अग्निमुख-प्रयोगः

॥ अग्निमुख-प्रयोगः ॥

अथ गार्ह्येषु कर्मसु ।

पुरस्तात्-तंत्रोपरिष्टात्-तंत्रयोः । साधारण धर्मा उपदिश्यंते । तत्र यथायोगम् । गोमयेनोपलिप्ते शुचौ देशे, सिकताः प्रकीर्य । चतरस्रग्ग् स्थंतिलं कल्पयित्वा । तृणेन प्राचीरुदीचीश्च तिस्रस्तिस्रो रेखा लिखित्वा । अद्भिरवोक्ष्य । तृणं रस्य । अप उपस्पृश्य । अग्ने॒ नय॑ सु॒पथा॑ रा॒ये अ॒स्मान्, विश्वा॑ देव व॒युना॑ वि॒द्वान् । यु॒यो॒ध्य॑स्मज्जु॑हुरा॒णमेनो॒ भूयि॑ष्ठां ते॒ नम॑उक्तिं विधेम । अग्निम् उपसमाधाय । च॒त्वारि॒ शृंगा॒ त्रयो॑ अस्य॒ पादा॒ द्वे शी॒र्षे स॒प्त हस्ता॑सो अ॒स्य । त्रिधा॑ ब॒द्धो वृ॑ष॒भो रो॑रवीति म॒हो दे॒वो मर्त्या॒ग्ं॒ आवि॑वेश । भूर्भुवस्सुवरोम् इति अग्निं प्रतिष्ठाप्य । ए॒ष हि दे॒वः प्र॒दिशोऽनु॒ सर्वाः॒ पूर्वो॑ हि जा॒तः स उ॒ गर्भे॑ अं॒तः । स वि॒जाय॑मानस्सज॒ष्यमा॑णःप्र॒त्यङ्मुखा᳚स्तिष्ठति वि॒श्वतो॑ मुखः ॥इति अग्निं प्रार्थ्य । वेणुधमन्या व्यजनेन वा अग्निंप्रज्वाल्य । अग्निं प्रज्वलितं वंदे जातवेदं हुताशनम् । सुवर्णवर्णममलं समिद्धं विश्वतोमुखम् । भो अग्ने प्राङ्मुख देव प्रत्यङ्मुखः सन् मम अभि सम्मुखो भव । अग्नेः पुरस्तादारभ्य । उदगग्रैः प्रागग्रैश्च । दर्भैरग्निं परिस्तृणाति । द्क्षिणान् उत्तरान् उत्तरान् अधरान् । उत्तरेणाग्निं दर्भान् सग्ग्स्तीर्य ।

पात्रासाधनम्

तेषु द्वंद्वं न्यंचि पात्राणि प्रयुनक्ति । प्रधान दर्वीम् आज्यपात्रं , प्रोक्षणीपात्रं प्रणीता पात्रम्, इध्मं द्वितीय दर्वीम् ।

प्रोक्षणीसंस्कारः

पवित्रं कृत्वा । पवित्रांतर्हिते प्रोक्षणीपात्रे अप आय । उत्पवनं कृत्वा । उत्ताना पात्राणि पर्यावर्त्य । त्रिः प्रोक्ष्य । तद्दक्षिणतो धाय ।

प्रणीतासंस्कारः

प्रोक्षणीवत् प्रणीतास्सग्ग्स्कृत्य । पूर्ववदुत्पवनं कृत्वा । नासिकासमम् उद्धृत्य । अग्नेः उत्तरतः द्वादशसु दर्भेषु सादयित्वा । अष्टाभिः दर्भैः प्रच्छाद्य ।

ब्रह्मवरणम्

अस्मिन् अमुक कर्मणि ब्रह्मत्वं कुरु ब्रह्माणं त्वाम् अहं वृणे, ( वृतोस्मि करिष्यामि- इति प्रतिवचनम्) । ब्रह्मणे नमः इदमासनम् । ब्रह्मणे सकल आराधनैः स्वर्चितम् ।

आज्यसंस्कारः

आज्यस्थाल्यां आज्यं विलाप्य । विलीनमपि अस्मिन् अग्नौ आज्यं विलाप्य । अपरेणाग्नि पवित्रांतर्हिते आज्यस्थाल्याम् आज्यं आय । उदीचः अंगारान् रूह्य । तेष्वधिश्रित्य । ज्वलतावद्युत्य । द्वे दर्भाग्रे प्रच्छिद्य प्रक्षाल्य आज्य्ले प्रत्यस्य । त्रिः पर्यग्नि कृत्वा । वर्त्म कुर्वन् उदगुद्वास्य । अंगारान् प्रतूह्य ।

आज्योत्पवनम्

अपरेणाग्निम् उदगग्राभ्यां पवित्राभ्यां पुनराहारम् आज्यं त्रिरुत्पूय । पवित्रग्रंथिं विस्रस्य । अद्भिः सग्ग्स्पृश्य । अग्नौ प्रहरति । दर्भाग्रे अप उपस्पृश्य प्रहृत्य । येन जुहोति तदग्नौ प्रतितप्य । त्रिभिर् दर्भैः समृज्य (अग्रेण अग्रं मध्येन मध्यं मूलेन मूलं) । पुनः प्रतितप्य, प्रोक्ष्य, धाय, धर्बान् अद्भिः सग्ग्स्पृश्य अग्नौ प्रहरति । शम्याः परिध्यर्थे (विवाहोपनयन समावर्तन सीमंत चौल गोदान प्रायश्चित्तेषु अन्यत्र) त्रीन् परिधीन् परिदधाति ।

