वेदेष्वग्निहोत्रादीनि यानि कर्माण्युक्तानि तेषां कर्मणां स्वरूपमृषयः प्रथमं मन्त्रैरेव प्रकाशितमपश्यन्ननेनार्थयोगेनैष मन्त्रोऽस्मिन् कर्मणि विनियुक्त इति । तथा च श्रुतिः मन्त्रेषु कर्माणि कवयो यान्यपश्यन् ( मुण्डक उप. =१-२-१) । तद्यथा वायवस्स्थोपायवस्स्थ (तै.सं= १-१-१) इति गवां प्रेषणे, आच्छेत्ता ते मारिषं (तै.सं= १-१-२) इति दर्भाणां छेदने च मन्त्रो विनियोगलिङ्गं दर्शयति । येषु मन्त्रेषु तथाविधं लिङ्गं न ज्ञायते तत्र ब्राह्मणवाक्यैर्विनियुक्तः । यथा इषे त्वोर्जे त्वा (तै.सं= १-१-१) इत्यनेन मन्त्रेण कतमां क्रियामनुतिष्ठेदित्यनिर्ज्ञाते ब्राह्मणेन स वै पर्णशाखया वत्सानपाकरोति । तामाच्छिनत्ति इषे त्वोर्जेत्वेति (शत.ब्रा=१-७-१-१) इति विनियोगो ज्ञायते । एवं मन्त्रब्राह्मणाभ्यामग्निहोत्रादि कर्मणां प्रयोगो प्रदर्शितः । परं त्वेकैकस्यापि कर्मणः प्रयोगश्चतुर्णामपि वेदानामनेकशाखासु विक्षिप्य दर्शितः । मन्दमतिभिः तस्य प्रयोगस्य ज्ञानं नितरां दुस्संपादं मन्वाना ऋषयः कल्पसूत्राणि व्यरचयन् । वेदाङ्गेषु कल्पसूत्राणि विशेषं भागं भजन्ते इत्यध्येतॄणां सुविदितमेव । तानि वेदोक्तकर्मणां प्रयोगं वक्तुमेव प्रक्रान्तानि महर्षिभिः ग्रन्थरूपेण संदृब्धानि । तानि प्रतिशाखं भिन्नानि । ऋग्वेदस्य शाकलशाखामाश्रित्य आश्वलायनकृतं कल्पसूत्रम्, बाष्कलशाखामाश्रित्य साङ्ख्यायनकृतं सूत्रम् । यजुर्वेदस्य तैत्तिरीयशाखामाश्रित्य आपस्तम्ब-बोधायनसत्याषाढभारद्वाजवैखानसवाधूलकृतानि सूत्राणि । सामवेदस्य राणायनीय शाखामाश्रित्य द्राह्यायणकृतं सूत्र, कौथुमशाखामाश्रित्य लाट्यायनकृतं सूत्रम् । अथर्ववेदस्य शौनकशाखामाश्रित्य वैतानकृतं सूत्रम् । तत्र ऋग्वेदस्य सूत्रकारैर्हौत्रप्रयोगः कथ्यते, यजुर्वेदस्य सूत्रकारैराध्वरप्रयोगः, सामवेदस्य सूत्रकारैरौद्गात्रप्रयोगः । अन्तरेण कल्पसूत्राणि न कोऽपि वेदोक्तकर्मणामनुष्ठानाय प्रभवति स्म । तानि कल्पसूत्राण्याधृत्य शिष्टैः कर्माण्यनुष्ठीयन्ते स्म । गच्छता कालेनानुष्ठातारः यदा मन्दतरप्रज्ञाः जाताः तदा केवलं श्रौतसूत्राण्येवाधृत्यानुष्ठानाय न प्राभवन् । तदा प्रयोगकाराः समागताः । ते कल्पसूत्रेषु सङ्क्षेपेणोक्तानीतिकर्तव्यताकान्यनुष्ठानाय यावद्विस्तरं भवेत् तथा व्याख्याय विकल्पपक्षेष्वनुष्ठानसौकर्यपक्षं स्वीकृत्यानुष्ठानसौकर्याय कल्पान्तरेषूक्तानि मतान्यपि सङ्गृह्य प्रयोगं कथयामासुः । सूत्रकारेभ्योऽपि प्रयोगकाराणां शैली सरला सुगमा च । प्रतिसूत्रं भिन्नभिन्नप्रयोगकाराः विद्यन्ते । तेषु केषाञ्चित् नामानि स्मर्यन्ते - आश्वलायनसूत्रस्य मञ्चनभट्टीय प्रयोगः, आण्ड्विल्लाप्रयोग