयपशूनां प्रक्रमा भिदा ।

पशुः प्रयोगस्सर्वत्र वायव्येषु प्रदर्शितः ।

तत्राज्येषु गृहीतेषु प्रैतुब्रह्मणादिकम् ।

वैश्वानरं ज्योतिरित्याहवनीय इति क्रमात् ।

अत्र अवान्तरदीक्षोत्सर्जनं पूर्वविहारके ।

अभिमन्त्रणमादाय प्रोक्षणीनां तु सर्वतः ।

सौमिकं वरणं यष्टुः पूर्वस्मिन्नेव कुरुते।

जुष्टो वाच रुचा स्तोमं सर्वत्रावर्तते क्रमात् ।

तत्र नान्यद्याजमानमैकं पाशुकं विना ।

प्राक्शालायां यदाऽऽसाते यष्टृपत्न्यौ तदा निशि ।

कुर्यादध्वर्युर्वसतीवरीणां च परिक्रियाम् ।

एवं सर्वासु परितो हरन्ति वसतीवरीः ।

सादनेषु याजमानानि तन्त्र वा भेदतोऽपि वा ।

यष्टा सर्वैर्महारात्रे बुध्वाचम्यानुसन्दधत् ।

लोकद्वारं साम गायेद्यष्टा होमं मुखे मुखे ।

पन्नेजनीनां ग्रहणं पूर्वस्मिन्नेव नान्यतः ।

अनुप्रवेशो वसतीवरीणां च क्रमेण तु ।

निग्राभ्यवाचनं सर्वविहारेषु क्रमाद्भवेत् ।

ततः पवित्रस्य यजमानो नाभिमुपक्रमेत् ।

अत्र धारा विरमतीत्यन्तमावर्तते क्रमात् ।

पञ्चहोत्राभिमर्शश्च सर्वत्रावर्तते क्रमात् ।

विप्रुड्बहिष्पवान्ते तु स्तुतस्येत्यन्तिमं सकृत् ।

विष्णो त्वन्नः तृप्तयस्थेत्यावर्तते क्रमात् ।

यष्टृपत्न्योस्तु पूर्वस्मिन् विहारे मार्जनं सकृत्।

द्वौ समुद्रादिरागन्त पितरान्ते यथाक्रमात् ।

उप मा द्यावपृथिवी दृढे स्थः शिथिरेतराः ।

तदा सूर्यं वायुमग्निं यमं चैव सरस्वतिम् ।

सकृदेवादितो यष्टा वदेदन्यत्तु सर्वतः ।

आसन्नानां च हविषामभिमृष्टिर्भिदा क्रमात् ।

द्विदैवत्येषु चादित्योपस्थानं सकृदेव हि ।

इन्द्रेण मन्युनेत्यदिराहोमान्तं भिदा चरेत् ।

इडान्वारम्भणं भेदाद्भक्षणं चापि पूर्ववत् ।

छन्दोगोऽग्नय इत्यादि मन्त्रानूह्यैव वाचयेत् ।

समाह्या भक्षकाले तु चमसाध्वर्यवोखिलाः ।

हुतभक्षितशिष्टं तु चमसे प्राग्विहारके ।

आसेचयन्ति सम्पातमसर्वं सर्वमेव वा ।

यष्टा च प्राग्विहारस्थो मन्त्रानूह्यैव भक्षयेत् ।

आप्याययते चमसं यष्टा यं भक्षयेदिह ।

पन्ननी सादनं तु पूर्वस्मिन्नेव नान्यतः ।

असर्ज्यादि स्तुतस्यान्तं सर्वत्रावर्तते क्रमात् ।

यज्वनस्तूपगानार्थमिति केचन मन्यते ।

पर्यायेण स्तुत्यत्र—- यः।

एकस्मिन्नेवोपगानं सर्वत्रापि कृतं भवेत् ।

इडयै हिङ्कुरु ततो भेदो नैव मुखे मुखे ।

स्तुतस्य स्तुतमित्यादि तन्त्रेण हि वचोच्यते ।

शस्त्रस्य शस्त्रमित्यादेस्तन्त्रमूहश्च पूर्ववत् ।

माध्यन्दिनस्य पूर्वस्याविष्णोस्त्वन्न कृतस्ततः ।

घर्मवद्दधिघर्मस्य शेषं संसृज्यैकतः ।

दधिघर्मस्य भक्षे तु मन्त्रस्योहो भवेन्न वा ।

आ नाराशंसनादुक्ताः प्रातस्सवनवत्क्रियाः ।

सर्वत्र द्वादशशतं यष्टा दद्याद्यथाक्रमम् ।

प्रचरण्यात्रिर्गृतमित्यारभ्य यथाक्रमम् ।

सर्वत्र वि सुवः पश्येत्यन्तं कुर्यान्मुखे मुखे ।

अध्वर्युभ्यश्च कल्याणीस्तिस्रस्तिस्रः प्रदाय च ।

हिरण्यपात्रं भेदेन ब्रह्मभ्योऽपि प्रदीयते ।

