॥ आपस्तम्बीयाहिताग्नेः अन्त्येष्टिप्रयोगः ॥
मृताग्निहोत्रम्
गोत्रस्य यज्ञशर्मणः मम पितुः प्रेतस्य मृताग्निहोत्रं होष्यामि इति संकल्प्य । सर्वं तूष्णीममन्त्रकं क्रियामात्रं कर्तव्यं । विश्वदानीमभिमन्त्र्य गार्हपत्य दक्षिणाग्न्याहवनीये च इध्मानादधाति । शुन्धतं । आर्द्रं कृत्य दक्षिणाग्रैर्दर्भैरग्नीन्परिस्तीर्य । अलंकृत्य दक्षिणाग्रैर्दर्भैरग्नीन्परिस्तीर्य अभिवान्य पयसा दक्षिणतः स्थाल्यां दोहने च दोग्धि । हविरुत्पाद्य । उपवेषमादाय दक्षिणतोङ्गारान्निरूह्य, अभिमन्त्र्य , हविरधिश्रित्य, ज्वलतातृणेनावेक्षते । दोहनसंक्षाळनं स्रुव आनीय तेन प्रतिषिच्य । पुनस्तृणेन ज्वलतावेक्ष्य । त्रिः प्रसव्यं पर्यग्निकृत्वा, दक्षिणत उद्वास्य, अङ्गारान् पत्यूह्य, त्रिर्भूमौ प्रतिष्ठाप्य, स्रुक्स्रुवमादाय, गार्हपत्ये प्रतितप्य , युगपद्धस्तेन संमृज्य, अभिमन्त्र्य, उपस्थाय, सकृदेव सर्वं तूष्णीमुन्नीय, कूर्चे सादयित्वा, गार्हपत्ये हस्तं प्रताप्य, स्रुचं संमृश्य पुनः प्रताप्य संमृश्य, पालाशीं समिधं प्रादेशमात्रीं अधस्ताद्धारयन् गार्हपत्यस्य समायार्चिर्हरन् दक्षिणेन विहारमुद्रुत्य समं प्राणैर्हरति । मध्यदेशे नियच्छति । अथोद्गृह्णाति । अपरेणाहवनीयं कूर्चे सादयित्वा, दक्षिणत उपविश्य, हस्ताववनिज्य, तूष्णीं समिधमाधाय, स्रुचमुद्गृह्य, प्राणाापान्य, निमील्य, वीक्षाभिक्रम्य, सकृदेव सर्वं तूष्णीं जुहुयात् । प्रजापतय इदं । नोत्तरं क्रियते । स्थालीगताग्निहोत्रोच्छेषणं अन्यस्मिनपत्रे निधाय, अग्निहोत्रस्थल्यां तृणमक्त्वा । आपिप्रेणाग्ने स्वां तन्त्वमयात् द्यावापृथिवी ऊर्जमस्मासु धेहि । इति तृणमाहवनीयेऽनुप्रहरति । द्यावापृथिवीभ्यामिदम् । साह्यग्निहोत्रस्य संस्थितिः ।
दक्षिणायन मरणप्रायश्चित्तम्
गोत्रस्य यज्वशर्त्मणः प्रेतस्य दक्षिणायने मरणसंभव्न यो दोशः समजनि तद्दोष परिहारार्थं ( बोधायनोक्त ) “तासूर्या इत्यादि” षडाहुतीर्होष्यामि ।तत्काले कृछ्रप्रत्याम्नाय हिरण्यदानं करिष्ये । हिरण्यदानं कृत्वा, चतुर्गृहीतेनाज्येन पत्यृचमाहवनीये जुहुयात् । तासूर्या ट्ठ देवयोः स्वाहा । सूर्या चन्द्रमोभ्यामिदं । ( एवं सर्वत्र ) उभावन्तौट्ठ मती स्वाहा । सूर्या चन्द्रमोभ्यामिदं । पतीद्युमद्विश्वविदा ट्ठ व्रता स्वाहा । सूर्या चन्द्रमोभ्यामिदं । विश्वमपरी ट्ठ दिवं स्वाहा । सूर्या चन्द्रमोभ्यामिदं । अस्य श्रवो नद्यः ट्ठ पुनः स्वाहा । सूर्या चन्द्रमोभ्यामिदं । संभावित + होष्यामि । ओं भूर्भुवस्सुव स्वाहा । प्रजापतय इदम् ।
कृष्णपक्ष मरण प्रायश्चित्तम्
गोत्रस्य यज्वशर्मणः प्रेतस्य कृष्णपक्षे मरणसंभवेन दोशः समजनि तद्दोष परिहारार्थं ( बोधायनोक्त ) “तासूर्या इत्यादि” षडाहुतीर्होष्यामि । तत्काले कृछ्रप्रत्याम्नाय हिरण्यदानं करिष्ये । हिरण्यदानं कृत्वा, पूर्ववत् चतुर्गृहीतेनैव षडाहुतीराहवनीये जुहुयात् । तासूर्या ट्ठ देवयोः स्वाहा । सूर्या चन्द्रमोभ्यामिदं । ( एवं सर्वत्र ) उभावन्तौट्ठ मती स्वाहा । सूर्या चन्द्रमोभ्यामिदं । पतीद्युमद्विश्वविदा ट्ठ व्रता स्वाहा । सूर्या चन्द्रमोभ्यामिदं । विश्वमपरी ट्ठ दिवं स्वाहा । सूर्या चन्द्रमोभ्यामिदं । अस्य श्रवो नद्यः ट्ठ पुनः स्वाहा । सूर्या चन्द्रमोभ्यामिदं । संभावित + होष्यामि । ओं भूर्भुवस्सुव स्वाहा । प्रजापतय इदम् ।
निशि मरण प्रायश्चित्तम्
गोत्रस्य प्रेतस्य निशायां मरणसंभवेन योदोषस्समजनि तद्दोष परिहारार्थं दोशः ( बोधायनोक्त ) “तासूर्या इत्यादि” षडाहुतीर्होष्यामि । तत्काले कृछ्रप्रत्याम्नाय हिरण्यदानं करिष्ये । हिरण्यदानं कृत्वा, पूर्ववत् चतुर्गृहीतेनैव षडाहुतीराहवनीये जुहुयात् । तासूर्या ट्ठ देवयोः स्वाहा । सूर्या चन्द्रमोभ्यामिदं । ( एवं सर्वत्र ) उभावन्तौट्ठ मती स्वाहा । सूर्या चन्द्रमोभ्यामिदं । पतीद्युमद्विश्वविदा ट्ठ व्रता स्वाहा । सूर्या चन्द्रमोभ्यामिदं । विश्वमपरी ट्ठ दिवं स्वाहा । सूर्या चन्द्रमोभ्यामिदं । अस्य श्रवो नद्यः ट्ठ पुनः स्वाहा । सूर्या चन्द्रमोभ्यामिदं । संभावित + होष्यामि । ओं भूर्भुवस्सुव स्वाहा । प्रजापतय इदम् ।
ऊर्ध्वोच्छिष्टादि प्रायश्चित्तं
गोत्रस्य प्रेतस्य मरणकाले ऊर्द्वोच्छिष्टाधोच्छिष्ट खट्वादि मरणाशुचिस्पर्श नियमलोपाख्य पंचनिमित्तसंभवेन यो दोषस्समजनि तद्दोष परिहारार्थं प्रत्येकं कृछ्रत्रय प्रत्याम्नाय हिरण्यदानं करिष्ये । हिरण्यदानं कुर्यात् ।
पर्युषित शवप्रायश्चित्तं
गोत्रस्य प्रेतस्य शवस्य पर्युषितत्वेन यो दोषस्समजनि तद्दोष परिहारार्थं ( वैखानसोदित ) पर्युषित प्रायश्चित्तं करिष्ये । तत्काले कृछ्रत्रय प्रत्याम्नाय हिरण्यदानं करिष्ये । हिरण्यदानं कृत्वा । पंचगव्यं तूष्णीं संयोज्य पवमानस्सुवर्जनः इत्येतेनानुवाकेनाभिमन्त्र्य, शवं पंचगव्येन कुशतोयैश्च स्नापयित्वा, तिलैर्हस्तेनाहवनीये जुहुयात् । विश्वे देवस्यट्ठट्ठपुष्यसे स्व्हा ॥ कालात्मने सवित्र इदं । यमो दाधार पृथिवीं यमोद्यामुत सूर्यः । यमः सर्वमृत्युस्तेन प्राणानां वायूनां स्वाहा । यमायेदम् । उश्न्तसवा निधीमहि ट्ठ अत्तवे स्वाहा । पितृभ्य इदं । भूरादि चतुष्टयं च जुहुयात् ।
संस्कारविधिः
प्रधानानुज्ञा । अशेषेट्ठस्वीकृत्य प्राचीनावीती । गोत्रं यज्वशर्माणं मम पितरं प्रेतं त्रेताग्निभिः औपासनेन ब्रह्ममेधेन विधिना सह पैतृमेधिकेन विधिना पात्रैश्च संस्कर्तुं योग्यतासिद्धिमनुगृहाण ।
संकल्पः । पुण्यतिथौ । प्राचीनावीती । गोत्रं यज्वशर्माणं मम पितरं प्रेतं त्रेताग्निभिः औपासनेन ब्रह्ममेधेन विधिना सह पैतृमेधिकेन विधिना पात्रैश्च संस्करिष्यामि । तत्काले कृच्छ्रप्रत्याम्नाय हिरण्यदानं करिष्ये । हिरण्यदानं कृत्वा । सू । तं जघनेनगार्हपत्यं दक्षिणाशिरसं दर्भेषु संवेश्ययन्ति सर्वस्य प्रतिशीवरीति । सर्वेषु संवेशनेषु दक्षिणाशिराः । अपरेण गार्हपत्यं दक्षिणाग्रां दर्भान् संस्तीर्य तेषु दक्षिणाशिरसं प्रेतं संवेशयन्ति । सर्वस्य प्रतिशीवरीट्ठसप्रथाः । पूर्वयाद्वारोपनिर्हृत्यान्तराग्नी निपात्य, गार्हपत्याहवनीययोरन्तराले दक्षिणाग्रान्दर्भान् संस्तीर्य । तेषु दक्षिणाशिरसं संवेशयन्ति । अन्वारब्धे मृत आहवनीये स्रुवाहुतिं जुहोति । स्र्तुवेणाज्यं गृहीत्वा प्रेतमन्वारभा जुहोति । परेयुवाग्ंसं ट्ठदुवस्यत स्वाहा । यमाय राज्ञे वैवस्वतायेदम् । स्रुवेणैव (तसा सग्रहैर्होतृभिर्होमः। ) चित्तिः स्रुक् । नृम्णं दात्स्वाहा । वाचस्पतये ब्रह्मण इदम् । पृथिवी होता । ट्ठजजनदिन्द्रमिन्दियाय स्वाहा । वाचस्तये ब्रह्मण इदम् । अग्निर्होता ।