॥ अथ शुनासीरीयपर्व ॥
ततो द्व्यहे त्र्यहे चतुरहे मासि चतुर्षु मासेषु शुनासीरीयेण यजते । तस्य वैश्वदेववत् कल्पः । वाजिनवर्जम् । प्राचीनप्रवणे यजेत । द्व्यहकालादौ सद्यस्कालादौ वा । प्रातरग्निहोत्रं हुत्वा । प्राणानायम्य । प्राकृते विहारे शुनासीरीयेण यक्ष्ये । विद्युदसि । ऊर्णास्तुकानिधानं प्रणयनपक्षे । अद्य यज्ञाय । इमामूर्जं इति यथा तिथिनिर्देशः । शौनासीरीयꣳ हविरिदमेषां मयि । शाखामाहृत्य व्रतप्रवेशः । न वत्सापाकरणादि । वैश्वदेववत् प्रसूमयमित्यादि । इध्माबर्हिराहरति । वेदं कृत्वा वेदिः । प्रागुत्तरात्परिग्राहात् कृत्वा । अन्तर्वेदि शाखाया इत्यादि । पर्णवल्कवर्जम् । कुम्भ्या लेपनान्तम् । इमौ पर्णं च । वत्सापाकरणम् । परिस्तृणीत, देवा देवेषु, कर्मणे वां इत्यादि ।
पात्रासादनकाले पञ्चचत्वारिंशत् कपालानि चतस्रस्स्थाल्यः स्फ्यश्च द्वन्द्वम् । वाजिनपात्रवर्जमितराणि वैश्वदेववत् । पवित्रकरणादि वैश्वदेववत् पञ्च सञ्चराणि निरुप्य । इन्द्राग्निभ्यां जुष्टं निर्वपामि । विश्वेभ्यो देवेभ्यो जुष्टं निर्वपामि । इन्द्राय शुनासीराय जुष्टं निर्वपामि । सूर्याय जुष्टं निर्वपामि । इदं देवानां इत्यादि । अग्ने हव्यꣳ रक्षस्व सोम हव्यꣳ रक्षस्व सवितर्हव्यꣳ रक्षस्व सरस्वति हव्यꣳ रक्षस्व पूषन् हव्यꣳ रक्षस्वेन्द्राग्नी हव्यꣳ रक्षेथां विश्वेदेवा हव्यꣳ रक्षध्वमिन्द्र शुनासीर हव्यꣳ रक्षस्व सूर्य हव्यꣳ रक्षस्व ।
सशूकायामित्यादि । देवस्य त्वा — हस्ताभ्यामग्नये वो जुष्टं प्रोक्षामि सोमाय वो जुष्टं प्रोक्षामि सवित्रे वो जुष्टं प्रोक्षामि सरस्वत्यै वो जुष्टं प्रोक्षामि पूष्णे वो जुष्टं प्रोक्षामीन्द्राग्निभ्यां वो जुष्टं प्रोक्षामि विश्वेभ्यो देवेभ्यो वो जुष्टं प्रोक्षामीन्द्राय शुनासीराय वो जुष्टं प्रोक्षामि सूर्याय वो जुष्टं प्रोक्षामि । उत्करे त्रिर्निनीय यथाभागं व्यावर्तध्वम् । इदमग्नेस्सवितुः पूष्ण इन्द्राग्नियोरिन्द्रास्य शुनासीरस्य सूर्यस्य इति पुरोडाशार्थान् । इदं सोमस्य सरस्वत्या विश्वेषां देवानां चर्वर्थान् । कृष्णाजिनादानादि । अग्नये जुष्टमधिवपामि सवित्रे जुष्टमधिवपामि पूष्णे जुष्टमधिवपामीन्द्राग्निभ्यां जुष्टमधिवपामीन्द्राय शुनासीराय जुष्टमधिवपामि सूर्याय जुष्टमधिवपामि धान्यमसि धिनुहि देवान् । अणूनि कुरुतादित्यन्तम् ।
