32 savāḥ

THE SAVAYAJÑAS

22.25

अथ सवानां व्याख्यातो बृहस्पतिसवः॥१॥

वैश्यः पुष्टिकामः॥२॥

आग्नेयादीनि सप्त हवींषि निर्वपति॥३॥

पृश्निः पष्ठौही मारुत्यालभ्यते॥४॥

तस्याः पुरस्तात्स्विष्टकृतो यजमानायतन ऋषभचर्म प्राचीनग्रीवमुत्तर लोमास्तीर्य तस्मिन्नासीनं यजमानं दध्नाभिषिञ्चति॥५॥

ब्राह्मणो ब्रह्मवर्चसकामः॥६॥

आग्नेयादीन्यष्टौ हवींषि निर्वपति॥७॥

पुरस्तास्विष्टकृतो हिरण्येन घृतमुत्पूय तेन कृष्णाजिन आसीनमभिषिञ्चति॥४॥

अथ सोमसवः॥९॥

यत्किंच राजसूयमृते सोमं तत्सर्वं भवति॥१०॥

मैत्राबार्हस्पत्यं संस्थाप्य सौमी सूतवशामालभते॥११॥

तस्याः पुरस्तात्स्विष्टकृतो ऽषाढं युत्सु पप्रिमिति सौम्यर्चाद्भिरभिषिञ्चति॥१२॥

शेष संस्थाप्य संसृपां हविर्भिदिशामवेष्ट्या द्विपशुना पशुबन्धेन सात्यदूतानां हविर्भिः प्रयुजामिति यजते॥१३॥

पृथिसवेन पशुकामः॥१४॥

यत्किंच राजसूयमनुत्तरवेदिकं तत्सर्वं भवति॥१५॥

मैत्राबार्हस्पत्यस्य पुरस्तास्विष्टकृतो ये मे पञ्चाशतमिति नाराशंस्यर्चाद्भि रभिषिञ्चति॥१६॥

समानमुत्तरं पूर्वेण पशुबन्धवर्जम्॥१७॥

व्याख्यातो गोसवः॥१८॥ x

ओदनसवेनान्नाद्यकामः॥१९॥

रोहिण्यां यजतोपव्युषं श्रपयति॥२०॥

दर्विहोमो भवति॥२१॥

उदित आदित्य सिंहे व्याघ्र इति चतस्त्र आहुतीरोदनाद्धृत्वा राडसि विराडसीत्येतैः प्रतिमन्त्रम्॥२२॥

22.26

मन्थान्कल्पयन्ति॥ आज्यमन्थं ब्राह्मणः पयोमन्थं राजन्यो दधिमन्थं वैश्य उदमन्थं शूद्रः॥१॥

इन्द्राय त्वा तेजस्वते तेजस्वन्तं श्रीणामीति ब्राह्मणः सक्तुभिराज्यं श्रीत्वा तेजो ऽसीत्यभिमन्य तत्ते प्रयच्छामीति यजमानाय प्रयछति॥२॥

तेजस्वदस्तु मे मुखमिति प्रतिगृह्य भक्षयति॥३॥

एवमितरेषामुसरउत्तरः श्रयणो ऽभिमन्त्रणः प्रदानो भक्षणश्च यथालिङ्गम्।।४॥

सर्वान्यजमानो भक्षयित्वा हिरण्यं ब्राह्मणाय ददाति। तिसृधन्वं राजन्याय। अष्ट्रां वैश्याय। माषकमण्डलुं शूद्राय॥५॥

ओदनशेषं यजमानः प्राश्नाति॥६॥

इममग्न आयुषे वर्चसे कृधीति प्राश्नन्तमभिमन्त्रयते॥७॥

हिरण्यं यजमानायाबध्नाति॥८॥

आयुरसि विश्वायुरसीत्याबध्यमाने जपति॥९॥

अपां ग्रहानगृह्णन्ति ये मन्थान्कल्पयन्त्यपां यो द्रवणे रस इत्येतैः प्रति मन्त्रम्॥१०॥

तैरेनं संसृष्टैरभिषिञ्चति यतो वातो मनोजवा इति॥११॥

समुद्र इवासि गह्मनेत्येनमभिमन्त्र्याथैनं त्रिभिर्दपुञ्जीलैः पवयति॥१२॥

अवभृथप्रत्याम्नायो भवतीति विज्ञायते॥१३॥

अग्णाहवनीयं रथो ऽवस्थितो भवति॥१४॥

अभि प्रेहीति तं यजमानो ऽभ्येति॥१५॥

आतिष्ठ मित्रवर्धन इत्यारोहन्तभिमन्त्रयते॥१६॥

अझै न्यङ्काविति रथचक्रे अभिमृशति। पक्षसी वा॥१७॥

आतिष्ठ वृत्रहन्निति पञ्चभिरारूढम्॥१८॥

दिदृक्षेण्यो दर्शनीयो भवति य एतेन यजत इति विज्ञायते॥१९॥

22.27

संतिष्ठत ओदनसवः॥१॥

व्याख्यातः पञ्चशारदीयः॥२॥

तथाग्निष्टुत्॥३॥

तस्य पुरोरुचः॥४॥

अस्याजरासो ऽग्न आयूंषि पवस इत्यैन्द्रवायवस्य। द्वितीया मैत्रावरुणस्य। तृतीयाश्विनस्य। चतुर्थी पञ्चमी च शुक्रामन्थिनोः षष्ठ्याग्रयणास्य॥५॥

