४१ प्रवर्ग्योद्वासनम्

सुब्रह्मण्यान्ते प्रवर्ग्यमुद्वासयिष्यन् अग्नीदजां ते ददामि । ब्रह्मन् पष्ठौहीं ते ददामि । होतर्धेनुं ते ददामि । अध्वर्यो रुक्मौ ते ददामि । अथवा तत्तन्निष्क्रयद्रव्यं ते ददामि । अध्वर्युः - अपरं खरं पूर्वस्मिन् खरे न्युप्योच्छिष्टखरं सङ्कृष्योत्तरेणाहवनीयं सम्राडासन्दीं प्रतिष्ठाप्य । तस्यां सर्वं परिघर्म्यं समवधायोपयमन्यां चतुर्गृहीतं गृहीत्वा । घर्म या ते दिवि शुक् । या गायत्रे छन्दसि । या ब्राह्मणे । या हविर्धाने । तां त एतेनावयजे स्वाहा । घर्मायेदम् । तिष्ठन्नास्यदघ्ने जुहोति । घर्म या तेऽन्तरिक्षे शुक् । या त्रैष्टुभे छन्दसि । या राजन्ये । याग्नीध्रे । तां त एतेनावयजे स्वाहा । घर्मायेदम् । नाभिदघ्ने जुहोति । घर्म या ते पृथिव्याꣳ शुक् । या जागते छन्दसि । या वैश्ये । या सदसि । तां त एतेनावयजे स्वाहा । घर्मायेदम् । जानुदघ्ने जुहोति । अनु नोऽद्यानुमतिर्यज्ञं देवेषु मन्यताम् । अग्निश्च हव्यवाहनो भवतां दाशुषे मयः परिश्रिते प्रतिप्रस्थाता पत्नीमुदानयति । अन्विदनुमते त्वं मन्यासै शं च नः कृधि । क्रत्वे दक्षाय नो हिनु प्र ण आयूꣳषि तारिषः पत्नीसहिताः प्रवर्ग्यकर्तारः प्राग्वंशादुपनिष्क्रामन्ति । अनुहरन्ति मेथीमभ्रिं मयूखान् विशाखदामानि खराविति । दक्षिणत उच्छिष्टखरं परिहरति । एकस्यां पात्र्यामुच्छिष्टखरं निधाय । पात्रं गृहीत्वा जघनेन गार्हपत्यं दक्षिणाग्नेर्दक्षिणतो गत्वा पूर्वया द्वारोपनिष्क्रम्य दक्षिणेन वेदिं गत्वा मार्जालीयदेशे पात्रं निदधाति । खरनेतुराचमनम् । सम्राडासन्द्या द्वावन्तर्वेदि पादौ द्वौ बहिर्वेदि प्रतिष्ठाप्य सम्प्रेष्यति । प्रस्तोतस्साम गाय । सर्वे सहपत्नीकास्त्रिस्साम्नो निधनमुपयन्ति । दिवस्त्वा परस्पायाः । अन्तरिक्षस्य तनुवः पाहि । पृथिव्यास्त्वा धर्मणा । वयमनुक्रामाम सुविताय नव्यसे प्रथमेऽभि प्रव्रजन्ति । अर्धाध्वे द्वितीयं संप्रेष्यति । प्रस्तोतस्साम गाय । ब्रह्मणस्त्वा परस्पायाः । क्षत्रस्य तनुवः पाहि । विशस्त्वा धर्मणा । वयमनुक्रामाम सुविताय नव्यसे द्वितीयेऽभि प्रव्रजन्ति । प्राप्यापरेणोत्तरवेदिं तृतीयं संप्रेष्यति । प्रस्तोतस्साम गाय । प्राणस्य त्वा परस्पायै । चक्षुषस्तनुवः पाहि । श्रोत्रस्य त्वा धर्मणा । वयमनुक्रामाम सुविताय नव्यसे तृतीयेऽभि प्रव्रजन्ति । उत्तरेणोत्तरवेदिं सम्राडासन्दीं प्रतिष्ठाप्य संप्रेष्यति प्रस्तोतर्वार्षाहरं साम गायेष्टाहोत्रीयं साम गाय । इष्टाहोत्रीयस्य साम्नो निधनमुपयन्ति । न वार्षाहरस्य । उदकुम्भमादायाध्वर्युः वल्गुरसि शंयुधायाः । शिशुर्जनधायाः त्रिः प्रदक्षिणमुत्तरवेदिं परिषिञ्चन् पर्येति । निधाय कुम्भं पुनरादाय १ शं च वक्षि परि च वक्षि त्रिरपरिषिञ्चन् प्रतिपर्येति । चतुस्स्रक्तिर्नाभिर्ऋतस्य उत्तरवेदिमभिमृश्योत्तरेणोत्तरनाभिं खरौ न्युप्य । सदो