परिधिधानम्

स्थविष्ठं पश्चात् । अणीयान् द्राघीयान् दक्षिणार्ध्यः, अणिष्ठो ह्रसिष्ठ उत्तरार्ध्यः । द्वे अघार समिधौ - मध्यम परिधिम् उपस्पृश्य, दक्षिणाप्राच्याम् एकां, प्रागुदीच्याम् एकाम् ।

अग्निपरिषेचनम्

अदि॒तेऽनु॑ मन्यस्व । दक्षिणतः प्राचीनं । अनु॑म॒तेऽनु॑ मन्यस्व पश्चादुदीचीनं । सर॑स्व॒तेऽनु॑ मन्यस्व । उत्तरतः प्राचीनं । देव॑ सवितः॒ प्रसु॑व । इति समंतं परिषिच्य ।

अग्नेरलंकरणम्

अग्नये नमः, जातवेदसे नमः,
सहोजसे नमः, अजिरा प्रभवे नमः,
वैश्वानराय नमः, नर्यापसे नमः,
पङ्क्तिराधसे नमः, विसर्पिणे नमः,

मध्ये श्री यज्ञ पुरुषाय नमः ।

इति अष्टसु दिक्षु अग्निं अलंकृत्य

इध्माधानम्

इध्ममलंकृत्य, ब्रह्माणमलंकृत्य, स्वयमलंकृत्य, द्वीतीयेन इध्ममभिघार्य। अस्मिन् यजमानस्य संकल्पित . . . अमुक कर्मणि ब्रह्मन् इध्ममाधास्ये । ओम् आधत्स्व इति प्रतिवचनम् । इध्मानाधाय । आसनात् किंचिदुत्थाय । इध्माधान मुहूर्तः सुमुहूर्तोऽस्त्वित्यनुगृह्णंतु । सुमहोर्तोस्त्विति प्रति वचनं ।

आघार होमः

द्वितीय दर्व्या आज्यमादाय, प्रजापतिं मनसा ध्यायन् उत्तर परिधि संधिमन्ववहृत्य । दक्षिणाप्रांचम् ऋजूग्ं संततं सर्वाणीध्मकाष्ठा सग्ग्स्पर्शयति यथा - [ प्रजापतये ] स्वाहा᳚ । प्रजापतय इदम् ।

ततः प्रधानदर्व्याज्यमादाय, इंद्रं मनसा ध्यायन्, दक्षिणं परिधि संधिमन्ववहृत्य उत्तराप्रांचम् ऋजूग्ं संततं सर्वाणीध्मकाष्ठा सग्ग्स्पर्शयति यथा - । [इंद्राय] स्वाहा᳚ । इंद्राय इदं ।

अग्नयेस्वाहेति - उत्तरार्ध पूर्वार्धे होमः । अग्नय इदं । सोमायस्वाहेति दक्षिणार्ध पूर्वार्धे होमः । सोमायेदं ।

संकल्प प्रभृति एतत्क्षण पर्यंतं मध्ये संभावित समस्त दोष प्रायश्चित्तार्थं सर्व प्रायश्चित्ताहुतीर्होष्यामि । ओं भूर्भुव॒स्सुव॒ स्वाहा᳚ । प्रजापतय इदं ।(चरुमत्सु कर्मसु लाजहोमवर्जं) अग्नये स्वाहेति मुखांते जुहोति ।

सावित्र्या पक्वं हुत्वा - तत्स॑वि॒तुर्वरे᳚ण्यं॒ भर्गो॑ दे॒वस्य॑ धिमहि । धियो॒ यो नः॑ प्रचो॒दयों(३) । तत्स॑वि॒तुर्वरे᳚ण्यं॒ भर्गो॑ दे॒वस्य॑ धिमहि । धियो॒ यो नः॑ प्रचो॒दया॒थ्स्वाहा᳚ । सवित्रे परमात्मन इदं ।

{ಅನಂತರ ನವಗ್ರಹಾದಿ ಹೋಮಗಳಲ್ಲಿ ಆಸತ್ಯೇನ ಮಂತ್ರದಿಂದಲೆ ಪುರೋನುವಾಕ್ಯಾ ಯಾಜ್ಯಾ ಕ್ರಮದಲ್ಲಿ ಚತುರವದಾನದಿಂದ ಅಂದರೆ ಆಜ್ಯದಿಂದ ಸಕೃದುಪಸ್ತರಣ ಚರುವಿನ ದ್ವಿರವದಾನ ಪುನಃ ಆಜ್ಯದಿಂದ ಅಭಿಘಾರ ರೂಪವಾಗಿ ಪಕ್ವಹೋಮವನ್ನುಮಾಡಿ ಸಮಿತ್ ಚರುಆಜ್ಯಾಹುತಿಗಳನ್ನು ಆರಂಭಿಸಬೇಕು} ।

