अग्निहोत्रमधिकृत्य शतपथब्राह्मणे एवं हि श्रूयते । जनकराजसभासु श्वेतकेतुरारुणेयः, सात्ययज्ञः सोमशुष्मा, दैवरातो याज्ञवल्क्य इत्येते त्रयोऽग्निहोत्रे कुशला बभूवुः । अग्निहोत्राहुतिः कुत्र हूयते ? का तृप्तिः ? इत्यस्मिन् विचारे प्रक्रान्ते कथं कथमग्निहोत्रं जुहुथ इति जनकेन पृष्टास्ते । श्वेतकेतुराह -घर्मौ तेजसी अन्योन्यस्मिञ्जुहोमि, एतेन अग्न्यादित्ययोस्तृप्तिर्भवति । श्रिया यशसा संपन्नोऽस्मि इति । अथ सोमशुष्मा आह - तेजसि तेजो जुहोमि, एकैव देवता तेजोमयी । तेन तेजस्वी यशस्वी चास्मि इति । याज्ञवल्क्यस्त्वाह - अग्निहोत्रोद्धरणकाले सर्वा देवताः सन्निहिता भवन्ति । अतः सर्वेषु देवेषु जुहोमि । तेन सर्वं जगत्तर्पयामि इति । अत्र जनकः यद्यपि याज्ञवल्क्यस्योत्तरेण सन्तुष्टस्तथापि ‘आहुतीनां उत्क्रान्त्यादिकं नैव वेद भवान्’ इत्युक्त्वा ततो जगाम । ततो याज्ञवल्क्यो जनकमग्निहोत्रविषयमपृच्छत् यतस्तत्र जनकस्यैव ज्ञानं विशिष्टतरमासीत् । तस्मै जनक उवाच - ते वा एते आहुती हुते उत्क्रामतः । ते अन्तरिक्षमाविशतस्ते अन्तरिक्षमेवाहवनीयङ्कुर्वाते वायुं समिधम्मरीचीरेव शुक्रामाहुतिन्ते अन्तरिक्षन्तर्पयतस्ते तत उत्क्रामतः । ते दिवमाविशतः । ते दिवमेवाहवनीयङ्कुर्वाते आदित्यं समिधञ्चन्द्रमसमेव शुक्रामाहुतिन्ते दिवन्तर्पयतस्ते तत आवर्तेते । ते इमामाविशतः । ते इमामेवाहवनीयङ्कुर्वाते अग्निं समिधमोषधीरेव शुक्रामाहुतिन्ते इमान्तर्पयतस्ते तत उत्क्रामतः । ते पुरुषमाविशतः । तस्य मुखमेवाहवनीयङ्कुर्वाते जिह्वां समिधमन्नमेव शुक्रामाहुतिन्ते पुरुषं तर्पयतः स य एवं विद्वानश्नात्यग्निहोत्रमेवास्य हुतम्भवति ते तत उत्क्रामतः । ते स्त्रियमाविशतः । तस्या उपस्थमेवाहवनीयङ्कुर्वाते धारकां समिधन्धारका ह वै नामैषैतया ह वै प्रजापतिः प्रजा धारयाञ्चकार रेत एव शुक्रामाहुतिन्ते स्त्रियन्तर्पयतः स य एवं विद्वान्मिथुनमुपैत्यग्निहोत्रमेवास्य हुतम्भवति यस्ततः पुत्रो जायते स लोकः प्रत्युत्थाय्येतदग्निहोत्रं याज्ञवल्क्य नातः परमस्तीति होवाच । तस्मै ह याज्ञवल्क्यो वरं ददौ । स होवाच कामप्रश्न एव मे त्वयि याज्ञवल्क्यासदिति ततो ब्रह्मा जनक आस (शत.ब्रा=११-६-२-६तः १०) इति ॥
