श्री गुरुभ्यो नमः
अथ त्रिषाहस्र इष्टकोपधान प्राचीनकारिका
अथातस्सम्प्रवक्ष्यामि त्रिषाहस्रविधायिकाः ।
कारिकाश्च यथासूत्रं प्रीयतां श्री महेश्वरः
दंशकञ्च तथा पञ्च प्रस्तारश्चिति पञ्चकं ॥१॥
चितेश्चितेस्तु शतं षट्षट् प्रोक्ता इष्टकाः क्रमात्
द्विषाहस्रवदेवास्यात प्रस्तारः प्रथमोपतः ॥२॥
प्राणापानभृतां प्रोक्तं स्थानं चापि द्वितीयके (प्रस्तारे)
शतं मन्त्रेष्टकाः प्रोक्ताः शतं चापि पृणा मताः ॥३॥
तृतीये तु प्रस्तरे प्रोक्तास्सन्तनीश्च वशास्तथा ।
त्रिवृतोपि तथाज्ञेयास्स्थानं साहस्रवन्मतम् ॥४॥
ऋषभश्चापि तत्रैव शिष्टा लोकंपृणास्मृताः ।
गायत्रसंख्या मन्तोक्ताः षट्सप्तति शतं पृणाः ॥५॥
इति प्रथम चितिः ।
द्वितीया चितिः
द्वितीयस्यां चितौ ज्ञेयाः प्रस्तारे प्रथमेततः ।
आश्विन्यः पञ्च तत्रैव पञ्चर्तव्यास्ततोमताः ॥६॥
ततः प्राणभृतः प्रोक्ता दशचापि तथामताः ।
अपस्याः पञ्च तत्रैव यथा सूत्रं विधीयते ।(नि) ॥७॥
मन्त्रोक्ता विंशतिश्चात्र शिष्टा लोकंपृणा मताः ।
अपरस्मिन् तथास्तारे संयान्यौ च तथर्तुगे । (ऋतव्ये) ॥८॥
चतस्रदाव मन्त्रोक्ताश्शिष्टा लोकंपृणामताः ।
तृतीये तु तथा स्तारे मतास्तुत्र्यविरादिकाः ॥९॥
ततस्तु वृषभो ज्ञेयः एवं विशतिरिष्टकाः ।
अशीतिश्च तथाज्ञेयाः शतं चापि पृणामताः ॥१०॥
इति द्वितीयाचितिः
तृतीयाचितिः
तृतीयस्यां चितौ तत्र प्रस्तारे प्रथमे ततः ।
मण्डला च तथाज्योॆतिः संयान्यौ च तथा द्वयं ॥११॥
ऋतव्याश्च ततस्तत्र चतस्रस्तु तथा श्रुतेः ।
दिक्सङ्ख्याश्चात्र मन्त्रोक्ताः शिष्टा लोकंपृणामताः ॥१२॥
द्वितीये तु तथा स्तारे दिश्याः पञ्च तथा मताः ।
उअपधाय यथासूत्रं पुरस्तात् प्राणभृद्गणाः ॥१३॥
माछन्दो दक्षिणे पक्षे पश्चात्तु पृथिवी मताः ।
अग्निर्देवोत्तरे पक्षे शिष्टा लोकंपृणामताः ॥१४॥
मन्त्रोक्ता एकं पञ्चाशत् एकोनपञ्चाशच्छतं ।(लोकंपृणाः)
प्रस्तारे तु तथान्यस्मिन् वालखिल्यास्तथा मताः ॥१५॥
पुरस्ताच्च तथा पश्चात् भूतमन्त्राश्च पूर्ववत् ।
ऋषभोपि तथा ज्ञेयः मन्त्रा नक्षत्र संख्यकाः ॥१६॥
त्रिसप्ततिश्शतं चात्र मता लोकंपृणेष्टकाः ॥
इति तृतीया चितिः
चतुर्थ चितिः
तुरीयायां चितौ प्रोक्ताः स्तोमीयाश्च ततःपरं ॥१७॥ (अक्ष्णया स्त्रीमापाः)