यथोपदेशं प्रधानाहुतीर्हुत्वा ।

स्विष्टकृद्धोमः

हव्य॒वाह॑मभिमाति॒षाहग्ं॑ रक्षो॒हणं॒ पृत॑नासु जि॒ष्णुं । ज्योति॑ष्मंतं॒ दीद्य॑तं॒ पुरं॑धिम॒ग्निग्ग् स्वि॑ष्ट॒कृत॒मा हु॑वे॒मों३ । स्वि॑ष्टमग्ने अ॒भि तत्पृ॑णाहि॒ विश्वा॑ देव॒ पृत॑ना अ॒भिष्य । उ॒रुं नः॒ पंथां᳚ प्रदि॒शभा॑हि॒ ज्योति॑ष्मद्धेह्य॒जरं॑ न॒ आयुः॒ स्वाहा᳚ । अग्नये स्विष्टकृत इदं ।

जयादयः

एतत्कर्म समृध्यर्थं स्रुवेण जयादि हवनं करिष्ये॥ [चित्तं चेति त्रयोदश आज्याहुतीः, अग्निर्भूतानामिति अष्टादशाज्याहुतीः ऋताषाडिति द्वादशाज्याहुतीः, प्रजापते न त्वदिति, व्याहृतीर्विहृताः, यदस्य कर्मण इति ] चि॒त्तं च॒ स्वाहा᳚ । चित्तायेदं । चि॒त्ति॑श्च॒ स्वाहा᳚ । चित्या इदं । आकू॑तं च॒ स्वाहा᳚ । आकूतायेदं । आकू॑तिश्च॒ स्वाहा᳚ । आकूत्या इदं । विज्ञा॑त चं॒ स्वाहा᳚ । विज्ञातायेदं । वि॒ज्ञानं॑ च॒ स्वाहा᳚ । विज्ञानायेदं । मन॑श्च॒ स्वाहा᳚ । मनस इदं । शक्व॑रीश्च॒ स्वाहा᳚ । शक्वरीभ्य इदं । दर्श॑श्च॒ स्वाहा᳚ । दर्शायेदं । पू॒र्णमा॑सश्च॒ स्वाहा᳚ । पूर्णमासायेदं ।बृ॒हच्च॒ स्वाहा᳚ । बृहत इदं । र॒थ॒ं॒त॒रं च॒ स्वाहा᳚ । रथंतरायेदं । प्र॒जाप॑ति॒र्जयां॒दा॑य॒ वृष्णे॒ प्राय॑च्छदु॒ग्रः पृ॑त॒नाज्ये॑षु॒ तस्मै॒ विश॒स्सम॑नमंत॒ सर्वा॒स्स उ॒ग्रस्स हि हव्यो॑ ब॒भूव॒ स्वाहा᳚ । प्रजापतय इदं ।

