31 Ahīnaḥ

THE AHĪNA-SACRIFICES .XXII.14 द्विरात्रप्रभृतय उपरिष्टादतिरात्रा अहीना ऐकादशरात्रात्॥१॥

तेषां द्वादशाहेनाहीनभूतेन कल्पो व्याख्यातः॥२॥

दिरावस्यैन्द्रवायवाग्रं प्रथममहः शुक्राग्रमुत्तरम्॥३॥

त्रिरात्रस्यैतच्चैवाग्रयणाग्रं च॥४॥

चतूरात्रस्यैतच्चैवैन्द्रवायवाग्रं च॥५॥

पञ्चरात्रस्यैतच्चैव शुक्राग्रं च॥६॥

सप्तरात्रस्यैतच्चैवैन्द्रवायवाग्रं च॥८॥

अष्टरात्रस्यैतच्चैव शुक्राग्रं च॥९॥

नवरात्रे त्रिः परिवर्तते॥१०॥

दशरात्रस्यैतच्चैवैन्द्रवायवाग्रं च॥११॥

एकादशरात्रस्यैतच्चैव शुक्राग्रं च॥१२॥

द्वादशरात्रे चतुः परिवर्तते॥१३॥

षोडशिनो ग्रहणं द्विरात्रस्योत्तरे ऽहन्॥१४॥

ग्राह्यो मध्यमे त्रिरात्रस्य। चतुर्थेचतुर्थे चतूरात्रप्रभृतिषु नानाहीनेषु॥१५॥

चत्वारो द्विरात्राः॥१६॥

व्युष्टिद्विरात्रः प्रथमः। स व्याख्यातः॥१७॥

आङ्गीरसेन यः पुण्यो हीन इव स्यात्स एतेन॥१८॥

ज्योतिष्टोमो ऽग्निष्टोमः पूर्वः। सर्वस्तोमो ऽतिरात्र उत्तरः।।१।।

कापिवनेन यं कामं कामयते तमभ्यश्नुते ऽलूक्षो भवति॥२०॥

ज्योतिरुक्थ्यो ऽग्निष्टोमो वा पूर्वः। अतिरात्र उत्तरः॥२१॥

चैत्ररथेन प्राणेष्वन्नाद्ये च प्रतितिष्ठति॥२२॥

अग्निष्टोमः पूर्वः। अतिरात्र उत्तरः॥२३॥

22.15

गर्गत्रिरात्रेण प्रजातिं भूमानं गच्छत्यभि स्वर्ग लोकं जयत्येषु लोकेषु प्रतितिष्ठति वसूरुद्रानादित्यानन्वारोहति॥१॥

त्रैधातवीया दीक्षणीया॥२॥

रोहिणी बभ्रुर्वा पिङ्गलैकहायनी द्विहायनी वा सोमक्रयणी॥३॥

अग्निष्टोम उक्थ्यो ऽतिरात्रः॥४॥

रथंतरं वामदेव्यं बृहदिति पृष्ठानि॥५॥

सहस्त्रं दक्षिणा॥६॥

त्रीणि शतानि त्रयस्त्रिंशतं च प्रथमे ऽहनि ददाति। एवं द्वितीये तृतीये च॥७॥

साहस्त्रयतिरिच्यते रोहिण्युपध्वस्ता द्विरूपोभयत एन्यन्यतरतो वा॥८॥

यैव वरः कल्याणीत्युक्तम्॥९॥

उद्धृष्टिः प्रथमे ऽहनि मुख्यः॥१०॥

तमभिमन्त्रयते त्वमग्ने सहस्त्रमा नयोद् वलस्याभिनत्त्वचम्। स नः सहस्त्रमा नय प्रजया पशुभिः सह पुनर्मा विशताद्रयिरिति॥११॥

वेहद्वितीये॥१२॥

तामभिमन्त्रयते त्वमपामोषधीनां रसेन रसिनी बभूविथ। सा मा सहस्त्र आ भज प्रजया पशुभिः सह पुनर्मा विशताद्रयिरिति॥१३॥

वामनस्तृतीये॥१४॥

तमभिमन्त्रयते सहस्रस्य प्रतिष्ठासि वैष्णवो वामनस्त्वम्। स नः सहस्त्र आ धेहि प्रजया पशुभिः सह पुनर्मा विशताद्रयिरिति॥१५॥ तामुत्तरेणाग्नीध्रमित्युक्तम्॥१६॥