ट्ठट्ठश्रुतः स्वाहा । वाचट्ठइदम् । सूर्यं ते चक्षुः । ट्ठट्ठहोत्रा मेरयस्व स्वाहा । वाचट्ठ इदम् । महाहविर्होता ।ट्ठट्ठट्ठपृथिव्यै स्वाहा । वाचट्ठइदम् । एवं गार्हपत्ये । परेयुवांसंचित्तिस्रुगादि षट् स्रुवाहुतीः पूर्ववद्गार्हपत्ये हुत्वा । तूष्णीमन्वाहार्यपचने । दक्षिणाग्नौ तूष्णीं हुत्वा औपासने च तूष्णीं षडाहुतीर्जुहुयात् । अथास्य दक्षिणेन विहारं परिश्रिते प्रेतस्य केश श्मश्रु लोमनखानि वापयित्वा स्नापयित्वा ग्राम्येणालंकारेणालंकृत्य शुक्लसूत्रेणांगुष्ठौ ( हस्त पादयोः ) बध्वा नळदमालामाबध्य ( वंजुळपुष्पकृतां वा ) औदुंबर्यामासन्द्यां कृष्णाजिनं दक्षिणाग्रीवमधरलोमास्तीर्य तस्मिन्नेनं ( प्रेतं ) उत्तानं निपात्य पत्तोदशेनाहतेन वाससा प्रोर्णोति । ( पादप्रदेशादारभ्य नववस्त्रेणाच्छादयति ) इदं त्वा वस्त्रं प्रथमन्वागन् । अथ अस्य पूर्वधारितवस्त्रमपादत्ते । अपैतदूह ट्ठ बन्धुषु ॥ तद्वस्त्रं पुत्रः भ्राता वा आसन्नबन्धुर्धारयेत् । अथाप उपस्पृश्य । अथ सन्नयतो मैत्रावरुण्यामिक्षायाश्चरोश्च सह प्रयोगः । मन्त्रवर्जं सर्रां तूष्णीं क्रियते । कर्तान्वाधाय शाखामाहृत्य निधाय परिस्तरणं परिभोजनीमुलपराजीं च छित्वा । प्रच्छन्नाग्रं वेदमुपवेषं च कृत्वा शाखामादाय अन्तर्वेदि प्रशात्य मूलत उपवेषं करोति न पर्णवल्कं । शाखापवित्रं कृत्वा समूहन्त्यग्न्यगारं , कुम्भ्यालेपनं , शाखानिधानं , वत्सापाकरणं , दक्षिणाग्रैर्दर्भैरग्नीनां परिस्तरणं , हस्तावनेजनं, अपरेणाहवनीयं दक्षिणापवर्गाः प्रतीचीस्तिस्र उलपराजीस्तीर्त्वा दक्षिणाग्नेः पश्चाद्दर्भान्संस्तीर्य तेषु पात्राणि प्रयुनक्ति । कुम्भीं शाखापवित्रमभिधानीं निदाने दारुपात्रं दोहनमुपवेषंचोत्तरतः प्रयुज्य स्फ्यमग्निहोत्रहवणीं शूर्पं कृष्णाजिनमुलूखलं मुसलं पात्रीमुत्पवनार्थं चरुस्थालीं च दक्षिणतः प्रयुज्य , पवित्रे कृत्वा , सपवित्रेण पाणिना पात्राणि संमृश्य अग्निहोत्रहवणीं शूर्पं चादाय दक्षिणाग्नौ प्रतितप्य यदि पात्र्या निर्वपेद्दक्षिणतः स्फ्यमुपधाय तृणादिकं निरस्याप उपस्पृश्य शूर्पे पवित्रे निधाय अग्निहोत्रहवण्या हविः ( तण्डुलं ) सकृदेव निरुप्य पवित्रान्तहर्तिायामग्निहोत्रहवण्यामप आनीय प्रोक्षणीस्संस्कृत्य त्रिः प्रागुत्पूयाभिमन्त्र्य हविस्त्रिः प्रोक्ष्य पात्राणि च सर्रााभिरद्भिः प्रोक्ष्य कृष्णाजिनमादाय सकृदवधूय सादयित्वा तस्मिन्नुलूखलं प्रतिष्ठाप्य तस्मिन् हविरुप्य मुसलमादाय सकृदवहत्य पुरस्ताच्छूर्पं निधाय तस्मिन्हविरुदुपा परापूय अधस्तात्कृष्णाजिनस्य तुषानुपवपति । पात्र्यां तण्डुलान् प्रस्कन्दयित्वा । अवेक्ष्य , पुनरादाय । उलूखले हविरोप्य सकृत्फलीकृत्य प्रक्षाल्य संक्षाळनजलमुत्करे निनीय उपवेषमादायाभिमन्त्र्य दक्षिणाग्नेः दक्षिणतोऽङ्गारौ निर्वर्त्र्य तयोरन्यतरं निरस्याप उपस्पृष्य दक्षिणमवस्थाप्य तस्मिन् चरुस्थालीमुपदधाति । तत आयतीर्गाः प्रतीक्ष्य कुम्भ्युपवेषशाखापवित्र दोहनान्यादाय गार्हपत्ये प्रतितप्य उपवेषमादाय गार्हपत्यात् दक्षिणतः अङ्गारान्निरूह्य तेषु कुम्भीमधिश्रित्य अङ्गारैः पर्यूह्य तस्यां दक्षिणाग्रं शाखापवित्रमत्याधाय कुम्भीमन्वारभ्य अभिधानीमादाय दोहनेन कुम्भ्यां पयस्सकृदेव । मित्रावरुणाभ्यां त्वा । इत्यासिच्य दोहनसंक्षालनं कुम्भ्यामानीय तण्डुलानुत्पूय स्थाल्यामप आनीय उत्पुनाति । स्थाल्यां तण्डुलानावपति । चरुं श्रपयित्वा तप्ते प्रातर्दोहे लौकिकं दध्यानयति । अथ चरुं त्रिः पर्यग्निकृत्वा आमिक्षां च त्रिः पर्यग्निकृत्वा पवित्रमुत्करे त्यजति । चरुमभिघार्य आमिक्षां च अभिघार्य चरुं दक्षिणत उद्वास्य आमिक्षामप्युद्वास्य उद्व्सनकाल आमिक्षां संहत्य द्वयोः पात्रयोरुद्धृत्य वाजिनैकदेशेनोपसिंचति । चरुमलंकृत्य ततोऽग्नीन्पुरतः कृत्वा प्रेतं चादाय ग्रामान्निर्गच्छन्ति । प्रेतस्याग्नीनामन्वारम्भः । अभ्रिं शाखां तिलां चरुं अग्नीन्याग्नीयानि काष्ठानि दर्भान् कनकशकलानाज्यं अग्निहोत्रोच्छेषणमामिक्षां लौकिकं दधि सिकता यज्ञपात्राणि कुम्भानेताञ्छवस्य पृष्ठतो हरेयुः । आदीयमानं प्रेतमनुमन्त्रयते । पूषात्वेतश्च्यानयतु ट्ठट्ठ सुविदत्रेभ्यः ॥ भर्तासन् भ्रियमाणो बिबर्ति ट्ठट्ठ नव ॥ अथाग्रेऽग्नीनधसम्भारानित्यादाय प्रेतं निर्हरेयुः । तुरीयमध्वनो गत्वा दक्षिणाशिरसं प्रेतं निधाय दक्षिणस्त्रीन् लोष्टान् खननेन गृहीत्वा तेषु लोष्टेषु चरुं प्रतिष्ठाप्य एकवाससो दक्षिणान् केशकक्षानाबध्य सव्यान् विस्रस्य दक्षिणानूरूनाघ्नानाः ( दक्षिणेन पाणिना ताडयन्तः ) सग्भिरभिधान्वन्तः ( अधो वस्त्राणि अवधून्वन्तः ) अनिष्टपूर्वास्त्रः प्रसव्य ( अप्रदक्षिणं ) परियन्ति । अपनः शोशुचदघं ___ अपनः शोशुचदघम् ॥ ( सर्वाग्नीनामपि परिक्रमणं ) सव्यान्केशानाबध्य दक्षिणन्विस्रस्य सव्यानूरूनाघ्नानाः ( सव्येन पाणिना ताडयन्तः ) अनभिधून्वन्तः ( वस्त्रप्रान्तेन वीजनमकुर्वन्तः) त्रिः प्रतिपरियन्ति । प्रदक्षिणं । ( नात्र कनिष्ठप्रथमादि नियमः ) अपनः शोशुचदघं ___ अपनः शोशुचदघम् ॥ अथसव्यं जान्वाच्य पूर्वनिहित लोष्टेषु त्रिषु तिलोदकं निनीय औदुंबरमेक्षणेन चरोस्तृतीयांशमादाय त्रिधा विभज्य लोष्टेषु प्रक्षिपति । ग्रामश्मशानयोर्मध्ये प्रथमाध्वनि भागे पथिवासिभ्यः भूतेभ्यः एतं पथिबलिं ददामि उपरि तिलोदकं निनीय पथिगोप्तृभ्यः इति मेक्षणेन लोष्टानि त्रीणि मिश्रयेत् । अथ तमादीयमानमनुमन्त्रयते । पूषे मा आशा ट्ठप्र विद्वान् ॥ भर्ता सन् ट्ठ नव ॥ तुरीयमध्वनो गत्वा निधाय पूर्ववद्दक्षिणतस्त्रीन् लोष्टानित्यादि । पथिगोप्तृभ्य इत्यन्तम् । चरोरर्धांशमादाय द्वितीयाध्वनिभागे इति विशेषः । प्रेतमादीयमानमनुमन्त्रयते । आयुर्विश्वायुः ट्ठदधातु । भर्ता सन् ट्ठ नव ॥ तुरीयमध्वनो गत्वा निधाय पूर्ववद्दक्षिणतस्त्रीन् लोष्टानित्यादि । निरवशेषं चरुमादाय तृतीयाध्वनिभागे पथिगोप्तृभ्य इत्यन्तं । अथास्य कपालानि सुसंभिन्नानि संभिनत्ति । यथैषूदकं न तिष्ठेत् तथा अवाग्बिलं भिन्द्यात् । अथ वाहकाः प्रेतमादाय श्मशानं गत्वा दहनदेशस्य पश्चद्भागे प्रेतं दक्षिणाशिरसं निधाय अग्नीनपि तत्रैव निधाय । अथ कर्त्रा सहामात्या उदीचीं दिशं गच्छेयुः । ( एषा वै देवमनुष्याणां शान्ता दिक् तामैवनमनूत्क्रामन्तीत्यर्थवादश्रुतिः न मन्त्रः । ) प्रत्येत्य ततः कर्ता ऊषरादि रहितस्थलं आर्द्रया पलाशशाखया शमी शाखया वा श्मशानायतनं अग्निभाण्डनिधान दारुचितियोग्यदेशं च संमार्ष्टि । अपेत वीत ट्ठ अस्मै । दक्षिणतः शाखां निरस्य अप उपस्पृश्य । पुनः शकलेनोद्धत्य अप उपस्पृश्य । अवोक्ष्य मध्ये हिरण्यशकलं निधाय ( अभावे आज्यबिन्दून्वा ) तस्मिन् दक्षिणाग्रान् दर्भान् संस्तीर्य तेषु दक्षिणाग्रैर्याज्ञैकैः काष्ठैः दारिचितिः चित्वा अग्नीनुपवपति । पुरस्तादाहवनीयं पश्चाद्गार्हपत्यं दक्षिणतोन्वाहर्यपचनं पुरस्तादौपासनं च निधाय दक्षिणाप्रागग्रैः दर्भैः अग्नीन् दारुचितिं च परिस्तीर्य दक्षिणतः पश्चाद्वा दर्भान् संस्तीर्य दक्षिणाप्रांच्येकैकशः पात्राणि प्रयुनक्ति । सर्वाणि यज्ञपात्राणि रज्जूरवकृत्यासन्तिमवविध्यन्ति । आसन्दीश्चित्वावास्यारज्जुषुचैव कृष्णाजिने चोत्तानश्शेते । एकपवित्रेणाग्निहोत्रहवण्यां प्रोक्षणीः संस्कृत्य अङ्गुष्ठबन्धनसूत्रे छित्वा मृतं पात्राणि दारुचितिं च सर्वाभिरद्भिः प्रोक्ष्यअथाज्यानि गृह्णाति दर्शपूर्णमासवत्तूष्णीं । सर्पिर्धानस्य बिलमपावृत्य दक्षिणाग्नावाज्यं विलाप्य आज्यस्थालीमादाय पवित्रान्तर्हितायामाज्यस्थाल्यामाज्यं निरुप्य दक्षिणाग्नावधिश्रित्य दक्षिणार्धे गार्हपत्यस्याधिश्रित्य आहवनीयेऽधिश्रित्य दक्षिणेन विहारं पात्रसमीपे सादयित्वा अवेक्ष्य उत्पूय चतुर्जुह्वां गृह्णाति , चतुरुपभृति , चतुर्ध्रुवायां जमदग्नीनामपि । अथ अग्निहोत्रोच्छेषणमन्येन दध्ना संसृज्य बिलवन्ति पात्राणि पूरयति । अबिलान्यभ्युक्षति अरिक्तताया इति विज्ञायते । ( अत्र साहस्रमूल्यं वरमध्वर्यवे दधाति । ) हस्तौ संमार्ष्टि सुवर्णेन ब्राह्मणस्य सुवर्णं हस्तादिति । सुवर्णंꣳ हस्तादाददानामृतस्य श्रियै ब्रह्मणे तेजसेबलाय ट्ठट्ठ जयेम । उभयोर्हस्तयोस्सकृदेव मन्त्रः । देवस्य त्वा ट्ठ प्रतिगृह्णातु । सर्वमन्त्रान्ते युगपत् उभयोः हस्तयोः संमार्जनं कार्यं । एवं उत्तरेषु सर्वेषु । देवस्य त्वा ट्ठ दक्षिणेऽग्नास्त्वा कृन्तन्न्पस्त्वातन्वत वरूत्रयस्त्वा वयं सोमाय वासः । तेनामृतत्वंट्ठ प्रतिगृह्णातु । देवस्य त्वा दक्षिणे रुद्राय गां तयामृतत्वमश्यां ट्ठप्रतिगृह्णातु । देवस्य त्वा ट्ठ दक्षिणे वरुणायाश्वं । तेनामृतत्वंट्ठ प्रतिगृह्णातु । देवस्य त्वा ट्ठ दक्षिणे प्रजापतये पुरुषं । तेनामृतत्वंट्ठ प्रतिगृह्णातु । देवस्य त्वा ट्ठ दक्षिणे मनवे तल्पं । तेनामृतत्वंट्ठ प्रतिगृह्णातु । देवस्य त्वा ट्ठ दक्षिणे त्वष्ट्रेऽजां । तयामृतत्वंट्ठ प्रतिगृह्णातु । देवस्य त्वा ट्ठ दक्षिणे पूष्णेऽविं । तयामृतत्वंट्ठ प्रतिगृह्णातु । देवस्य त्वा ट्ठ दक्षिणे निर्ऋत्या अश्वतरगर्दभौ । ताभ्याममृतत्वंट्ठ प्रतिगृह्णातु । देवस्य त्वा ट्ठ दक्षिणे हिमवतो हस्तिनं । तेनामृतत्वंट्ठ प्रतिगृह्णातु । देवस्य त्वा ट्ठ दक्षिणे गन्धर्वाप्सराभ्यां स्रगलंकरणे । ताभ्याममृतत्वंट्ठ प्रतिगृह्णातु । देवस्य त्वा ट्ठ दक्षिणे विश्वेभ्यो देवेभ्यो धान्यं । तेनामृतत्वंट्ठ प्रतिगृह्णातु । देवस्य त्वा ट्ठ दक्षिणे वाचेऽन्नं। तेनामृतत्वंट्ठ प्रतिगृह्णातु । देवस्य त्वा ट्ठ दक्षिणे ब्रह्मण ओदनं । तेनामृतत्वंट्ठ प्रतिगृह्णातु । देवस्य त्वा ट्ठ दक्षिणे समुद्रायापः । ताभिरमृतत्वंट्ठ प्रतिगृह्णातु । देवस्य त्वा ट्ठ दक्षिणे उत्तानायाङीरसायानः । तेनामृतत्वंट्ठ प्रतिगृह्णातु । देवस्य त्वा ट्ठ दक्षिणे वैश्वनराय रथं ट्ठ रथं । तेनामृतत्वंट्ठ प्रतिगृह्णातु । अथैनं चितावुपर्यध्यूहति रज्वादिसहितं प्रेतं चितावारोप्य अथास्य सप्तसु प्राणायतनेषु हिरण्यशकलान् प्रत्यस्यति आज्यबिन्दून् वा । सुवर्णं घर्ममिति चतुर्दशभिर्वाक्यैरास्ये । सुवर्णं घर्मं ट्ठ आत्मा जनानाम् । इत्यास्ये हिरण्यशकलं प्रत्यस्यति ब्रह्मेन्द्रमग्निमिति द्वादशभिर्वाक्यैः दक्षिणेऽक्षिकटे । ब्रह्मेन्द्रमग्निं ट्ठ कवयो निचिक्युः । इति दक्षिणे नेत्रे हिरण्यशकलं प्रत्यस्यति । शतं नियुत इति द्वादशभिर्वाक्यैः सव्येऽक्षिकटे । शतं नियुतः ट्ठ अहमस्मि । इति सव्ये नेत्रे हिरण्यशकलं प्रत्यस्यति । पुनः शतं नियुत इति दक्षिणे कर्णे । शतं नियुतः ट्ठ अहमस्मि । इति दक्षिणे कर्णे हिरण्यशकलं प्रत्यस्यति । सुवर्णं कोशमिति द्वादशभिः वामकर्णे । सुवर्णं कोशं ट्ठ शतधा चरन्तं । इति वामकर्णे हिरण्यशकलं प्रत्यस्यति । इन्द्रो राजेत्यष्टसप्तत्या वाक्यैः दक्षिणस्यां नासिकायां । इन्द्रो राजा जगयो य ईशे ट्ठ सुवीर्याय । दक्षिणस्यां नासिकायां हिरण्यशकलं प्रत्यस्यति । पुनस्तेनैव उत्तरस्यां नासिकायां । इन्द्रो राजा जगतो य ईशे ट्ठ सुवीर्याय । इति उत्तरस्यां नासिकायां हिरण्यशकलं प्रत्यस्यति । अथ मृतोपरि पात्राणि चिनोति । सर्वाण्यनुलोमानि ध्रुवा वर्जं । तस्य दक्षिणे हस्ते अग्निर्यजुर्भिः इति स्फ्यं जुहूं वसाहोमहवनींच उदगग्रं निदधाति । सव्ये हस्ते सविता स्तोमैः इति उपभृतं पृषदाज्यधानीं च । उरसि इन्द्रौक्थामदैः इति ध्रुवामरणी च । ध्रुवा दक्षिणाग्रा अरणी चोदगग्रे । मुखे ( आस्ये ) मित्रावरुणावाशिषा इत्यग्निहोत्रहवणीं । नासिकयोः स्रुवौ अङिरसो धिष्णियैरग्निभिः । इति दक्षिणस्यां नासिकायामेकं स्रुवं । मरुतस्सदोहविर्धानाभ्यां इत्युत्तरस्यामेकं स्रुवं । अक्ष्णोर्हिरण्यशकलावाज्यस्रावौ वा । आपः प्रोक्षणीभिः इति दक्षिणेऽक्षिकटे हिरण्यशकलं प्रत्यस्यति । ओषधयो बर्हिषा इति सव्येक्षिकटे हिरण्यशकलं प्रत्यस्यति । कर्णयोः प्राशित्रहरणं भित्वा निदधाति अदितिर्वेद्या इति दक्षिणे कर्णे एकं भागं । सोमो दीक्षया इति वामकर्णे एकं भागं । हन्वोरुलूखलमुसले ( आस्योपान्तदेशौ ) ।त्वष्टेध्मेन इति दक्षिणे उलूखलं । विष्णुर्यज्ञेनेति सव्ये मुसलम् । दत्सु ग्राव्णः सोममध्ये मृतश्चेत् ग्राव्णां चयनम् । तत्परं चेन्नास्ति । शिरसि कपालानि वसव आज्येन इति ललाट एककपालं । आदित्या दक्षिणाभिः इति उदरे पिष्टसंयमनीं पात्रीं । विश्वे देवा ऊर्जा इति नाभेः ऊर्ध्वदेशे पात्रीं निदधाति । नाभ्यामाज्यस्थालीं पूषा स्वगाकारेण इति पार्श्वयोः शूर्पे छित्वा वैकं । बृहस्पतिः पुरोधया इत्येकं भागं दक्षिणपार्श्वे । प्रजापतिरुद्गीथेन इत्यपरं भागं वामपार्श्वे । वङ्क्ष्णयोस्सान्नाय्यकुम्भ्यौ । अन्तरिक्षं पवित्रेण दक्षिणकटिप्रदेशे सायंदोहकुम्भीं । वायुः पात्रैः इति उत्तरकटिप्रदेशे प्रातर्दोहकुम्भीं । अण्ड्योर्दृषदुपले । अहं श्रद्धया दक्षिणेऽण्डे दृषत् । अग्निर्यजुर्भिः सव्येऽण्ड उपलं । शिश्ने दृषारवं शम्यां च । सविता स्तोमैः यदि शम्ययैव समाहननं तदा शिश्ने शम्यैवात्र निदधाति । प्रतिष्ठयोरग्निहोत्रस्थालीमन्वाहार्यस्थालीं च । इन्द्र उक्थामदैः दक्षिणपादतले अग्निहोत्रस्थालीं । मित्रावरुणावाशिषा सव्य पादतलेऽन्वाहार्यस्थालीं । पत्त उपावहरणीयं कूर्चं । अङ्गिरसो धिष्णियैरग्निभिः पादतले उपयमनार्थकूर्चं । शिरस्त उपसादनीयं । मरुतस्सदो हविर्धानाभ्यां शिरस्युपसादनकूर्चं । आपः प्रोक्षणीभिः इडापात्रं च शिरसि निदधाति । ओषधयो बर्हिषा इति शिखायां वेदं