अथ महाभिषवः । उशिक्त्वं देव सोम गायत्रेण छन्दसाग्नेः प्रियं पाथो अपीहि अदाभ्यांशुम् । यत्ते सोमादाभ्यं नाम जागृवि तस्मै ते सोम सोमाय स्वाहा उपांशुपावनौ चापिसृज्य । पुरस्तादध्वर्युर्दक्षिणतः प्रतिप्रस्थाता पश्चान्नेष्टोत्तरत उन्नेतोपरे राजानं न्युप्य तूष्णीं होतृचमसे उदचनेन वसतीवरीरानीय अंशूनवधाय प्रागपागिति निग्राभमुपयन्ति । श्वात्रास्थ इति तासामेकदेशेनोपसृज्य । अवीवृधं व इत्यभिमन्त्र्य उपांशुसवनवर्जं तूष्णीमितरैर्ग्रावभिर्हस्ताभ्यामभिषुण्वन्ति । आ मास्कान् द्रप्सश्चस्कन्द इति पूर्ववदभिमन्त्रणम् । एवं द्वितीयं तृतीयं चोपसृज्याभिषुण्वन्ति । अभिषुतं सोमं सर्वे दक्षिणेन हस्तेन प्रपीडयन्ति । अध्वर्युरुदचनेऽञ्जलिना संसिञ्चति । तमुन्नेतान्तरेषेण उद्धृत्य पश्चिमत उद्गातारं परिहृत्य उत्तरतस्तिष्ठन्नाधवनीयेऽवनयति, एष एवापां सोमस्य च पन्थाः । एष प्रथमः पर्यायः, एवं विहितो द्वितीयस्तृतीयश्च । तृतीयपर्यायस्यान्तिमेऽभिषवे निग्राभोपायनमुपसर्गं च द्विः कृत्वा होतृचमसीया-नंशून् प्रक्षिप्याभिषुण्वन्ति ।