इमां धियꣳ शिक्षमाणस्य देव क्रतुं दक्षं वरुण सꣳशिशाधि ययाति विश्वा दुरिता तरेम सुतर्माणमधिनावꣳ रुहेम कृष्णाजिनं भसत्त आरोहति । सुत्रामाणं पृथिवीं द्यामनेहसꣳ सुशर्माणमदितिꣳ सुप्रणीतिम् । दैवीं नावꣳ स्वरित्रामनागसमस्रवन्तीमा रुहेमा स्वस्तये आरोहन् जपति । इमाꣳ सुनावमारुहꣳ शतारित्राꣳ शतस्फ्याम् । अच्छिद्रां पारयिष्णुम् ॥ आहं दीक्षामरुहमृतस्य पत्नीं गायत्रेण छन्दसा ब्रह्मणा चर्तꣳ सत्ये धायि सत्यमृते धाय्यृतं च मे सत्यं चाभूतां ज्योतिरभूवꣳ सुवरगमꣳ सुवर्गं लोकं नाकस्य पृष्ठं ब्रध्नस्य विष्टपमगमम् आरूढो जपति ।