THE PRAVARAS (SERIES OF ANCESTORS)
24.05
प्रवरान्व्यास्यामः॥१॥
आर्षेयं वृणीते। बन्धोरेव नैत्यथो संतत्या इति विज्ञायते॥२॥
न देवैर्न मनुष्यैरायं वृणीते॥ ऋषिभिरेवार्षेयं वृणीत इति विज्ञायते॥३॥
आर्षेयमन्वाचष्टे। ऋषिणा हि देवाः पुरुषमनुबुध्यन्त इति विज्ञायते॥४॥
यो वा अन्यः सन्नथान्यस्यायेण प्रवृणीते स वा अस्य तदृषिरिष्टं वीतं वृङ्क्त इति विज्ञायते॥५॥
त्रीन्वृणीते॥ मन्त्रकृतो वृणीते। यथर्षि मन्त्रकृतो वृणीते इति विज्ञायते॥६॥
अथैकेषाम्॥ एकं वृणीते। द्वौ वृणीते। त्रीन्वृणीते। न चतुरो वृणीते। न पञ्चातिवृणीत इति विज्ञायते॥७॥
अत ऊर्ध्वानध्वर्युतणीते ऽमुतो ऽर्वाचो होतेति विज्ञायते॥८॥
पुरोहितस्य प्रवरेण राजा प्रवृणीत इति विज्ञायते॥९॥
भृगूणामेवाग्रे व्याख्यास्यामः॥१०॥
जामदग्न्या वत्साः॥११॥ तेषां पञ्चायः प्रवरः। भार्गव च्यावनाजावानौर्व जामदग्न्येति। जमदग्नि वदूर्ववदनवानवच्च्यवनवद्भगुवदिति॥१२॥
त्र्यायमु हैके। भार्गवौर्व जामदग्न्येति। जमदग्निवदूर्ववद्भगुवदिति॥१३॥
एष एवाविकृतः सावर्णिजीवन्तिजाबाल्यैतिशायनवैरोहित्यावटमण्डप्रा चीनयोग्यानाम्॥१४॥
अथार्टिषेणानां पञ्चार्षेयः। भार्गव च्यावनाप्नवानाष्टिषेणानूपेति। अनूप वदृष्टिषेणवदजवानवच्च्यवनवद्भगुवदिति॥१५॥
त्र्यायमु हैके। भार्गवाष्टिषेणानूपेति। अनूपवदृष्टिषेणवद्धृगुवदिति॥१६॥
अथ वीतहव्या यास्कवाधूलमौनमौकाः॥१॥
तेषां व्यायः। भार्गव वैतहव्य सावेदसेति। सवेदोवद्वीतहव्यवद्धगु वदिति॥२॥
अथ गार्ल्समदाः शुनकाः॥३॥ 1434 HTRORISM
तेषामेकार्षेयः। गार्समदेति होता। गृत्समदवदित्यध्वर्युः॥४॥
अथ वाध्यश्वा मित्रायुवः।।५।। तेषामेकायः। वाध्यश्वेति होता। वध्यश्ववदित्यध्वर्युः॥६॥
अथ वैन्याः पार्थाः॥७॥
तेषां व्यायः। भार्गव वैन्य पार्थेति। पृथुवद्वेनवद्धृगुवदिति॥८॥
इमे भृगवो व्याख्याताः॥१॥
अथातो ऽङ्गिरसामायास्या गौतमाः॥१०॥
तेषां व्यायः। आङ्गिरसायास्य गौतमेति। गोतमवदयास्यवद ङ्गिोवदिति॥११॥
अथौचथ्या गौतमाः॥१२॥
तेषां व्यायः। आङ्गिरसौचथ्य गौतमेति। गोतमवदुचथ्यवदगिरोवदिति॥१३॥
अथौशिजा गौतमाः॥१४॥
तेषां व्यायः। आङ्गिरसौशिज काक्षीवतेति। कक्षीवद्वदुशिजव दङ्गिरोवदिति॥१५॥
अथ वामदेवा गौतमाः॥१६॥
तेषां व्यायः। आङ्गिरस वामदेव बाहदुक्थ्येति। बृहदुक्थवद्वामदेववद गिरोवदिति॥१७॥
अथ भरद्वाजानां त्र्यायः। आङ्गिरस बार्हस्पत्य भारद्वाजेति। भरद्वाजव बृहस्पतिवदङ्गिरोवदिति॥१८॥
एष एवाविकृतः॥१९॥
XXIV.7
कुक्वाग्निवेश्योर्जायनानां सर्वेषां च स्तम्बस्तम्बशब्दानाम्॥१॥