अ॒ग्निर्भू॒ताना॒मधि॑पति॒स्स मा॑वत्व॒स्मिन् ब्रह्म॑न्न॒स्मिन् ख॒त्रे᳚ऽस्यामा॒शिष्य॒स्यां पु॑रो॒ -धाया॑म॒स्मिन्कर्म॑न्न॒स्यां दे॒वहू᳚त्या॒ग् स्वाहा᳚ । अग्नये भूतानामधिपतय इदं । इंद्रो᳚ ज्ये॒ष्ठाना॒मधि॑पति॒स्स मा॑वत्व॒स्मिन् ब्रह्म॑न्न॒स्मिन् ख॒त्रे᳚ऽस्यामा॒शिष्य॒स्यां पु॑रो॒ -धाया॑ म॒स्मिन्कर्म॑न्न॒स्यां दे॒वहू᳚त्या॒ग् स्वाहा᳚ । इंद्रांत्त् ज्येष्ठानामधिपतय इदं । य॒मः पृ॑थि॒व्या अधि॑पति॒स्स मा॑वत्व॒स्मिन् ब्रह्म॑न्न॒स्मिन्ख॒त्रे᳚ऽस्यामा॒शिष्य॒स्यां पु॑रो॒धाया॑ म॒स्मिन्कर्म॑न्न॒स्यां दे॒वहू᳚त्या॒ग् स्वाहा᳚ । यमाय पृथिव्या अधिपतय इदं । वा॒युर॒तरि॑क्ष॒स्याधि॑पति॒स्स मा॑वत्व॒स्मिन् ब्रह्म॑न्न॒स्मिन् ख॒त्रे᳚ऽस्यामा॒शिष्य॒स्यां पु॑रो॒धाया॑ म॒स्मिन्कर्म॑न्न॒स्यां दे॒वहू᳚त्या॒ग् स्वाहा᳚ । वायवे अंतरिक्षस्याधिपतय इदम् । सूर्यो॑ दि॒वोऽधि॑पति॒स्स मा॑वत्व॒स्मिन् ब्रह्म॑न्न॒स्मिन्ख॒त्रे᳚ऽस्यामा॒शिष्य॒स्यां पु॑रो॒धाया॑ म॒स्मिन्कर्म॑न्न॒स्यां दे॒वहू᳚त्या॒ग् स्वाहा᳚ । सूर्याय दिवोऽधिपतयइदं । चं॒द्रमा॒ नक्ष॑त्राणा॒मधि॑पतिः॒ समा॑वत्व॒स्मिन् ब्रह्म॑न्न॒स्मिन् ख॒त्रे᳚ऽस्यामा॒शिष्य॒स्यां पु॑रो॒ धाया॑म॒स्मिन्कर्म॑न्न॒स्यां दे॒वहू᳚त्या॒ग् स्वाहा᳚ । चंद्रमसे नक्षत्राणामधिपतय इदं । बृह॒स्पति॒र्ब्रह्म॒णोऽधि॑पति॒स्स मा॑वत्व॒स्मिन् ब्रह्म॑न्न॒स्मिन् ख॒त्रे᳚ऽस्यामा॒शिष्य॒स्यां पु॑रो॒धाया॑म॒स्मिन्कर्म॑न्न॒स्यां दे॒वहू᳚त्या॒ग् स्वाहा᳚ । बृहस्पतये ब्रह्मणोऽधिपतय इदं । मि॒त्रस्स॒त्याना॒मधि॑पति॒स्स मा॑वत्व॒स्मिन्ब्रह्म॑ न्न॒स्मिन्ख॒त्रे᳚ऽस्यामा॒शिष्य॒स्यां पु॑रो॒धाया॑ -म॒स्मिन्कर्म॑न्न॒स्यां दे॒वहू᳚त्या॒ग् स्वाहा᳚ । मित्राय सत्यानामधिपतय इदं । वरु॑णो॒ऽपामधि॑पति॒स्स मा॑वत्व॒स्मिन्ब्रह्म॑न्न॒स्मिन् ख॒त्रे᳚ऽस्यामा॒शिष्य॒स्यां पु॑रो॒धाया॑ - म॒स्मिन्कर्म॑न्न॒स्यां दे॒वहू᳚त्या॒ग् स्वाहा᳚ । वरुणाय आपामधिपतय इदं । समु॒द्रः स्रो॒त्याना॒मधि॑पति॒स्स मा॑वत्व॒स्मिन्ब्रह्म॑न्न॒स्मिन्ख॒त्रे᳚ऽस्यामा॒शिष्य॒स्यां पु॑रो॒धा - या॑म॒स्मिन्कर्म॑न्न॒स्यां दे॒वहू᳚त्या॒ग् स्वाहा᳚ । समुद्रायस्रोत्यानायमधिपतय इदं । अन्न॒ग्ं॒ साम्रा᳚ज्याना॒मधि॑पति॒ त॑वत्व॒स्मिन्ब्रह्म॑न्न॒स्मिन् ख॒त्रे᳚ऽस्यामा॒शिष्य॒स्यां पु॑रो॒ - धाया॑म॒स्मिन्कर्म॑न्न॒स्यां दे॒वहू᳚त्या॒ग् स्वाहा᳚ । अन्नाय साम्राज्यानामधिपतन इदं । सोम॒ ओष॑धीनामधि॑पति॒स्स मा॑वत्व॒स्मिन्ब्रह्म॑न्न॒स्मिन् ख॒त्रे᳚ऽस्यामा॒शिष्य॒स्यां पु॑रो॒धाया॑ म॒स्मिन्कर्म॑न्न॒स्यां दे॒वहू᳚त्या॒ग् स्वाहा᳚ । सोमाय ओषधीनामधिपतय इदं । स॒वि॒ता प्र॑स॒वाना॒मधि॑पति॒स्स मा॑वत्व॒स्मिन्ब्रह्म॑न्न॒स्मिन्ख॒त्रे᳚ऽस्यामा॒शिष्य॒स्यांपु॑रो॒धाया॑ म॒स्मिन्कर्म॑न्न॒स्यां दे॒वहू᳚त्या॒ग्स्वाहा᳚ । सवित्रे प्रसवानामधिपतय इदं । रु॒द्रः प॑शू॒नामधि॑पति॒स्समा॑वत्व॒स्मिन्ब्रह्म॑न्न॒स्मिन्ख॒त्रे᳚ऽस्यामा॒शिष्य॒स्यां पु॑रो॒धाया॑मस्मिन्कर्म॑न्न॒स्यां दे॒वहू᳚त्या॒ग् स्वाहा᳚ । रुद्राय पशूनामधिपतय इदं । त्वष्टा॑ रू॒पाणा॒मधि॑पति॒स्समा॑वत्व॒स्मिन्ब्रह्म॑न्न॒स्मिन्ख॒त्रे᳚ऽस्यामा॒शिष्य॒स्यां पु॑रो॒धाया॑ म॒स्मिन्कर्म॑न्न॒स्यां दे॒वहू᳚त्या॒ग् स्वाहा᳚ । त्वष्ट्रे रूपाणामधिपतय इदं । विष्णुः॒ पर्व॑ताना॒मधि॑पति॒स्स मा॑वत्व॒स्मिन्ब्रह्म॑न्न॒स्मिन्ख᳚त्रेऽस्यामा॒शिष्य॒स्यां पु॑रो॒धाया॑ म॒स्मिन्कर्म॑न्न॒स्यां दे॒वहू᳚त्या॒ग्स्वाहा᳚ । विष्णवे पर्वतानामधिपतय इदं । म॒रुतो॑ ग॒णाना॒मधि॑पतयस्ते मा॑वंत्व॒स्मिन्ब्रह्म॑न्न॒स्मिन् ख॒त्रे᳚ऽस्यामा॒शिष्य॒स्यां पु॑रो॒धाया॑ म॒स्मिन्कर्म॑न्न॒स्यां दे॒वहू᳚त्या॒ग् स्वाहा᳚ । मरुभ्द्यो गणानामधिपतिभ्य इदं । पित॑रः पितामहाः परेऽवरे॒ तता᳚स्ततामहा इ॒ह मा॑वत । अ॒स्मिन्ब्रह्म॑न्न॒स्मिन् ख॒त्रे᳚ऽस्यामा॒शिष्य॒स्यां पु॑रो॒धाया॑म॒स्मिन्कर्म॑न्न॒स्यां दे॒वहू᳚त्या॒ग्॒ स्वाहा᳚।

