वासुदेव-कारिका

आपस्तम्बमुनिं नत्वा वासुदेवाध्वरी सुधीः । दर्शादि कल्पसूत्रस्य कारिकास्तनुते शुभाः ॥

प्रातःपर्वण्यग्निहोत्रं हुत्वा पत्नीसमन्वितः । यजमानोऽपरेणाग्निमुपविश्यसमाहितः ॥

सङ्कल्पवपनं विद्यादृत्विग्वरणमेव च । वृतोध्वर्युर्दक्षिणाग्निं पूर्वाग्निं च प्रणीयतः ॥

उत्तरतो विहारस्य देवागातुविदो जपेत् । ममाग्ने वर्च इत्येतैस्रिभिरत्वाहितिर्जपेत् ॥

यद्वा त्रिभिस्त्रिभिर्मन्त्रैरेकैकस्मिन् समित्त्रयं ।

अथ पशुकारिकाः

पर्वणोः पशुबन्धस्यात् सद्यस्कालो द्व्यहोपि वा । द्व्यहत्वे तु चतुर्दश्यां सद्यस्काले तु पर्वणि ॥१॥

निरूढपशुबन्धेन यक्ष्य इत्यागुरं वदेत् । अयन्त इत्यथारन्योरारोप्योदवसाय च ॥२॥

उपावरोहे तु जपेन्मथिते जात एव तु । वास्तोष्पथीयावसथहोमौ स्यातां न कर्मणि ॥३॥

विद्युदस्यृत्विजां षण्णां वरणं त्वथ लौकिकं । षड्ढोतारं विहृत्याग्निं हुत्वा नं? तु परित्यजेत् ॥४॥

सूर्यं त इति षड्ढोता वाचस्पत इति ग्रहः । सकृद्गृहीत्वा नादेशे जुह्वा सर्वत्र हूयतां ॥५॥

स्यात्तु वाचस्पतिं ब्रह्मा देवता सर्वहोतृषु । विहृत्य दक्षिणं पूर्वं चाग्निं पश्विष्टिमाचरेत् ॥६॥

अग्नीषोमीयविकृतिः तन्त्रस्स्यात् पौर्णमासिकं । नागूर्नविद्युन्नो वृष्टिः अद्य यज्ञाय चोह्यते ॥७॥

 ऊर्जं चतुर्दशीं पंचदशीमिति यथातिथि । इष्टावनामधेयाय मैष्टं हविरिदं भवेत् ॥८॥

सद्यस्काले तु सर्वत्र नोभावग्नी न चाशनं । पात्रसादनमाहार्य स्थालीवर्जमिहेष्याते ॥९॥

न स्यातामेकहविषि विभागं चाभिमर्शनं । नाप्यायतां घृतेति स्यात् अनाग्नेयाभिघारणे ॥१०॥

प्रियेण नाम्नेत्येतेन वैकृतासादनं भवेत् । अयं मम चतुर्होता अग्नाविष्णूर्वृत्रहा भवेत् ॥११॥

प्राशित्रमविरुज्य स्यात् न चतुर्या न दक्षिणा । विकृतौ पार्वणौ होमौ नैव नो यज्ञ शं च मे ॥१२॥

इष्टिं कर्तुमशक्यायां आग्नावैष्णवयाज्यया । चतुर्गृहीतहोमाग्नाविष्णुभ्यामिति भावयेत् ॥१३॥

सत्याषाढभरद्वाजसूत्रयोरित्थमीरितं । शाखाहरणमिष्ट्यन्ते वायवस्थादिकं न हि ॥१४॥

स्यान्नवा यजमानस्य पशूनित्युपगुहनं । उपैति व्रतमश्नीतो द्व्यहकालः पशुर्यदि ॥१५॥

यूपाहुतिर्यूपकर्म वास्येव स्वधितिर्मता । स्रुवस्यादाववचनात् तेनैवाव्रश्चनाहुतिः ॥१६॥

अरत्निमात्रमुपरं विनाष्टा

अथ सोमकारिकाः

सोमेन य्क्ष्यमाणस्य यस्यपित्रादयस्त्रयः । नेजिरे सोमयागेन सस्याद्विच्छिन्नसोमपः ॥१॥

कात्यायनो द्विपुरुषःसोमविच्छेदने सति । विच्छिन्नसोमप इति कात्याचार्यश्च मन्यते ॥२॥

आलभेत स ऐन्द्राग्नमवशीर्नगवं पशुं । कलौ युगे भवेच्छागो भारद्वाजमुनेर्मतात् ॥३॥

यस्य वेदश्च वेदी च विच्छिद्येते त्रिपूरुषं । स वै दुर्ब्राह्मणो नाम यश्चैव वृषलीपतिः ॥४॥

आलभेताश्विनं धूम्रं ललामं सत्वजं पशुम् । नियुतौपासनश्चैव गायत्री मात्रवावानवि ॥५॥

न दुर्ब्राह्मण इत्याहुरिह बोधायनादयः । सोमाधिकारहेतुत्वात् सोमात्पुर्वत्र पर्वणि ॥६॥

ये तौ पशू तु भवतो बहुयाज्ञिकसम्मतः । अग्न्याधेयेनाग्निसिद्धा विष्ट्वान्वारम्भणीयया ॥७॥

कृत्वा पशू पुनरपि कालेन्वारम्भणीयया । इष्ट्वोपक्रमते दर्शपूर्णमासाविति स्थितिः ॥८॥

इति रामाग्निचिन्नाम कश्चिदेव तु मन्यते । अग्नीषोमीयपशुना सवनीयेन वाप्यमू ॥९॥

पशू समानतन्त्रावित्याहुः केचन यज्ञिकाः । बोधायनादि सुत्रेषु नायं पक्षस्तु दृश्यते ॥१०॥

विच्छिन्नसोमपिथस्य न सोमाधानमिष्यते । एष प्रामाणिको मार्गो बहुयाज्ञिकसम्मतः ॥११॥

द्वादशप्रक्रमव्यासषीडशप्रक्रमायतः । कुटी विशेषः प्राग्वंशो बोधायनमुनेर्मतात् ॥१२॥

आपस्तम्बमातादर्थलक्षनस्त्वयमिष्यते । तत्राग्न्यायतनान्याहुहुः शम्यामात्रानि याज्ञिकाः ॥१३॥

मध्येष्टप्रक्रमाद्यंतरालदेशं विहाय तु । पूर्वापराग्नियोस्थानं तत्र पूर्वानलस्य तु ॥१४॥

षत्त्रिंशदङ्गुलायाम विस्तारं चतुरश्रकं । चतुरश्रक्रियोपायो महावेदौ तु वक्ष्यते ॥१५॥

अङ्गुल्यो विंशतिरवितिलास्सु सार्धषोडश । तन्मात्ररज्वा भ्रमयेदपराग्निकमण्डलं ॥१६॥

तद्विष्टबार्धमेकोनत्रिंशदङ्गुलिकं मतं । सार्धैकतिलहीनातल्लभ्य्यते शुल्बसुत्रतः ॥१७॥

तन्मात्ररज्वा भ्रमणं मण्डले तु कृते सति । उत्तरार्धे परित्यक्ते शिष्टमर्धेन्दुवद्भवेत् ॥१८॥

एवं प्रग्वंशवेदिस्यादर्थलक्षणसंम्मतं ।