०३ अवभृथेष्टिः

॥ अथ अवभृथेष्टिः ॥

अवभृथतन्त्रप्रारम्भः

अथ अवभृथस्य तन्त्रं प्रक्रमयति । या जाता ओषधय इत्यादि । तूष्णीं परिभोजिनीमुलपराजीं च । नेध्माहरणम् । वेदं कृत्वोपवेषः । अलङ्कृत्य परिस्तीर्य कर्मणे वामित्यादि । पात्रप्रयोगकाले एककपालं स्फ्यश्च द्वन्द्वम् । अग्निहोत्रहवण्यादि पुरतः प्राशित्रेडाप्रणीतायोक्त्रान्वाहार्यस्थालीपिष्टलेपवर्जम् । पवित्रकरणादि । वरुणाय जुष्टं निर्वपामि । वरुण हव्यꣳ रक्षस्व । वरुणाय वो जुष्टं प्रोक्षामि । वरुणाय जुष्टमधिवपामि । प्रथमेन कपालमन्त्रेणैककपालमुपधाय । भृगूणामङ्गिरसां तपसा तप्यस्व कपालेऽङ्गारानध्यूह्य । वरुणाय जुष्टꣳ संवपामि । आप्यलेपं निनीयेत्यन्तं कृत्वा । सदोहविर्धानयोर्मध्ये स्फ्यं तिर्यञ्चं स्तब्ध्वा सम्प्रेष्यति प्रोक्षणीरासादय स्रुवं च स्रुचश्च सम्मृड्ढ्याज्येनोदे३हि २। न प्रोक्षणीनामभिपूरणम् । उदञ्चं स्फ्यमपोह्य दक्षिणेन स्फ्यं असंस्पृष्टास्सर्वा-न्निनीय । शतभृष्टिरसि । स्रुक्संमार्जनम् । दिवः शिल्पम् । अग्ने गृहपते । पूषा ते बिलम् । न प्रोक्षण्युत्पवनम् । न चाद्भिराज्यमाज्येन । चतुर्गृहीतान्याज्यानि पञ्चावत्तिनामपि । अननूयाजपक्षे आद्यैः चतुर्भिरुपभृति । यदनूयाजौ पञ्चानां त्वा दिशां, पञ्चानां त्वा पञ्चजनानां, चरोस्त्वा पञ्चबिलस्य, ब्रह्मणस्त्वा तेजसे इत्येतैश्चतुर्भिर्गृह्णाति । सुप्रजास्त्वायेति चतुर्ध्रुवायाम् । अयं प्राणश्च । इदमहꣳ सेनाया इत्यादि । वरुणाय जुष्टमभिघारयामि । स्योनं ते । देवस्त्वा इति वारुणमलङ्कृत्योत्तरवेद्यंसे तूष्णीमासादयति । न च आसन्नाभिमर्शनम् ।

औदुम्बर्याः उद्धरणं, अवभृथ संभाराणां संभरणं च

अत्र यजमानः औदुम्बरीमुत्खिदति उपसृजन् धरुणं मात्रे मातरा धरुणोधयन्न् । इह पुष्टिं पुष्टिपतिर्नियच्छतु रायस्पोषमिषमूर्जमस्मासु दीधरत् तामधिषवणचर्मफलके सर्वाणि च सोमलिप्तानि अन्तरा चात्वालोत्करावुत्तरे वेद्यंसे औदुम्बर्यामासन्द्यां सादयति । अन्यत्र चतसृभ्यः सोमस्थालीभ्यः।

