अयं ते योनिर्ऋत्वियः यतो जातो अरोचथाः । तं जानन्नग्न आरोहाथा नो वर्धया रयिम् इति गार्हपत्यं अरण्योस्समारोप्य, आत्मसमारोपणं वा (अपस्तम्बानामेव) । यज्ञोपकरणैस्सह पत्न्या अन्वारब्धो देवयजनं गत्वा पादौ प्रक्षाल्य आचम्य । एदमगन्म देवयजनं पृथिव्या विश्वे देवा यदजुषन्त पूर्व ऋक्सामाभ्यां यजुषा सन्तरन्तो रायस्पोषेण समिषा मदेम यजमानो देवयजनमध्यवस्यति । प्राग्वंशस्य मध्यमं स्थूणाराजमारभ्य जपतीति वाजसनेयकम् । यदा पूर्णमासे दीक्षा तदा देवयजनमध्यवस्यतीत्यन्तं कृत्वा युञ्जते मन इत्यादि देवपुरश्चरसघ्यासं त्वेत्यन्तं प्रवर्ग्यसम्भरणम् । अध्वर्युः :- उद्धत्यावोक्ष्य, ततो मथित्वा उपावरोह्य वा आयतने निदधाति । यजमानः :- द्रव्यनिर्देशं करोति । आज्यं पशवः पुरोडाशीया एते मे यज्ञार्थाः तेषु यावद्यज्ञमुपयोक्ष्ये, तावन्मे यज्ञार्थं, शेषाद्ब्राह्मणा भुञ्जीरन् ।