दिवा प्रयाजैः प्रचर्य अस्तंयन्तमनूयाजैः उपासते । घृतवति शब्दे जुहूपभृतावादाय तिष्ठति पशावेकादश प्रयाजान् यजति । आश्राव्य प्रत्याश्राविते समिद्भ्यः प्रेष्य प्रथमं संप्रेष्यति । प्रेष्य प्रेष्य इतीतरान् । चतुर्थाष्टमयोः प्रतिसमानीय, दशेष्ट्वैकादशायाज्यमवशिनष्टि । तान् यजमानः प्राकृतैरादितश्चतुर्भिश्चतुरोऽ-नुमन्त्र्य, चतुर्थस्यानुमन्त्रणेन दुरः प्रभृतींस्त्रीन् । उत्तमेन शेषम् । अध्वर्यु: - प्रत्याक्रम्य जुह्वा स्वरुस्वधिती अनक्ति । त्रिस्स्वरुं सकृत्स्वधितेरन्यतरां धाराम् । स्वरुमन्तर्धाय स्वधितिना पशुं समनक्ति । घृतेनाक्तौ पशुं त्रायेथाम् शिरसि । न वा स्वधितिना स्वरुणैव । घृतेनाक्तः पशुं त्रायस्व इत्युपदेशमतम् । अक्तया धारया शृतस्यावद्यति । पशुमितरया विशास्ति । शमित्रे स्वधितिं प्रयच्छन्नाह शमितरेषा तेऽश्रिस्स्पष्टाऽस्तु । पुनस्स्वरुमवगूह्य आयतने स्रुचौ सादयित्वा ।