इति प्रयोगद्वयं वर्तते । आण्ड्विल्ला आपस्तंबसूत्रस्यापि प्रयोगमरचयत् । परं तु सम्प्रति आपस्तम्बसूत्रानुसारिभिरनुष्ठातृभिरधीयमानस्य प्रयोगस्य कर्तुर्नाम देशो वा, कीदृशः सः कस्मिन् काले प्रयोगं व्यरचयदित्यादि च न ज्ञायते । संप्रत्यधीयमानस्य प्रयोगस्य देशभेदेन क्वचित् पाठभेदेषु सत्स्वपि सामान्यप्रायमेव दृश्यते । श्रौतप्रयोगः स्मार्तप्रयोगवन्न बहुधा विभिन्नः । प्रयोगकारो बहुत्र भाष्यकारं धूर्तस्वामिनं तद्वृत्तिकारं रामाण्डारं चानुसृत्य प्रयोगं कथयतीति दृश्यते । वृत्तिकारस्य रुद्रदत्तस्य मतं प्रायेण नानुसरति । क्वचित् स्थलेषु धूर्तस्वामिरुद्रदत्तयोरुभयोर्मतं हित्वा स्वतन्त्रेणापि प्रब्रवीति ॥
एतावता कालेनाप्येष आध्वरप्रयोगग्रन्थो मुद्रितपुस्तकरूपेण न प्राकाश्यं नीतः । इदानीमपि प्रयोगाध्येतारो हस्तलिखिततालादिपत्राण्येवाश्रयन्ते । अस्माभिरध्येतॄणां सौकर्याय मुद्रितपुस्तकरूपेण प्रयोगग्रन्थः प्राकाश्यं नीयते । तदर्थमस्माकं पारम्परीणं प्रयोगपाठमेवप्रमाणत्वेन परिगृह्य तस्य परिष्करणाय षट् हस्तलिखितमातृका आश्रिताः । तासां मातृकाणां विवरणं - पुण्यपत्तनात् लब्धं द्वयम् । अस्माकं मत्तूरुग्रामे विद्यमानं द्वयम् । अस्मद्गुरुभ्यो हानगल्सीतारामशास्त्रिभ्यो लब्धा एका । गोकर्णक्षेत्रीयरामचन्द्रश्रौतिभ्यः लब्धा एका । ग्रन्थेऽस्मिन्नग्न्याधानादारभ्य सोमपर्यन्तानां कर्मणां प्रयोगः सूत्रक्रमानुसारेण निरूपितः । अग्निष्टोमादनन्तरभाविनां संस्थानां प्रयोगस्याग्निचयनप्रयोगस्य च मुद्रणं यज्ञेश्वरस्य कृपया शीघ्रमेव भविता ॥
पाठशालाविद्यार्थिभिरेव एषः प्रयोगग्रन्थः उट्टङ्कितः(ई.फ.ठ) । तेभ्यः भगवान् यज्ञपुरुषः सर्वं श्रेयो विदधातु इत्याशीर्वदामः । अत्र अत्यन्तं स्मरणीयाः सलक्षणघनपाठिनः श्रौतविद्यादिबिरुदाङ्किताः सुन्दरराम दीक्षितमहोदयाः । ते अस्माकं स्वगृहे एव वासं प्रकल्प्य अष्टौ दिनानि यावत् प्रत्यहं दशघण्टाः अस्य ग्रन्थस्य परिष्कारे साहाय्यं अकुर्वन् । तेषां पत्नी अन्नपूर्णेव अस्मान् पर्यचरत् । अनयोः पुत्रौ भ्रातृसदृशाविव अस्मासु स्निह्यतः स्म । परम्पराप्राप्तया अमोघया श्रौतविद्यया ग्रन्थस्थान् दोषान् बुध्वा सम्यक् प्रशोधितवन्तः । सकुम्बपरिवारस्य एतेभ्यो महोदयेभ्यः भगवान् यज्ञपुरुषः सर्वं श्रेयो विदध्यात् इति आशास्महे । एतद्ग्रन्थ- प्रकाशनाय धनदातृभ्यः सर्वेभ्यो भगवान् वेदपुरुषः समस्तविधं मङ्गलं प्रदिशतु इत्याशिषं प्रयुञ्ज्महे । अत्युत्तमरूपेण ग्रन्थस्य मुद्रणं शीघ्रं कारितं येन तं आदित्यप्रिंटर्स स्वामिनं प्रकाशाख्यं अभिनन्दामहे ॥
- म.सु. अश्वत्थनारायणः अवधानी