ONE-DAY-SOMA-SACRIFICES: EKĀHA-S
22.01
एकाहेष्वहीनेष्विति प्राकृतीदक्षिणा ददाति। यथासमाम्नातं वा॥१॥
सर्वक्रतूमा प्रकृतिरग्निष्टोमः। निकायिनां तु प्रथमः सर्वत्र। यथादिष्टं
ज्योतिर्गौरायुरिति त्रिकद्रुकाः॥३॥
प्रथमो ऽग्निष्टोम उक्थ्या वा सर्वे।४॥
ज्योतिषि सहस्रं ददातीति श्यैतनियमाबृहत्पृष्ठः॥५॥ गौतृव्यवतः। आयुः स्वर्गकामस्य। अग्निष्टोमस्तु भ्रातृव्यवतः। विश्वजि दग्निष्टोमः श्रेष्ठ्यकामस्य॥६॥
सहस्रं दक्षिणा सर्ववेदसं वा यावतीर्वा क्रतोः स्तोत्रीयाः॥७॥
सर्ववेदसे ज्येष्ठ पुत्रमपभज्य संविदो विपरियाचेत॥८॥
यक्षिणाकाले सर्वस्वं तद्दद्याद्यदन्यद्भूमेः पुरुषेभ्यश्च॥९॥
उत्तमां दक्षिणां नीत्वोदवसाय वा दक्षिणेनौदुम्बरी प्रानिषद्य ब्रूयाद्यन्मे ऽद ऋणं यददस्तत्सर्वं ददामीति॥१०॥
उदवसाय रोहिणी वत्सच्छवीमिति समानम्॥११॥
इन्द्रस्याभिजिदग्निष्टोमो ऽनभिजितस्याभिजित्यै॥१२॥
उभे बृहद्रथंतरे भवतः परोऽक्षपृष्ठो वा॥१३॥
बृहत्तु होतुः पशवश्चैकादशैकयूपे॥१४॥
सहस्त्रं दक्षिणा वराणां वा द्वादशं शतम्॥१५॥
सर्वजिताग्निप्टोमेन सर्वमाप्नोति सर्वं जयति॥१६॥
XXII.2
अन्नादश्च भवति॥१॥
तस्य महाव्रतं पृष्ठयमयं शस्यते॥२॥
सहस्रं दक्षिणा विंशतिर्वाष्टाविंशतीनाम्॥३॥
चत्वारः साहस्त्राः।।४॥
ज्योतिरग्निष्टोमो रथंतरसामा प्रथमः। प्राणेष्वन्नाद्ये च प्रतितिष्ठति। गौरु क्थ्यो बृहत्सामा द्वितीयः। पशुषु प्रतितिष्ठति। सर्वज्योतिरग्निष्टोम उभयसामा तृतीयः। सर्वमाप्नोति सर्वं जयति॥ त्रिरात्रसंमितो ऽग्निष्टोमो बृहत्सामा चतुर्थः। त्रिरात्रस्य फलमाप्नोति॥५॥
चत्वारः साद्यस्काः ॥६॥
तेषां विशेषः॥७॥
रथंतरसामा बृहत्सामोभयसामा वा प्रथमः॥८॥
तस्मिन्कामाः स्पर्धायां भ्रातृव्यतिस्तीर्णा स्वर्गः पशवो वा॥९॥
तेषां पूर्वेधुराग्नेयः सौम्यो बार्हस्पत्यश्च पशवः॥१०॥
तेषामेकादशियां रूपाणि॥११॥
तदलाभ एतासां देवतानामष्टाकपालः प्रथमश्चरू चेतरौ॥१२॥
धारयत्याहवनीयम्॥१३॥
व्याघारयत्युत्तरवेदिम्॥१४॥
सर्पिष्मदशनम्॥१५॥
हिरण्यं मुखे न्यस्यान्तरोंरू प्रियायै भार्यायै ब्रह्मचारी शेते श्व इष्टया पशुना वा यक्ष्य इति॥१६॥
