यज्ञे विद्वांसः शीलसंपन्ना अनङ्गहीना ऋत्विजो भवेयुरिति सर्वेषां सूत्रकाराणां समानं मतम् । तथा आपस्तम्बेनोक्तं ऋत्विजो वृणीते यूनः स्थविरान् वानूचानानूर्ध्ववाचोऽनङ्गहीनान् (आप.श्रौ.सू=१०-१-१) तथा च बोधायनेनोक्तं = विज्ञायते ब्राह्मणा ऋत्विजो योनिगोत्रश्रुतवृत्तसंपन्ना अविगुणाङ्गा अत्रिकिणः । न परिखातिक्रान्ता नान्तगा नान्तजा नाननूचानाः । योनिर्वृत्तं विद्या च प्रमाणमित्येके । (बो.श्रौ.सू=२-३-२,३,७)
[अस्य व्याख्यायां सुबोधिनीवृत्तौ - अत्रिकिणः = किणः आघातः । ज्याकिणः धनुर्युद्धनिमित्तः । आस्पोटकिणः मल्लयुद्धनिमित्तः । ग्रैवेयकिणः हस्तिदमननिमित्तः । ते एतेषां सन्तीति त्रिकिणिनः । न त्रिकिणिनः अत्रिकिणिनः । न परिखातिक्रान्ताः = परिखा मर्यादा त्रैविद्यवृद्धैः कृता । समुद्र इत्यन्ये । तामतिक्रान्ता न भवेयुः । नान्तगाः = न प्रतिषिद्धदेशगताः । न वृषलीपतय इत्यन्ये । नान्तजाः = न अन्तेषु शबरपुलिन्दादिषु देशेषु जाताः । नाननूचानाः = न असाङ्गाध्यायिनः । ]
तत्र आश्वलायन आह - ऋत्विजो वृणीतेऽन्यूनानतिरिक्तान् ये मातृतः पितृतश्च दशपुरुषं समनुष्ठिता विद्यातपोभ्यां पुण्यैश्च कर्मभिर्येषामुभयतो नाब्राह्मण्यं निनयेयुः । पितृत इत्येके (आश्व.श्रौ.सू=९-३-२०.२१)। एवंविधा एव विधयः भारद्वाजसत्याषाढादिभिरप्युक्तम् ।