अथ ह्यामुष्यायणानां कुलानां यथा शुङ्गशैशिरयः॥२॥
भरद्वाजाः शुङ्गाः। कताः शैशिरयः॥३॥
तेषां पञ्चायः। आङ्गिरस बार्हस्पत्य भारद्वाज कात्यात्कीलेति। अत्कील वत्कतवद्भरद्वाजवबृहस्पतिवदङ्गिरोवदिति॥४॥
व्यायमु हैके। आङ्गिरस कात्यात्कीलेति। अत्कीलवत्कतवद्भरद्वाज वबृहस्पतिवदङ्गिरोवदिति।५॥
अथर्शाणां पञ्चायः। आङ्गिरस बार्हस्पत्य भारद्वाज वान्दन मातवचसेति। मतवचोवद्वन्दनवद्भरद्वाजवबृहस्पतिवदङ्गिरोवदिति॥६॥
व्यायमु हैके। आङ्गिरस वान्दन मातवचसेति। मतवचोवद्वन्दनवद ङ्गिरोवदिति॥७॥
अथ कपीनां व्यायः। आङ्गिरसामहीयौरुक्षयेति। उरुक्षयवदमहीयवद झिरोवदिति॥८॥
अथ गर्गाणां व्यायः। आङ्गिरस गार्ग्य शैन्येति। शिनिवद्गर्गवदङ्गिरो वदिति॥९॥
भरद्वाजमु हैके ऽङ्गिरसः स्थाने। भारद्वाज गार्ग्य शैन्येति। शिनिवद्गर्ग वद्भरद्वाजवदिति॥१०॥
अथ हरितानां त्र्यायः। आङ्गिरसाम्बरीष यौवनाश्वेति। युवनाश्वव दम्दरीषवदङ्गिरोवदिति॥११॥
मान्धातारमु हैके ऽङ्गिरसः स्थाने। मान्धात्राम्बरीष यौवनाश्वेति। युवनाश्वव दम्बरीषवन्माधातृवदिति॥१२॥
24.08
अथ कुत्सानां त्र्यायः। आङ्गिरस मान्धात्र कौत्सेति। कुत्सवन्मान्धातृव दङ्गिरोवदिति॥१॥
अथाजमीढाः कण्वाः॥२॥
तेषां त्र्यायः। आङ्गिरसाजमीढ काण्वेति। कण्ववदजमीढवदङ्गिरो वदिति।३॥
अथ विरूपा रथीतराः॥४॥
तेषां व्यायः। आङ्गिरस वैरूप पार्षदश्वेति। पृषदश्ववद्विरूपवदङ्गिरो वदिति॥५॥
अष्ट्रादंष्ट्रमु हैके ऽङ्गिरसः स्थाने। आष्टादंष्ट्र वैरूप पार्षदश्वेति पृषदश्व वाद्विरूपवदष्टादंष्ट्रवदिति॥६॥
अथ मुद्गलानां त्र्यायः॥ आङ्गिरस भाHश्व मौद्गल्येति। मुद्गवल द्भुम्यश्ववदङ्गिरोवदिति॥७॥
तृक्षमु हैके ऽङ्गिरसः स्थाने। तार्क्ष्य भाHश्व मौद्गल्येति। मुद्गवलद्धृम्य श्ववत्तृक्षुवदिति॥८॥
अथ विष्णुवृद्धानां त्र्यायः। आङ्गिरस पौरुकुत्स त्रासदस्यवेति। त्रसदस्यु वत्पुरुकुत्सवदङ्गिरोवदिति॥९॥
एष एवाविकृतः शठमर्षणभद्रणमद्रणबादरायणौपमित्यौपगविसात्यकि सात्यकाम्यारुणिनितुण्डीनाम्॥१०॥
अथात्रीणां त्र्यायः। आत्रेयार्चनानस श्यावाश्चेति। श्यावाश्ववदर्चनान सवदत्रिवदिति॥११॥
अथ गविष्ठिराणां व्यायः। आत्रेयार्चनानस गाविष्ठिरेति। गविष्ठिरवद र्चनानसवदत्रिवदिति॥१२॥
अथातिथीनां व्यायः। आत्रेयार्चनानसातिथ्येति। अतिथिवदर्चनानसवद त्रिवदिति॥१३॥
एष एवाविकृतो वामरथ्यसुमङ्गलबैजवापीनाम्॥१४॥
24.09
अथ विश्वामित्राणां देवराताश्चिकितमनुतन्त्वौलकिवालुकियज्ञवल्कोलूक बृहदग्निबभ्रुगालविशालावतशालकायनकालबवाः॥१॥
तेषां व्यायः। वैश्वामित्र दैवरातौदलेति। उदलवदेवरातवद्विश्वामित्र वदिति॥२॥