ऋ॒ता॒षाडृ॒तधा॑मा॒ग्निर्गं॑ध॒र्वस्तस्यौष॑धयोऽप्स॒रस॒ ऊर्जो॒ नाम॒ स इ॒दं ब्रह्म॑ क्ष॒त्रं पा॑तु॒ ता इ॒दं ब्रह्म॑ क्ष॒त्रं पां᳚तु तस्मै॒ स्वाहा᳚ । अग्नये गंधर्वायेदं।ताभ्य॒ स्वाहा᳚ । ओषदिभ्योऽप्सरोभ्य ऊर्ग्भ्य इदं । स॒ग्ं॒हि॒तो वि॒श्वसा॑मा॒ सूर्यो॑ गंध॒र्वस्तस्य॒ मरी॑चयोऽप्स॒रस॑ आ॒युवो॒ नाम॒ स इ॒दं ब्रह्म॑क्ष॒त्रं पा॑तु॒ ताइ॒दं ब्रह्म॑ क्ष॒त्रं पां᳚तु॒ तस्मै॒ स्वाहा᳚ । सूर्याय गंधर्वायेदम् । ताभ्य॒ स्वाहा᳚ । मरीचिभ्योऽप्सरोभ्य आयुभ्य इदं । सु॒षु॒म्नस्सूर्य॑ रश्मिश्चं॒द्रमा॑गंध॒र्वस्तस्य॒ नक्ष॑त्राण्यप्स॒रसो॑ बे॒कुर॑यो॒ नाम॒ स इ॒दं ब्रह्म॑ क्ष॒त्रं पा॑तु॒ ताइ॒दं ब्रह्म॑ क्ष॒त्रं पां᳚तु॒ तस्मै॒ स्वाहा᳚ । चंद्रमसे गंधर्वायेदं । ताभ्य॒ स्वाहा᳚ । नक्षत्रेभ्योऽप्सरोभ्यो बेकुरिभ्य इदं । भु॒ज्जुस्सु॑प॒र्णो य॒ज्ञो गं॑ध॒र्वस्तस्य॒ दक्षि॑णा आप्स॒रस॑स्त॒वानाम॒ स इ॒दं ब्रह्म॑ क्ष॒त्रं पा॑तु॒ ताइ॒दं ब्रह्म॑ क्ष॒त्रं पां᳚तु॒ तस्मै॒ स्वाहा᳚ । यज्ञाय गंधर्वायेदम् । ताभ्य॒ स्वाहा᳚ । दक्षिणाभ्यो अप्सरोभ्यस्तवाभ्य इदं । प्र॒जाप॑तिर्वि॒श्वक॑र्मा॒ मनो॑ गंध॒र्वस्तस्य॑र्ख्सा॒मान्य॑प्स॒रसो॒ वह्न॑यो॒ नाम॒ स इ॒दं ब्रह्म॑ क्ष॒त्रं पा॑तु॒ ताइ॒दं ब्रह्म॑ क्ष॒त्रं पां᳚तु॒ तस्मै॒ स्वाहा᳚ । मनसे गंधर्वायेदम् । ताभ्य॒स्वाहा᳚ । ऋख्सामेभ्यो अप्सरेभ्यो वह्निभ्य इदं । इ॒षि॒रो वि॒श्वव्य॑चा॒ वातो॑गंध॒र्वस्तस्यापो᳚ऽप्स॒रसो॑ मु॒दा नाम॒ स इ॒दं ब्रह्म॑ क्ष॒त्रं पा॑तु॒ ता इ॒दं ब्रह्म॑ क्ष॒त्रं पां᳚तु॒ तस्मै॒ स्वाहा᳚।वाताय गंधर्वायेदम् । ताभ्य स्वाहा᳚ । अद्भ्योप्सरोभ्यो मुदाभ्य इदं । भुव॑नस्य पते॒ यस्य॑ त उ॒परि॑ गृ॒हा इ॒ह च॑ । स नो॑ रा॒स्वाज्या॑ग्ं रा॒यस्पोषग्ं॑ सु॒वीर्यग्ं॑ संवथ्स॒रीणाग्ग्॑ स्व॒स्तिग्ग् स्वाहा᳚ । भुवनस्यपते ब्रह्मण इदम् । प॒र॒मे॒ष्ठ्यधि॑पतिर्मृ॒त्युर्गं॑ध॒र्वस्तस्य॒ विश्व॑मप्स॒रसो॒ भुवो॒ नाम॒ स इ॒दं ब्रह्म॑ क्ष॒त्रं पा॑तु॒ ता इ॒दं ब्रह्म॑ क्ष॒त्रं पां᳚तु॒ तस्मै॒ स्वाहा᳚ । मृत्यवे गंधर्वायेदम् । ताभ्य॒ स्वाहा᳚ । विश्वस्माभ्यो अप्सरोभ्यो भूभ्य इदं । सु॒ख्षि॒तिस्सिभू॑तिर्भद्रकृथ्सुव॑र्वान् प॒र्जन्यो॑ गंद॒र्वस्तस्य॑ वि॒द्युतो᳚ऽप्स॒रसो॒ रुचो॒ नाम॒ स इ॒दं ब्रह्म॑ क्ष॒त्रं पा॑तु॒ ता इ॒दं ब्रह्म॑ क्ष॒त्रं पां᳚तु॒ तस्मै॒ स्वाहा᳚ ।पर्जन्याय गंधर्वायेदम् । ताभ्य॒स्वाहा᳚ । विद्युद्भ्योऽप्सरोभ्यो रुग्भ्य इदं । दू॒रेहे॑तिरमृड॒यो मृ॒त्युर्गं॑ध॒र्वस्तस्य॑ प्र॒जा अ॑प्स॒रसो॑ बी॒रुवो॒ स इ॒दं ब्रह्म॑ क्ष॒त्रं पा॑तु॒ ता इ॒दं ब्रह्म॑ क्ष॒त्रं पां᳚तु॒ तस्मै॒ स्वाहा᳚।मृत्यवे गंधर्वायेदम् । ताभ्य॒स्वाहा᳚ । प्र॒जाभ्योऽप्सरोभ्यो बीरुभ्य इदं । चारुः॑ कृपणका॒शी कामो॑ गंध॒र्वस्तस्या॒धयो᳚प्स॒रस॑श्शो॒चयं॑तीर्नाम॒ स इ॒दं ब्रह्म॑ क्ष॒त्रं पा॑तु॒ ता इ॒दं ब्रह्म॑ क्ष॒त्रं पां᳚तु॒ तस्मै॒ स्वाहा᳚ । कामाय गंधर्वायेदम् ।ताभ्यस्वाहा᳚ । आधिभ्योऽप्सरोभ्योश्शोचयंतीभ्य इदं । स नो॑ भुववनस्य पते॒ यस्य॑ त उपरि॑ गृ॒हा इ॒ह च॑ । उ॒रु ब्रह्म॑णे॒ऽस्मै क्ष॒त्राय॒ महि॒ शर्म॑ यच्छ॒ स्वाहा᳚ । भुवनस्य पते ब्रह्मण इदं ।

