आग्नीध्रचमसमादाय सद एत्य अयाडग्नीत् इत्याह । स भद्रमकर्यो नस्सोमं पाययिष्यति इतरे प्रत्याहुः । तत्र श्लोकः
होत्रा भक्षितमध्वर्युः पीत्वा संपातमानयेत् ।
अध्वर्युभ्यामुपस्पृष्टं पिबेद्धोतोपहूय तौ ॥
अथाध्वर्युरितराभ्यामुपहूतस्तु भक्षयेत् ।
स्थातोपहूय तौ पीत्वा सर्वं संपातमानयेत् ॥
ऐन्द्रवायवभक्षस्य द्वितीयेन समो मतः ।
उत्तरग्रहयोर्भक्षस्संपातश्च यथा भवेत् ॥
अथ द्विदेवत्यानां भक्षणम् । होत्रा दत्तमैन्द्रवायवमन्वारभ्य अध्वर्यो उपह्वयस्वे त्युक्तः उपहूत इति प्रब्रूयात् सर्वत्र । भक्षेहि मा विश दीर्घायुत्वाय शन्तनुत्वाय रायस्पोषाय वर्चसे सुप्रजास्त्वायेहि वसो पुरोवसो प्रियो मे हृदोऽसि भक्षमाह्रियमाणं प्रतीक्षते । अश्विनोस्त्वा बाहुभ्याꣳ सघ्यासम् तं प्रतिगृह्य । नृचक्षसं त्वा देव सोम सुचक्षा अव ख्येषम् अवेक्ष्य । होतरुपह्वयस्व । होत्रा उपहूतः इत्युक्तः पुरस्तात् स्थापयित्वा । प्राणेषूपनिग्राहं वाग्जुषाणा सोमस्य तृप्यतु भक्षयित्वा । हिन्व मे गात्रा हरिवो गणान्मे मा वितीतृषः । शिवो मे सप्तऋषीनुप तिष्ठस्व मा मेऽवाङ्नाभिमति गाः नाभिदेशमभिमृशति । होतृचमसे किञ्चिदवनयति । प्रतिप्रस्थातान्वारभते । पुनर्होत्रा भक्षिते अध्वर्युः प्रतिप्रस्थाता च उपहूय पूर्ववद्भक्षयित्वा होतृचमसे सर्वमवनीयोत्सृजेत् पात्रम् । मैत्रावरुणमध्वर्युः प्रतिप्रस्थाता च अन्वारभेते । होत्रा भक्षिते भक्षेहीत्यादि । होतरुपह्वयस्व प्रतिप्रस्थातरुपह्वयस्वेत्युक्त्वा । पुरस्तात् स्थापयित्वा चक्षुषोरुपनिग्राहं भक्षयति । एवं प्रतिप्रस्थाता भक्षयति । होतृचमसे सर्वमवनीयोत्सृजेत् पात्रम् । आश्विनमन्वारभ्य होत्रा भक्षिते भक्षेहीत्यादि । पूर्ववदुपहूय आत्मानं प्रादक्षिण्येन सर्वतः परिहृत्य श्रोत्रयोरुपनिग्राहं भक्षयति । एवं प्रतिप्रस्थाता भक्षयति । होतृचमसे सर्वमवनीयोत्सृजेत् पात्रम् । हविश्शेषादाहृत्य पुरोडाशशकलमैन्द्रवायवस्य पात्रेऽवदधाति । पयस्यां मैत्रावरुणस्य । धाना आश्विनस्य । तानि दक्षिणस्य हविर्धानस्योत्तरस्यां वर्तन्यां सादयति आ तृतीयसवनात् परिशेरे यज्ञस्य सन्तत्या इति विज्ञायते ।
पर्वाञ्जनादीडोपाह्वानम् । उपोद्यच्छन्ते चमसांश्चमसिनः । होतृचमसमिडायामास्पृष्टम् । उपहूतां प्राश्नन्ति ये प्रकृतौ १ । पुरोडाशशकलमिडातोऽच्छावाकाय निदधाति । मार्जनान्ते लाजानां त्रेधाकरणम् २ । ब्रध्न पिन्वस्वेत्यादि । आग्नीध्रे हविश्शेषान् भक्षयन्ति । वषट्कारेण होता भक्षं लभते । होमाभिषवाभ्या-मध्वर्युर्नान्यतरेण । समाख्यानेनापि भक्षं लभते । भक्षणप्रापिका । सर्वान् चमसान् होता अग्रे सशेषं सकृद्भक्षयति मध्यतःकारिणां द्विः । होत्रकास्स्वंस्वं चमसं द्विर्भक्षयन्ति । तानध्वर्युस्तं तमुपहूय प्रतिभक्षयति । होतृब्रह्मोद्गातृयजमानसदस्याः मध्यतःकारिण इत्यर्थः । ततस्समाख्याभक्षणम् । ब्रह्मयजमानौ भक्षेहीत्यादि । चमसिन उपह्वयध्वमित्युक्त्वा वाग्जुषाणेति स्वंस्वं चमसं भक्षयित्वा हिन्व म इति नाभ्यभिमर्शनं कृत्वा । आ प्यायस्व समेतु ते विश्वतः सोम वृष्णियम् । भवा वाजस्य सङ्गथे वसतीवरीजलेन चमसाप्यायनं कुरुतः । भक्षिताप्यायितान् सादयन्ति । दक्षिणस्य हविर्धानस्याधस्तादवालम्बे ३। ते नाराशंसा भवन्ति । द्विनाराशंसे पूर्वसवने भवतः । एकनाराशंसं तृतीयसवनम् ।
उपविशत्यच्छावाको बहिस्सदसोऽग्रेण स्वं धिष्णियम् । पत्नी वसुभ्यो रुद्रेभ्य इत्यपरेण नेष्ट्रीयं प्रत्यङ्तिष्ठन्ती पन्नेजनीस्सादयति । तस्मै पूर्वनिहितं पुरोडाशशकलमादधदाहाध्वर्युः अच्छावाक वदस्व यत्ते वाद्यम् । यदास्य विजानात्युपो अस्मान्ब्राह्मणान् ब्राह्मणा ह्वयध्वमिति अथैनं होत्रे आवेदयति । अच्छावाको वा अयमुपहवमिच्छते तꣳ होतरुपह्वयस्व इति । उत नो गाव उपहूता उपहूतेति होतुरभिज्ञाय उन्नीयमानायानुब्रूह्यच्छावाकस्य चमसाध्वर्यो उन्नयस्वोभयतश्शुक्रं कुरुष्व इति संप्रेष्यति । खरे एव अच्छावाकचमसमुन्नयति । पूर्ववत्तमादायाहवनीयं गत्वाऽऽश्राव्य प्रत्याश्राविते । अच्छावाक यज इति संप्रेष्यति । वषट्कृतानुवषट्कृते जुहोति । इन्द्राग्निभ्यामिदम् । अग्नये स्विष्टकृत इदम् । तेन न संभक्षयति । अध्वर्यो उपह्वयस्वेत्युक्ते भक्षयेत्येनं ब्रूयात् । तेन भक्षिते तं चमसं सदसि होतारमुपहूय भक्षयित्वा भक्षिताप्यायितमन्तरा नेष्टुराग्नीध्रस्य चमसौ सादयित्वा ।