०६ अन्तरालव्रतानि

तस्य पर्वसु अन्तरालव्रतानि । न मांसमश्नाति । न स्त्रियमुपैति । ऋत्वे वा जायाम् । नोपर्यास्ते । जुगुप्सेतानृतात् । प्राङ् शेते । अमध्वश्नाति । मध्वशनं स्यादित्येकम् । व्यञ्जनार्थमित्यपरम् । एवमेव सर्वेषु चातुर्मास्यान्तरालेषु व्रतं चरति । प्रथमे त्वेव संवत्सरे व्रतं चरेत् । यथाप्रयोगमित्यौपमन्यवः१ ।

इति वैश्वदेवपर्व



॥ अथ वरुणप्रघासाः ॥

ततश्चतुर्षु मासेषु आषाढ्यां श्रवणायां वोदवसाय वरुणप्रघासैर्यजते । प्ररूढकक्षे यष्टव्यमिति बह्वृचब्राह्मणम् । तस्य वैश्वदेववत्कल्पः । वेदौ कृत्वाग्रेण गार्हपत्यं समे प्राची वेदी भवतः । यूकोन सार्धविंशत्यङ्गुलपरिमितव्यासार्ध सूत्रभ्रमणेन गार्हपत्यायतनं कृत्वा तत्पौरस्त्यात् पृष्ठ्याश्शङ्कोः पञ्चारात्नौ देशे शङ्कुः । स उत्तरवेदि पश्चिमप्रान्तः । तत्पुरस्तात्सार्धारत्नौ उत्तरवेदि पूर्वप्रान्तशङ्कुं च निहत्य तयोश्शङ्क्वोः यावत्प्रमाणा रज्जुः स्यादित्यादि विधिना उत्तरवेद्यर्थं षट्त्रिंशदङ्गुलं समचतुरश्रं कृत्वा गार्हपत्यायतनोत्तरवेदिमध्यशङ्क्वोः रज्जुं निपात्य आयामं पञ्चधा कृत्वेत्यादि विधिना मध्यान्मध्यपक्षेणैव किञ्चिदून एकोनत्रिंशदङ्गुलव्यासार्धपरिमितं (२८.७२अङ्गुलम् । २८.२४ तिलाः) करोति । उत्तरवेदेः पश्चात् साष्टाङ्गुलद्व्यरत्नौ उत्तरवेदेः पुरस्ताच्चतुरङ्गुलदेशे शङ्कुद्वयं उत्तरवेद्यर्थं निखाय वेद्यायामोष्टधाकार्य इत्यादि त्रिका तिर्यगित्यन्तं प्रकृतिवत्कृत्वा । त्रिके श्रोणी सार्धत्रिकार्धे त्वंसौ कुर्यात् । उत्तरवेद्यनुरोधेन श्रोण्यंसयोरन्तरालवृद्धिः । अत एव सन्नमनमपि स्वल्पमेव कार्यम् । ततः श्रोणीशङ्कुद्वयसंलग्नतया दक्षिणोत्तरसूत्रे समतया धृते दक्षिणश्रोणेर्दक्षिणतः प्रादेशमात्रे शङ्कुं निखाय तद्दक्षिणतः चतुःपञ्चाशदङ्गुले शङ्कुं निहन्यात् । ते दक्षिणविहारस्य वेदिश्रोणी । एवमंसशङ्कुद्वयसंलग्नतया दक्षिणोत्तरसूत्रे समतया धृते दक्षिणांसाद्दक्षिणतः एकविंशत्यङ्गुले प्रादेशमात्रे वा शङ्कुं निखाय तद्दक्षिणतः षट्त्रिंशदङ्गुले शङ्कुं निहन्यात् । तौ दक्षिणविहारवेद्यंसौ । प्रकृतिवच्च दक्षिणविहारसन्नमनम्१ ।

