यथा वायुं समाश्रित्य वर्तन्ते सर्वजन्तवः ।
तथा गृहस्थमाश्रित्य वर्तन्ते सर्व आश्रमाः ॥ इति हि मनुः (म.स्मृ. ३-७७)
भारतेऽस्मिन् या सामाजिकी व्यवस्था वर्णाश्रमरूपा कौटुम्बिकरूपा वा तस्याः गृहस्थ एव मूलम् । गृहस्थेनावश्यमग्निहोत्रं यथाशास्त्रमनुष्ठेयम् । अस्माकं जीवितं सदा यज्ञरुपं भवेत् । अयज्ञं जीवितं नास्मिन् लोके सुखाय, न वा परलोके इति । अग्निहोत्ररूपयज्ञमयं जीवितं लोकहिताय, समाजहिताय, कुटुम्बहिताय, स्वहिताय च भवति । तैरेव कर्मभिर्योगरूपेणानुष्ठितैर्विशुद्धसत्त्वः सन् वेदान्तविज्ञानसुनिश्चितार्थाय कल्पते । तथा च स्मृतिः = ब्रह्मण्याधाय कर्माणि (गी. ५-१०), दैवे कर्मणि युक्तो हि बिभर्तीदं चराचरम् (म.स्मृ. ३-७५) इति च ।
अग्निहोत्रम्, दर्शपूर्णमासौ, पिण्डपितृयज्ञः, चातुर्मास्यम्, निरूढपशुबन्धः, आग्रयणम्, सोमयाग इत्येतानि प्रकृतिरूपाणि कर्माणि श्रुतिविहितानि आपस्तम्बादिभिः कल्पसूत्रकारैः यथाक्रमं विस्तरेण प्रतिपादितानि, अनुष्ठानसौकर्याय च प्रयोगवाक्यैरुपबृंहितानि संवत्सरे संवत्सरे गृहस्थेनानुष्ठेयानि नित्यानि कर्माणि । एतेष्वग्निहोत्रं दर्शपूर्णमासावल्पसंपत्केनापि गृहिणा यावज्जीवमनुष्ठेयानि । तदशक्तेन गृहस्थेन संवत्सरं वा, मासं वा, अवरार्ध्यं द्वादशरात्रीर्वाऽनुष्ठेयान्येव । गृहस्थस्य यद्धनं, या सम्पत्, यः कालः, या शक्तिः, यत्सामर्थ्यं, तानि सर्वाण्यग्निहोत्रार्थानि व्ययीकृतानि सार्थकानि भवन्ति । यत्कारणं सर्वं जगदग्निहोत्रार्थमेव सृष्टमग्निहोत्रेणैव च सृष्टम्, पयसि हीदं सर्वं प्रतिष्ठितम् (बृ. १-५-२), वित्तं मे स्यादथ कर्म कुर्वीय (बृ. १-४-१७), यज्ञार्थं पशवः सृष्टाः (म.स्मृ. ५-३९) इति हि श्रुतिस्मृती । यस्य धनम्, जीवितम्, अन्नम्, परिजनो वा यज्ञाय न कल्पन्ते स च पुरुषः पापिष्ठः। अघायुरिन्द्रियारामो मोघं पार्थ स जीवति (गी. ३-१६) नायं लोकोऽस्त्ययज्ञस्य कुतोऽन्यः कुरुसत्तम (गी,४-३१) इति गीतासु । भुञ्जते ते त्वघं पापाः (गी. ३-१३) इति च । एवं यस्य मनुष्यस्य स्वकीयं सर्वमग्निहोत्रादिकर्मानुष्ठानायैव क्ऌप्तं स्यात् स एव स्वानुष्ठानेन सर्वलोकहिताय स्वाभ्युदयमोक्षाय च कल्पते । अग्निहोत्रेणोत्तमा वृष्टिः, सत्प्रजाः, संपत्समृद्धिः, स्वास्थ्यम्, शान्तिः, उत्तमा सामाजिकी व्यवस्था च सम्पन्ना भवन्ति । अस्माकं राष्ट्रस्य सर्वेषां शत्रूणां नाशः, रोगनाशः, ऋणपरिहारः, दारिद्र्यनाशः, सद्विद्याप्राप्तिः, सत्सङ्गः, भक्तिज्ञानविवेकवैराग्यप्राप्तिः, देशरक्षणम्, देशवर्धनं चाग्निहोत्रानुष्ठानस्यैव फलम् । श्रुतिश्च गृहस्थानां निष्कृतिरूपेणाग्निहोत्रं विधत्ते । अग्निहोत्रं वै देवा गृहाणां निष्कृतिमपश्यन्निति (तै. ब्रा. २-१-५) इति । यदि सायमग्निहोत्रं हूयते रात्रौ भोजनं हुताद्यं भवति, यदि प्रातर्दिवा भोजनं हुताद्यं भवतीति वदन्ती श्रुतिरग्निहोत्रमननुतिष्ठतां तत्तत्कालिकं भोजनं निषेधति । आपस्तम्बैरपि यस्याग्नौ न क्रियते यस्य चाग्रं न दीयते न तद्भोक्तव्यं (आप.धर्म=२-१५-१३) इत्यनग्निहोत्रस्य भोजनं निषिद्धम् ।