अथ श्रीमतकामकायनानां व्यायः। वैश्वामित्र दैवश्रवस दैवतरसेति। देवतरसवदेवश्रवोवद्विश्वामित्रवदिति॥३॥
अथाज्यानां त्र्यायः। वैश्वामित्र माधुच्छन्दसाज्येति। अजवन्मधुच्छन्दोव द्विश्वामित्रवदिति॥४॥
अथ माधुच्छन्दसा एव धनंजयाः॥५॥
तेषां त्र्यायः। वैश्वामित्र माधुच्छन्दस धानंजय्येति। धनंजयवन्मधुच्छन्दो वद्विश्वामित्रवदिति॥६॥
अथाष्टकाः लोहिताः॥७॥
तेषां व्यायः। वैश्वामित्राष्टकेति। अष्टकवद्विश्वामित्रवदिति॥८॥
अथ पूरणा पारिधापयन्ताः॥९॥
तेषां व्यायः। वैश्वामित्र पौरणेति। पूरणवद्विश्वामित्रवदिति॥१०॥
अथ कतानां व्यायः। वैश्वामित्र कात्यात्कीलेति। अत्कीलवत्कतद्विश्वामित्र वदिति॥११॥
अथाघमर्षणाः कुशिकाः॥१२॥
तेषां व्यायः। वैश्वामित्राघमर्षण कौशिकेति। कुशिकवदघमर्षणवद्विश्वा मित्रवदिति॥१३॥
अथ कश्यपानांत्र्यायः। काश्यपावत्सार नैध्रुवेति। निध्रुववदवत्सारवत्कश्य पवदिति॥१४॥
अथ रेभाणां व्यार्षेयः। काश्यपावत्सार रैभेति। रेभवदवत्सारवत्कश्य पवदिति॥१५॥
XXIV.10
अथ शण्डिलानां व्यायः। दैवलासितेति। असितवदेवलवदिति॥१॥
व्यायमु हैके। काश्यप दैवलासितेति। असितवद्देवलवत्कश्यपवदिति॥२॥
व्याचेयास्त्वेवंन्यायेन॥३॥
एकाःया वासिष्ठा अन्यत्र पराशरेभ्यः। वासिष्ठेति होता। वसिष्ठव दित्यध्वर्युः।।४॥
व्यायमु हैके। वासिष्ठेन्द्रप्रमदाभरद्वसो इति। आभरद्वसुवदिन्द्रप्रमद वद्वसिष्ठवदिति॥५॥
अथ पराशराणां व्यायः। वासिष्ठ शाक्य पाराशर्येति। पराशरवच्छक्ति वद्वसिष्ठवदिति॥६॥
अथ कुण्डिनानां त्र्यायः। वासिष्ठ मैत्रावरुण कौण्डिन्येति। कुण्डिनवन्मित्रा वरुणवद्वसिष्ठवदिति॥७॥
अथ संकृतिपूतिमाषाणां व्यायः। शाक्त्य सांकृत्य गौरिवीतेति। गौरिवीति वत्संकृतिवच्छक्तिवदिति॥८॥
अथागस्तीनामेकायः। आगस्त्येति होता। अगस्तिवदित्यध्वर्युः॥९॥
न्यायमु हैके। आगस्त्य दार्टच्युतध्मवाहेति। इध्मवाहकदृढच्युतवद गस्तिवदिति॥१०॥
अथ क्षत्रियाणाम्॥११॥
यद्यह साष्टिं प्रवृणीरन्नेक एवैषां प्रवरः। मानवैड पौरूरवसेति। पुरूवो वदिडावन्मनुवदिति॥१२॥
अथ येषामु ह मन्त्रकृतो न स्युः सपुरोहितप्रवरास्ते प्रवृणीरन्॥१३॥
अथ येषां स्युरपुरोहितप्रवरास्ते॥१४॥
सपुरोहितप्रवरास्त्वेवंन्यायेन॥१५॥
एकाचेया विशः। वात्सप्रेति होता। वत्सप्रवदित्यध्वर्युः॥१६॥
अथासंप्रज्ञातबन्धुराचार्यामुष्यायणमनुप्रब्रवीताचार्यप्रवरं प्रवृणीत॥१७॥
अथाह ताण्डिन एकार्षेयं सार्ववर्णिकं समामनन्ति। मानवेति होता। मनुवदित्यध्वर्युः॥ मानव्यो हि प्रजा इति हि ब्राह्मणमिति हि ब्राह्मणम्॥१८॥