कृष्णाजिनस्य उत्सर्जनं, अवभृथयजुषां होमश्च

अव ते हेडो वरुण नमोभिरव यज्ञेभिरीमहे हविर्भिः । क्षयन्नस्मभ्यमसुरप्रचेतो राजन्नेनाꣳसि शिश्रथः कृतानि इति यजमानश्चात्वाले कृष्णाजिनं प्रास्यति । पुनर्वैनेन दीक्षेत वसीत वैनद्भ्रस्तां वैनत्स्रुचामवधानार्थां कारयेद्धविरवहननार्थं वा स्यात् । अवभृथादुदेत्य पुत्राय ब्रह्मचारिणे वा दद्यादित्येके । आयुर्दा अग्ने हविषो जुषाणो घृतप्रतीको घृतयोनिरेधि । घृतं पीत्वा मधु चारु गव्यं पितेव पुत्रमभि रक्षतादिमꣳ स्वाहा ॥ आयुर्देऽग्नय इदम् । अवभृथ निचङ्कुण नि चेरुरसि निचङ्कुणावदेवैर्देवकृतमेनोऽयाडव मर्त्यैर्मर्त्यकृतमुरोरानो देव रिषस्पाहि स्वाहा ॥ अवभृथायेदम् । नमो रुद्राय वास्तोष्पतये । आयने विद्रवणे । उद्याने यत्परायणे । आवर्तने विवर्तने । यो गोपायति तꣳ हुवे स्वाहा ॥ रुद्राय वास्तोष्पतय इदम् । अवभृथमवैष्यन् जुहुयात् । स्रुवेण होमः । यस्मिन्नग्नौ हविश्श्रपणं तस्मिन्नेव होमः ।

अवभृथार्थं गमनम्

उरुꣳ हि राजा वरुणश्चकार सूर्याय पन्थामन्वेत वा उ । अपदे पादा प्रति धातवेकरुतापवक्ता हृदयाविधश्चित् सर्वे सहपत्नीकाः हविराज्यानि ऋजीषं दध्यौदुम्बरशाखां च गृहीत्वा वेद्या अभिप्रयान्तो वदन्ति । ततः संप्रेष्यति प्रस्तोतः साम गाय । ब्रह्मा अवभृथार्थं गच्छतां दक्षिणतो गच्छति । सर्वे सहपत्नीकास्त्रिस्साम्नो निधनमुपयन्ति । अर्धाद्वे द्वितीयम् । अवभृथदेशं प्राप्य तृतीयम् । शतं ते राजन् भिषजस्सहस्रमुर्वी गम्भीरा सुमतिष्टे अस्तु । बाधस्व द्वेषो निर्ऋतिं पराचैः कृतं चिदेनः प्रमुमुग्ध्यस्मत् अपो दृष्ट्वा यजमानो जपति । अध्वर्युः - सूर्यो वः पुरस्तात्त्पातु कस्याश्चिदभिशस्त्याः अपोऽभिमन्त्रयते । यजमानः - युनज्मि वो ब्रह्मणा दैव्येन हव्यायास्मै वोढव आपः । इन्धाना वस्सुप्रजसस्सुवीरा ज्योग्जीवेम बलिहृतो वयं वः । यन्म आपो अस्य यज्ञस्य रिष्याद्यद्वा स्कन्दादाज्यस्योत विष्णवः ॥ तेन हन्मि सपत्नं दुर्मरायुमैनं दधामि निर्ऋत्या उपस्थे ॥ तेजिष्ठा वस्तपना या च रोचना प्रत्योषन्तीस्तनुवो या व आपः । ताभिर्वर्माण्यभितो व्ययध्वं मा वो दभन्, यज्ञहनः पिशाचाः अभिमन्त्रयते । अभिष्ठितो वरुणस्य पाशः उदकान्तमभितिष्ठन्ते । अपः प्रगाह्य तिष्ठन्तोऽवभृथेन चरन्ति । तृणं प्रहृत्य स्रौवमाघारयति । यदि वा पुरा तृणं स्यात्तस्मिन् जुहुयात् । आ प्यायताम् । अग्नीदपस्त्रिस्संमृड्ढि इति संप्रेष्यति । आग्नीध्रः - आपो वाजजितो वाजं वस्सरिष्यन्तीर्वाजं जेष्यन्तीर्वाजिनीर्वाजजितो वाजजित्यायै संमार्ज्म्यपो अन्नादा अन्नाद्याय अपः प्राञ्चं त्रिस्संमार्ष्टि । भुवनमसि विप्रथस्वापो यष्ट्र्य इदं नमः । जुह्वेहीत्यादि । नाग्नाविष्णू । अग्नेरनीकमप आविवेश । अपान्नपात् प्रतिरक्षन्नसुर्यं दमेदमे समिधं यक्ष्यग्ने । प्रति ते जिह्वामुच्चरण्येत् स्वाहा स्रुच्यमाघारयति । वागस्याग्नेयी सपत्नक्षयणी इत्यनुमन्त्रयते । अग्नय इदम् । लुप्यते प्रवरः । घृतवति शब्द इत्यादि । त्रीन् प्रयाजानिष्टा औपभृतं सर्वमानयति । अनूयाजपक्षे अर्धमानयति । पञ्चममेव इष्ट्वा १ शेषेण ध्रुवामभिघार्य वारुणमभिघारयति । नोपभृतं अननूयाजपक्षे । अनूयाजपक्षे उपभृतमन्ततः । आज्यभागाविष्ट्वा । वरुणायानुब्रू३हि । वरुणं यज । वरुणायेदम् । वरुणस्याहं देवयज्ययान्नादो भूयासम् । नारिष्ठान् हुत्वा । जुह्वामुपस्तीर्य कृत्स्नं पुरोडाशमवदाय द्विरभिघार्य स्विष्टकृतौ ध्रौव समाप्तिः अग्नीवरुणाभ्यामनुब्रू३हि । अग्नीवरुणौ यज । अग्नीवरुणाभ्यामिदम् । अग्नीवरुणयोरहं देवयज्ययायुष्मान् यज्ञेन प्रतिष्ठां गमेयम् । अग्नीवरुणौ स्विष्टकृदर्थे यजति । अननूयाजपक्षे नोत्तरं क्रियते । अत्रैवेष्टिसमाप्तिः । अनूयाजपक्षे अग्नीदपस्सकृत् सम्मृड्ढीति सम्प्रेष्यति । आग्नीध्रः आपो वाजजितो वाजं वस्सस्रुषीर्वाजं जिग्युषीर्वाजिनीर्वाजजितो वाजजित्यायै सं मार्ज्म्यपो अन्नादा अन्नाद्याय सकृदपस्स्फ्येनैव सम्मार्ष्टि । औपभृतं जुह्वामानीय । अपबर्हिषावनूयाजौ यजति । देवौ यजेति प्रथमं संप्रेष्यति । यजेत्युत्तरम् । अत्र इष्टिस्समाप्यते ।