विश्वायुश्शर्म सप्रथाः अनुव्यूहति । अप द्वेषो अप ह्वरः । अन्यद्व्रतस्य सश्चिम मार्जालीयदेशे उच्छिष्टखरं न्युप्यानुव्यूहति । आचम्य । उत्तरेणोत्तरनाभिं खरे हिरण्यं निधाय तस्मिन् प्रचरणीयं महावीरमुपावहरति । अत्रैवेतरौ पूर्वापरौ दक्षिणोत्तरौ वा । अत्रैव सर्वं परिघर्म्यं सर्वतः परिमण्डलमादित्यस्य रूपं करोति । महीनां पयोऽसि विहितं देवत्रा महावीरे गोपय आनयति । ज्योतिर्भा असि वनस्पतीनामोषधीनाꣳ रसः मध्वानयति । वाजिनं त्वा वाजिनोऽवनयामः । ऊर्ध्वं मनस्सुवर्गम् दध्यानयति । एवं द्वितीये तृतीये चाऽनयति । अपि वा आज्यमेव महीनामिति प्रथमे आनयेत्, मधु द्वितीये, दधि तृतीये । घर्मैतत्तेन्नमेतत्पुरीषम् । तेन वर्धस्व चाचप्यायस्व । वर्धिषीमहि च वयम् । आ च प्यासिषीमहि दध्ना मधुमिश्रेण पात्राणि पूरयति यान्यासेचनवन्ति । अभ्युक्षतीतराणि । प्रतिपात्रं मन्त्रावृत्तिः । अथैनमुपतिष्ठन्ते रन्तिर्नामासि दिव्यो गन्धर्वः । तस्य ते पद्वद्धविर्धानम् । अग्निरध्यक्षाः । रुद्रोऽधिपतिः । समहमायुषा । सं प्राणेन । सं वर्चसा । सं पयसा । सं गौपत्येन । सꣳ रायस्पोषेण । विपाप्मा । योऽस्मान् द्वेष्टि । यं च वयं द्विष्मः । अचिक्रदद्वृषा हरिः । महान् मित्रो न दर्शतः । सꣳ सूर्येण रोचते । चिदसि समुद्रयोनिः । इन्दुर्दक्षश्श्येन ऋतावा । हिरण्यपक्षश्शकुनो भुरण्युः । महान्थ्सधस्थे ध्रुव आ निषत्तः । नमस्ते अस्तु मा मा हिꣳसीः । विश्वावसुꣳ सोम गन्धर्वम् । आपो ददृशुषीः । तदृतेनाव्यायन् । तदन्ववैत् । इन्द्रो रारहाण आसाम् । परि सूर्यस्य परिधीꣳरपश्यत् । विश्वावसुरभि तन्नो गृणातु । दिव्यो गन्धर्वो रजसो विमानः । यद्वाघा सत्यमुत यन्न विद्म । धियो हिन्वानो धिय इन्नो अव्यात् । सस्निमविन्दच्चरणे नदीनाम् । अपावृणोद्दुरो अश्म व्रजानाम् ॥ प्रासां गन्धर्वो अमृतानि वोचत् । इन्द्रो दक्षं परिजानादहीनम् इति पत्नी च परिश्रयणीं विहाय परिश्रयणवेष्टनं प्रस्तोत्रे प्रयच्छति । एतत्वं देवघर्म देवो देवानुपागाः इत्यभिमन्त्र्य । इदमहं मनुष्यो मनुष्यान् । सोमपीथानु मेहि । सह प्रजया सह रायस्पोषेण प्रदक्षिणमावृत्य । सुमित्रा न आप ओषधयस्सन्तु दुर्मित्रास्तस्मै भूयासुर्योऽस्मान् द्वेष्टि यं च वयं द्विष्मः उच्छिष्टखरे मार्जयित्वा । उद्वयं तमसस्परि पश्यन्तो ज्योतिरुत्तरम् । देवं देवत्रा सूर्यमगन्म ज्योतिरुत्तमम् इत्यादित्यमुपतिष्ठन्ते । उदुत्यं जातवेदसं देवं वहन्ति केतवः । दृशे विश्वाय सूर्यꣳ स्वाहा ॥ चित्रं देवानामुदगादनीकं चक्षुर्मित्रस्य वरुणस्याग्नेः । आऽप्रा द्यावापृथिवी अन्तरिक्षꣳ सूर्य आत्मा जगतस्तस्थुषश्च स्वाहा इति द्वाभ्यां गार्हपत्ये जुहोति । उपतिष्ठन्त इत्येके । इममूषुत्यमस्मभ्यꣳ सनिम् । गायत्रं नवीयाꣳसम् । अग्ने देवेषु प्रवोचस्स्वाहा इत्याहवनीये जुहोति । उपतिष्ठन्त इत्येके ॥

॥ इति द्वितीयः प्रश्नः ॥

