यो यज्ञकर्मणोऽनुष्ठाता यज्ञकर्मणः फलस्य कामयिता गार्हपत्यादीनग्नीनाधाय आहिताग्निरित्युच्यते स एव यज्ञे यजमान इत्युच्यते । अन्यो यज्ञफलस्य कामयितान्य आहिताग्निर्यजमान इति न सङ्गच्छते । यो यज्ञफलकामी तेनैवाहिताग्निना यजमानेन भवितव्यम् । तथा स एव स्ववान् भवेत् । स्वस्य धनेनैव सः यागं निर्वर्तयेत् । सः स्वभूताभिरेव दक्षिणाभिः ऋत्विजः परिक्रीणीयात् । एतदेवाभिप्रेत्य एतत् खलु वाव तप इत्याहुर्यः स्वं ददातीति (तै.सं=६-१-६) इति दक्षिणाः स्वशब्देनैव उक्ताः । सूत्रकारेण आपस्तम्बेनापि याजमानं व्याख्यास्यामः । यजमानस्य ब्रह्मचर्यं दक्षिणादानं द्रव्यप्रकल्पनं कामानां कामनम् (आप.श्रौ.सू=४-१-१,२) इत्युक्तम् । अत्रत्यरुद्रदत्तवृत्तौ - “ ब्रह्मचर्यं मैथुनादिवर्जम् । दक्षिणादानं ऋत्विक् परिक्रयः । द्रव्यप्रकल्पनं यज्ञसाधनद्रव्याणामुपस्थापनम् । काम्यन्त इति कामाः क्रतुफलान्यङ्गफलानि च । याजमानाधिकारे पुनर्यजमानग्रहणं सार्वत्रिकार्थम् । तदयमर्थः ब्रह्मचर्यादिचतुष्टयमविशेषेण चोदितमपि सर्वत्र यजमानस्यैव भवति नर्त्विजाम् । कुतः? कर्मणः तदर्थत्वात् ” इत्युक्तम् । एवं विधेन यजमानेनानुष्ठीयमानं कर्म सम्यक् फलदानाय कल्पते ।