प्रजा॑पते॒ न त्वदे॒तान्य॒न्यो विश्वा॑ जा॒ता॒ परि॒ ता ब॑भूव । यत्का॑मास्ते जुहु॒मस्तन्नो॑ अस्तु व॒यग्ग् स्या॑म॒ पत॑यो रयी॒णाग्ग् स्वाहा । प्रजापतय इदं ।

भूस्स्वाहा᳚ । अग्नय इदम् । भुव॒स्स्वाहा᳚ । वायव इदम् । सुव॒स् स्वाहा᳚ । सूर्याय इदम् ।

यद॑स्य॒ कर्म॒णोऽत्यरी॑रिचं॒ यद्वा॒ न्यू॑नमि॒हाक॑रम् । अ॒ग्निष्टत्स्वि॑ष्ट॒कृद्वि॒द्वान्थ्सर्व॒ग्ग्॒ स्वि॑ष्ट॒ग्ं॒ सुहु॑तं करोतु॒ स्वाहा᳚ । अग्नये स्विष्टकृत इदम् ।

परिध्यंजन-लेपकार्ये

ಪರಿಧ್ಯಂಜನವನ್ನು ಪ್ರಧಾನದರ್ವಿಯಿಂದ ಮಾಡಬೇಕು
वसु॑भ्यस्त्वा- मध्यमं परिधिं । वसुभ्य इदं ।
रु॒द्रेभ्य॑स्त्वा- दक्षिणं परिधिं । रुद्रेभ्य इदं ।
आ॒दि॒त्येभ्य॑स्त्वा- उत्तरं परिधिं । आदित्येभ्य इदं ।

ದಕ್ಷಿಣದಲ್ಲಿ ಪೂರ್ವಾಗ್ರವಾಗಿ ಪ್ರಧಾನ ದರ್ವಿಯನ್ನು, ಅದರ ಉತ್ತರದಲ್ಲಿ ದ್ವಿತೀಯ ದರ್ವಿಯನ್ನು, ಅದರ ಉತ್ತರದಲ್ಲಿ ಆಜ್ಯಸ್ಥಾಲಿಯನ್ನು-ಇಟ್ಟುಕೋಂಡು, ಅವುಗಳ ಕೆಳಗೆ ಇಟ್ಟದರ್ಭೆಗಳಿಂದ ಅಗ್ರವನ್ನು ಪ್ರಧಾನ ದರ್ವಿಯಲ್ಲೂ, ಮಧ್ಯವನ್ನು ದ್ವಿತೀಯದಲ್ಲೂ, ಮೂಲವನ್ನು ಆಜ್ಯಸ್ಥಾಲಿಯಲ್ಲಿ ಅದ್ದುತ್ತಾ ಲೇಪಕಾರ್ಯವನ್ನು ಮಾಡಬೇಕು

