THE PARIBHĀSĀ-S OR THE GENERAL RULES.
24.01
यज्ञं व्याख्यास्यामः॥१॥
स त्रयाणां वर्णानां ब्राह्मणराजन्ययोर्वैश्यस्य च॥२॥
स त्रिभिदैविधीयते॥३॥
ऋग्वेदयजुर्वेदसामवेदैः॥४॥
ऋग्वेदयजुर्वेदाभ्यां दर्शपूर्णमासौ॥५॥
यजुर्वेदेनाग्निहोत्रम्॥६॥
सर्वैरग्निष्टोमः॥७॥
उच्चैर्ऋग्वेदसामवेदाभ्यां क्रियते॥८॥
उपांशु यजुर्वेदेन॥९॥
अन्यत्राश्रुतप्रत्याश्रुतप्रवरसंवादसंप्रैषैश्च॥१०॥
अन्तरा सामिधेनीष्वनूच्यम्॥११॥
मन्द्रेण प्रागाज्यभागाभ्यां प्रातःसवने च॥१२॥ मध्यमेन प्राक् स्विष्टकृतो माध्यंदिने च॥१३॥ . क्रुष्टेन शेषे तृतीयसवने च॥१४॥
वाक्संद्रवश्च तद्वत्॥१५॥
ऋग्वेदेन होता करोति॥१६॥ सामवेदेनोद्गाता॥१७॥ यजुर्वेदेनाध्वर्युः॥१८॥ सर्वैर्ब्रह्मा॥१९॥
वचनाद्विप्रतिषेधाद्वान्यः कुर्यात्॥२०॥
ब्राह्मणानामाविज्यम्॥२१॥
सर्वक्रतूनामग्नयः सकृदाहिताः॥२२॥
जुहोतीति चोद्यमाने सर्पिराज्यं प्रतीयात्॥२३॥
अध्वर्यु कर्तारम्॥२४॥
जुहूं पात्रम्॥२५॥
व्यापृतायां त्रुवेण॥२६॥
आहवनीये प्रदानम्॥२७॥
आधानप्रभृति यावज्जीवं पात्राणि धार्यन्ते॥२८॥
तेषां प्रतितन्त्रं संस्कारः॥२९॥
मन्त्रब्राह्मणे यज्ञस्य प्रमाणम्॥३०॥
मन्त्रब्राह्मणयोर्वेदनामधेयम्॥३१॥
कर्मचोदना ब्राह्मणानि॥३२॥
ब्राह्मणशेषो ऽर्थवादो निन्दा प्रशंसा परकृतिः पुराकल्पश्च॥३३॥
अतो ऽन्ये मन्त्राः ॥३४॥
अनाम्नातास्त्वमन्त्रा यथा प्रवरोहनामधेयग्रहणानीति॥३५॥
स्वाध्याये ऽनध्यायो मन्त्राणां न कर्मण्यर्थान्तरत्वात्॥३७॥
एकमन्त्राणि कर्माणि॥३८॥
अपि संख्यायुक्तचेष्टापृथक्त्वनिर्वर्तीनि॥३९॥
कण्डूयनस्वजनदीतराववर्षणामध्यप्रतिमन्त्रणेषु च तद्वत्कालाव्यवेतेषु।।४०॥
प्रयाणे त्वार्थनिर्वृत्तेः॥४१॥
असंनिपातिकर्मसु च तद्वत्॥४२॥
हविष्कृदध्रिगुपुरोऽनुवाक्यामनोतस्यावृत्तिर्भिन्नकालेषु।।४३॥
वचनादेकं कर्म बहुमन्त्रम्॥४४॥
24.02
मन्त्रान्तैः कर्मादीन्संनिपातयेत्॥१॥
आघारे धारायां चादिसंयोगः॥२॥
आदिप्रदिष्टा मन्त्राः॥३॥
उत्तरस्यादिना पूर्वस्यावसानं विद्यात्॥४॥
होत्रायाजमानेषु समुच्चयः॥५॥
विकल्पो याज्यानुवाक्यासु॥६॥
संख्यासु च तद्वत्॥७॥
क्रयपरिक्रयसंस्कारेषु द्रव्यसमुच्चयः॥८॥
रौद्रराक्षसनैर्ऋतपैतृकच्छेदनभेदननिरसनात्माभिमर्शनानि च कृत्वाप उपस्पृ शेत्॥९॥
उत्तरतउपचारो विहारः॥१०॥
नाग्नेरपपर्यावर्तेत॥११॥
न विहारात्॥१२॥
अन्तराणि यज्ञाङ्गानि। बाह्याः कर्तारः॥१३॥
