चयन-कारिका

॥ अथ चयन-कारिका ॥

द्वितीयस्याश्येनचतो वासुदेवाध्वरीसुधीः । तनोति भाष्यवृत्यादिरीत्या संग्रह कारिकाः ॥

पर्नण्येकाष्टकायां वासंकल्पोविकृतेः क्रतोः । अमुनास्ग्निचित्येनेत्युक्त्वा पृष्ठाद्यदाुहृतिः ॥

विद्युथ्सोम प्रवाकस्य वरुणादीतु सौमिकं । सख्क्षेदान्ते विहृत्याग्निं बृहस्पत्याग्निराहुतिः ॥

तूष्णीं स्रुक् स्रुव संमार्गश्चतुस्त्वाज्यस्य गृह्यते ।

चतुर्गृहीतमपरं ऋचास्तोमेति हूयते । देवस्याभ्रिर्भभ्रिरसि हस्त आथायचेत्यपि ॥

ददेंगिरस्वदित्यंतेः रभ्यादानं सकृन्मतं । विपाजसन्तंधार्योग्निः श्चोखादिः खरकार्यभाक् ॥

गंच्छंत्यच्छेहिपर्यन्तैः अग्निमदि पुनर्जपेत् ।

यज्वाहुत्वेब्रह्माचाच्छेमः पाप्माान मादिशेत् । वल्मीकोद्धननं तूष्णीं मन्त्रेणतदुपस्थितिः ॥

पूर्व दक्षिणप्श्देनत्वश्व मा क्रमयेन्मृदं । ????1अभितिष्ठितोसि पाप्मानं इति ध्यानमथाहुतिः ॥

प्रत्यृचं परिवाजेति लेखैकोभवेदिह । अजस्रमिदिति प्रोच्य सहपर्णा जनास्तृतिः ॥

त्वामग्नाआदियद तिस्रः पुरीष्य्योस्यादिरन्यथा । पुरीष्यादि जनिष्ट्वान्तैः उभयीभिर्यदाष्टभिः ॥

सन्तन्त्रेववषट्कार्ये नित्येदेवि वडस्थिति । बोधायनमतेवक्र पक्षश्येन चितौ भवेत् ॥

रुद्रास्संभृत्य संभृष्टां इत्येतौ याजमनकौ । मखस्येत्यादि मित्रैतां इत्यन्तंस्यादुखाहृतिः ॥

वसस्त्वादि मन्त्रेषु त्व निषब्देभ्यमुत्तरं । यजमानय शब्दान्तं ध्रुवास्याद्यनुषज्यते ॥

आषाढा चतुरश्रास्यादुअदिस्यादृजु पक्षकः । वक्रः श्शेनेतु पाद्यास्याद्वक्षमाण प्रमाणकं ॥

गार्हपत्यादपोह्याग्निं धूपोपोह्य पुनः पचेत् । वरूत्रयस्त्वा तॄतीयो जनयस्त्वा चतुर्थकः ॥

प्रजापत्यः पुरोडाशस्या द्वादश कपालकः । कपालयुग्म मन्त्राणां द्विर्द्विरावृत्तिरिष्यते ॥

धर्त्रंचिन्मयरुतां शर्धश्चितस्थेति च युग्मकाः । आग्नेयस्य विकास्या उपांश्चेव प्रचर्यतां ॥

विहारभेदादेतस्मिन् पाषुकी दक्षिणामता । सर्वेषां शिरसां स्थाने वयव्यस्याद्यदा तदा ॥

ऐन्द्रःप्राणेश्चिरश्चित्वा घृताद्यभ्यक्त मेवतत् । कृमयस्सुर्न च यथा      तथा रक्षेत्प्रयत्नतः ॥

वायव्योवा पशुः प्रजापत्योवा केवलः पशुः । पुरुशाश्वबलीवर्दमेष च्छगः शिरांसितु ॥

हैमानिवामृन्मयानि कर्याण्युभय धावितु । बोधयनादि सूत्रेषु स्पष्टमेतदुदीरितं ॥

कत्यायनादि सूत्रेषु इति वा पाठान्तरं मतं । यदिहेमं मृन्मयं वा पुरुषस्य शिरोभवेत् ।

