दर्भमय्यौ रशने भवतो द्विगुणा द्विव्यायामा पशुरशना त्रिगुणा त्रिव्यायामा यूपस्य । देवस्य त्वा — आ ददे यूपरशनामादाय । विष्णोः कर्माणि पश्यत यतो व्रतानि पस्पशे । इन्द्रस्य युज्यस्सखा सरशनेन पाणिना यूपमुन्मार्ष्टि । तद्विष्णोः परमं पदꣳ सदा पश्यन्ति सूरयः । दिवीव चक्षुराततम् इत्यग्रं प्रेक्षते । यूपाय परिवीयमाणायानुब्रू३हि संप्रेष्यति । परिवीरसि परि त्वा दैवीर्विशो व्ययन्तां परीमꣳ रायस्पोषो यजमानं मनुष्याः नाभिदघ्ने रशनया त्रिः प्रदक्षिणं यूपं परिव्ययति । मध्यदेशे वा । आन्तं तस्य प्रवेष्ट्य । अणिमति स्थविमत्प्रवीय । दिवस्सूनुरसि स्वरुमादाय । अन्तरिक्षस्य त्वा सानाववगूहामि उत्तरेणाग्निष्ठां मध्यमे रशनागुणेऽवगूहति ।