पक्वेषु सिद्धै त्वा, सिद्धै त्वा इति द्विः धृष्टी आदाय । भस्मापोह्य । प्रथमकृतं महावीरं शफाभ्यां परिगृह्य । देवस्त्वा सवितोद्वपतु सुपाणिस्स्वङ्गुरिः । सुबाहुरुत शक्त्या उद्वास्य । अपद्यमानः पृथिव्यामाशा दिश आपृण । उत्तिष्ठ बृहन्भवोर्ध्वस्तिष्ठ ध्रुवस्त्वम् उत्तरतस्सिकतासु प्रतिष्ठाप्य । सूर्यस्य त्वा चक्षुषान्वीक्षे । ऋजवे त्वा । साधवे त्वा । सुक्षित्यै त्वा भूत्यै त्वा अनुवीक्षते । एवं द्वितीयं तृतीयं चोद्वासयति । देवस्त्वा सवितेत्याद्यनुवीक्षणान्तम् । तूष्णीमितराण्युद्वास्य । इदमहममुमामुष्यायणं विशा पशुभिर्ब्रह्मवर्चसेन पर्यूहामि १ एतान् प्रदक्षिणं सिकताभिः पर्यूह्य । प्रभूतेनाजापयसा छृणत्ति । गायत्रेण त्वा छन्दसाऽऽच्छृणद्मि । छृणत्तु त्वा वाक् । छृन्धि वाचम् प्रथमम् । त्रैष्टुभेन त्वा छन्दसाऽऽच्छृणद्मि । छृणत्तु त्त्वोर्क । छृन्ध्यूर्जम् द्वितीयम् । जागतेन त्वा छन्दसाऽऽच्छृणद्मि । छृणत्तु त्वा हविः । छृन्धि हविः तृतीयम् । तूष्णीमितराणि । अथैनान् कृष्णाजिन उपनह्य आसजति देवपुरश्चर सघ्यासं त्वा ।