तथा च बृहदारण्यकोपनिषद्यप्यग्निहोत्रमहिमा श्रूयते । तस्मिन् सर्वं प्रतिष्ठितं यच्च प्राणिति यच्च नेति पयसीहीदं सर्वं प्रतिष्ठितं यच्च प्राणिति यच्च न । तद्यदिदमाहुः संवत्सरं पयसा जुह्वदप पुनर्मृत्युं जयतीति न तथा विद्याद्यदहरेव जुहोति तदहः पुनर्मृत्युमपजयत्येवं विद्वान् सर्वं हि देवेभ्योऽन्नाद्यं प्रयच्छति (बृ=१-५-२) इति ॥
तत्र च शाङ्करं भाष्यं -‘ तस्मिन् सर्वं प्रतिष्ठितं यच्च प्राणिति यच्च न ’ इत्यस्य कोऽर्थ इति ? उच्यते । तस्मिन् पश्वन्ने पयसि सर्वमध्यात्माधिभूताधिदैवं लक्षणं कृत्स्नं जगत्प्रतिष्ठितं यच्च प्राणिति प्राणचेष्टावत् यच्च न स्थावरं शैलादि । तत्र हिशब्देनैव प्रसिद्धावद्योतकेन व्याख्यातम् । कथं पयोद्रव्यस्य सर्वप्रतिष्ठात्वं ? कारणत्वोपपत्तेः । कारणत्वं चाग्निहोत्रादिकर्मसमवायित्वमग्निहोत्राद्याहुतिपरिणामात्मकं च जगत्कृत्स्नमिति श्रुतिस्मृतिवादाः शतशो व्यवस्थिताः । अतो युक्तमेव हिशब्देन व्याख्यानम् । यत्तद्ब्राह्मणान्तरेष्विदमाहुः संवत्सरं पयसा जुह्वदप पुनर्मृत्युं जयति इति । संवत्सरेण किल त्रीणि षष्टिशतान्याहुतीनां सप्त च शतानि विंशतिश्चेति याजुष्मतीरिष्टका अभिसम्पद्यमानाः संवत्सरस्य चाहोरात्राणि । संवत्स्ारमग्निं प्रजापतिमाप्नुवन्ति । एवं कृत्वा संवत्सरं जुह्वदपजयति पुनर्मृत्युमितः प्रेत्य देवेषु संभूतः पुनर्न म्रियत इत्यर्थः । इत्येवं ब्राह्मणवादा आहुः । न तथा विद्यात् न तथा द्रष्टव्यम् । यदहरेव जुहोति तदहः पुनर्मृत्युमपजयति न संवत्सराभ्यासमपेक्षत एवं विद्वान्सन् । यदुक्तं पयसि हीदं सर्वं प्रतिष्ठितं पयआहुतिविपरिणामात्मकत्वात्सर्वस्येति, तदेकेनैवाह्ना जगदात्मत्वं प्रतिपद्यते । तदुच्यते अपजयति पुनर्मृत्युं पुनर्मरणं सकृन्मृत्वा विद्वान् शरीरेण वियुज्य सर्वात्मा भवति न पुनर्मरणाय परिच्छिन्नं शरीरं गृह्णातीत्यर्थः । कः पुनर्हेतुः सर्वात्माप्त्या मृत्युमपजयतीति? उच्यते । सर्वं समस्तं हि यस्माद्देवेभ्यस्सर्वेभ्योऽन्नाद्यम् अन्नमेव तत् आद्यं च सायंप्रातराहुतिप्रक्षेपेण प्रयच्छति । तद्युक्तं सर्वमाहुतिमयमात्मानं कृत्वा सर्वदेवान्नरूपेण सर्वैर्देवैरेकात्मभावं गत्वा सर्वदेवमयो भूत्वा पुनर्न म्रियत इति । अथैतदप्युक्तं ब्राह्मणेन । ब्रह्म वै स्वयंभु तपोऽतप्यत । तदैक्षत न वै तपस्यानन्त्यमस्ति । हन्ताहं भूतेष्वात्मानं जुहवानि भूतानि चात्मनीति तत्सर्वेषु भूतेष्वात्मानं हुत्वा भूतानि चात्मनि सर्वेषां भूतानां श्रैष्ठ्यं स्वाराज्यमाधिपत्यं पर्येत् (शत.ब्रा=१३-७-१-१) (बृ.भा. १-५-२) इति ॥