द्रप्सवतीभिः ऋजीषप्रोक्षणम्

यत्ते ग्राव्ण्णा चिच्छिदुस्सोम राजन् । प्रियाण्यङ्गानि स्वधिता परूꣳषि । तत्सन्धत्स्वाज्ये-नोत वर्धयस्व । अनागसो अधमित्सं क्षयेम । यत्ते ग्रावा बाहुच्युतो अचुच्यवुः । नरो यत्ते दुदुहुर्दक्षिणेन । तत्त आप्यायतां तत्ते । निष्ट्यायतां देव सोम । यत्ते त्वचं बिभिदुर्यच्च योनिम् । यदास्थानात्प्रच्युतो वेनसि त्मना । त्वया तत्सोम गुप्तमस्तु नः । सा नस्सन्धासत्परमे व्योमन् । अहाच्छरीरं पयसा समेत्य । अन्योन्यो भवति वर्णो अस्य । तस्मिन् वयमुपहूतास्तव स्मः । आ नो भज सदसि विश्वरूपे । नृचक्षास्सोम उत शुश्रुगस्तु । मा नो वि हासीद्गिर आवृणानः । अनागास्तनुवो वावृधानः । आ नो रूपं वहतु जायमानः । उप क्षरन्ति जुह्वो घृतेन । प्रियाण्यङ्गानि तव वर्धयन्तीः । तस्मै ते सोम नम इद्वषट्च । उप मा राजन्त्सुकृते ह्वयस्व । सं प्राणापानाभ्याꣳ समु चक्षुषा त्वम् । सꣳ श्रोत्रेण गच्छस्व सोमराजन् । यत्त आस्थितꣳ शमु तत्ते अस्तु । जानीतान्नस्सङ्गमने पथीनाम् । एतं जानीतात्परमे व्योमन्न् । वृकास्सधस्था विदरूपमस्य । यदागच्छात्पथिभिर्देवयानैः । इष्टापूर्ते कृणुतादाविरस्मै । अरिष्टो राजन्नगदः परेहि । नमस्ते अस्तु चक्षसे रघूयते । नाकमारोह सह यजमानेन । सूर्यं गच्छतात्परमे व्योमन्न् । अभूद्देवस्सविता वन्द्योऽनु नः । इदानीमह्न उपवाच्यो नृभिः । वि यो रत्ना भजति मानवेभ्यः । श्रेष्ठं नो अत्र द्रविणं यथा दधत् । उप नो मित्रावरुणाविहावतम् । अन्वादीध्याथामिह नस्सखाया । आदित्यानां प्रसितिर्हेतिः । उग्रा शतापाष्ठा घविषा परिणो वृणक्तु । आ प्यायस्व समेतु ते विश्वतस्सोम वृष्णियम् । भवा वाजस्य सङ्गथे । सं ते पयाꣳसि समु यन्तु वाजास्सं वृष्णियान्यभिमातिषाहः । आ प्यायमानो अमृताय सोम दिविश्रवाꣳस्युत्तमा निधिष्व सौमीभिर्द्रप्सवतीभिः पञ्चभिस्सप्तभिस्त्रयोदशभिर्वा दध्नौदुम्बरशाखया ऋजीषं प्रोक्षति । प्रहृत्य वाभिजुहुयात् ।