सप्तैकविंशतिं वेति संस्करस्यात्तदापि च । सूत्रोक्तकाले पश्वं ते कर्तव्याघर्मसंभृतिः ॥

घर्मेष्टकाच विज्ञेया कुलायिन्यपि पादिका । करयेदिष्टकापूर्वं तासन्तु तरणीब्रुवे ॥

समस्थितःश्चोर्ध्वबाहुः यजमानस्तु पूरुषः । पुरुषस्य चतुर्होंशः प्रक्रमस्त्रिंशदङ्गुलः ॥

अष्टमोंशः पदोझेयंतच्चपंचदशाङ्गुलम् । तस्यैवषोडशांशस्तु सार्धसप्तांगुलिं स्मृतम् ॥

पञ्चमः पुरुषांशस्तु चतुर्विंशतिकाङ्गुलः । सएवारत्निरित्युक्तः प्रादेशस्तु चतुर्दशः ॥

पञ्चारत्निस्तुपुरुषः स्वाद्विंशति शताङ्गुलः । षोडशीनामकरणी सा चतुष्फलकामता ॥

तत्र पश्चिम पार्श्वन्तु त्रिंशदङ्गुलमिष्यते । अथ दक्षिणपार्श्वन्तु भवेत्पंञ्च दशाङ्गुलम् ॥

उदक्पार्श्वं पञ्चचत्वारिंशदङ्गुलमिष्यते ॥

चतुर्थं फलकं ताभ्यां शिष्टमीशद्विगायतम् । द्विचत्वारिंशदङ्गुल्यः तिलास्यार्ध चतुर्धश ॥

अर्ध्या तुसाति फलका तत्रद्वेत्रिंशदङ्गुले । तृतीयं फलकं तत्र द्विचत्वारिंशदङ्गुलम् ॥

तिला अप्यधिकास्तत्र मतास्यार्ध चतुर्दश । पद्या त्रिफलकाज्ञेया तरैकं त्रिंशदङ्गुलम् ॥

एकविंशतिरङ्गुल्यो द्वयोः फलक कयोर्मितिः । तिला अप्यधिकास्तत्र सप्तपाद तिलधिका ॥

पक्षेष्टकातु फलकैः चतुर्भिः परिगृह्यते । तत्रद्वे पार्श्व फलके त्रिंशदङ्गुलकेमते ॥

तिरश्ची द्वे पञ्चतिलाधिका स्सप्त दशाङ्गुले । तत्र द्वे अक्ष्णयारज्जू एकस्यास्तुमितिर्मता ॥

चत्वारिंशच्चाङ्गुलनि स्युर्द्वदश तिला अपि । अन्या पञ्चतिलोपेता सप्तविंशतिकाङ्गुला ॥

पार्श्वयोस्तंतराळस्य पुनरेवमितिर्मता । पञ्चावीदशचाग्ङुल्यस्तिला अष्टादशपिच ॥

पक्षाकृतिर्यथासूत्रं समभूमौ विलिख्यतु । तदिष्टकनुसारेण फलकानीतु योजयेत् ॥

षट्कोणापक्षमथ्थीयासातुषट्फलकामता । पक्षेष्टका द्वयक्षेत्र ग्राहिणी परिकीर्तिता ॥

ईषाानकोणायत दीर्घकर्णा

तथग्निकोणाय तदीर्घकर्णा

पक्षेष्टका प्रक्रम पार्श्वगास्यात्

शिष्टेभवेतांतु तथावियैषा ॥

तिरश्ची पूर्वफलके पक्ष्यातिर्यके । दक्षिणं फलकं तत्र स्यादीशानदिगायतं ॥

अथोत्तरन्त ुपलकं अग्निहोणायतं मतं । पाश्वस्थी फलकेद्वेतु पक्ष्यापार्श्ववदेवहि ॥

तिरश्चीफलके पश्चात् पक्ष्यातिर्यक्प्रमाणके । दक्षिणं फलकं तत्र स्यादीशानदिगायतं ॥

ततोत्तरन्तु फलकं अग्निहोणायतं मतं । पार्श्चयोरन्तराळस्य पुनरेषामितिर्मता ॥