अथास्मै क्षौममहतं महद्वासः प्रयच्छत्यध्वर्युस्तूष्णीम् । तद्यजमानः प्रतिगृह्णाति । दीक्षासि तपसो योनिस्तपोऽसि ब्रह्मणो योनिर्ब्रह्मासि क्षत्रस्य योनिः, क्षत्रमस्यृतस्य योनिर् ऋतमसि भूरारभे श्रद्धां मनसा दीक्षां तपसा विश्वस्य भुवनस्याधिपत्नी सर्वे कामा यजमानस्य सन्तु तत्परिगृह्य । सोमस्य तनूरसि तनुवं मे पाहि दीक्षासि तनूरसि तां त्वा शिवां स्योनां परिधिषीय तत्परिधाय, आचम्य । सोमस्य नीविरसि इति नीविमनुपरिकल्पयते । लौकिकं वासस्तूष्णीं पत्नी परिधत्ते ।