22.16

दक्षिणेन वा वेदिं नीत्वान्तरा यूपमाहवनीयं च द्रोणकलशमवघ्रापयेटा जिघ्र कलशमिति॥ आग्नीध्र हविर्धाने॥१॥ तामुदीचीमाग्नीधं नीत्वा तस्याः पृष्ठे तामेमध्यस्यति॥२॥

तस्मिन्धिष्णियानां रूपं विग्रथितं भवति॥३॥

अथ पुरस्तात्प्रतीच्यां तिष्ठन्त्यां जुहुयादुभा जिग्यथुरिति॥४॥

रूपाणि जुहोति यानि तस्यां भवन्ति॥५॥

आश्वमेधिकान्येके समामनन्ति॥६॥

प्रतीची सदसः रक्तिमानीय तस्या उपोत्थाय दक्षिणं कर्णमाजपेदिडे रन्त इति॥७॥

उत्सृज्य विज्ञानमुपैति॥८॥

यद्यपुरुषाभिवीता प्राचीयादरात्सीदयं यजमानः कल्याणं लोकमजैषीदिति विद्यात्। यदि दक्षिणा क्षिप्रे ऽस्माल्लोकात्प्रैष्यति। यदि प्रतीची बहुधान्यो भविष्यति। यादीची श्रेयानस्मिल्लोके भविष्यतीति॥९॥

तां यजमानो ऽभिमन्त्रयते सा मा सुवर्ग लोकं गमयेति॥१०॥

यास्तिस्त्रस्तिस्त्रस्त्रिंशत्यधि तास्वेनामुपसमाहृत्य तामग्नीधे ब्रह्मणे होत्र उद्गात्र उन्नेत्रे ऽध्वर्य वा दद्यात्॥११॥

द्वौ वोनेतारौ वृत्वा यतरो नाश्रावयेत्तस्मै वा॥१२॥

द्विभागं वा ब्रह्मणे तृतीयमग्नीधे॥१३॥

सर्वेभ्यो वा सदस्येभ्यः॥१४॥

उदाकृत्या वा सा वशं चरेत्। यस्तामविद्वान्प्रतिगृह्णातीत्युक्तम्॥१५॥

तां शतमानेन हिरण्येन निष्क्रीय यजमानस्य गोष्ठे विसृजति॥१६॥

22.17

दश प्रथमे ऽहन्नाशिरं दुहन्ति। विंशतिं द्वितीये। त्रिंशतं तृतीये॥१॥

कृतान्नं प्रथमे ऽहनि देयम्। हिरण्यं गौर्वास इति द्वितीये। अनो रथो ऽश्वो हस्ती पुरुष इति तृतीये॥२॥

न साहस्त्रे ऽधि किंचिद्द्यात्॥३। दद्यादित्येक॥४॥

यदि दद्यादनूबन्ध्यावपायां हुतायाम्॥५॥ दक्षिणां नयन्नान्यूना दशतो नयेत्॥६॥

यस्मा एकां गां दास्यस्याद्दशभ्यस्तेभ्यो दशतमुपाकुर्यात् यस्मै द्वे पञ्चभ्यः। यस्मै पञ्च द्वाभ्याम्॥७॥ एवमा शतादा वा सहस्रात्॥८॥

उत्तमां दक्षिणां नीत्वोदवसाय वा शबली॥९॥ समुद्रो ऽसि विश्वव्यचा ब्रह्मा देवानां प्रथमजा ऋतस्य। अन्नमसि शुक्रमसि ज्योतिरस्यमृतमसि। तां त्वा विद्म शबलि दीद्यानाम्। तस्यास्ते पृथिवी पादो ऽन्तरिक्षं पादो द्यौः पादः समुद्रः पादः। एषासि शबलि तां त्वा विद्म सा न इषमूर्जं धुत्व वसोर्धारां शबलि प्रजानां शविष्ठा व्रजमनुगेषं स्वाहेति शबलीहोमं जुहोति॥१०॥

