अंश्वदाभ्यपात्रं प्रक्षाल्य । शुक्रं ते शुक्रेण गृह्णाम्यह्नो रूपेण सूर्यस्य रश्मिभिः वसतीवरीभ्यो गृहीत्वा उपनद्धस्य राज्ञस्त्रीनंशून् प्रवृहति । वसवस्त्वा प्रवृहन्तु गायत्रेण छन्दसाग्नेः प्रियं पाथ उपेहि प्रथमम् । रुद्रास्त्वा प्रवृहन्तु त्रैष्टुभेन छन्दसेन्द्रस्य प्रियं पाथ उपेहि द्वितीयम् । आदित्यास्त्वा प्रवृहन्तु जागतेन छन्दसा विश्वेषां देवानां प्रियं पाथ उपेहि तृतीयम् । तैरेनं चतुर आधूनोति । मान्दासु ते शुक्र शुक्रमा धूनोमि । भन्दनासु ते शुक्र शुक्रमा धूनोमि । कोतनासु ते शुक्र शुक्रमा धूनोमि प्रथमम् । नूतनासु ते शुक्र शुक्रमा धूनोमि । रेशीषु ते शुक्र शुक्रमा धूनोमि । मेषीषु ते शुक्र शुक्रमा धूनोमि द्वितीयम् । वाशीषु ते शुक्र शुक्रमा धूनोमि । विश्वभृत्सु ते शुक्र शुक्रमा धूनोमि । माध्वीषु ते शुक्र शुक्रमा धूनोमि तृतीयम् । ककुहासु ते शुक्र शुक्रमा धूनोमि । शक्वरीषु ते शुक्र शुक्रमा धूनोमि । शुक्रासु ते शुक्र शुक्रमा धूनोमि चतुर्थम् । आस्मिन्नुग्रा अचुच्यवुर्दिवो धारा असश्चत ग्रहमादाय । ककुहꣳ रूपं वृषभस्य रोचते बृहत्सोम-स्सोमस्य पुरोगाश्शुक्रश्शुक्रस्य पुरोगाः हरति । यत्ते सोमादाभ्यं नाम जागृवि तस्मै ते सोम सोमाय स्वाहा । सोमायेदम् । पृष्ठ्याया उत्तरत आसीनो जुहोति । अध्वर्यो द्वादश प्रथमगर्भाः पष्ठौहीस्ते ददामि कृत्यधीवासं च । अध्वर्युस्तूष्णीं प्रतिगृह्णाति । आधवनानंशून् प्रज्ञातं द्विदेवत्यपात्राणा-मधस्तान्निदधाति ।