निदधाति । इममग्ने चमसं ट्ठ मादयन्तामिति शिरसः मध्ये प्रणीताप्रणयनं दारुचमसं निदधाति । अवशिष्टान्यन्तरासक्थिनि । अवशिष्टानि पात्राणि ऊरुवोरन्तराले निदध्यात् । तत्र मन्त्राभावात् युगपन्निधानं । हस्तयोरेव मैत्रावरुणीमामिक्षां मित्रावरुणाभ्यां त्वा इति पात्रेण सह युगपद्धस्तयोर्निदधाति । ( मन्त्रावृत्तिर्वा ) यस्य पुनर्दहनं कर्तुं इष्टं तस्य अग्निहोत्रहवणीं कृष्णाजिनं शम्यां दृषदुपले ( अरणी ) चादाय प्रज्ञातं निदधाति । अथाग्निसहितामात्याः ( दध्याज्य ) तिलतण्डुलान् प्रेतस्यास्ये निक्षिपति । अथैनमुपोषति मैनमग्न इति पुरस्तादाहवनीयेन । मैनमग्न ट्ठ पितृभ्यः । ज्योतिष्मतीं ट्ठ सादयामि इति च उक्त्वा पुरस्तादाहवनीयाग्निना चितेरेव अत्र साक्षादग्निसंयोगः कार्यः । शृतं यदेति पश्चाद्गार्हपत्येन । शृतं यदा ट्ठ भवाति । ज्योतिष्मतीं ट्ठ सादयामि इति पश्चात् गार्हपत्याग्निसंयोगः कार्यः । तूष्णीं दक्षिणतः अन्वाहार्यपचनेन दक्षिणतो दक्षिणाग्निसंयोगः । तूष्णीं पुरस्तादौपासनाग्निसंयोगः कार्यः । अथ चितेरुत्तरतः दक्षिणामुखस्तिष्ठन् प्रेतमुपतिष्ठते सूर्यं ते चक्षुर्गच्छतु ट्ठ प्रतितिष्ठा शरीरैः । सहस्रशीर्षा पुरुषः ट्ठ सन्ति देवाः । अद्भ्यः संभूतः पृथिव्यै रसाच्च ट्ठ सर्वं मनिषाण । इति द्वाभ्यामनुवाकाभ्यां च उपस्थाय अथ सादितमैष्टिकस्रुवमाज्यस्थालींचादाय जघनेन चितिमुपविश्य नवस्रुवाहुतीर्जुहोति य एतस्येति । य एतस्य पथो गोप्तारस्तेभ्यः स्वाहा ।
एतत् पथगोप्तृभ्य इदं । य एतस्य पथो रक्षितारस्तेभ्यः स्वाहा । एतत् पथरक्षितृभ्य इदं । य एतस्य पथोऽभिरक्षितारस्तेभ्यः स्वाहा । एतत् पथाभिरक्षितृभ्य इदं । आख्यात्रे स्वाहा । आख्यात्र इदं । अपाख्यात्रे स्वाहा । अपाख्यात्र इदं । अभिलालपते स्वा । अभिलालपत इदं । अपलालपते स्वाहा । अपलालपत इदं । अग्नये कर्मकृते स्वाहा । अग्नये कर्मकृत इदं । यमत्र नाधीमस्तस्मै स्वाहा । अनधीयमानायेदं । प्रयासाय स्वाहा । प्रयासायेदं । आयासाय स्वाहा । आयासायेदं । वियासाय स्वाहा । वियासायेदं । संयासाय स्वाहा । संयासायेदं । उद्यासाय स्वाहा । उद्यासायेदं । अवयासाय स्वाहा । अवयासायेदं । शुचे स्वाहा । शुच इदं । शोकाय स्वाहा । शोकायेदं । तप्यत्वै स्वाहा । तप्यत्वा इदं । तपते स्वाहा । तपत इदं । ब्रह्महत्यायै स्वाहा । ब्रह्महत्याया इदं । सर्वस्मै स्वाहा । सर्वस्मा इदं । अत्र स्रुवमाज्यस्थालीं च पूर्वं यत्र सादितं तत्र पुनस्सादयेत् । अथ दहनदेशस्य पश्चात्तूष्णीं निरसनोपवेशने कृत्वा प्राङ्मुख उपविश्य सव्योत्तरमुपस्थं कृत्वा याम्येन सूक्तेन नवर्चेन पाराचानुशंसति ( अनभ्यासेन ) एकश्रुत्या । प्रकेतुना बृहता ट्ठववर्धों इदंत एकं ट्ठसधस्थों नाके सुपर्णं ट्ठ भुरण्यों अतिद्रव ट्ठमदन्तों यौ ते श्वानौ धेहों उरुणसावसुतृपावलुंबलौ ट्ठ भद्रों सोम एकेभ्यः पवते ट्ठ गच्छतों ये युध्यन्ते ट्ठ गच्छतों तप सा ये अनाधृष्याः ट्ठ गच्छतों हरिग्ं हरन्तं ट्ठ क्रमस्वों माछिदो मृत्यो मा वधीः ट्ठ विधेमों सद्यश्चकमानाय ट्ठ तूपमामभों परं मृत्यो अनु परेहि ट्ठ वीरों प्र पूर्व्यं मनसा ट्ठ मृतस्यों इत्यनिशंसनं कृत्वा जघनेन दहनदेशं उदीचीस्तिस्रः ( दहनदेशस्य पश्चादुदगायताः )कर्षूः खात्वा अश्मभिः सिकताभिश्च उपप्रकीर्य अयुग्भिः उदकुम्भैः अपः परिप्लाव्य तासु कनिष्ठप्रथमाः ज्ञातयस्संगाहन्ते । ( प्रविशन्ति )अश्मन्वती रेवतीः ट्ठ उत्तरेम । आप्यायस्व मदिन्तम ट्ठ सप्रथस्तमः । जघनेन कर्षूः पलाशशाखे शमीशाखे वा निखनन्ति । (कर्षूणां पश्चिमे भागे द्वे पलाशाशाखे शमीशाखे वा दक्षिणतोत्तरतो भूमौ स्थापयन्ति ) अथैने दर्भमयेन शुल्बेन संबध्यते अन्तरेण प्रसर्पयन्ति । ( शाखयोरग्रभागे दर्भमयेन शुल्बेन तोरणवद्बध्वा तयोश्शाखयोर्मध्ये कनिष्ठप्रथमा गच्छन्ति ) यद्वै देवस्य सवितुः ट्ठ पुनामि । जघन्यः शखे व्युदस्यति ( सर्वेषां पश्चाद्भागे कर्ता शाखे उत्क्षिप्य निरस्यति ) । या राष्ट्रात्पन्नात् ट्ठ संसृजाता । अप उपस्पृश्य सर्वे यज्ञोपवीतिनो भूत्वा आदित्यमुपतिष्ठन्ते । उद्वयं ट्ठ उत्तमं । तरणिर्विश्वदर्शतः ट्ठ भ्राजस्वते । अनवेक्षमाणा अपोवगाहन्ते । ( श्मशानमनवेक्षमाणाः सर्वे कनिष्ठप्रथमाः स्नानं कुर्युः ) ध्ता पुनातु सविता ट्ठ वर्चसा । ईतुष्टे ये ट्ठ पश्यान् इति च मन्त्रमुक्त्वा अवगाह्य केशान् प्रकीर्य पांसुनोप्येत्यादि ब्रह्मदण्डं ततो वपनं । नग्नप्रच्छादनश्राद्धं । नदीतीरपाषाणस्थापनादि पिण्डोद्वासनान्तं सर्वं प्रथमदिनकृत्यमनाहिताग्निवत् ।
श्मशानाग्न्यनुगतौ प्रायश्चित्तम्
अशेषे ट्ठ स्वीकृत्य गोत्रस्य प्रेतस्य अद्य द्वितीयेन्हि श्मशानाग्न्यनुगतप्रायश्चित्तं कर्तुं योग्यतासिद्धिं अनुगृहाण । प्राणानायम्य गोत्रस्य द्वितीयेन्हिश्मशानाग्न्यनुगतप्रायश्चित्तं करिष्ये । तत्काले कृछ्रप्रत्याम्नाय हिरण्यदानं करिष्ये । हिरण्यदानं कृत्वा , श्मशानभस्मना नित्यारणा संस्पृश्य मथित्वा चितेर्दक्षिणतः उद्धत्य अवोक्ष्य मथनाग्निं प्रतिष्ठाप्य परिस्तरणादि प्रोक्षणीः संस्कृत्य आज्यसंस्कारं दर्विसंस्कारं च कृत्वा अग्निमपसव्यं परिषिच्य द्वादशगृहीतेन स्रुचं पूरयित्वा प्रजापतिं मनसा ध्यायन् ओं भूर्भुवस्सुवस्स्वाहा । प्रजापतय इदं । ( चतुर्गृहीतेन अयाश्चाग्नेऽसि ट्ठ भेषजं स्वाहा । अग्नये अयस इदं । सकृद्गृहीतेन अनाज्ञातं , पुरुषसंमितः , यत्पाकत्राः , भूरादि चतुष्टयं च हुत्वा ) अग्निमपसव्यं परिषिञ्चेत् ।
संचयनम्
अथ संचयनम्
अशेषे ट्ठ स्वीकृत्य गोत्रस्य प्रेतस्य अद्य द्वितीयेऽन्हि अस्थिसंचयनं कर्तुं योग्यता सिद्धिमनुगृहाण । प्राणानायम्य गोत्रस्य द्वितीयेऽन्हि अस्थिसंचयनम् करिष्ये । तत्काले कृछ्रप्रत्याम्नाय हिरण्यदानं करिष्ये । हिरण्यदानं कृत्वा उदकघटे क्षीरमुत्सिच्य पादप्रदेशे दक्षिणाभिमुखो भूत्वा, यं ते अग्निममन्थाम ट्ठ अवशीयताम् । पंचानां मन्त्राणां अन्ते अस्थीनि सकृदवोक्षति । अथ चितेः अंगारान् दक्षिणतो निर्वर्त्य दहनस्थान दक्षिणभागे उद्धत्यावोक्ष्य अग्निं प्रतिष्ठाप्य दक्षिणाग्रौर्दर्भैः परिस्तीर्य दक्षिणतः पात्रसादनं स्रुवं ( याज्ञीयदारुणा कार्यः ) आज्यस्थालीं प्रोक्षणीं इत्येकैकशः सादयित्वा एकपवित्रेण प्रोक्षणीः संस्कृत्य पात्राणि प्रोक्ष्य आज्यसंस्कारं दर्विसंस्कारं च कृत्वा अग्निमपसव्यं परीषिच्य तिस्रः स्रुवाहुतीर्जुहोति । स्रुवेणाज्यं गृहीत्वा अवसृज पुनरग्ने ट्ठ जातवेदः स्वाहा । अग्नये जातवेदस इदं । संगच्छस्व पितृभिः ट्ठ दधातु स्वाहा । देवाय सवित्र इदं । यत्ते कृष्णश्शकुनः ट्ठ आविवेश स्वाह । अग्नीषोमाभ्यामिदं । अनाज्ञातत्रयं