ऋजीषस्य सोमलिप्तपात्राणां च अप्सु क्षेपणम्

ऋजीषस्य स्रुचं पूरयित्वा अप्सूपमारयति समुद्रे ते हृदयमप्स्वन्तस्सं त्वा विशन्त्वोषधीरुतापो यज्ञस्य त्वा यज्ञपते हविर्भिः । सूक्तवाके नमोवाके विधेम । ततो यो भिन्दुरुत्प्लवते तमुपस्पृशेत् भक्षयेद्वा अप्सु धौतस्य सोम देव ते नृभिस्सुतस्येष्टयजुषस्तुतस्तोमस्य शस्तोक्थस्य यो भक्षो अश्वसनिर्यो गोसनिस्तस्य ते पितृभिर्भक्षङ्कृतस्योपहूतस्योपहूतो भक्षयामि इति । समुद्रं वः प्रहिणोमि स्वां योनिमपि गच्छत । अच्छिद्रः प्रजया भूयासं मा परासेचि मत्पयः सर्वाणि च सोमलिप्तान्यवभृथे प्रविध्यति ।

योक्त्रमेखलयोः विसर्जनं, स्नानं च

विचृत्तो वरुणस्य पाशः यजमानो मेखलां वि सृजते । इमं विष्यामि वरुणस्य पाशं यमबध्नीत सविता सुकेतः । धातुश्च योनौ सुकृतस्य लोके स्योनं मे सह पत्या करोमि पत्नी योक्त्रं वि सृजते । अत्र योक्त्रमेखले वाससी जालं कृष्णाजिनं चावभृथे प्रविध्य । देवीराप एष वो गर्भस्तं वः सुप्रीतꣳ सुभृतमकर्म देवेषु नः सुकृतो ब्रूतात् अवभृथं यजमानोऽभिमन्त्र्य । सुमित्रा न आप ओषधयः सन्तु दुर्मित्रास्तस्मै भूयासुर्योऽस्मान् द्वेष्टि यं च वयं द्विष्मः अपः प्रगाह्य सशिरस्कावनुपमक्षन्तौ स्नातः पत्नी यजमानश्च । अन्योन्यस्य पृष्ठे प्रधावतः । उभावाचम्य यद्दिदीक्षे मनसा यच्च वाचा यद्वा प्राणैश्चक्षुषा यच्च श्रोत्रेण । यद्रेतसा मिथुनेनाप्यात्मनाद्भ्यो लोका दधिरे तेज इन्द्रियम् । शुक्रा दीक्षायै तपसो विमोचनीरापो विमोक्त्रीर्मयि तेज इन्द्रियम् ॥ यदृचा साम्ना यजुषा पशूनां चर्मन् हविषा दिदीक्षे । यच्छन्दोभिरोषधीभिर्वनस्पतावद्भ्यो लोका दधिरे तेज इन्द्रियम् । शुक्रा दीक्षायै तपसो विमोचनीरापो विमोक्त्रीर्मयि तेज इन्द्रियम् ॥ येन ब्रह्म येन क्षत्रं येनेन्द्राग्नी प्रजापतिस्सोमो वरुणो येन राजा । विश्वे देवा ऋषयो येन प्राणा अद्भ्यो लोका दधिरे तेज इन्द्रियम् । शुक्रा दीक्षायै तपसो विमोचनीरापो विमोक्त्रीर्मयि तेज इन्द्रियम् ॥ त्रिरञ्जलिना विषिच्य । सर्वमन्त्रान्तेऽभिषेकं कुरुतः पत्नीयजमानश्च, द्विस्तूष्णीम् । उपदेशस्तु प्रतिमन्त्रम् । उन्नेतर्वसीयो न उन्नयाभ्युदित्ते वसुवित्तमा गिरस्स्तोमास ईरते । सत्राजितो धनसा अक्षितोतयो वाजयन्तो रथा इव । कण्वा इव भृगवस्सूर्या इव विश्वमिद्धीतमानशुः ऐकश्रुत्या यजमानः संप्रेष्यति । उदेत प्रजामायुर्वर्चो दधाना अधस्स्यामसुरभयो गृहेषु । गायत्री छन्दाꣳस्यनु सꣳरभन्तामस्मान्राय उत यज्ञास्सचन्ताꣳ सुप्रीतस्सुवरप आविवेश यजमानं पुरस्कृत्य उन्नेता तीरे सर्वानानयति । अहते वसानौ तीरमागच्छतः । सोमोष्णीषं द्विगुणं यजमानः परिधत्ते । सोमोपनहनं पत्नी । सोमपरिश्रियणं वा । ते उदवसानीयायामध्वर्यवे दत्तः । उद्वयं तमसस्परि पश्यन्तो ज्योतिरुत्तमम् । देवं देवत्रा सूर्यमगन्म ज्योतिरुत्तमम् इत्यादित्यमुपस्थाय । प्रतियुतो वरुणस्य पाशः प्रत्यस्तो वरुणस्य पाशः उदकान्तं प्रत्यसित्वा । पुनरप्सु प्रविश्य । समित्पाणयः उन्नेतारं पुरस्कृत्य अप्रतीक्षमायन्ति । अपाम सोमममृता अभूमादर्श्म ज्योतिरविदाम देवान् । किमस्मान् कृणवदरातिः किमु धूर्तिरमृतमर्त्यस्य महीयां वदन्तः । यान्यपामित्यान्यप्रतीत्तान्यस्मि यमस्य बलिना चरामि । इहैव सन्तः प्रति तद्यातयामो जीवा जीवेभ्यो निहराम एनत् ॥ अनृणा अस्मिन्ननृणाः परस्मिꣳस्तृतीये लोके अनृणास्स्याम । ये देवयाना उत पितृयाणास्सर्वान्पथो अनृणा आ क्षीयेम इत्यन्तम् । सर्वे देवयजनं प्राप्य पादौ प्रक्षाल्य आचम्य । एधोऽस्येधिषीमहि । समिदसि । तेजोऽसि तेजो मयि धेहि आहवनीये तिस्रस्समिध आधाय । अपो अन्वचारिषꣳ रसेन समसृक्ष्महि । पयस्वाꣳ अग्न आगमं तं मा सꣳसृज वर्चसा इत्युपतिष्ठन्ते ।