दर्व्यामनक्त्यग्रं । अथेतरस्यां मध्यं । आज्यस्थाल्यां मूलं । एवं त्रिः ।
पाणिभ्यां दर्वां प्रतिष्ठाप्य । तृणं प्रहृत्या । त्रिरंगुल्या निर्दिश्य । अग्निमभिमंत्रणं च । भूमौ मार्ष्टि ।

परिधि प्रहरः । प्रहृत्य मध्यमं पूर्वं इतरौ युगपद्दहेत् ।
वाम परिधिम् अंगारेषूपगूहति ।
आघार समिधौ प्रहृत्य ।

सग्ग् स्रावेण जुहोति । स्वाहा᳚ । वसुभ्यो रुद्रेभ्य आदित्येभ्य सग्ग् स्रावभागेभ्य इदं ।

अस्मिन् हवन कर्मणि मध्ये मंत्र तंत्र स्वरवर्ण न्यूनातिरिक्त अक्षरनाम लोपदोष प्रायश्चित्तार्थं अनाज्ञातादिर्भमंत्रैराज्याहुतिग्ं होष्यामि

विश्वास-प्रस्तुतिः ...{Loading}...

अना᳚ज्ञात॒य्ँयदाज्ञा॑तम् ।
य॒ज्ञस्य॑ क्रि॒यते॒ मिथु॑ ।
अग्ने॒ तद॑स्य कल्पय ।
त्वꣳ हि वेत्थ॑ यथात॒थम् ।

विश्वास-प्रस्तुतिः ...{Loading}...

पुरु॑षसम्मितो य॒ज्ञः ।
य॒ज्ञᳶ पुरु॑षसम्मितः ।
अग्ने॒ तद॑स्य कल्पय ।
त्वꣳ हि वेत्थ॑ यथात॒थम् ।

विश्वास-प्रस्तुतिः ...{Loading}...

यत्पा॑क॒त्रा मन॑सा दी॒नद॑ख्षा॒ न ।
य॒ज्ञस्य॑ म॒न्वते॒ मर्ता॑सः ।
अ॒ग्निष्टद्धोता॑ क्रतु॒विद्वि॑जा॒नन्न् ।
यजि॑ष्ठो दे॒वाꣳ ऋ॑तु॒शो य॑जाति ॥115॥

त्वं नो॑ अग्ने॒ वरु॑णस्य वि॒द्वान् दे॒वस्य॒ हेडोऽव॑ यासिसीष्ठाः । यजि॑ष्ठो॒ वह्नि॑तमश्शोशु॑चानो॒ विश्वा॒ द्वेषाग्ं॑सि॒ प्र मु॑मुग्ध्य॒स्मत् स्वाहा᳚ । अग्निं वरुणाभ्यां इदं ।
सत्वं नो॑ अग्ने व॒मो भ॑वो॒ती ने दि॑ष्ठो अ॒स्या उ॒ष॒ व्यु॑ष्टौ । अव॑ यक्ष्वनो॒ वरु॑ण॒ग्ं ररा॑णो वी॒हि मृ॑डी॒कग्ं सु॒हवो॑ न एधि॒ स्वाहा᳚ । अग्नि वरुणाभ्यां इदं ।
त्वम॑ग्ने अ॒यास्य॒या सन् मन॑सा हि॒तः । अ॒यासन् ह॒व्यमू॑हिषे॒ऽयानो॑ धेहि भेष॒जग्ग् स्वाहा᳚ । अग्नये अयस इदं ।
यत॑ इंद्र॒ भया॑महे॒ ततो॑ नो॒ अभ॑यंकृधि । मघ॑वञ्छ॒ग्धि तव॒ तन्न॑ ऊ॒तये॒ विद्विषो॒ विमृधो॑ जहि॒ स्वाहा᳚ । इंद्राय मघोन इदं ।
स्व॒स्ति॒दा वि॒शस्पति॑ र्वृत्र॒हा वि॒मृधो॑ व॒शी । वृषेंद्रः॑ पु॒र ए॑तु नः स्वस्ति॒दा अ॑भयंक॒रः स्वाहा᳚ । इंद्राय अभयंकराय इदं ।
आ॒भिर्गी॒र्भियदतो॑ न ऊ॒नमाप्या॑य य हरि॒ वर्ध॑मानः । य॒दा स्तो॒तृभ्यो॒ महि॑ गो॒त्रा रु॒जासि॑ भूयिष्ठ॒भाजो॒ अध॑ ते स्याम॒ स्वाहा᳚। इंद्राय हरिवते वर्धमानायेदं ।
यन्म॑ आ॒त्मनो॑ मिं॒दाभू॑द॒ग्निस्तत्पुन॒राहा᳚ ज्जा॒तवे॑दा॒ विच॑र्षणि॒ स्वाहा᳚ । अग्नये जातवेदसे विचर्षण इदम् ।
पुन॑र॒ग्निश्चक्षु॑रदा॒त् पुन॒रिंद्रो॒ बृह॒स्पतिः॑ । पुन॑र्मेऽश्विनायु॒वं चक्षु॒राध॑त्त म॒क्ष्योः स्वाहा᳚ । अग्नींद्र बृहस्पत्यश्विभ्य इदम् ।
जा॒तवे॑दसे सुनवाम॒ सोम॒ मरा॑ती य॒तोद॑हाति॒वेदः॑ । सनः॑पर्ष॒दति॑ दु॒र्गाणि॒ विश्वा॑ ना॒वेव॒सिंधुं॑ दुरि॒तात्य॒ग्नि स्वाहा᳚ । जातवेदसे अग्नय इदम् ।
ग॒णानां᳚ त्वा ग॒णप॑तिग्ं हवामहे क॒विं क॑वी॒नामु॑प॒मश्र॑वस्तमं । ज्ये॒ष्ठ॒राजं॒ ब्रह्म॑णां ब्रह्मणस्पत॒ आनः॑ शृ॒ण्वन्नू॒भिः॑ सीद॒ साद॑न॒ग्ग् स्वाहा᳚ । गणपतय इदं ।
त्र्यं॑बकंयजामहे सुगं॒ पु॑ष्टि॒ वर्ध॑नं । उ॒र्वा॒रु॒कमि॑व॒ बन्ध॑नान्मृ॒त्यो र्मु॑क्षीय॒ मामृता॒त् स्वाहा᳚ । त्र्यंबकाय इदम् ।
इ॒दं विष्णु॒र्विच॑क्रमे त्रे॒धा द॑धे प॒दं । समू॑ढ मस्यपाग्ं सु॒रे स्वाहा᳚ । विष्णवे परमात्मन इदम् ।