आशुरग्रेनुवाकाभ्यां साहस्रेतु यथा तथा । (यथा ब्राह्मणमित्यर्थ)
शिष्टा लोकंपृणाः प्रोक्ता द्विसप्ततिशतं परं ॥१८॥
द्वितीयेति तथा स्तारे संयान्यौ च तथर्तुगे । (ऋतव्ये)
चतस्रदावमन्त्रोक्ताः शिष्टा लोकंपृणामताः ॥१९॥
तृतीयेतु तथा स्तारे सृष्टि व्युष्टिर्यथाक्रमं ।
सृष्टयो दक्षिणे भागे व्युष्टयस्तु तथोत्तरे ॥२०॥
आत्मन्येव यथा कालं (लोकं) मध्ये तु वृषभो मतः ।
चतुस्त्रिंशच्च मन्त्रोक्तााः षट्षष्टिश्च शतंपृणाः ॥२१॥
इति चतुर्थ चितिः
पञ्चम चितिः
पञ्चम्यां तु चितौ प्रोक्ताः असमत्नादिका मताः ।
असमत्नादिकास्तत्र अग्निरुपगणान्तकाः ॥२२॥
ऋतव्यान्तास्तु तत्रोक्ताः त्र्यशीतिशतमिष्टकाः ।
द्विषाहस्रवदेवोक्तं शिष्टा लोकंपृणामताः ॥२३॥
रथन्तरं बृहच्चापि वर्जयेत् प्रथमे स्तरे ।
उत्तमे ते तु विज्ञेये दशसप्तपृणा इह ॥२४॥
अपरस्मिन् तथा स्तारे उपशीवर्य कामताः ।
वामदेव्यान्तमेवोक्ता द्विषाहस्रवदिष्टकाः ॥२५॥
यज्ञायज्ञिय सामार्थं शिष्टा तिस्रस्तु मूलतः ।
उत्तमस्तारकाले तु तासां धानमिहेष्यते ॥२६॥ (उत्तमप्रस्तारउपधानकाल इत्यर्थः)
मन्त्रोक्ता एकपञ्चाशच्छतं चात्र विधीयते ।
यज्ञायज्ञिय सामार्थं तिस्रश्चेट्टहि शेषिताः ॥२७॥
शिष्टा लोकंपृणाः प्रोक्ता षट् चत्वारिंशदिष्टकाः।
उत्तमेतु तथा स्तारे ह्यथर्वशिरसो दश ॥२८॥
उपधायशिरस्येव पक्षयोः पृष्ठभिर्मतं ।
रथन्तरं दक्षिणे तु बृहच्चापि तथोत्तरे ॥२९॥
द्विषाहस्रवदेवोक्तं तयो स्थानं हि पक्षयोः।
ततश्च पूर्वप्रस्तारे यज्ञायज्ञिय नामकाः ॥३०॥
शेषितास्तु तु ता ज्ञेयाः ततश्चान्ति मदावहि ।
ऋषभो मध्यतो ज्ञेय प्राजापत्या तु पूर्वतः ॥३१॥
अज्यान्यः पञ्च तत्रापि दिक्षुमध्ये तु पञ्चमी ।
लोकेष्टका तु तिस्रस्युः पुच्छे दक्षिणभागगाः॥३२॥
पावमान्यश्च तिस्रः स्युः पुच्छस्योत्तरभागगाः।
छन्दस्यास्सूत्र मन्त्रोकताः सप्तापि पुरतो मताः॥३३॥
दक्षपक्षोत्तरेभागे राष्ट्रभृद्गणा इष्यते ॥
विकर्णी चोत्तरेचांसे शिष्टा लोकंपृणा मताः।
मन्त्रा एकचत्वारिंशत् एकोनषष्टिशतंपृणाः ॥३४॥
क्रमः प्रोक्तस्तु विज्ञेयः मृन्मयीष्टक एव हि ।
यथाकालं तु विज्ञेयाः स्वर्णाश्म शर्करादिकाः ॥३५॥