॥ उदयनीयेष्टिः ॥

उदयनीयायास्तन्त्रं प्रक्रमयति । प्रायणीयावदुदयनीया । तस्यामेव स्थाल्यामनिष्कसितायां श्रपयति । तद्बर्हिस्तन्मेक्षणम् । शालामुखीये प्रचरन्ति । उत्तरेण गार्हपत्यमित्यादि । प्रस्तरमेवाहरेत् । अलुभिता योनिः इति पूर्वस्मिन् बर्हिषि निदधाति । इन्द्राण्यै सन्नहनम् इत्यादि बर्हिरसि देवङ्गमम् इत्यन्तम् । अत्र व्रतप्रवेशः । या जाता इत्यादि । पात्रप्रयोगकाले प्रायणीयास्थाली स्फ्यश्च द्वन्द्वम् । अग्निहोत्रहवण्यादि । शम्यादृषदुपलप्रणीतान्वाहार्यस्थालीमदन्तीपिष्टलेपवर्जम् । इडापात्रमुत्पवनपात्रं च द्वन्द्वम् । अत्र योक्त्रं प्रयुनक्ति । पवित्रे कृत्वा यजमान वाचं यच्छ । सं विशन्तामित्यादि । अदित्यै जुष्टं निर्वपामि । सर्वं प्रायणीयावत् । प्रोक्षणीरासदयेत्यादि । पत्नीꣳ सन्नह्याज्येनोदे३हि । बर्हिरासाद्य स्रुक् संमार्जनम् । षड्ढोत्रा हविरासादनम् । प्रयाजानिष्ट्वा न स्रुचोस्सादनम् । नाज्यभागौ । यजमानः पञ्चहोतारं वदेत् । अग्निमाज्यानां प्रथमं यजति । पथ्यां स्वस्तिमुत्तमाम् । सर्वमुपांशु प्रचरति । आज्यं गृहीत्वा अग्नये अनुब्रू३हि । अग्निं यज दक्षिणत होमः । एवं सोमं पश्चात् । सवितारमुत्तरतः । पथ्यां स्वस्तिं पुरस्तात् । चतुर्णां दब्धिरसीत्यनुमन्त्रणम् । मध्येऽदितिमिष्ट्वा मारुतीमृचमन्वाह । अदित्या अहं देवयज्यया प्र प्रजया च पशुभिश्च जनिषीय । नारिष्ठान् हुत्वा । स्विष्टकृति ध्रौवसमाप्तिः । सा मे सत्याशीराशीर्म ऊर्जमिति विद्यते । एमा अग्मन्निति विद्यते । संस्रावहोमान्ता उदयनीया सन्तिष्ठते ।