भूरादि चतुष्टयं च हुत्वा स्रुवमग्नौ प्रहृत्य अग्निमपसव्यं परिषिंचति । प्राणानायम्य, गोत्रस्य प्रेतस्य अद्य द्वितीयेऽन्हि चित्यां श्व सृगाल चण्डालादि स्पर्शेन यो दोषः ट्ठ परिहारार्थं प्राजापत्य कृछ्रत्रय प्रत्याम्नाय हिरण्यदानं करिष्ये । हिरण्यदानं कृत्वा अयुक्संख्याका स्त्रियः अयुग्भिः उदकुम्भैः तीर्थैः अशेषाण्यस्थीन्यवोक्षति । यस्याः पुनर्विजननं न स्यात् । सा सव्ये हस्ते नीललोहिताभ्याम् सूत्राभ्यां बृहतीफ्लमाबध्य सव्येन पदा अश्मानमास्थाय सव्येनपाणिना अनन्वीक्षमाणा अस्थीन्यादत्ते । उत्तिष्ठातस्तनुवं ट्ठ सविता दधातु तत् । सव्यहस्त अनामिकाङ्गुष्ठाभ्यां दन्तास्थीनि शीरोस्थीनि वा आदाय नेत्रे निमील्य कुम्भे ( वाससि वा ) निदधाति । इदं त एकं इति द्वितीया । अंसाभ्यां बाहुभ्यां वा आदाय कुम्भे निदधाति । पर ऊत एकमिति तृतीया । पार्श्वाभ्यां श्रोणीभ्यां वा । तृतीयेन ज्योतिषा सम्विशस्व इति चतिर्थी । ऊरुभ्याम् जंघाभ्यां वा । सवेशनस्तनुवै चारुरेधि ट्ठ सधस्थे । इति पञ्चमी । पद्भ्यामादाय कुम्भे निदधाति । एवमेव अयुजाकारं सुसंचितं संचिन्वन्ति । उत्तिष्ठात इत्यादि पंचभिर्मन्त्रैः दन्तादि पादपर्यन्तान्यस्थीनि पूर्ववत्पुनः पुनः समन्त्रकं त्रिभिः पंचभिर्वा पर्यायैः सर्वाण्यस्थान्यादाय पूर्ववत्कुम्भे प्रक्षिपति । क्षुद्राण्यपि । अथ सर्वास्थिसंचयनानन्तरं तदवशिष्टं भस्म समूह्य दक्षिणाशिरसं शरीराकृतिं कुर्यात् । भस्माकृतिशरीरे पंच पण्यानि ददाति । श्मशानवासिभ्यो भूतेभ्यः इमानि पण्यानि लाजान्मुद्गान्यपूपानि सर्वभक्ष्यानि ददामि । उपस्थानं श्मशानवासिभूताः इमानि पण्यादीनि उपतिष्ठध्वं । अथ अस्थिकुम्भं वस्त्रेण कपालेन वा पिधाय कर्तास्थिकुम्भमादायोत्तिष्ठति । उत्तिष्ठ प्रेहि ट्ठ अधिरोहेमम् । अथ नदीतीरं गत्वा अघमर्षण सूक्तेन अस्थीनि क्षीरेण प्रक्षाल्य । अनुज्ञा अशेषे ट्ठस्वीकृत्य गोत्रस्य प्रेतस्य अद्य द्वितीयेऽहनि अस्थि स्थापनं कर्तुं योग्यतेसिद्धिमनुगृहाण । प्राणानायम्य , अस्थिस्थापनं करिष्ये तत्काले कृछ्रप्रत्याम्नाय हिरण्यदानं करिष्ये । हिरण्यदानं कृत्वा । शमीवृक्षमूले पलाशवृक्षमूले वा अवटं खात्वा तस्मिन्नवटे दक्षिणाग्रान् दर्भान् संस्तीर्य तेषु तूष्णीमस्थिकुम्भं निधाय मृद्भिराच्छादयेत् ।
हविर्यज्ञयाजिनो निवपनकर्मो
हविर्यज्ञयाजिनो निवपनकर्मोच्यते ।
अशेषे ट्ठ स्वीकृत्यगोत्रस्य प्रेतस्य अक्षय्यानन्तपुन्यलोकावाप्त्यर्थं अस्थिनिवपन कर्म कर्तं योग्यतासिद्धिमनुगृहाण । प्राणानायम्य, गोत्रस्य प्रेतस्य अक्षय्यानन्तपुण्यलोकावाप्त्यर्थं अस्थिनिवपनकर्म करिष्ये । तत्काले कृछ्रप्रत्याम्नाय हिरण्यदानं करिष्ये । हिरण्यदानं कृत्वा । कुम्भनिधानस्य पश्चात् समभूमिप्रदेशे उद्धतेऽवोक्षते सिकतोपोप्ते परिश्रिते दक्षिणाग्रेषु दर्भेषु वाग्यतः अनन्वीक्षमाणः अस्थीनि निवपेत् ( मन्त्रान्ते ) पृथिव्यास्त्वा अक्षित्या अपामोषधीनाग्ं रसे । स्वर्गे लोके निवपामि देवदत्तशर्मन् इति । अथ निवपनदेशस्य पश्चात् कर्श्वादि उदीचीस्तिस्रः कर्षूः खात्वेत्यादि धाता पुनात्वित्यन्तं पैतृमेधिकेन विधिनैव पूर्ववत्कर्तव्यं ।
सोमयाजिनः पुनर्दहनकर्म
अथ सोमयाजिनः पुनर्दहनकर्मोच्यते ॥
अशेषे __ स्वीकृत्य गोत्रस्य प्रेतस्य अक्षय्य (अनन्त) पुण्यलोकावाप्त्यर्थं पुनर्दहनंकर्तुं योग्यता __ गृहाण । प्राणानायम्य गोत्रस्य प्रेतस्य अक्षय्यान्त पुण्यलोकावाप्त्यर्थं पुनर्दहनकर्म करिष्ये तत्काले कृछ्रप्रत्याम्नाय हिरण्यदानं करिष्ये हिरण्यदानंकृत्वा हिरण्यशकलघृतपूरणकूंभदर्भशाखाग्निहोत्रहवण्यादीनि यज्ञपात्राणि याज्ञिक काष्ठांश्च आदाय कर्ता पुनर्दहनदेशंगत्वा अत एव अंगारान् दक्षिणान् निर्वर्त्य पलाशशाखया शमीशाखयावा पुनर्दहनदेशं सम्मार्ष्टि । अपेतवीत __अवसानमस्मै दक्षिणतः शाखान्निरस्य अप उपस्पृष्य उद्धत्य अवोक्ष्य मध्ये हिरण्यशकलं निधाय तस्मिन्दक्षिणाग्रान् दर्भान् संस्तीर्य तेषु कृष्णागिनं दक्षिणाग्रीवं अधरलोमास्तीर्य तस्मिन् दक्षिणकुंभां शम्यां निधाय तदुपरि दृषदन्निधाय तदुपरि उपलान्निधाय तदुपरि अस्थीनि निधाय गृतैः आसिच्य पेषयित्वा आज्यकुंभे समुदायुत्य सम्यगालोड्य द्रवीकृत्य तस्मादाज्यात् अग्निहोत्रह्वणीं पूरयित्वा अस्मात्वमधि जातोसि इत्येतयर्चा जुहोति, अस्मात्वमधि जातोस्ययं त्वदधिजायताम् । अग्नये वैश्वानराय सुवर्गाय लोकायस्वाहा ॥ अग्नये वैश्वानरायेदं (सू) एतयैवान्तं यावद्भिः पर्यायैः अस्थिपेष संयुक्तमाज्यं निरवशेषं हुतंभवेत् तावत्कृत्वः पुनः पुनः पूरयित्वा येतयैवर्चा पुनः पुनः अभ्यस्यमानया जुहुया अस्मिन्नेव पुनर्दहनाग्नौ अग्निहोत्रहवणीं कृष्णाजिनं शम्यां दृषदुपले च अनुप्रहरेयुः । एवं पुनर्दहनेकृते कृष्णमृत्तिकामानीय पुनर्दहनदेशं धिष्णियरूपेण प्रच्छादयॆत् । नात्र कर्ष्वादिकर्म अनुपदेशात् । मन्त्रस्माम्नाये च अस्मिन् स्थाने तन्मन्त्राणां अनाम्नानात् ॥ ओम् ॥
लोष्टचयनकर्म
अथ लोष्टचयनकर्म
अयुग्मे दिवसे कर्तव्यं । अशेषे ट्ठ स्वीकृत्य । प्राचीनावीती गोत्रस्य प्रेतस्य उत्तमलोकप्राप्त्यर्थं लोष्टचयनकर्म करिष्ये । तत्काले कृछ्रप्रत्याम्नाय हिरण्यदानं करिष्ये । हिरण्यदानं कृत्वा श्मशानायतनात् पाठादिनुद्धत्य खात्वा प्राणिगणं व्यपोह्य अयुजो युजो वा बारणाभ्रीरादाय दहनदेशादुत्तरतः लोष्टानवरुज्य खात्वा दहनदेशस्य दक्षिणातिहरन्ति । स्थलार्थानिष्टकार्थान् वा चयनदिवसात् पूर्वेद्युः पूर्वाह्णे पाठाद्युद्धरणं लोष्टखननं च कारयित्वा अपराह्णे श्मशानायतनं मिमीते । चयनार्धं वेदिमानं । पंचारत्निमान वारणदण्डेन परितो वेदिमानं । सर्वत्र पुरस्तादारभ्य प्रसव्यं दक्षिणतोऽपवर्गः । चतुरश्रं समं लोष्टचितेरायतनं भवति । अवांतरदिक्षु चतुरो वारणाक्षन्निहत्य तेषु मौंज्यारज्वा प्रसव्यावृत्तया दक्षिणपूर्वस्यं दिश्यारभ्य त्रिः प्रसव्यं परिव्ययति । अयुग्भिरुदकुम्भैः स्व वोक्षितमवोक्षेत् । यथा प्राणदुत्सर्पेत् । अथ करणी प्रमाणं । परितः पंचांगुलं ऊर्द्वप्रमाणं षडंगुलं । इष्टकानां संख्योच्यते । षट् शता इष्टका करोति । तासां पादेष्टका द्वात्रिंशत ( इतरा अखण्डाः ) एवं प्रथहनि कृत्वा विरमति । अथ द्वितीयेहनि । शक्तितो ब्रह्मणान् भोजयित्वा वक्ष्यमणान् सम्भारान् संभरति । अथ सम्भारा उच्यन्ते । पंच स्थाल्यः चरु श्रपणर्थाः तदपिधानार्था अपूपाश्च । तेषामभिघारणानि घृतं शृतं क्षीरं दधिमध्विति । ग्राम्यारण्याश्चौषधयः । व्रीहीन्यवान्माष तिलानित्यादि । सतिला धाना अतिलाधाना पुराणसर्पिः समूलाः कुशा भुक्तभोगवासाः नलेशिकाः पालाशाश्चत्वारः परिधयः सिकता ऊषाः