ऋत्विजः समोढाः॥१७॥
तान्यथालोकं विनिधाय सर्वा दिशः सक्षीरदूतयो ऽश्वरथाः सोमप्रवाका विधावन्ति॥१८॥
तेभ्यो यन्नवीनतमुदियात्तदाज्ये ऽवनयेत्॥१९॥
चतर्यजा योजने प्राच्यां दिशि। त्रियुजोत्तरतस्त्रिक्रोशे। द्वियुजा पश्चा द्विक्रोशे। दक्षिणैकयुक्तेन क्रोशे॥२०॥
अश्वतरीरथो वैकः॥२१॥
योजनादीनि वा विक्रोशानि॥२३॥
22.03
उदित आदित्ये दीक्षिते प्रागस्तमयादवभृथः॥१॥
उपसत्सु त्रिः संमीलेत्। संमील्य वा प्रचरेत्। अपि वा नापराह्निक्य उपसदः॥२॥
यवोर्वरा वेदिः॥३॥ यवानां खल उत्तरवेदिः॥४॥आरोहणे हविर्धाने॥५॥ विमितं सदः॥६॥ स्फ्यो यूपः स्फ्याग्रो वा खलेवाली लाङ्गलेषा वा॥७॥ कलापि चषालम्॥८॥
अग्नीषोमीयकाल ईजानस्य गृहाद्वसतीवरीगृह्णीयात्॥९॥
सवनीयकाले सह पशूनालभते ऽग्नीषोमीयं सवनीयमनूबन्ध्यां च॥१०॥
अग्नीपोमीयस्य स्थाने ऽग्नीपोमीय एकादशकपालः। अनूबन्ध्यास्थाने मैत्रावरुण्यामिक्षा॥११॥
तस्या दक्षिणाकाले सदश्वः श्वेतो दक्षिणा॥१२॥
तमाङ्गिरसाय भ्रातृव्याय वा दद्यात्॥१३॥
द्वेष्यं वा ब्राह्मणं वृत्वा तस्मा अश्वं रुक्मप्रतिमुक्तं दद्यात्॥१४॥
तदलाभे गौः श्वेतः॥१५॥
संवत्सरमुपरिष्टात्पादावनेजनं मांसं स्त्रियमन्तमुपरिशय्यामाञ्जनाभ्यञ्जने च वर्जयेत्॥१६॥
सा दीक्षा॥१७॥
यदि संवत्सरं न शक्नुयाद्वादशाहम्॥१८॥
22.04
एतेनोत्तरे व्याख्याताः॥१॥
द्वितीयस्य पञ्चदशमग्निष्टोमसाम कृत्वामयाविनमनद्याकामं प्रजाकामं पशुकामं वा याजयेत्।२॥
हीनानुजावरो ऽनुक्रिया॥३॥
तस्याष्टादशावुत्तरौ पवमानौ॥४॥
अश्वसादः सोमप्रवाको दधिदृतिश्च त्रिक्रोशे ऽन्ततः प्राह।।५॥
स्त्रीगौः सोमक्रयणी॥६॥
प्रक्ष्णुताग्रो यूपः॥७॥
व्रीयुर्वरा वेदिः॥८॥ वीहीणां खल उत्तरवेदिः॥९॥
भारद्वाजो होता॥१०॥
विश्वजिच्छिल्पश्चतुर्थः सर्वपृष्ठः सर्वस्तोमः सर्ववेदसदक्षिणः॥११॥
सर्वस्यान्नाद्यस्य प्रसवं गच्छति॥१२॥