अन्यामाग्नेयीमुक्थ्यस्य नियुनक्ति॥६॥

नित्या ध्रुवस्य।७॥

नियुनक्त्यैन्द्राग्नवैश्वदेवयोः॥८॥

अग्निश्रिय इति तिस्त्रो मरुत्वतीयानाम्॥ श्रुधि श्रुत्कर्णेत्युत्तरां माहेन्द्रस्य। विश्वेषामदितिरिति तिस्त्र आदित्यग्रहस्य। उत्तमा सावित्रस्य॥९॥

नियुनक्ति वैश्वदेवस्य॥१०॥

नित्या पालीवतस्य॥११॥

नियुनक्ति हारियोजनस्य॥१२॥

इन्द्रस्तुतेन्द्रस्तोमेनोक्थ्येनेन्द्रियकामो वीर्यकामो वा यजेत॥१३॥

ऐन्द्रियः पुरोरुचः॥१४॥

तिष्ठा हरी कस्य वृषेत्यैन्द्रवायवस्या तृतीया मैत्रावरुणस्या चतुर्थ्याश्विनस्य। पञ्चमी च शुक्रामन्थिनोः। सप्तम्याग्रयणस्य॥१५॥

नित्योक्थ्यस्य॥१६॥

नियुनक्ति धुवैन्द्राग्नवैश्वदेवानाम्॥१७॥

नित्या मरुत्वतीयमाहेन्द्राणाम्॥१८॥

आ नो विश्वाभिरूतिभिरितितिस्त्र आदित्यग्रहस्य। उत्तमा सावित्रस्य॥१९॥

नियुनक्ति वैश्वदेवपालीवतयोः॥२०॥

नित्या हारियोजनस्य॥२१॥

व्याख्यातो ऽप्तोर्यामः॥२२॥

22.28

राजाभिषेक्ष्यमाणो जनपदेषु समवेतेषु द्वयोः पुण्याहयोः पूर्वस्मिन्स्थण्डिलं कल्पयित्वाग्निमुपसमाधाय संपरिस्तीर्य वसति॥१॥

उदित आदित्ये ये केशिनो नर्ते ब्रह्मण इति द्वे आहुती हुत्वा राडसि विराडसीति यजमानायतन औदुम्बरीमासन्दी प्रतिष्ठापयति॥२॥

तां राजारोहति॥३॥

आरोह प्रोष्ठमित्यारोहन्तमभिमन्त्रयते॥४॥

अत्र वरं ददाति॥५॥

तस्यामासीनः केशान्वापयते येनावपत्सविता क्षुरेणेति॥६॥

मा ते केशानिति केशान्प्रकीर्यमाणाननुमन्त्रयते॥७॥

तान्समोप्य दर्भस्तम्बे निदधाति तेभ्यो निधानमिति॥८॥

अथैनमाज्यमिश्रेण पयसानक्ति। बलं ते बाहुवोरिति बाहू। यत्सीमन्तमिति शिरः॥९॥

व्याघ्रो ऽयमग्नाविति सप्ताहुतीर्तुत्वा द्यौरसि पृथिव्यसीति यजमानायतने शार्दूलचर्म प्राचीनग्रीवमुत्तरलोमास्तृणाति॥१०॥

तस्मिनराजोपविशति॥११॥

व्याघ्रो वैय्याघ्र इत्यासीनमभिमन्त्रयते॥१२॥

अथैनं तोक्मावास्ताभिर्दूर्वावास्ताभिर्वाद्भिरभिषिञ्चति या दिव्या आप इति प्रतिपद्या पाङ्क्तात्॥१३॥

अरुणं त्वा वृकमित्येनमभिमन्त्र्य प्र बाहवेति बाहू प्रसार्येन्द्रस्य ते वीर्यकृत इत्युपावहरति॥१४॥

अग्रेणाग्निं रथो ऽवस्थितो भवति॥१५॥

अभि प्रेहीति तं राजाभ्येति॥१६॥

आतिष्ठ वृत्रहन्तम इत्यारोहन्तमभिमन्त्रयते॥१७॥

अङ्की न्यङ्काविति रथचक्रे अभिमृशति। पक्षसी वा॥१८॥

नमस्त ऋष इति पुरोहितमभिमन्त्रयते॥१९॥

तिष्ठा रथ इति सारथिम्॥२०॥

आ रश्मीनिति रश्मीनालभते॥२१॥

आतिष्ठ वृत्रहन्निति षड्भिरारूढम्॥२२॥

परि मा सेन्या इति द्वे वाचयित्वोत्तराभिस्तिसृभिरभिमन्त्र्योदसावेत्वित्या दित्यमुदीक्षयति॥२३॥

अन्नवतामिति जनपदाननुवीक्षते॥२४॥

संतिष्ठते राजाभिषेकः॥२५॥

व्याख्यातो विघनः॥२६॥

संतिष्ठन्ते सवाः सवाः॥२७॥