अथ पौर्णमास्या यजेत । पुनर्विहृत्य । तस्यान्ते यजमानः केशश्मश्रूपपक्षाणां वपनं करोति । अध्वर्युः तूष्णीं श्मश्रूपपक्षयोरुन्दनं कृत्वा वापयित्वा ततः प्रसूता देवेन सवित्रा दैव्या आप उन्दन्तु ते तनुं दीर्घायुत्वाय वर्चसे इति केशानामुन्दनं करोति । त्रेणीं शललीं इक्षुकाण्डं च गृहीत्वा कृष्णायसेन ताम्रमिश्रेण क्षुरेण करोति । ऋतमेव परमेष्ठ्यृतं नात्येति किं चन । ऋते समुद्र आहित ऋते भूमिरियꣳ श्रिता । अग्निस्तिग्मेन शोचिषा तप आक्रान्तमुष्णिहा । शिरस्तपस्याहितं वैश्वानरस्य तेजसा । ऋतेनास्य निवर्तये सत्येन परिवर्तये । तपसास्यानुवर्तये शिवेनास्योपवर्तये शग्मेनास्याभिवर्तये इति केशान् छिनत्ति । न तु निर्मूलान् करोति ।
यजमानः - तदृतं तत्सत्यं तद्व्रतं तच्छकेयं तेन शकेयं तेन राध्यासं इति जपित्वा ब्राह्मण एकहोतेत्यनुवाकं च जपति । ब्राह्मण एकहोता । स यज्ञः । स मे ददातु प्रजां पशून् पुष्टिं यशः । यज्ञश्च मे भूयात् ॥ अग्निर्द्विहोता । स भर्ता । स मे ददातु प्रजां पशून् पुष्टिं यशः । भर्ता च मे भूयात् ॥ पृथिवी त्रिहोता । स प्रतिष्ठा । स मे ददातु प्रजां पशून् पुष्टिं यशः । प्रतिष्ठा च मे भूयात् ॥ अन्तरिक्षं चतुर्होता । स विष्ठाः । स मे ददातु प्रजां पशून् पुष्टिं यशः । विष्ठाश्च मे भूयात् ॥ वायुः पञ्चहोता । स प्राणः । स मे ददातु प्रजां पशून् पुष्टिं यशः । प्राणश्च मे भूयात् ॥ चन्द्रमाष्षड्ढोता । स ऋतून् कल्पयाति । स मे ददातु प्रजां पशून् पुष्टिं यशः । ऋतवश्च मे कल्पन्ताम् ॥ अन्नꣳ सप्तहोता । स प्राणस्य प्राणः । स मे ददातु प्रजां पशून् पुष्टिं यशः । प्राणस्य च मे प्राणो भूयात् ॥ द्यौरष्टहोता । सोऽनाधृष्यः । स मे ददातु प्रजां पशून् पुष्टिं यशः । अनाधृष्यश्च भूयासम् ॥ आदित्यो नवहोता । स तेजस्वी । स मे ददातु प्रजां पशून् पुष्टिं यशः । तेजस्वी च भूयासम् ॥ प्रजापतिर्दशहोता । स इदꣳ सर्वम् । स मे ददातु प्रजां पशून् पुष्टिं यशः । सर्वं च मे भूयात् ॥