कपालानामुपधानकाले वैश्वदेववत् पौष्णान्तमुपधाय । ऐन्द्राग्नस्य द्वादशकपालानि अष्टाभ्य ऊर्ध्वं चत्वारि तूष्णीमुपधाय । वैश्वदेवस्य ध्रुवोऽसि इति स्थाल्यासादनम् । इन्द्रस्य शुनासीरस्य द्वादशकपालानि अष्टाभ्य ऊर्ध्वं तूष्णीम् । आद्येन मन्त्रेण एककपालं सूर्यस्य । एककपालमुपधाय प्रातर्दोहं दोहयति । एता आचरन्ति इत्यादि सङ्क्षालन निनयनान्तम् । कामधुक्षः प्र णो ब्रूहि वायवे हविरिन्द्रियम् । बहुदुग्धि वायवे देवेभ्यो हव्यमाप्यायतां पुनः । भृगूणामङ्गिरसां अङ्गाराध्यूहनादि । अधिवापवत्संवापः । पिष्टानामुत्पवनकाले तण्डुलानुत्पुनाति । अपश्चोत्पूय स्थाल्यामासिञ्चति । पिण्डं कृत्वा यथाभागं व्यावर्तध्वं आग्नेयं विभज्य । यथाभागं व्यावर्तध्वं सौम्यतण्डुलान् । यथाभागं व्यावर्तध्वं सावित्रम् । यथाभागं व्यावर्तेथां इति सारस्वतवैश्वदेवौ । यथाभागं व्यावर्तध्वं पौष्णम् । यथाभागं व्यावर्तध्वं ऐन्द्राग्नम् । यथाभागं व्यावर्तेथां उत्तमौ । इदꣳ सरस्वत्या इदं विश्वेषां देवानां इति चरू । इदमिन्द्रस्य शुनासीरस्य इदꣳ सूर्यस्य इति पुरोडाशौ । अन्त्ययोरेव निर्देशः । इदमहꣳ सेनाया इत्यादि । घर्मोऽसि इति सर्वेषाम् । दोहनस्य न दधिक्षेपः पयसः हविष्ट्वात् । प्रथनादि पुरोडाशानामन्तरितं सर्वेषाम् । आप्यलेपं निनीय ।
उत्तरपरिग्राहादि । वैश्वदेववत् पृषदाज्यग्रहणम् । ऐन्द्राग्नवैश्वदेवशुनासीरीयाणां तूष्णीमभिघारणम् । यस्त आत्मा इति पयः । आ प्यायतां घृतयोनिः — सूर्याय जुष्टमभिघारयामि । शिष्टानां पूर्ववत् । वैश्वदेववद्धविरासादनम् । प्रथमप्रयोगे व्याहृतीभिरासादयति । यज्ञोऽसि इति पञ्चकृत्वः । आग्नेयसावित्रसारस्वतपौष्णसौर्याणामभिमर्शनम् । इदमिन्द्रियं इति प्रातर्दोहम् । अयं यज्ञ इति सर्वाणि हवींषि । यो नः कनीय इह कामयाता अस्मिन् यज्ञे यजमानाय मह्यम् । अपतमिन्द्राग्नी भुवनान्नुदेतामहं प्रजां वीरवतीं विदेय इत्यैन्द्राग्नम् । यो नः कनीय इह कामयाता अस्मिन् यज्ञे यजमानाय मह्यम् । अपतमिन्द्रश्शुनासीरो भुवनान्नुदतामहं प्रजां वीरवतीं विदेय इन्द्रं शुनासीरम् । ममाग्ने पञ्चहोता च । निर्मन्थ्यादि सर्वं वैश्वदेववत् । प्रचरणकाले आग्नेयाद्यैन्द्राग्नपर्यन्तं पूर्ववत् प्रचर्य । विश्वेभ्यो देवेभ्योऽनु ब्रू३हि । विश्वान् देवान् यज । विश्वेभ्यो देवेभ्य इदम् । विश्वेषां देवानामहं