षोडशि-कर्म

अथ षोडशि कर्म । षोडशꣳ स्तोत्रꣳषोडषꣳ शस्त्रं तेनषोडशी तत्षोडशिनः षोडशित्वं । प्राणानायम्य । सोमेन यक्ष्ये ज्योतिष्टोमेन रथन्तरसाम्ना द्वादशशतदक्षिणेन वीर्यवन् भूयासम् । इति सङ्कल्प । नित्यमिति केचित् । सर्वमग्निष्टोमवत् । शुण्ठा अकल्पकायः सोमक्रयणी । अधीलोभकर्णाजीवभूतया सोमक्रयणम् । अत्र प्रवृञ्जनमिष्यते । उदंचः प्राचश्च वंशानत्याधाय षोडशिछदींषि । इन्द्रस्य सदोसीति षट् । या यजमानस्य विकारेण प्रयोक्तव्यानि । अतिग्राह्यपात्राणि ध्रुवस्थालीं प्रयुज्य षोडशिपात्रं खादिरं चतुस्रक्ति । हुत्वा प्रिधौ लेपन्निमृज्य । द्रोणकलशमित्यादि ग्रहणकाले आग्रयणं गृहीत्वा अतिग्राह्यान् गृह्णाति । प्रकृतिवद्ध्रुवं गृहीत्वा षोडशिग्रहणम् । षोडशपात्रमादाय प्रक्षाल्य । आतिष्ठ वृत्रहन्रथं युक्ता ते ब्रह्मणा हरी । अर्वाचीनꣳ सुते मनो ग्रावा कृणोतु वग्नुना । उपयामगृहीतोसीन्द्राय त्वा षोडशिने । गृहीत्वा पवित्रदशाभिः परिमृज्य । एष ते योनिरिन्द्राय त्वा षोडशिने सादयति । यस्मान्न जातः परो अन्यो अस्ति । य आविवेश भुवनानि विश्वा । प्रजापतिः प्रजया संविदानः । त्रीणिज्योतीꣳषि सचते स षोडशी । एष ब्रह्मा य ऋत्वियः । इन्द्रो नाम शृतो गणे । विदथे शꣳसिषꣳ हरी । य ऋत्वियः प्रते वन्वे । वनुषो हर्यतम् मदम् । इन्द्रो नाम घृतं नयः । हरिभिश्चारु सेचते । श्रुतो गण आ त्वा विशन्तु । हरिवर्पसं गिरः । एताभिश्चतसृभिः सन्नमभिमन्त्र्य । पशूपाकरणकाले ऐन्द्रः पशुः । इन्द्राय त्वा जुष्टमुपाकरोमि । इन्द्राय त्वा जुष्टं नियुनज्मि । इन्द्राय त्वा जुष्टं प्रोक्षामि । इन्द्राय त्वा जुष्टामुत्कृन्तामि । इन्द्राय वृष्णेर्वपाया मेदसोनुब्रूहि । एवं प्रेष्य । जतवेदो वपया । इन्द्रस्याहं देवयज्यया जेमानं महिमानं गमेयम् । इन्द्रियावी वा । ग्रहावकाशकाले वर्चसे म इति कृत्वा । वीर्याय मे वर्चोदा वर्चसे पवस्व षोडशिनम् । माध्यन्दिने सवने मरुत्वतीयं गृहीत्वा षोडशि ग्रहणं । अभिमन्त्रणान्तम् । ग्रहावकाशकाले पुष्ट्यैम इति कृत्वा वीर्याय म इति । तृतीयसवने उक्थ्यं गृःइत्वा षोडशिग्रहणं सादनान्तम् । पुष्ट्यैमे । वीर्याय मे । अग्निष्टोमान्ते न पूतभृतो बिल इत्यादि । नोन्नेतस्सर्वम् । उक्त्यपर्यायैः प्रचर्य पूर्ववत् । पूतभृतो बिल इत्यादि