22.18

अश्वमेधस्याग्निष्टोम उक्थ्यो ऽतिरात्रः॥१॥

रथंतरं महानाम्नी बृहदिति पृष्ठानि॥२॥

राजा यजेत यः कामयेत सर्वमिदं भवेयमिति॥३॥

वैदत्रिरात्रेण स्वाराज्यकामः॥४॥

त्रयस्त्रिवृतो ऽतिरात्राः षोडशिमन्तः॥५॥

रथंतरं वामदेव्यं बृहदिति पृष्ठानि॥६॥

गर्गत्रिरात्रेणोत्तरेषां त्रयाणामहानि पृष्ठानीति व्याख्यातानि॥७॥

छन्दोमपवमानेन पशुकामः॥८॥

अन्तर्वसुना पशूनाप्नोति॥९॥

पराकेण स्वर्गकामः॥१०॥

चत्वारश्चतूरात्राः॥११॥

अत्रेः प्रथमश्चतुर्वीरः॥१२॥

चत्वारो ऽस्य वीराः कुल आजायन्ते सुहोतेत्युक्तम्॥१३॥

अग्निष्टोम उक्थ्यावतिरात्रो ऽवेरेव चत्वारश्चतुष्टोमाः॥१४॥

अत्रिं श्रद्धादेवमित्युक्तम्॥१५॥

जामदग्नयेन पुष्टिकामः॥१६॥

पुरोडाशिन्य उपसदो भवन्ति॥१७॥

आग्नेय एककपाल सावित्रः पञ्चकपालो धात्रः षट्कपालो मारुतः सप्तकपालो बार्हस्पत्यो ऽष्टाकपालो मैत्रो नवकपालो वारुणो दशकपाल ऐन्द्र एकादशकपालो वैश्वदेवो द्वादशकपालः॥१८॥

दर्विहोमा भवन्ति॥१९॥

22.19

अग्ने वेर्होत्रं वेरध्वरमा पितरं वैश्वानरमवसे करिन्द्राय देवेभ्यो जुषतां हविः स्वाहा। देवावश्विना मधुकशयाद्यास्मिन्यज्ञे यजमानाय मिमिक्षतम्। देव विष्णवुर्वद्येमं यज्ञं यजमानायानुविक्रमस्व। देव सोम रेतोधा अद्यास्मिन्यज्ञे यजमानायैधि। देव सवितः सुषावित्रमद्यास्मिन्यज्ञे यजमानायैधि। देवा ग्रावाणो मधुमतीमद्यास्मिन्यज्ञे यजमानाय वाचं वदता देव्यदिते ऽन्वद्येमं यज्ञं यजमानायैधि। देव्यनुमते ऽन्वद्येमं यज्ञं यजमानाय मन्यस्व। दिव्या आपो नन्नम्यध्वमद्यास्मिन्यज्ञे यजमानाय। सदःसदः प्रजावानृभुर्जुषाणः। देवेन्द्रन्द्रियमद्यास्मिन्यज्ञे यजमानायैधि। देव त्वष्टः सुरेतोधा अद्यास्मिन्यज्ञे यजमानायैधीति प्रतिनिगद्य होमाः॥१॥

इन्द्राय देवेभ्यो जुषतां हविः स्वाहेति सर्वत्रानुषजति॥२॥

22.20

वसिष्ठस्य संसर्पः। यः पुण्यो हीन इव स्यात्स एतेन॥१॥

विश्वामित्रस्य संजयः। भ्रातृव्यवान्यजेत॥२॥

पञ्च पञ्चाहाः॥३॥

संवत्सरो वा इदमेक आसीदित्युक्तम्॥४॥

अभ्यासङ्गयो द्वितीयः॥५॥

यं कामं कामयते तमभ्यश्नुते॥६॥

अग्निष्टोमस्त्रय उक्थ्या अतिरात्रः॥७॥

त्रिवृती द्वे सवने पञ्चदशमेकम्। पञ्चदशे द्वे सप्तदशमेकम्। सप्तदशे द्वे एकविंशमेकम् एकविंशे द्वे त्रिणवमेकम्। त्रिणवे द्वे त्रयस्त्रिंशमेकम्॥८॥

पञ्चशारदीयेन बहोर्भूयान्भवति॥९॥

अनुसंवत्सरं पशुबन्धेन यजते॥१०॥

सप्तदश पृश्नीनुक्ष्णः पञ्चवर्षानानयन्ति। सप्तदश पृश्नीवत्सतर्यस्त्रिवत्सा अप्रवीताः॥११॥