प्रसर्पकसदस्यानां चमसाध्वर्युणामपि ।

ऋत्विङ्नमस्कृतिस्तन्त्रं विषाणमास उत्तरे ।

आदित्यारम्भणं भेदात् क्रमान्निग्राभ्यवाचनम् ।

आशिरस्यवनयनं सर्वत्रावर्तते क्रमात् ।

प्रातस्सवनवत्सर्वं पवमानान्तमाचरेत् ।

तन्रभेदेन वा पिण्डं षड्ढोता च प्रजापते ।

पन्नेजनीनां नयनं पूर्वस्मिन्नेव नान्यथा ।

तन्त्रं यथा त्वं सूर्यासि भेदेनायुर्म इन्द्रियम् ।

अग्नीदौपयजानादि यज्ञपुच्छं पृथक्पृथक् ।

संसृज्यशेषं तन्त्रेण हरियोजनभक्षणम् ।

तत्रेष्टयजुषो मन्त्रमूह्य वानूह्य वा क्रिया ।

अप्सु धौतादि पूर्वस्मिन्सर्वत्रावर्ततेऽथवा ।

दधिभक्षस्सख्यमोकः तन्त्रं भेदेन वा द्वयम् ।

पत्नीसंयाजनादि स्यात्समिष्टयजुषां हुते ।

विष्ण्वतिक्रमणादीनि समहं प्रजया सकृत् ।

समिद्धो वसुमान् योनः सर्वत्रावर्तते क्रमात् ।

सकृदग्ने गृहपते त्वमग्ने वह्ने तु भेदतः ।

ज्योतिषे तन्तवेत्यादि गोमत्यन्ते पुरः सकृत् ।

भेदेन यूपोपस्थानं अग्निनेत्यादि जागतान् ।

चतुर्थमेक इत्यन्तं पूर्वस्मिन्नेव केचन ।

भेदेन द्रोण —-मुखे मुखे ।

सर्वर्विजोऽप्येकमुखाश्चरन्त्यवभृथेष्टिभिः ।

इष्टकास्वेक यागस्यान्नतृणप्रहृतिर्भवेत् ।

तन्त्रेण स्नानमेकस्मिन्नुष्णीष परिधापनम् ।

सकृत् सूर्योपस्थितिः स्यात् तथा प्रतियुतो वरुण ।

अपाम सोमं तन्त्रेण समिदाधानमन्तिमम् ।

अपो अन्वेत्युपस्थानं सर्वत्रावर्तते क्रमात् ।

सर्वत्रोदयनीयादिरनूबन्ध्या वपा हुते ।

क्षौरस्नाने कृते यष्टर्यहीने त्वाष्टृपशोः क्रिया ।

एकाहके तु न त्वाष्ट्री तत औदुम्बरीं स्रुचम् ।

सदसश्च हविर्धानस्यैवमादि प्रवर्तते ।

यष्टा तु यत्कुसीदादिरा धूमस्यानुमन्त्रणात् ।

अध्वर्यवो यदाकूतादिति हुत्वा दशाहुतीः ।

अवरुह्योपतिष्ठेरन् स्वान् स्वानग्नीन्पुनर्मनः ।

अयं नो नभसेत्यग्निं यष्टोपस्थाय भेदतः ।

स त्वं न इत्युपस्थानाद्युत्तरस्मिन् त्रयं सकृत् ।

उत्तरस्मिन् विहारे वा पूर्वस्मिन्वा विहारके ।

यष्टा वेदमुपस्थे तु आधाया द्विजतर्पणात् ।

ततः कर्ता यज्ञ शं च इत्याप्तीरुपस्थितिः ।

चित्यग्नीनां च भेदेन कुर्यात्तन्त्रेण वा — ।

समारोप्य प्राजहितं गच्छन् मार्गे यदृच्छया ।

पश्येच्चित्यग्निमन्येषां उपतिष्ठेदुपादिभिः ।

एतन्नैमित्तिकस्याच्चेत् या च परे ब्रुवन् ।

यष्टारणी भस्म एवगृहं गत्वेदमून्विति ।

अध्यवस्येत्ततो देवयजनं मन्थनाद्यथा ।

कृत्वा गार्हपत्यायतनेऽग्निमवरोप्य च ।

चतुष्टयं विहाराणां कल्पयन्ति दिशं दिशम् ।

भेदेनोदवसानियाः कुर्युः पूर्णाहुतिस्तिमाः ।

केचित् पूर्णाहुतेः पक्षे एकामिच्छन्ति दार्शिकीम् ।

एकैव पूर्णाहुतिस्त्वन्ये त्वेतदेव असङ्गतम् ।

सर्वत्र पूर्णाहुतयः कार्या इत्येव सङगतम् ।

कृत्वेष्टिमाहुतिं वाथ सायमाहुतिमाचरेत् ।

प्रातर्होमश्च काले स्यात्समाप्तस्सर्वतोमुखः ।

॥ साग्निचित् सर्वतोमुख कारिकाः समाप्ताः ॥