अथापरं बौधायनस्य तु मतेन पाशुबन्धिकी उत्तरा दार्शिकी दक्षिणेति । न तु तिर्यक्त्वेन समे । अर्था यथा सिध्यन्ति तथाभावलक्षणं तिर्यक्त्वम् । अस्मिन्कल्पे सार्धविंशत्यङ्गुलपरिमित व्यासार्धसूत्रभ्रमणेन गार्हपत्यायतनं कृत्वा । तत्पौरस्त्यात् पृष्ठ्याः शङ्कोः अरत्निद्वयं विशं त्यक्त्वा शङ्कुं निहन्यात् । स उत्तरस्या वेदेः (महावेदेः) पश्चिमप्रान्तः । तत्पुरस्तात् षडरत्नौ शङ्कुः । स उत्तरस्या वेदेः (महावेदेः) पूर्वप्रान्तशङ्कुः । चतुर्भिररत्निभिः पश्चात्तिर्यक् । षड्भिररत्निभिः प्राची । त्रिभिररत्निभिः पुरस्तात्तिर्यक् । यावत्प्रमाणा रज्जुस्स्यादित्यादि विधिना महावेदिं कृत्वा पूर्वप्रान्तशङ्कोः चतुरङ्गुले पश्चात् शङ्कुः । तत्पश्चात् षट्त्रिंशदङ्गुले शङ्कुः । अत्रापि यावत्प्रमाणा इत्यादि विधिना षट्त्रिंशदङ्गुलात्मकं समचतुरश्रं करोति । महावेदेः दक्षिणस्याः श्रोण्याः पृथमात्रं ( बाह्वोरन्तरालं ) सञ्चरमवशिष्य शङ्कुं निहन्ति । तद्दक्षिणतः द्वात्रिंशदङ्गुले चतुष्षष्ठ्यङ्गुले च शङ्कुः । द्वात्रिंशदङ्गुले निहताच्छङ्कोः पुरस्तात् षडरत्नौ शङ्कुः । एवं षडरत्निप्रमाणकं दार्शपूर्णमासिकं वेदिं कल्पयित्वा पूर्वस्मिन्प्रान्ते वेद्यामेव चतुर्विंशतिप्रमाणकं चतुरश्रमाहवनीयं करोति । एषः दक्षिणविहारः ।

अग्रेण गार्हपत्यं समे प्राची वेदी द्वे भवतः । प्राक्त्वेन समे न तिर्यक्त्वेन ।

तत्र श्लोकाः१ =

गार्हपत्यपुरश्शङ्कोः द्व्यरत्नौ शङ्कुरिष्यते ।

ततश्चतुररत्नौ तु पृष्ठ्या तु षडरत्निका ॥

पाशिन्युभयतः पाशं स्याच्चत्वारिंशदङ्गुले ।

लक्षणं मध्यमे शङ्कौ पूर्वशङ्कौ च पाशकौ ॥

प्रतीच्यामन्तरा तु स्याच्छ्रोणी द्वयमरत्नितः ।

कुर्युर्व्यत्यासतश्चांसौ यथाश्रोणी प्रकल्पयेत् ॥

द्व्यङ्गुलाद्यन्तरं हित्वा वेदिं कुर्यात्तु दक्षिणाम् ।

श्रोण्यंसयोर्दक्षिणयोः पाशावामुच्य पूर्ववत् ॥

लक्षणे रज्जुमायम्य बध्नीयाद्यष्टृमात्रया ।

तया दक्षिणवेदेस्तु तिर्यङ्मान्यार्जवं भवेत् ॥

द्व्यङ्गुलादिषु शङ्कुस्स्यात्ततो दक्षिणतोऽपि च ।

द्व्यरत्नौ शङ्कुरेवं स्यात् व्यत्ययादंसकल्पना ॥

वेदिद्वयस्य श्रोण्यंसौ विस्तारायामतः समम् ।

उदग्वेदेः पुरश्शङ्कोः मध्यमात् परतो भवेत् ॥

शम्यामत्रे तथा शङ्कुः तयोः शङ्क्वोश्च पार्श्वयोः ।

अष्टादशाङ्गुलेषु स्युः चत्वारश्शङ्कवो मताः ॥

एवमुत्तरवेद्यां तु भवेदुत्तरवेदिका ।

अबाधित्वोत्तरां वेदिं नमयेद्वेदिमुत्तराम् ॥

प्राक्त्वमुत्तरवेदेस्तु अञ्जसान्यत्र गौणतः ।