महारात्रे बुध्वा ब्रह्मणा सह आचान्तोऽध्वर्युः अग्ने नय सुपथा राये अस्मान् विश्वानि देव वयुनानि विद्वान् । युयोध्यस्मज्जुहुराणमेनो भूयिष्ठां ते नमउक्तिं विधेम इत्याग्नीध्रमभिमृशति १ । इदं विष्णुर्विचक्रमे त्रेधा निदधे पदम् । समूढमस्य पाꣳसुरे हविर्धानम् । अग्न आयूꣳषि पवस आ सुवोर्जमिषं च नः । आरे बाधस्व दुच्छुनाम् इति स्रुचः । प्रचरणीं वाजिनपात्रं च । आ वायो भूष शुचिपा उप नस्सहस्रं ते नियुतो विश्ववार । उपो ते अन्धो मद्यमयामि यस्य देव दधिषे पूर्वपेयम् वायव्यानि । चतस्रः स्थाल्यश्च । आघा ये अग्निमिन्धते स्तृणन्ति बर्हिरानुषक् । येषामिन्द्रो युवा सखा सदः ।