श्येनेनाभिचरन्यजेत॥१३॥ रथौ हविर्धाने॥१४॥ तैल्वको बाधको वा स्फ्याग्रो यूपः॥१५॥शवनभ्ये अधिषवणफलके भवतः॥१६॥ अग्नये रुद्रवते लोहितः पशुः॥१७॥ सादयन्त्युपांश्वन्तर्यामौ॥१८॥शरमयं बर्हिः॥१९॥ औद्धवः प्रस्तरः॥२०॥ वैभीतक इध्मः॥२१॥ बाणवन्तः परिधयः॥२२॥ लोहितोष्णीषा लोहितवसना निवीता ऋत्विजः प्रचरन्ति॥२३॥ नवनव दक्षिणाः कूटाः कर्णाः काणाः खण्डा बण्डाः॥२४॥ ता दक्षिणाकाले कण्टकैर्वितुदेयुः॥२५॥
इच्छन्हन्येतेति रथंतरं पवमाने कुर्याबृहत्पृष्ठम्। जीयेतेत्येतद्विपरीतम्॥२६॥
परां परावतं गच्छन्न प्रतितिष्ठेदिति पूर्ववत्प्लवं च ब्रह्मसाम कुर्यात्॥२७॥
प्रजापतेरेकत्रिको ऽग्निष्टोमः सर्वस्य पाप्मनो निर्दिश्य गच्छति॥२८॥
चतुर्विंशतिं गा दक्षिणा ददाति॥२९॥
22.05
met arat: 71141:118 11
पूर्वावग्निष्टोमौ रथंतरसामानौ। सर्वस्तोमो ऽतिरात्र उत्तरः॥२॥
तस्मिन्सर्वा ऋचः सर्वाणि सामानि सर्वाणि यजूंषि प्रयुज्यन्ते॥३॥
व्रात्यानां प्रवासे व्रात्यस्तोमा उक्थ्या रथंतरसामानः। द्वितीयो वाग्निष्टोमः॥४॥
उष्णीषं प्रतोदो ज्याह्रोडो रथो विपथः फलकास्तीर्णो ऽश्वो ऽश्वतरश्च युग्यौ कष्णशं वासः कृष्णबलक्षे अजिने रजतो निष्कः॥५॥ तद्गृहपतेः॥६॥
वलूकान्तानि दामतूषाणीतरेषाम्॥७॥ द्वेद्वे दामनी भवतः। द्वेद्वे उपानहौ॥८॥ द्विषंहितान्यजिनानि॥९॥
त्रयस्त्रिंशतात्रयस्त्रिंशता गृहपतिमभि समायन्ति॥१०॥
ता दक्षिणा भवन्ति॥११॥
अपि वा षट्षष्टिं गा वन्वीरन्॥१२॥
अथो खल्वाहुर्यदेवैषां सातं स्यात्तद् दास्तद्धि व्रात्यधनमिति॥१३॥
षट्पोडशी निन्दितानाम्। द्विषोडशी कनिष्ठानाम्॥१४॥
आदित्यानां प्रयतिरुक्थ्यो नाकसदां प्रथमः॥१५॥
व्यावृत्तिं पाप्मना भ्रातृव्येण गच्छन्ति॥१६॥
अग्निष्टोमा इतरे अङ्गिरसां द्वितीयः। साध्यानां तृतीयः। मरुतां चतुर्थेनौजो वीर्यमाप्नोति। त्रयस्त्रिंशः पञ्चमः॥१७॥
स्वर्गकामो ऽभिभुवा भ्रातृव्यमभिभवति। विनुत्त्या भ्रातृव्यं विनुदते॥१८॥
22.06
चितिस्तोमः प्रजननकामः॥१॥
गायत्रेणाग्निष्टोमेन रथंतरसाम्ना ब्राह्मणो ब्रह्मवर्चसकामः॥२॥
गायत्रावग्निष्टोमौ प्रथमयज्ञौ॥३॥
प्रथमेन ब्राह्मणस्य तेजो ब्रह्मवर्चसम्। द्वितीयेन क्षत्रियस्य राष्ट्रमुग्रम व्यथ्यम्। न तु बहुपशू इव भवतः॥४॥
त्रिवृताग्निष्टुताग्निष्टोमेनापूतो यजेत॥५॥