न मन्त्रवता यज्ञाङ्गेनात्मानमभिपरिहरेत्॥१४॥
प्रागपवर्गाण्युदगपवर्गाणि वा यज्ञोपवीती प्रदक्षिणं दैवानि कर्माणि करोति॥१५॥
प्राचीनावीती प्रसव्यं दक्षिणापवर्गाणि पित्र्याणि॥१६॥
यानि शुल्बानि समासं गच्छन्ति प्रसव्यं तान्यावेष्ट्य प्रदक्षिणं समस्येत्॥१७॥
अथ यानि न समस्यन्ते प्रदक्षिणं तानि॥१८॥
अमावास्यायाममावास्यया यजेत॥१९॥ पौर्णमास्यां पौर्णमास्यया॥२०॥
यदहः पुरस्ताच्चन्द्रमाः पूर्ण उत्सपेत्तां पौर्णमासीमुपवसेत्॥२१॥ श्वः पूरितेति वा॥२२॥
खर्विकां तृतीयां वाजसनेयिनः समामनन्ति॥२३॥
यदहन दृश्येत तदहरमावास्या॥२४॥ श्वो न द्रष्टार इति वा॥२५॥
एकप्रकरणे चोद्यमानानि प्रधानानि समानविधानानि॥२६॥
प्रकरणेन विधयो बध्यन्ते॥२७॥
अनिर्देशात्साधारणानि॥२८॥ निर्देशाद्व्यवतिष्ठन्ते॥२९॥
आग्नेयो ऽष्टाकपालो ऽग्नीषोमीय एकादशकपाल उपांशुयाजश्च पौर्ण मास्यां प्रधानानि॥३०॥
तदङ्गमितरे होमाः॥३१॥
आग्नेयो ऽष्टाकापाल ऐन्द्राग्न एकादशकपालो द्वादशकपालो वामाया स्यायामसोमयाजिनः॥३२॥
नासोमयाजिनो ब्राह्मणस्याग्नीषोमीयः पुरोडाशो विद्यते॥३४॥
नैन्द्राग्नः संनयतो वर्णविशेषेण॥३५॥
पितृयज्ञः स्वकालविधानादनङ्गं स्यात्॥३६॥
तुल्यवच्च प्रसंख्यानात्॥३७॥
प्रतिषिद्धे च दर्शनात्॥३८॥
सहाङ्गं प्रधानम्॥३९॥
24.03
देशे काले कर्तरीति निर्दिश्यते स्वशब्दं यत्॥१॥
अपूर्वो दर्विहोमः॥२॥
जुहोतिचोदनः॥३॥
स्वाहाकारप्रदानः॥४॥
सकृद्गृहीत्वा॥५॥
आहुतिगणे प्रत्याहुति गृहीत्वा॥६॥
न वा समवद्येत्॥७॥
समिदभावश्चाग्निहोत्रवर्जम्॥८॥
अपरेणाग्निं दक्षिणं जान्वाच्यानाच्य वासीनो दर्विहोमा होति॥९॥
वचनादन्यथा॥१०॥
अपरेणाहवनीयं दक्षिणातिक्रम्योदगावृत्तः सर्वा आहुतीर्जुहोति॥११॥
वचनादन्यथा॥१२॥
आश्रुताप्रत्याश्रुते याज्यानुवाक्ये अवदानेषु चोपस्तरणाभिघारणे चतुर्गृहीतं वषट्कारश्चादविहोमानाम्॥१३॥
वषट्कृते वषट्कारेण वाहुतिषु संनिपातयेत्॥१४॥
उपयामेन ग्रहेषु॥१४॥
तयादेवतेनेष्टकासु॥१६॥
पुरोडाशगणे यथाभागं व्यावर्तध्वमित्रोकैकमपच्छिन्द्यात्॥१७॥
उत्तमौ यथा व्यावर्तेथामिति॥१८॥
तयोरेव देवतोपदेशनं करोति॥१९॥
चरुपुरोडाशगणे चरुपुरोडाशीयान्प्रागधिवपनाद्विभजति॥२०॥
यथादेवतमुपलक्षयति॥२१॥
इदंशब्दस्तन्त्रं स्यात्॥२२॥
व्यतिषक्तेष्वपि॥२३॥
कपालानामुपधानकाले प्रथमेन कपालमन्त्रेण चरुपमुपदधाति॥२४॥
ध्रुवो ऽसीति मन्त्रं संनमति॥२५॥
पिष्टानामुत्पवनकाले तण्डुलानुत्पुनाति॥२६॥