प्रोक्षितान्यर्यग्निकृतानुक्ष्ण उत्सृजन्ति। वत्सतरीरालभन्ते॥१२॥

वर्णाननुक्रमिष्यामः॥१३॥

राजीवा नवनीतपृश्नीररुणाः पिशङ्गीः सारङ्गीरुत्तमीरालभ्य दीक्षन्ते॥१४॥

त्रिवृदग्निष्टोम पञ्चदश उक्थ्यः सप्तदश उक्थ्यः पञ्चदश उक्थ्य सप्तदशो ऽतिरात्रः॥१५॥

एत उक्षाणः सवनीयाः॥१६॥

त्रींस्त्रीनन्वहमालभन्ते। पञ्चोत्तमे ऽहन्॥१७॥

ऐन्द्रमारुता उक्षाणः। मारुत्यो वत्सतर्यः॥१८॥

यद्युक्ष्णो रुद्रो ऽभिमन्येत॥१९॥

22.21

अग्नये रुद्रवते पुरोडाशमष्टाकपालं निवपेत्॥१॥

अपोनप्तीयं चरुं यद्यप्सु पतेत्॥२॥

नैर्ऋतं चरुं यद्यवसीदेत्॥३॥

भौमं चरुमेककपालं वा यद्यवसन्नः संशीर्णो वा॥४॥

बार्हस्पत्यं चरुं यदि श्लोणः कूटो वा॥५॥

यदि नश्येद्वायव्यं चरुम्॥६॥

यदि सेनाभीत्वरी विन्देतेन्द्राय जयत एकादशकपालम्॥७॥

यदि प्रासहा नयेयुरिन्द्राय प्रसह्वन एकादशकपालम्॥८॥

यद्यन्धः स्यात्सौर्यं चरुमेककपालं वा॥९॥

यदि श्वभ्रं प्रपतेद्वैष्णवं चरुम्॥१०॥

यद्यविज्ञातेन यक्ष्मणा म्रियेत प्राजापत्यं चरुं द्वादशकपालं वा॥११॥

चतुर्थो ऽन्तर्महाव्रतः॥१२॥

भ्रातृव्यवान्यजेत॥१३॥

त्रिवृदग्निष्टोमः पञ्चदश उक्थ्यो महाव्रतं सप्तदश उक्थ्य एकविंशो ऽतिरात्रः॥१४॥

पुरुषमेधः पञ्चमः॥१५॥

पञ्चशारदीयवदहानि॥१६॥

अयुतं प्रथमे ऽहनि ददाति। नियुतं द्वितीये। अर्बुदं न्यर्बुदं च तृतीये। यथा प्रथमयोरेवमुत्तरयोः॥१७॥

22.22

चत्वारः षडहाः॥१॥

साध्यानां प्रथमः॥२॥

साध्या वै देवाः सुवर्गकामा इत्युक्तम्॥३॥

ऋतूनां द्वितीयेन प्रजाकामः॥४॥

तृतीयेनोपरिष्टात्त्रिकद्रुकण यं कामं कामयते तमभ्यश्नुते॥६॥

त्रिवृदग्निष्टोमः पञ्चदश उक्थ्यः सप्तदश उक्थ्यो ज्योतिर्गौरायुरतिरात्रः॥७॥

चतुर्थेन प्रैव जायते प्रजया पशुभिः॥८॥

अभ्यासङ्ग्यः पञ्चाहो विश्वजिदतिरात्रः॥९॥

अष्टौ सप्तरात्राः॥१०॥

कौसुरुबिन्देन पशुकामः॥११॥

स व्याख्यातः॥१२॥

सप्तर्षीणां द्वितीयेन स्वर्गकामः॥१३॥

पृष्ठ्यः षडहो महाव्रतवानतिरात्रः॥१४॥

प्राजापत्येन प्रजाकामः॥१५॥

पृष्ठयः षडहः प्राजापत्यं महाव्रतमतिरात्रे॥१६॥

छन्दोमपवमानेन पशुकामः॥१७॥

पृष्ठ्यः षडहश्छन्दोमपवमानं महाव्रतमतिरात्रे॥१८॥

पृष्ठयावलम्बेनान्नाद्यकामः॥१९॥

पृष्ठ्यस्तोमः षडहो महाव्रतवानतिरात्रः॥२०॥

22.23

सत्त्रसंमितेनान्नाद्यकामः॥१॥

कौसुरुबिन्दवदहानि॥२॥

ऐन्द्रेणौजस्कामः॥३॥

ज्योतिर्गौरायुरथाभिजिद्विश्वजित्सर्वजित्सर्वस्तोमो ऽतिरात्रः॥४॥

जनकसप्तरात्रेण प्रजातिं भूमानं गच्छत्यभि स्वर्ग लोकं जयत्येषु लोकेष प्रतितिष्ठति॥५॥