शर्कराः अर्धशरावः । पक्वमभिवान्यपयः । सक्तव उदुम्बरपात्रं विधृतिलोष्टं शमीशाखा पलाशाशाखा मौंजीरज्जुः अस्थिकुम्भं दूर्वास्तम्बं दर्बस्तम्बं ओषधिपात्री अव्णी पलाशशाखे औदुंबरशाखां खनित्रं लांगलं अन्यानि कर्षणासाधनानि शम्यादीनि वारणानि एतानि द्रव्याणि संभृत्य द्वितीयेहनि विरमति । तदीय निशायां लौकिक्योररण्योः समारोपितमग्निं मथित्वा तस्मिन्नग्नौ पंच चरून् श्रपयति । तेषामभिघारणानि घृतं शृतं क्षीरं ( पक्वं पयः ) दधिमध्विति यथाक्रममभिघार्य अपूपैश्चपिधय पूर्वोक्तभाजने चरून् प्रज्ञातान् निधाय विरमति । अपररात्रे श्मशान समीपं गच्छन्ति । अग्निप्रथम उदकुम्भः अनड्वान् शरीराणि संभाराः इति येन चान्येन अर्थी भवति । नहीनमन्वाहरेयुः । अंतराग्रावं श्मशानंचैतमग्निमिंधान आस्ते । व्युष्टायां तृतीयेऽहनि हरिण्या पलाशशाखया श्मीशाखाया वा श्मशनायातनं संमार्ष्टि । अपेत वीत ट्ठ अवसानमस्मै । दक्षिणतः शाखामुदसित्वा अप उपस्पृश्य । उद्धत्य अवोक्ष्य । सवितैतानि ट्ठ अघ्नियाः । इति सकृन्मंत्रमुक्त्वा षड्गवं सीरं युनक्ति । ( षड्गवं द्वाल्शगवं चतुर्विंशतिगवं वा यावद्गवं सीरं तावंति शतानि इष्ठकानामामाभवन्तीति विज्ञायते ) चयनदेशस्य दक्षिणमंसमारभ्य प्रसव्यं कृषति । शुनं वाहाः ट्ठ उपसिंचतं । इति द्वाभ्यां प्रसव्यावृत्तया षट् पराचीं सीताः कृषति । तस्मिन्नंसे परिसमाप्य उद्यम्य लांगलं । सीते वन्दामहे त्वार्वाची ट्ठ सुफलाससि । सीताः प्रत्यवेक्षते । एवं द्वितीये तृतीये चतुर्थे पंचमे षष्ठे च शुनं वाहा इति द्वाभ्यां कृषति । सीते वन्दामहे इति च अवेक्षते । लांगलं निधाय सवितैतानि शरीराणि ट्ठ संभव । मध्ये कृष्टस्य अस्थिकुंभं निदधाति । विमुच्यध्वमघ्निया ट्ठ सुवरगन्म । बहुवचनात् सकृदेव मन्त्रः । दक्षिणेऽंसे बलीवर्दान् विमुच्य तान् दक्षिणेन उत्सृज्याध्वर्यवे ददाति । ( पत्नी वान्यो वा ब्राह्मणः । यत्र तु पुत्रादिरेव कर्ताभवति न तत्र दानं ।) उदपात्रेण उदुंबरशाखया प्रोक्षति । प्रावाता वान्ति ट्ठ रेतसावती । इति सकृदवोक्षति । पुरस्तादारभ्य दक्षिणतोपवर्गः । पात्र्यां सर्वौषधीः संयुत्यवपति प्रसव्यं यथा यमाय हार्म्यं ट्ठ भूरयः । इति तिलमाषद्याः संसृज्य वपति । चितस्थ परिचित ट्ठ सीदत । अपरिमिताभिः शर्कराभिः परिश्रित्य तिस्रः तिस्रः सम्हिताः प्रसव्यं प्रतित्रिकं मन्त्रावृत्तिः । आप्यायस्व ट्ठ संगथे । दक्षिण्त उपक्रम्य तत्रैवापवर्गंं सिकता व्यूहति । विधृतिलोष्टान् प्रतिदिशमनन्वीक्षमाणः उपदधाति ।( ये अन्तर्विधाद्बहिर्विधं आपन्ना भवन्ति । ) पुरस्तादारभ्य प्रसव्यं दक्षिणापवर्गं । उत्ते दभ्नोमि पृथिवीं ट्ठ मिनोतु । इति पुरस्तात् । उपसर्प मातरं ट्ठ उपस्थे उत्तरतः । उछ्वंचस्व पृथिवि ट्ठ वृणु पश्चात् । उछ्वंचमाना ट्ठ सन्त्वत्र दक्षिणतः । अथ तिलमिश्राभिः धानाभिः त्रिः प्रसव्यं परिकिरति । एणीर्धाना हरिणीः ट्ठ अनपस्फुरंतीः । अभिवान्यायै दुग्धस्यार्धशरावे सक्तूनोप्य त्रिः प्रसव्यं मथित्वा आमपात्रस्थम् दक्षिणतः अभ्यंतरमवटं खात्वा उपदधाति । एषा ते यमसादने ट्ठ नाम ते यज्ञशर्मन् । ( मृतस्य नमगृह्णीयात् ।) समूलंबर्हिर्दक्षिणाग्रं स्तृणाति । इदं पितृभ्यः ट्ठ संविदानः । पालाशान् परिधीन् परिदधति । मा त्वा वृक्षौ सम्बाधिष्टां ट्ठ यमराज्ये । पूर्वापरौ दक्षिणाग्रौ युगपद्धस्ताभ्यं उत्तरया दक्षिणोत्तरौ मा त्वा वृक्षौ संबाधेथां मा माता ट्ठ यमराज्ये विराजसि । दक्षिणोत्तरौ प्रागग्रौ युगपन्निदध्यात् । मध्ये नळेषीकां निदस्धाति । नळं प्लवमारोहैतं ट्ठ प्रतरोत्तर । अथ पुराणेन सर्पिषा श्रीराणि सु संतृप्तानि सन्तर्प्य उत्तरत आसीनः अनन्वीक्षमाणः दर्भेषु अस्थीनि निवपति । सवितैतानि शरीराणि पृथिव्यै मातुरुपस्थ आदधे ट्ठ शं भव । यथा लिंगमंगानि सन्निधाय ( यथा पूर्वं दक्षिणाशिरसं कृत्वा ) अथैनमुपतिषठते । षड्ढोता सूर्यं ते चक्षुर्गच्छतु ट्ठ शरीरैः । भुक्तभोगेन वाससा अस्थिकुम्भं निमृज्य उपर्युपरि शिरः दक्षिणा व्युदस्यति । परं मृत्यो अनु ट्ठ वीरान् । दक्षिअथास्य कपालानि सुसम्भिन्नानि सम्बिनत्ति । यथैषूदकं न तिष्ठेत् । अथ येन वाससा कुम्भं निमार्ष्टि तेन वाससा ( पत्तोदशेन ) शरीराणि प्रच्छाद्य उदपात्रेणोदुंबरशाखया अवोक्षति । शं वातः शं हि ते ट्ठ शग्माः । हस्तेन सह अवोक्षति । इष्टकाः प्रतिदिशमनन्वीक्षमाणः उपदधाति । म यि गृह्णाम्यग्रे अग्निं ट्ठ परागात् । द्वाभ्यामात्मन्नग्निं गृहीत्वा । यास्ते अग्ने समिधो यानि धाम ट्ठ प्रजानन् । स्वयं चित्या अभिमृश्य । वाङ्म आसन् ट्ठ मा मा हिंसीः । इत्यारुह्य प्रतिदिशमनन्वीक्षमाणः इष्टकाः उपदधाति । पृथिव्यास्त्वा लोके सादयामि ट्ठ सीद । पुरस्तादुपदधाति ।( अमुष्यशब्दस्यस्थाने षष्ठ्या विभक्त्या नामग्रहणं वेदभाष्ये उक्तत्वात् ।) अन्तरिक्षस्य त्व लोके सादयामि देवदत्तस्य शर्मासि पितरो देवता । प्रजापतिस्त्वा ट्ठ धृवा सीद । इत्युत्तरत उपदधाति । दिवस्त्वा लोके सादयामि देवदत्तस्य शर्मासि पितरो देवता । प्रजापतिस्त्वा ट्ठ धृवा सीद । इति पश्चादुपदधाति । दिशां त्वा लोके सादयामि देवदत्तस्य शर्मासि पितरो देवता । प्रजापतिस्त्वा ट्ठ धृवा सीद । इति दक्षिणतः । नाकस्य त्वा पृष्ठे सादयामि देवदत्तस्य शर्मासि पितरो देवता । प्रजापतिस्त्वा ट्ठ धृवा सीद । मध्ये पंचमीं । ब्रध्नस्य त्वा विष्टपे सादयामि देवदत्तस्य शर्मासि पितरो देवता । प्रजापतिस्त्वा ट्ठ धृवा सीद । तां दक्षिणेन षष्ठीमुपदध्यात् । एवं चरून्पूपवानिति प्रतिमन्त्रं प्रतिदिशमवटान् मध्ये च खात्वा तेषु चरूनुपदधाति । अपूपवान् घृतवान् ट्ठ गृहे देवदत्तशर्मन् । दशाक्षरा ट्ठ ध्रुवा सीद । इति घृतचरुमपूपपिहितं पुरस्तादुपदधाति । अपूपवान् शृतवान् ट्ठ गृहे देवदत्तशर्मन् । शताक्षरा ट्ठ ध्रुवा सीद । उत्तरतः । अपूपवान् क्षीरवान् ट्ठ गृहे देवदत्तशर्मन् । सहस्राक्षरा ट्ठ ध्रुवा सीद । पश्चात् । अपूपवान् दधिवान् ट्ठ गृहे देवदत्तशर्मन् । अयुताक्षरा ट्ठ ध्रुवा सीद । दक्षिणतः । अपूपवान् मधुवान् ट्ठ गृहे देवदत्तशर्मन् । अच्युताक्षरा ट्ठ ध्रुवा सीद । मध्ये एवं सर्वानपूपपिहितमुपधाय अतिलाभिर्धानाभिस्त्रिः प्रसव्यं परिकिरति । एतास्ते स्वधा अमृताः ट्ठ करोतु । पुरस्तसदारभ्य दक्षिश्णापवर्गं त्रिः प्रसव्यं परिकिरति । ओषधिस्तम्बान्प्रतिदिशमनन्वीक्षमाणा उपदधाति । तामर्जुनौषधीनां ट्ठअपि धातवे । ओषधिस्तम्बं (श्वेतदूर्वाः कृष्णाशूकः प्रियंगुरिति वा ) पुरस्ताच्चरोरुपरिष्टादनन्वीक्षमाण उपदधाति । ( न तयादेवतं करोति ) । दूर्वाणाग् ट्ठ विरोहतु । दूर्वास्तम्बमुत्तरत उपदधाति । काशानं