उन्नेतः । न सर्वंराजानमित्यादि । होतृचमसमुख्यानुन्नयति । हिरण्ये बर्हिभ्यां च स्तोत्रमुपाकरोति । अभिजिदसीति स्तोमयोगः । सदसः पुरस्तात् श्वेताश्वधारणम् । ओथामोद इव मदे । अर्धर्चे मदामोद इवोमथ । अवसानेषु च प्रतिगरः । यथाक्रमं आ त्वा वहन्तु हरय इत्यादिषु प्रप्रवस्त्रिष्टुभमित्यन्तम् । पूर्वमुत्तरं च प्रकृतिवत् । उक्थं वाचीन्द्रायेत्याह । उक्थशा यजसोमानाम् । इन्द्राधिपतेधिपतिस्त्वं देवानामस्यधिपतिं मामायुष्मन्तं वर्चस्वन्तं मनुष्येषु कुरु स्वाहा इति ग्रहमध्वर्युर्जुहोति । चमासान् चमसाध्वर्यवः । उदङ्मुखोग्रहः चमसाश्च । इन्द्राय षोडशिन इदम् । अनुवषट्कृते अग्नये स्विष्टकृत इदम् । प्रत्याक्रम्य ग्रहमध्वर्युः प्रतिभक्षयति । भक्षेहीत्यादि । होतरुपह्वयस्व । इन्द्रश्च संराड्वरुणश्च राजा तौ ते भक्षं चक्रतुरग्र एतम् । तयोरनु भक्षं भक्षयामि वाग्जुषाणा सोमस्य तृप्यतु । इत्यध्वर्युर्भक्षयति । हिन्वमे नाभ्यभिमर्शनान्तम् । आदित्यवद्गणस्येति चमसिनां विशेषः । उपाकरणहिरण्यं अश्वं च उद्गात्रे दद्यात् । अश्वहिरण्ये इति छन्दोगवचनात् । यद्यश्वतरी दक्षिणा त—? धारणम् । अग्णीदौपयजनित्यादि उदवसानीयान्तं पूर्ववत् । षोडशिनो ग्रहस्य सवनेसवन इति विकल्पः । अथैकेषां शाखिनां उक्थ्यपर्यायाभ्यां उक्थ्यस्थाली गृह्यते । षोडशिप्रातस्सवने माध्यन्दिनसवने च । ततः तृतीयसवने उक्थ्यपर्यायैः सर्वैः प्रचरिते आग्रयणाद्गृह्यते अथ तृतीयसवन एवाग्रयणात् । सर्वैरुक्थ्यपर्यायैः प्रचरिते न पूर्वयोस्सवनयोर्ग्रहणम् । सकृदेव तृतीयसवने सर्वैः प्रचरिते आग्रयणादेव पशुकामस्यायं विधिः । नोक्थ्ये गृह्णीयात् गृह्णीयाद्वा । उक्थ्यसंस्थिते यज्ञक्रतौ विकल्पेन ग्रहणम् । स्तुतस्य शश्त्रसहितं ग्रहमात्रं क्रतुकरणादयस्तु उक्थ्यस्यैव ग्रहमात्रं काम्यं षोडशिनः । अतिरात्रे पशुकामस्येत्यादि ब्रह्मवर्चसकामपशुकामयोरतिरात्रे नियमः । अप्यग्निष्टोमे राजन्यस्य गृह्णीयात् । अग्निष्टोमेऽपि राजन्यस्य ग्रहणं स्तुतशस्त्राभ्यामुक्थ्यषोडशिवत् । अग्निष्टोमवदेव क्रतुकरणादयः । एवं राजन्यस्याग्निष्टोमरूपः । एषएवाप्यग्निष्टोमः । सोपि राजन्यस्येवेति केचित् । तन्न सर्वस्सर्वेषां एवं भगवता गौतमेन विशिष्टेन पुरुषसंस्कारेण अभिहितत्वात् । इति षोडशी समाप्तः ।