स्रुवेण पृषदाज्यस्योपहत्य वेदेनोपयम्य । शृतꣳ हवी३श्शमित: इति पृच्छति । शृतं इतीतरः प्रत्याह । पूषा मा पशुपाः पातु प्रथमेऽभिप्रव्रजति । अर्धाध्वे द्वितीयं पृच्छति शृतꣳ हवी३श्शमितः । शृतम् । पूषा मा पथिपाः पातु । कुम्भीं प्राप्य तृतीयं पृच्छति शृतꣳ हवी३श्शमितः । शृतम् । शूलात्प्रवृह्य हृदयं कुम्भ्यामवधाय पूषा माऽधिपाः पातु । उत्तरतो गत्वा । सन्ते मनसा मनस्सं प्राणेन प्राणो जुष्टं देवेभ्यो हव्यं घृतवत्स्वाहाग्नीषोमाभ्यां त्वा जुष्टमभिघारयामि पृषदाज्येन हृदयमभिघारयति । यस्त आत्माट्ठ— मह्यम् । आज्येन पशुमभिघारयति । स्वाहोष्मणो व्यथिष्यै उद्यन्तमूष्माणमनुमन्त्रयते । दृꣳह इति कुम्भीमुद्वास्य पशुं हरन् पार्श्वतो हृदयशूलं धारयन्ननुपस्पृशन्ना-त्मानमितरांश्च । अन्तरा यूपमाहनीयं च दक्षिणातिहृत्याग्निर्होतेति पञ्चहोत्रा दक्षिणस्यां वेदिश्रोण्यामासादयति । यजमानः - इदमिन्द्रियं, अयं यज्ञो, ममाग्ने, पञ्चहोतेत्यासन्नाभिमर्शनं करोति ।