॥ मैत्रावरुणी आमिक्षा ॥

मैत्रावरुणीमामिक्षामनूबन्ध्यास्थाने बह्वृचास्समामनन्ति । इषे त्वेति शाखामाहृत्य । व्रतप्रवेशनम् । असिदादानादि । प्रस्तरमेव आहरेत् । परिस्तरणादि । नेध्मम् । वेदं कृत्वा । अन्तर्वेदि शाखाया इत्यादि । न तृतीयस्यै । एकस्याः कुम्भ्याः आलेपनम् । इमौ पर्णं च । वायवस्स्थ । परिस्तृणीत । देवा देवेषु । कर्मणे वां इत्यादि । पात्रप्रयोगकाले स्फ्यमग्निहोत्रहवणीमपरतः । स्रुवं जूहूं उपभृतं ध्रुवां वेदमाज्यस्थालीं वेदाग्रमिडापात्रं योक्त्रं प्रातर्दोहपात्राणि वाजिनपात्रं च । पवित्रे कृत्वा । न ब्रह्मवरणम् । यजमान वाचं यच्छ । सं विशन्तामित्यादि । यजमानः - अग्निꣳ होतारम् । कस्त्वा युनक्ति स त्वा युनक्तु । प्रोक्षणीस्संस्कृत्य ब्रह्माणमामन्त्र्य । पात्राणि त्रिः प्रोक्ष्य । प्रोक्षणीशेषं सदसः पुरस्तान्निधाय । एता आचरन्तीत्यादि । मित्रावरुणाभ्यां हविरिन्द्रियम् । बहुदुग्धि मित्रावरुणाभ्यां देवेभ्यो हव्यम् इति विशेषः । सङ्क्षालननिनयनान्तम् । तप्ते प्रातर्दोहे लौकिकं दध्यानयति । अन्तरितꣳ रक्षः । अविदहन्त । तूष्णीं स्फ्यमादाय । सदसः पुरस्तात् स्फ्यं तिर्यञ्चं स्तब्ध्वा संप्रेष्यति । प्रोक्षणीरासादय बर्हिरुपसादय स्रुवं च सुचश्च संमृड्ढि पत्नीꣳ संनह्याज्येनोदे३हि । प्रोक्षण्यादि अद्भिराज्यमित्यन्तं कृत्वा आज्यग्रहणकाले ध्रुवायामेव गृह्णाति । सुप्रजास्त्वायेत्यादि । प्रोक्षणीरभिमन्त्र्य ब्रह्माणमामन्त्र्य । इध्मवर्जम् । वेदिरसीत्यादि । प्रोक्षणीशेषं निनीय । अयं प्राणश्च । प्राणापानाभ्यां त्वा सतनुं करोमि इति प्रदाय प्रतिगृह्य । सूर्यस्त्वा पुरस्तात् पातु । युनज्मि त्वा । विशो यन्त्रे स्थ इत्यादि । तूष्णीं जुहूपभृतावासाद्य ध्रुवासीति ध्रुवां, ऋषभोऽसीति स्रुवं च सादयित्वा । तूष्णीमाज्यस्थालीम् । एतावसदताꣳ सुकृतस्य लोके तौ विष्णौ पाहि — यज्ञनियम् । विष्ण्वसि वैष्णवं धामासि प्राजापत्यम् । यस्त आत्मा इत्यामिक्षामभिघार्य दृꣳह इत्युद्वास्य संहत्य द्वयोः पात्रयोरुद्धृत्य वाजिनैकदेशेनोपसिञ्चति । प्रियेणेत्यासादनम् । यजमानः - इदमिन्द्रियं, अयं यज्ञः, ममाग्ने पञ्चहोता । पुनः पञ्चहोता । जुह्वामुपस्तीर्य । मा भेर्मा सं विक्था इति द्विः । अमिक्षाद्वयं स्रुवेण द्विर्द्विरवदाय । अभिघार्य हविः द्विः प्रत्यभिघार्य । मित्रावरुणाभ्यामनुब्रू३हि । मित्रावरुणौ यज । मित्रावरुणाभ्यामिदम् । मित्रावरुणयोरहं देवयज्ययेन्द्रियावी भूयासम् । जेमानम् इति वा । ततो दक्षिणवेद्यन्ते यजमानः केशश्मश्रु वापयते । स्नानं कृत्वा धात्रादीनामाज्येन यागः । धातानुमती राका सिनीवाली कुहूः उपांशुयाजवत् प्रचरति । सर्वेषां दब्धिरसीत्यनुमन्त्रणम् । न पार्वण होमः । नारिष्ठस्विष्टकृति ध्रौवसमाप्तिः । न प्राशित्रम् । इडामार्जनान्ता सन्तिष्ठते १ । ब्रह्मा अयाडग्निरित्यादि आहवनीयमुपस्थाय यथेतं प्रतिनिष्क्रामति । समाप्ता मैत्रावरुणेष्टिः ।

अध्वर्युः - सदो हविर्धानस्य हविर्धानयोरिति प्रथमग्रथितान् ग्रन्थीन् विसृस्य उदीची हविर्धाने बहिर्वेदि निवर्तयति । आहवनीयादुल्मुकमादाय यजमानो वेदिमुपोषति यत्कुसीदमप्रतीत्तं मयि येन यमस्य बलिना चरमि । इहैव सन्निरवदये तदेतत्तदग्ने अनृणो भवामि यदि मिश्रमिव चरेत् अञ्जलिना सक्तून् प्रदाव्ये जुहुयात् । लौकिकान् सक्तून् अञ्जलिना गृहीत्वा विश्वलोप विश्व दावस्य त्वाऽऽसञ्जुहोम्यग्धादेको हुतादेकस्समसनादेकः । ते नः कृण्वन्तु भेषजꣳ सदस्सहो वरेण्यꣳ स्वाहा । अग्धादिभ्योऽग्निभ्य इदम् । यदाकूतात्समसुस्रोद्धृदो वा मनसो वा संभृतं चक्षुषो वा । तमनु प्रेहि सुकृतस्य लोकं यत्र ऋषयः प्रथमजा ये पुराणाः ॥ एतꣳ सधस्थ परि ते दधामि यमावहाच्छेवधिं जातवेदाः । अन्वागन्ता यज्ञपतिर्वो अत्र तꣳ स्म जानीत परमे व्योमन्न् ॥ जानीतादेनं परमे व्योमन् देवास्सधस्था विदरूपमस्य ॥ यदागच्छात्पथिभिर्देवयानैरिष्टापूर्ते कृणुतादाविरस्मै तिसृभिर्धूममनुमन्त्रयते । अयं नो नभसा पुरस्सꣳस्फानो अभिरक्षतु । गृहाणामसमर्त्यै बहवो नो गृहा असन्न् आहवनीयमुपतिष्ठते । स त्वं नो नभसस्पत ऊर्जं नो धेहि भद्रया । पुनर्नो नष्टमा कृधि पुनर्नो रयिमा कृधि वायुम् । देव सꣳस्फान सहस्रपोषस्येशिषे स नो रास्वाज्यानिꣳ रायस्पोषꣳ सुवीर्यꣳ संवत्सरीणाꣳ स्वस्तिम् आदित्यमुपतिष्ठते । आमिक्षा वेदमुपस्थ आधाय अन्तर्वेद्यासीनोऽतिमोक्षान् जपति । ये देवा यज्ञहन इत्यादि । ततो यज्ञ शं च म इति जपित्वा । वृष्टिरसीत्यप उपस्पृश्य । ब्राह्मणाꣳस्तर्पयितवै इति सम्प्रेष्यति ।