भूः स्वाहा᳚ । अग्नय इदं । भुवः स्वाहा᳚ । वायव इदं । सुवः॒ स्वाहा᳚ । सूर्याय इदं । भूर्भुव॒स्सुव॒ स्वाहा᳚ । प्रजापतय इदं ।

अस्मिन् हवन कर्मणि मध्ये मंत्रविपर्यास, तंत्र विपर्यास, काल विपर्यास, कर्म विपर्यास, देवता विपर्यासादि संभावित समस्तदोष प्रयश्चित्तार्थं सर्व प्रायश्चित्ताहुतिं र्होष्यामि ।

भूर्भुव॒स्सुव॒ स्वाहा᳚ । प्रजापतय इदं ।

द्विषट् गृहीतं । स॒प्तते॑ अग्ने स॒मिदः॑ स॒प्त जि॒ह्वाः स॒प्तऋष॑यः स॒प्तधाम॑ प्रि॒याणि॑ । स॒प्तहोत्राः᳚ सप्त॒धात्वा॑ यज स॒प्तयो॒राप्र॑णस्वा घृ॒तेन॒ स्वाहा᳚ । अग्नये सप्तवत इदम् ।

{ಇದಾದನಂತರ ವಸ್ತ್ರ, ಫಲಗಳನ್ನು ಹಾಕುವುದು } पूर्णाहुति मुहूर्तोस्त्वित्यनुगृह्णन्तु । सुमुहूर्तोस्तु इतिप्रतिवचनम्। रवि शशि कुज सौम्य शक्र वंद्योथ शुक्रः दिनकरसुत राहु केतवः क्षेत्रपालाः । कमलज हरिरुद्राः पार्वती विघ्नराजः सकल मुनय एते मंगलं नो दिशन्तु॥ सर्वेग्रहाः सनक्षत्राः शुभ एकादश स्थान फलदा वरदा भवन्तु ।

अदितेन्वमग्ग्स्थेति उत्तर परिशेचनम् ।

महाशांति सूक्त पारायणं कृत्वा पुण्याहं कृत्वा ।
प्रणीता मोक्षणं कृत्वा ब्रह्माणमुद्वासयेत् ।
प्रणीताः पुरतः कृत्वा । पूरयेज् जलधारया।
प्राच्यां᳚ दि॒शि दे॒वा ऋ॒त्विजो॑ मार्जयन्तां ।
दक्षि॑णायां दि॒शि मासाः᳚ पि॒तरो॑ मार्जयन्तां । { अप उपस्पृश्य }
प्र॒तीच्यां᳚ दि॒शि गृ॒हाः प॒शवो॑ मार्जयन्तां ।
उ॒दी᳚च्यां दि॒श्याप॒ ओष॑धयो॒ वन॒स्पत॑यो मार्जयन्तां ।
ऊ॒र्ध्वायां᳚ दि॒शि य॒ज्ञः सं॑वत्स॒रो य॒ज्ञप॑तिर्मार्जयन्तां ।
स॒मु॒द्रंवः॒ प्रहि॑णोमि॒ स्वां यो॒ मपि॑गच्छतु । अच्छि॑द्रः प्र॒जया॑ भूयासं॒ मा परा॑सेचि॒ मत्पयः॑ । इति प्रणीता जलं य । यजमानं प्रोक्ष्य ।

ब्रह्मोद्वासनं कृत्वा । रक्षाधृत्वा । अभिवादनं कृत्वा । यस्सस्मृत्येति कर्म समापनम् ।

॥ कृष्णार्पणमस्तु ॥