ट्ठ पुनः काशस्तम्बं पश्चादुपदधाति । ( काशाः शरमयाः) दर्भाणाग् स्तबमाहर ट्ठ फलं दर्भस्तम्बं दक्षिणत उपदधाति । लोकंपॄनेति लोकंपृणा उपदधाति । ( अवशिष्टं लीकंपृणाः ) लोकंपृणच्छिद्रं पृणाथो सीद शिवा त्वं । ट्ठ सीद । अन्विष्ट्कं मन्त्रावृत्तिः । सर्वा लोकंपृणाः पुरस्तादारभ्य प्रसव्यं दक्षिणापवर्गनुपदधाति । उत्तरया पुरीषेणानुविकिरति । ता अस्य सूदसोहसः ट्ठ दिवः । इति पुरीषोपधानं । ( इति सर्वासां लोकंपृणेष्टकानां पुरीषोपधानं कुर्यात् ) उदपात्रेणोदुंबरशाखयाऽवोक्षति । शं वातः ट्ठ सर्वाः । पुरस्तादारभ्य दक्षिणापवर्गं चितिमवोक्षति । यथोक्तपरिमाणं सुदृढं कृत्वा अवरोहणं जपति । वाङ्म आसन् ट्ठ मा मा हिंसीः । उपस्थानेनोपतिष्थते । इदमेवमेतूपरामार्तिमा ट्ठवरुणेन च । अथ वारणशाखां पुरस्तान्निदधाति । वरणो वारयादिदं ट्ठ वनस्पतिः । सा दक्षिणाग्रा निधीयते । विधृतिलोष्टमुत्तरतः । विधृरसि विधारयास्मदघा द्वेषां सि ट्ठ शमीशाखां पश्चात् । शमि शमयास्मदघा ट्ठ (सापि दक्षिणाग्रा ) । यवं दक्षिणतः । यवयवयास्मदघा द्वेषांसि । अथैनमुपतिष्ठते । पृथिवीं गच्छ ट्ठशरीरैः । अथ जघनेन चितिं कर्ष्वादि समानमा स्नानात् । मृदा स्नातीत्येके । चितेः पश्चात् अश् मन्वती रेवतीरित्यादि धाता पुनात्वित्यन्तं पूर्ववत् । सम्मप्ता लोष्टचितिः । ओं ॥
स्त्रीसंस्कारविधिः
॥ अथ स्त्रीसंस्कारविधिः ॥
मरणसमये सर्वप्रायश्चित्तमुत्क्रान्तिगोदानं कर्णमंत्रपठनं च कृत्वा स्नात्वा गृहमागत्य अनुज्ञां कुर्यात् । अशेषेट्ठ स्वीकृत्य ट्ट गोत्रायाः दायाः मातुः प्रेतायाः त्रेताग्निभिः संस्कारार्थं निर्मन्थ्य अग्न्युत्पादनं कर्तुं योग्यतासिद्धिमनुगृहाण । दर्भेष्वासीनो दर्भान् धारयमाणः संकल्पं करोति । गोत्रायाः दायाः मातुः प्रेतायाः त्रेताग्निभिः संस्कारार्थं निर्मन्थ्य अग्न्युत्पादनं करिष्ये । तत्काले कृछ्रप्रत्याम्नाय हिरण्यदानं करिष्ये । हिरण्यदानं कृत्वा ।विहारं कल्पयित्वा गार्हपत्यायतने लौकिकारणी निधाय मथित्वा बलवति जाते गार्हपत्यायतने अग्निं प्रतिष्ठाप्य आहवनीयाथमग्निमुद्धृत्य निधाय दक्षिणाग्निं प्रणीयाहवनीयं प्रणयति । द्वादशगृहीतेन सृचं पूरयित्वा प्रजापतिं मनसाध्यायन्नाहवनीये जुहोति ( स्वाहा ) । प्रजापतय इदं । मृताग्निहोत्रं स्त्रीणां न भवति । अथदक्षिणायनकृष्णपक्षनिशामरणोर्ध्वोच्छिष्टपर्युषितप्रायश्चित्तानि उक्तप्रकारेण आहवनीये हुत्वा । तत्तदुक्त कृछ्रप्रत्यान्मायहिरण्यदानं च कुर्यात् । अशेषे ट्ठस्वीकृत्य गोत्रां दां मातरं प्रेतां त्रेताग्निभिः पैतृमेधिकेन विधिना संस्कर्तुं योग्यतासिद्धिमनुगृहाण । एवं संकल्पं कुर्यात् । गोत्रां विधिना संस्करिष्यामि । प्रेतां जघनेनगार्हपत्यं दक्षिणाशिरसं दर्भेषु संवेशयन्ति । सर्वस्य प्रतिशीवरी ट्ठ सप्रथाः । अथ तां प्रेतां पूर्वया द्वारोपनिर्हृत्य गार्हपत्याहवनीययोः अंतराले दक्षिणाग्रान् दर्भान् संस्तीर्य न तत्र संवेशनमन्त्रः । अन्वारब्धे मृत आहवनीये स्रुवाहुतिं जिहोति । परे युवांसं ट्ठ दुवस्यत स्वाहा ॥ यमाय राज्ञे वैवस्वतायेदं । एवं गार्हपत्ये हुत्वा तूष्णीमन्वाहार्यपचने जुहोति । अथ प्रेतां स्नापयित्वा तूष्णीमन्वाहार्यपचने जुहोति । ग्राम्येणालंकारेणालंकृत्य, शुक्लसूत्रेणांगुष्ठौ बध्वा नळदमालामाबध्य औदुंबर्यामासंद्यां कृष्णाजिनं दक्षिणाग्रीवमधरलोमास्तीर्य तस्मिन्नेनां उत्तानां निपात्य पत्तोदशेन अहतेन वाससा प्रोरोति । इदं त्वा वस्त्रं प्रथमन्वागन्न् अथास्येतरदपादत्ते । अपैतदूह ट्ठ बंधुषु । अथ सन्नयतः मैत्रावरुण्यामिक्षायाः चरोश्च सह प्रयोगः । मन्त्रवर्जं सर्वं तूष्णीं क्रियते । कर्तान्वाधाय शाखामाहृत्य निधाय परिस्तरणं परिभोजनीमुलपराजीं च छित्वा प्रच्छिन्नाग्रं वेदं उपवेषं च । शाखामादाय अन्तर्वेदि प्रशात्य मूलत उपवेशं करोति । न पर्णवल्कं । शाखापवित्रं कृत्वा समूहंत्यग्न्यगारं । कुम्ब्यालेपनं शाखानिधानं वत्सापाकरणं दक्षिणाग्रैः दर्भैः अग्नीनां परिस्तरणं । हस्तावनेजनं । अपरेणाहवनीयं प्रतीचीस्तिस्रः उलपराजीर्दक्षिणावर्गास्तीर्त्वा दक्षिणाग्नेः पश्चद्दर्भान् संस्तीर्य तेष्वेकैकशःपात्राणि प्रयुनक्ति ।कुम्भीं शखापवित्रं अभिधानीं निदाने । दारुपात्रं दोहनमुपवेषं च उत्तरतः प्रयुज्य स्फ्यमग्निहोरहवणीं शूर्पं कृष्णाजिनं उलूखलं मुसलं पात्रीं उत्पवनार्थपात्रं चरुस्थामीं च दक्षिणतः प्रयुज्य पवित्रे कृत्वा सपवित्रेण पाणिना पात्राणि संमृश्य अग्निहोत्रहवणीं शूर्पं चादाय दक्षिणाग्नौ प्रतितप्य यदि पात्र्या निर्वपेत् दक्श्ःइणतः स्फ्यमुपधाय तृश्णादिकं निरस्य शूर्पे पवित्रे निधाय अग्निहोत्रहवण्या हविः सकृदेव निरूप्य अग्निहोत्रहवण्यामप आनीयप्रोक्षणीः संस्कृत्य हविः स्त्रिः प्रोक्ष्य पात्राणि च सर्वाभिरधिः प्रोक्ष्य कृष्णाजिनमादायसकृदवशूय सादयित्वा तस्मिन्नुलूखलं प्रतिष्ठाप्यतस्मिन् हविरोप्य मुसलमादाय सकृदवहत्य पुरस्ताच्छूर्पं निधाय तस्मि हव्रुदुप्य परापूय अधस्तात् कृष्णाजिनस्यहतेन तुषानावपति । पात्र्यां तण्डुलान् प्रस्कंदयित्वा अवेक्ष्य पुनरादाय उलूखले हविरोप्य फलीकृत्यप्रक्षाल्य संक्षालनजलं उत्तरे निनीय । उपवेषमादाय अभिमंत्र्य दक्षिणतः अंगारौ निर्वर्त्य । तयोरन्यतरं निरस्य अप उपस्पृश्य अंगारे चरुस्थालीमुपधाय ततः आयतीर्गाः प्रतीक्ष्य कुंभ्युपवेष शाखापवित्रदोहनान्यादाय गार्हपत्ये प्रतितप्य । उपवेषमादाय गार्हपत्याद्दक्षिणतः अंगारान्निरूह्य तेषु कुम्भीमधिश्रित्य अंगारैः पर्यूह्य शाखापवित्रं दक्षिणतो निधाय कुंभीमन्वारभ्याभिधानीमादाय दोहनेन कुंभ्यां सकृदेव मित्रावरुणाभ्यां त्वा इति पय आसिच्य । दोहनसंक्षालनं कुंभ्यामानीय तण्दुलानुत्पूय स्थल्यां अप आनीयोत्पुनाति । स्थाल्यां तण्दुलानावपति । दक्षिणाग्नौ चरुं श्रपयित्वा चरुं त्रिः पर्यग्निकृत्वा गार्हपत्ये च मैत्रावरुणीमामिक्षां । तप्ते प्रातर्दोहे लौकिकं दध्यानयति । पवित्र उत्करे त्यजति । चरुमभिघार्योद्वास्य आमिक्षामुद्वास्य आमिक्षां संहत्र्य द्वयोः पात्रयोर्द्धृत्य वाजिनैकदेशेनोपसिंचति । चरुमलंकृत्य ततः अग्नीन् पुरतः कृत्वा प्रेतं चादाय ग्रामान्निर्गच्छन्ति । प्रेतस्य अग्नीनामन्वारम्भः । ( अभ्रिं शाखामित्यादि संभारान् सर्वान् पृष्ठतः अन्वाहरेयुः । ) ततः पूषा त्वेतश्च्यावयतु इत्यादि । ( दहनदेशे ) मध्ये हिरण्यशकलं निधाय इत्यंतं अनाहिताग्निवत्कृत्वा तस्मिन् दक्षिणाग्रान् स्दर्भान् संस्तीर्य तेषु दक्षिणाग्रैः याज्ञिकैः काष्ठैः दारुचितिं चित्वा । अग्नीनुपवपयि । पुरस्तादाहवनीयं पश्चाद्गार्हपत्यं दक्षिणतोन्वाहार्यपचनं च