॥ उदवसानीया इष्टिः ॥

प्राजहितं समारोप्य यज्ञपात्रैः सह प्रागुदग्वा उदवसाय इदमूनु श्रेयो वसानमागन्म शिवे नो द्यावापृथिवी उभे इमे । गोमद्धनवदश्ववदूर्जस्वत्सुवीरा वीरैरनु सञ्चरेम यजमानो देवयजनमध्यवसाय

उदवसानीयायास्तन्त्रं प्रक्रमयति । उदवसानीयया यक्ष्ये । विद्युदसि । अग्न्यन्वाधानादि । इमामूर्जमिति यथातिथि निर्देशः । उदवसानीयꣳ हविः । पौर्णमासं तन्त्रम् । पञ्चदश सामिधेन्यः । अलङ्कृत्य, परिस्तीर्य, देवा देवेषु कर्मणे वामित्यादि । पात्रप्रयोगकाले अष्टाकपालानि स्फ्यश्च द्वन्द्वम् । अन्वाहार्यस्थाली वर्जमितराणि प्रकृतिवत् । निर्वपणकाले अग्नये जुष्टं निर्वपामि । अग्ने हव्यꣳ रक्षस्व । अग्नये वो जुष्टं प्रोक्षामि । एवमधिवापस्संवापश्च । मन्त्रेणाभिघारणम् । प्रियेणेत्यासादनम् । यज्ञोऽस्ययं यज्ञो ममाग्ने चतुर्होतेत्यासन्नाभिमर्शनम् । यदि रात्रिमतीत्य चरेत् सर्वप्रायश्चित्तं कृत्वा प्रधानयागः । अग्नयेऽनुब्रू३हि । अग्निं यज । अग्नय इदम् । अग्नेरहं देवयज्ययान्नादो भूयासम् । दक्षिणाकाले अनड्वान् दक्षिणा । तत्प्रतिनिधि हिरण्यं वा । ब्रह्मन् ब्रह्मासीत्यादि । रुद्राय गामिति प्रतिग्रहः । ब्राह्मणतर्पणान्तं इष्टिस्सन्तिष्ठते ॥

अपि वा विहारं कल्पयित्वा मथित्वा वोपावरोह्य । वैष्णवीं पूर्णाहुतिं उदवसानीययास्स्थाने होष्यामि इति सङ्कल्प्य । विहृत्य पूर्णाहुतिं जुहोति । द्वादशगृहीतेन स्रुचं पूरयित्वा अन्तर्वेद्यूर्ध्वस्तिष्ठन् इदं विष्णुर्वि चक्रमे त्रेधा निदधे पदम् । समूढमस्य पाꣳसुरे स्वाहा । विष्णव इदम् । सा यावद्रात्रेष्टिस्सन्तिष्ठतेऽथ सायमग्निहोत्रं जुहोति । काले प्रातर्होमम् । सन्तिष्ठतेऽग्निष्टोमोऽग्निष्टोमः ॥

॥ समाप्तः अग्निष्टोमप्रयोगः ॥

