अग्रेणाहवनीयं यूपावटं परिलिखति । अर्धमन्तर्वेद्यर्धं बहिर्वेदि । देवस्य त्वा — हस्ताभ्यामाददेऽभ्रिरसि नारिरसि पूर्ववदभ्रिमादाय । परिलिखितꣳ — अपिकृन्तामि इति त्रिः प्रदक्षिणं परिलिख्य खनति यथाऽनाविरुपरं भविष्यति । अग्रेणावटं प्राञ्चं यूपं निधाय । यत्ते शिक्वः परावधीत्तक्षा हस्तेन वास्या । आपस्तत्सर्वं जीवलाश्शुन्धन्तु शुचयश्शुचिं यूपं प्रक्षाल्याथैनं यवमतीभि: प्रोक्षति । पृथिव्यै त्वा मूलम् । अन्तरिक्षाय त्वा मध्यम् । दिवे त्वा अग्रम् । शुन्धतां लोक: पितृषदन: प्राचीनावीती प्रोक्षणीशेषमवटेऽवनीय यज्ञोपवीत्यप उपस्पृश्य । यवोऽसि यवयास्मद्-द्वेषो यवयारातीः यवमवास्य । पितृणाꣳ सदनमसि प्राचीनावीती अवाचीनाग्रेण बर्हिषावस्तीर्य यज्ञोपवीत्यप उपस्पृश्य । स्वावेशोऽस्यग्रेगा नेतृणां वनस्पतिरधि त्वा स्थास्यति तस्य वित्तात् प्रथमपरापातिनं शकलमवास्य । घृतेन द्यावापृथिवी आ पृणेथाꣳ स्वाहा । द्यावापृथिवीभ्यामिदम् । स्रुवेण शकले हुत्वा ।