निधाय । दक्षिणाप्रागग्रैः दर्भैः अग्नीन् दारुचितिं च परिस्तीर्य दक्षिणतः पश्चाद्वा दर्भान् संस्तीर्य तेषु दक्षिणाप्राञ्चैकैकशः पात्राणि प्रयुनक्ति । रज्जूरवकृत्य आसन्दीमवहन्ति । रज्जुषुचैव कृष्णाजिने च उत्तनश्शेते । एकपवित्रेण प्रोक्षणीः संस्कृत्य मृतं पात्राणि दारुचितिं च सर्वाभिरद्भिः प्रोक्ष्य आज्यं निर्वपति । सर्पिर्धानस्य बिलमपावृत्य दक्षिणाग्नावाज्यं विलाप्य पवित्रांतर्हितायामाज्यस्थाल्यां आज्यं निरूप्य । दक्षिणाग्नावधिश्रित्य दक्षिणार्धे गार्हपत्यस्याधिश्रित्य आहवनीयेऽधिश्रित्य दक्षिणेन विहारं पात्रसमीपे सादयित्वा अवेक्ष्य उत्पूय हस्तौ संमार्ष्टि । सुवर्णं हस्तादादधाना ट्ठ अभिमातीर्जयेम । अथैनां चितावुपर्यध्यूहति । ( रज्जुकृष्णाजिनेन सह चितावुपर्यध्यूहति ।) अथास्याः प्राणायतनेषु हिरण्यशकलान् प्रत्यस्यति आज्यबिन्दून् वा । मित्रावरुणाभ्यां त्वाइति सकृन्मन्त्रेण हस्तयोरामिक्षां सह पात्रेण निदधाति । अथास्ये तिल तण्डुलान् प्रत्यस्य अथैनानुपोषति मैनमग्न इति । पुरस्तादाहवनीयेन शृतं यदेति पश्चात् गार्हपत्येन । तूष्णीं दक्षिणतोऽन्वाहार्यपचनेन च । अथ सूर्यं ते चक्षुर्गच्छतु इत्यादि सर्वं अनाहिताग्निवत् कुर्यात् ॥ ओं ॥
अस्थिसंचयनं
श्मशनवन्हिर्यदि तत्र नष्टः मथेदवक्षाणत एव वह्निं ।
तद्भस्मना लौकिकयोररण्योः संस्पृश्य वा व्याहृति होम एकः ॥ इत्यनुगत प्रायश्चित्तं कृत्वा संचयनसंकल्पादि संचयनमस्थि निवपनंपुनर्दहनं च सर्वं पूर्ववत् कुर्यात् ॥
सं त्वा सिंचामि यजुषा प्रजामायुर्धनं च ॥ ओं शांतिः शांतिः शांतिः ॥
आपस्तम्बीयाहिताग्न्यपरकारिका
॥ आपस्तम्बीयाहिताग्न्यपरकारिका ॥
यज्ञेश्वरं विघ्नविनायकं च वागीश्वरं सूत्रकृतं च नत्वा । अथाहिताग्नेः पितृमेध कर्म विचार्य कल्पानखिलान् प्रवक्ष्ये ॥ विच्छिन्नवह्नेस्त्वपराग्निभूमौ विधाय नित्यारणिसन्निधानम् । येस्येति निर्मन्थ्य विहृत्य तूष्णीं जुह्वाहुतिर्द्वादशधा गृहीतम् ॥ एवं प्रेतानलाधानं सर्व मन्त्र विवर्जितम् । एतावताग्निसिद्धिः स्यात् सर्वचित्तं तु हूयते ॥ उत्सृष्टाग्नेः सर्वमेवं विधुराग्नेस्तथैव च । पक्षहोमादिकं कृत्वा समारूढानलस्य तु ॥ गार्हपत्यायतनानि उद्धत्यावोक्ष्य तं मृतम् । यजुषायतने कृत्वा गार्हपत्यारणी तथा ॥ पुत्रो भ्राताथवाऽन्यो वा स्पृशेत् प्रेतस्य दक्षिणम् । पाणीं तूष्णीं तु निर्मन्थ्य वर्तमानजपस्थले ॥ उपावरोहमन्त्रस्तु पैतृमेधिकमुच्चरन्न् । आत्मारूढानलस्यापि कृत्वैवोद्धननादिकम् ॥ दक्षपाणौ मृतं स्पृष्ट्वा लोकाग्नावपरस्थले । उपावरोहयेन्मन्त्रं पैतृमेधिकमुच्चरन्न् ॥ सर्वाग्न्युत्पत्तिविधिषु तुल्यं विहृति होमकौ । प्रेताग्याधानमारभ्य यावत्कर्माग्निधारणम् ॥ प्रेताधानस्य प्रमीतदाहाङ्गत्वादतोन्यथा । प्रयोजनान्तराभावात् चित्तानां च तदङ्गता ॥ अर्थायार्थायाग्निमिति विधिर्नात्रेष्यते ततः । अतीतस्याग्निहोत्रादेः प्रायश्चित्तं ततः स्मरेत् ॥ सप्तहोताग्निहोत्रस्य गृहीत्वा चतुराज्यकम् । दर्शपूर्णमासातीतौ चित्तं पाथिकृदादिकम् ॥ तत्तद्याज्यानुवाक्याभ्यां चतुलब्ध्वाज्यतो हुतीः । एवमाग्रयणतीतौ पश्वतीतौ तथैव च ॥ यागत्रये पौर्णमासे दर्विहोमविधानतः । चतुर्गृहीत्वानुवाक्यां अनूच्य जुहुयात्ततः ॥ दर्शेप्येवं पुरोडाश सान्नाय्यहविषोर्भवेत् । एवमुक्तविधानेन यज्ञलोपे समाचरेत् ॥ प्रेताधानेषु सर्वेषु विच्छिन्नानां तु कर्मणाम् । प्रायश्चित्तं न कर्तव्यं दहनायैव तद्विधिः ॥ तस्माद्विनष्टवह्नीनां प्रागेव मरणात्सुधीः । अग्नीनाधाय लुप्तानां प्रायश्चित्तं च कारयेत् ॥ सत्स्वप्यग्निषु लुप्तानां प्रायश्चित्तानि कर्मणाम् । कार्याणि मरणात्पूर्वं मृते तेषामसंभवात् ॥ प्रक्रांतस्यैव हि मृते कथञ्चन समापनम् । सूच्यते श्रूयते चाऽतो नाप्रक्रान्तेस्त्युपक्रमः ॥ ब्रह्मविद्यजमानस्य कर्णे तु मृति संशये । ब्रह्मविद्भृगुरित्येतावनुवाकौ जपेत्सुतः ॥ आयुषः प्राणमित्येतं अन्येषां मृतिसंशये । प्रयोग उच्यते पैतृमेधिकस्याथ कर्मणः ॥ मृतहोमोऽभिवान्यायाः पयसा दोह संस्कृतिः । ये पुरोधं च इत्यादि विधिनाच समाचरेत् ॥ प्राचीनावीतिना तूष्णीं सर्वं कर्माग्निहोत्रकम् । इध्माहरादि कर्तव्यं पित्र्यवत्तु परिस्तरः ॥ दोह्यं पयोऽभिवान्यायाः नस्यातां परिषेचने । न च धारा तदङ्गत्वात् श्रपणादीह कीर्तितम् ॥ तत्राभिद्योतनादीनि अप्यविरुद्धानि योजयेत् । अपि वा सोमेतिपक्षे सर्वहोमः पुराहुतौ ॥ वृष्टिः समिन्धनाद्यं च परिषेचनवर्जितं । उच्छेषणं तु नात्रास्ति विनियोगश्च तस्य न ॥ अग्निहोत्रस्थाल्यां तृणमक्त्वानुप्रहरेत्तथा । अग्निहोत्रोच्छेषणं च परिशिष्य निधापयेत् ॥ यतासुरेतं मृतमाहिताग्निं धक्ष्यामि पात्रैः अखिलाग्निभिश्च । इत्येवमागूर्य विकीर्य केशान् शिरस्यमात्या निवपन्ति पांसून् ॥ पश्चात्तं गार्हपत्यस्य सर्वे संवेशयंति ते । दक्षिणाग्रेषु दर्भेषु दक्षिणाशिरसं मृतम् । सर्वस्येत्यथ तं प्रेतं दक्षिणाग्र कुशास्तृते ॥ अन्ताराग्न्योर्निपात्यैनं अन्वारभ्याथ दाहकः । परे युवांसमित्यग्नौ पूर्वे हुत्वा स्रुवाहुतिम् ॥ तथैव गार्हपत्याग्नौ दक्षिणाग्नावमन्त्रकम् । संवेशनेषु सर्वेषु दक्षिणाशिरसं नयेत् ॥ मन्त्रं च केचिदिच्छन्ति सर्व संवेशनेष्विमम् । विहारं दक्षिणेनास्य प्रेतस्याथ परिश्रिते ॥ केशश्मश्र्वादिकं सर्वं वापयेत्स्नापनं ततः । ग्राम्यालंकरणेनैवं अलंकृत्याथ मौञ्जिकैः ॥ पुनरावेष्ट्य तां मालां आबध्नीयात्समन्ततः । अङ्गुष्ठौ शुक्लसूत्रेण बध्वातु नळदस्रजम् ॥ औदुंबर्यामथासन्द्यां कृष्णाजिनमधोमुखम् । दक्षिणाग्रीवमास्तीर्य तमुत्तानं निपातयेत् ॥ पादप्रदेशादारभ्य नवेनावेष्ट्य वाससा । इदं त्वा वस्त्रमित्यागन् अन्यत्परिहितं पुरा ॥ अपैतदूहेत्यादत्ते पुत्रो भ्राताथ बान्धवः । मैत्रावरुण्यामिक्षायाः चरोः कर्म सहोच्यते ॥ मन्त्रवर्जं क्रियामात्रं अन्वाधानादिकं ततः । शाखाहृतिः परिस्तार भोजन्युलपसंबृतिः ॥ वेद वेदीत्रिवृत्कुम्भी लेपशाखानिधानकम् । दक्षिणाग्रैः परिस्तीर्य हस्तप्रक्षालनं ततः ॥ आहवनीयादारभ्य उलपराजित्रयं न्यसेत् । प्रत्यगग्रं गार्हपत्यात् उदग्दर्भान् स्तरेदथ ॥ दक्षिणाग्नेः पुरो भागे पितृयज्ञवदास्तरेत् । तत्रैकैकं तु पात्राणि यावदर्थानि निक्षिपेत् ॥ उदक्सान्नाय्य पात्राणि दक्षिणाग्नेस्तु पृष्ठतः । स्फ्याग्निहोत्रहवण्यादि षट्कं कृष्णाजिनादिकम् ॥ पात्र्युत्पवनपात्रं च पवित्रकरणं ततः । शम्योपला दृषद्वर्जं इति केचित्प्रयुञ्जते ॥ पात्रमर्षस्रुगादानाद्यानिर्वापादमन्त्रकम् । दक्षिणाग्नेः पुरस्तात्तत् साद्याश्रपणधर्मतः ॥ हविः प्रोक्ष्यैव पात्राणि चर्मादानादिकं ततः ।