देवयज्यया प्राणैस्सायुज्यं गमेयम् । इन्द्राय शुनासीरायानुब्रू३हि । इन्द्रं शुनासीरं यज । इन्द्राय शुनासीरायेदम् । इन्द्रस्य शुनासीरस्याहं देवयज्ययेन्द्रियाव्यन्नादो भूयासम् । वायवेऽनुब्रू३हि । वायुं यज । वायव इदम् । वायोरहं देवयज्ययेन्द्रियावी भूयासम् । जेमानं महिमानं इति वा । तत उपांशु एककपालेन प्रचरति । पुरोडाशमुद्धृत्य बर्हिषदं कृत्वा सूर्याय (उपांशु)अनुब्रूहि (उच्चैः) इति कृत्स्नं पुरोडाशमवदाय । न मा भेर्मा । सूर्यं (उपांशु)यज (उच्चैः)। सूर्यायेदम् । सूर्यस्याहं देवयज्ययान्नादो भूयासम् । प्रत्याक्रम्य सꣳसर्पोऽस्यꣳहस्पत्याय त्वा स्वाहा इति मासनाम्ना एककपालमभिजुहोति । सꣳसर्पाय अꣳहस्पत्यायेदम् । नारिष्ठादि ।
दक्षिणाकाले द्वादशगवं सीरं दक्षिणा १। अश्वं श्वेतमेककपालस्य गां वा श्वेतम् । प्रतिनिधि हिरण्यं वा । अन्तर्वेद्यासाद्य । ब्रह्माणौ ब्रह्माणौ स्थः — भवतम् । ब्रध्न पिन्वस्वेत्यविकारेण सहस्रधारावुत्सावक्षीयमाणौ । तौ दध्रतुः पृथिवीमन्तरिक्षं दिवं च ताभ्यां सीरगोभ्यामतितराणि मृत्युम् । दक्षिणसद्भ्य उपहर्तवै३ । दक्षिणत एत ब्राह्मणा इमौ सीरगावौ यथाभागं प्रतिगृह्णीध्वम् । देवस्य त्वाट्ठ— राजा त्वा वरुणो नयतु देवि दक्षिण उत्तानस्त्वाङ्गीरसः प्रतिगृह्णातु । तेनामृतत्त्वमश्याम् — प्रतिगृह्णातु इति सीरस्य प्रतिग्रहणम् । रुद्राय गां इति गोः । हविश्शेषानुद्वास्येत्यादि । यथादैवतमुज्जितयः इन्द्राग्नियोरहमुज्जितिम् । विश्वेषां देवानामहमुज्जितिम् । इन्द्रस्य शुनासीरस्याहम् । वायोरहमुज्जितिम् । सूर्यस्याहमुज्जितिम् । सा मे सत्याशीः इति जपित्वा । अनुवत्सरिणाꣳ स्वस्तिमाशासे । रोहितेन त्वा इत्यादि । न वाजिनयागः । इदꣳहविः इति प्रातर्दोहभक्षणम् । ब्राह्मणतर्पणान्तं कृत्वा । सिद्धमिष्टिस्सन्तिष्ठते ।
वपनम्
अत्र द्व्यहादि पक्षे ब्राह्मणतर्पणान्तं कृत्वा वपनम् । मासचतुष्टयपक्षे पौर्णमास्या इष्ट्वा वपनम् । उन्दनादि पूर्ववत् । मन्त्रादिर्विक्रियते । एकं मासमुदसृजत्परमेष्ठी प्रजाभ्यः । तेनाभ्यो मह आवहदमृतम् मर्त्याभ्यः ॥ प्रजामनु प्रजायसे तदु ते मर्त्यामृतम् । येन मासा अर्धमासा ऋतवः परिवत्सराः ॥ येन ते ते प्रजापत ईजानस्य न्यवर्तयन् । तेनाहमस्य ब्रह्मणा निवर्तयामि जीवसे । अग्निस्तिग्मेनेति समानम् ।
॥ इति शुनासीरीयपर्व ॥