चत्वारि त्रिवृन्त्यहान्यग्निष्टोममुखानि विश्वजिन्महाव्रतं ज्योतिष्टोमो वैश्वानरो ऽतिरात्रः॥६॥ .

अष्टरात्रेण ब्रह्मवर्चसकामः। स व्याख्यातः॥७॥

त्रयो नवरात्राः॥८॥

प्रथमेनायुष्कामः॥९॥

पृष्ठ्यः षडहो ज्योतिर्गौरायुरतिरात्रः॥१०॥

द्वितीयेन ब्रह्मवर्चसकामः॥११॥

त्रिवदग्निष्टोमः पञ्चदश उक्थ्यः सप्तदश उक्थ्यो ऽभ्यासङ्ग्यः पञ्चाहो विश्वजिदतिरात्रः॥१२॥

शललीपिशङ्गेनान्नाद्यकामः॥१३॥

ज्योतिर्गौरायुयोतिौरायुरायुौर्योतिरतिरात्रः॥१४॥

चत्वारो दशरात्राः॥१५॥

दशरात्राय दीक्षिष्यमाणो दशहोतारं मनसानुद्रुत्याहवनीये सग्रहं जुहु यात्॥१६॥

त्रिककुत्प्रथमः। त्रिककुत्प्रजानां समानानां च भवति॥१७॥

त्रिवृदग्निष्टोमः पञ्चदश उक्थ्यस्त्रिवृदग्निष्टोमः सप्तदशो ऽग्निष्टोन एकविंश उकथ्यः सप्तदशो ऽग्निष्टोमस्त्रिणवो ऽग्निष्टोमस्त्रयस्त्रिंश उकश्यनि णवो ऽग्निष्टोमो विश्वजित्सर्वपृष्ठो ऽतिरात्रः॥१८॥

22.24

देवपुराभिचर्यमाणः॥१॥

त्रिष्टोमो ऽग्निष्टोमो ज्योतिरुक्थ्यस्त्रिष्टोमो ऽग्निष्टोमो ऽभिजिदग्निष्टोमो गौरुक्थ्यो ऽभिजिदग्निष्टोमो विश्वजिदग्निष्टोम आयुरुक्थ्यो विश्वजिदग्निष्टोमः सर्वस्तोमो ऽतिरात्रः॥२॥

छन्दोमवता पुरुषं पशूनोजो वीर्यमाप्नोति॥३॥

अभ्यासङ्ग्यः षडहस्त्रयश्छन्दोमा अतिरात्रः॥४॥

अथैकेषाम्। अभ्यासङ्ग्यः पञ्चाहश्चत्वारश्छन्दोमा अतिरात्रः॥५॥

कौसुरुबिन्देन बहोर्भूयान्भवति॥६॥

त्रयस्त्रिवृतो ऽग्निष्टोमास्त्रयः पञ्चदशा उक्थ्यास्त्रयः सप्तदशा उक्थ्या एकविंशो ऽतिरात्रः॥७॥

पौण्डरीक एकादशरात्रो ऽयुतदक्षिणः॥८॥

अन्वहं सहस्राणि ददाति। अश्वसहस्रमुत्तमे ऽश्वशतं वा॥९॥

तेन सर्वामृद्धिमृध्नोति परमेष्ठितां गच्छत्यभि स्वर्ग लोकं जयत्येषु लोकेषु प्रतितिष्ठति॥१०॥

अभ्यासङ्ग्यः षडहश्चतुष्टोमो ऽग्निष्टोमस्त्रयश्छन्दोमा अतिरात्रः॥११॥

अथैकेषाम्॥ अभ्यासङ्ग्यः पञ्चाहश्चत्वारश्छन्दोमा महाव्रतं विश्वजित्सर्प yot sfars:118711