अधिश्रयणकाले ऽधिश्रयणमन्त्रेण तण्डुलानावपति॥२७॥
अनुद्धृत्य चरुमासादयति॥२८॥
पञ्चदश सामिधेन्यो दर्शपूर्णमासयोः॥२९॥
सप्तदशेष्टिपशुबन्धानां यत्र श्रूयन्ते॥३०॥
उपांशु काम्या इष्टयः क्रियन्त इति तत्र यावत्प्रधानमुपांशु॥३१॥
दर्शपूर्णमासाविष्टीनां प्रकृतिः॥३२॥
अग्नीषोमीयस्य च पशोः॥३३॥
सवनीवस्य॥३४॥
सवनीय ऐकादशिनानाम्॥३५॥
ऐकादशिनाः पशुगणानाम्॥३६॥
वैश्वदेवं वरुणप्रघाससाकमेधशुनासीरीयाणाम्॥३७॥
वैश्वदेविक एककपाल एककपालानाम्॥३८॥
वैश्वदेव्यामिक्षामिक्षाणाम्॥३९॥
तत्र सामान्याद्विकारो गम्येत॥४०॥
एकदेवता आग्नेयविकाराः।।४१॥
द्विदेवता अग्नीपोपीयविकाराः॥४२॥ बहुदेवताश्च॥४३॥
ऐन्द्राग्नविकाराः वा।।४४॥
अन्यत्र प्रकृतिदेवताभ्यो यथैन्द्रः पुरोडाशः सौम्यश्चरुरिति॥४५॥
हविर्देवतासामान्ये हविर्बलीयः॥४६॥
द्रनासंस्कारविरोधे द्रव्यं बलीयः।।४७॥
अर्थद्रव्यविरोधे ऽर्थो बलीयान्॥४८॥
न प्रकृतावूहो विद्यते।।४९।
विकृतौ यथार्थमूहो ऽर्थवादवर्जम्॥५०॥
परवाक्यश्रवणादर्थवादः५१॥
शिष्टाभावे सामान्यात्प्रतिनिधिः।।५२॥
तद्धर्मा च स्यात्॥५३॥
मात्रापचारे तच्छेषेण समाप्नुयात्।।५४॥
24.04
स्वामिनो ऽग्नेर्देवतायाः शब्दात्कर्मणः प्रतिषेधाच्च प्रतिनिधिनिवृत्तः॥१॥
त्रिभिः कारणैः प्रकृतिर्निवर्तते प्रत्याम्नानात्प्रतिषेधादर्थलोपाच्च॥२॥
अग्निष्टोम एकाहानां प्रकृतिः॥३॥
द्वादशाहो ऽहर्गणानाम्॥४॥
गवामयनं सांवत्सरिकाणाम्॥५॥
निकायिनां तु प्रथमः॥६॥
अग्निष्टोम उत्तरवेदिः॥७॥
उत्तरेषु क्रतुष्वग्निः ॥८॥
अन्यत्र साद्यस्केभ्यो वाजपेयात्षोडशिनः सारस्वताच्चसत्त्रात्॥९॥
क्रत्वादौ क्रतुकामं कामयेत॥१०॥ यज्ञाङ्गादौ यज्ञाङ्गकामम्॥११॥
अल्पीयांसो मन्त्रा भूयांसि कर्माणि तत्र समशः प्रतिविभज्य पूर्वैः पूर्वाणि
अल्पीयांसि कर्माणि भूयांसो मन्त्रास्तत्र प्रतिमन्त्रं कुर्यात्। अवशिष्टा विकल्पार्था यथा यूपद्रव्याणीति॥१३॥
अन्ताल्लोपो विवृद्धिा॥१४॥
प्रकृतेः पूर्वोक्तत्वादपूर्वमन्ते स्यात्॥१५॥
कुम्भी शूलवपाश्रपणीप्रभुत्वात्तन्त्रं स्यात्॥१६॥ जातिभेदे तु भिद्येत पक्तिवैषम्यात्॥१७॥
स्विष्टकृद्विकारे वनस्पतौ याज्यायां देवतानिगमाः स्युः प्रकृत्युपबन्धात्॥१८॥
अन्वारम्भणीया विकृतौ न स्यात्प्रकृतिकालमध्यत्वात्। कृता हि तदर्थेन॥१९॥
स्याद्वा कालस्याशेषभूतत्वात्॥२०॥
आरम्भविभागाच्च॥२१॥
अर्थायार्थायाग्निं प्रणयति। अपवृत्ते कर्मणि लौकिकः संपद्यते यथा समारूढे॥२२॥