आग्नेय्यः पुरोरुचः। आग्नेयी सुब्रह्मण्या॥६॥
आग्नेयीषु स्तुवते ऽजा हिरण्यं च दक्षिणा॥७॥
एतमेव चतुष्टोमं कृत्वा श्रोत्रियो ऽक्षहतः स्त्रीहतः कामहतश्चरणहतो वा यजेत॥८॥
अश्वः श्यावो दक्षिणा। स ब्रह्मणे देयः॥९॥
एतस्यैव वायव्यासु पञ्चदशमग्निष्टोमसाम कृत्वामयाविनमन्नाद्यकामं प्रजाकामं पशुकामं वा याजयेत्। एतस्यैव रेवतीषु वारवन्तीयमग्निष्टोमसाम कृत्वा ब्रह्मवर्चसकामम्। एतमेव चतुष्टोमं कृत्वा ग्रामकामम्॥१०॥
अप्रवर्या भवन्तीत्येके॥११॥
त्रिवृतान्नाद्यकामः॥१२॥ पञ्चदशेन वीर्यकामः॥१३॥ सप्तदशेनाग्निष्टुताग्निष्टोमेन यज्ञविभ्रष्टो यजेत यस्मिन्वा क्रतौ विभ्रंशेत॥१४॥
त्रिवृदवाद्यं वदतः॥१५॥ पञ्चदशो निहत्यस्य निरुक्तः॥१६॥ सप्तदशो ऽनाश्यान्नस्य भोजने॥१७॥ एकविंशो जनं यतो गन्धारिकलिङ्गमगधान्पारस्कारान्सौवीरान्वा॥१८॥ 15. The Agniṣṭut with nine-versed stoma is for one who has spoken improper things;
त्रिणव ओजस्कामः॥१९॥ त्रयस्त्रिंशः स्वर्गकामः। अपि वा ज्योतिष्टोम एव॥२०॥ अग्निष्टोमे सर्वान्कामान्कामयेत॥२१॥
22.07
चत्वारस्त्रिवृतो ऽग्निष्टोमा रथंतरसामानः॥१॥
तेषां प्रथमेनानिरुक्तेन ग्रामकामो यजेत॥२॥
अनिरुक्तं प्रातःसवनमित्येके॥३॥
अश्वः श्वेतो दक्षिणा। स ब्रह्मणे देयः॥४॥
बृहस्पतिसवो द्वितीयः॥५॥
ब्राह्मणो ब्रह्मवर्चसकामः पुरोधाकामो वा यजेत यं वा स्थापत्या याभिषिञ्चेयुः॥६॥ x
परिस्रजी होता भवत्यरुणो मिर्मिरस्त्रिशुक्रः॥७॥
बृहस्पते जुषस्व न इति बार्हस्पत्यमतिग्राह्यं गृह्णाति॥८॥
बार्हस्पत्यः पशुपालम्भ्यः॥९॥
प्रातःसवने सन्नेषु नाराशंसेष्वेकादश दक्षिणा व्यादिशति॥१०॥
आज्येन माध्यंदिने सवने कृष्णाजिन आसीनमभिषिञ्चति शुक्रामन्थिनोर्वा संस्रावेण बृहस्पते युवमिन्द्रश्च वस्वो दिव्यस्येशाथे उत पार्थिवस्य। धत्तं रयिं स्तुवते कीरये चियूयं पात स्वस्तिभिः सदा न इति॥११॥
अश्वद्वादशा माध्यदिने। एकादश तृतीयसवने॥१२॥
ता उभयीरपाकरोति॥१३॥
अपि वाष्टौ प्रातःसवन एकादश माध्यंदिने द्वादश तृतीयसवने। सर्वा वा माध्यंदिने॥१४॥
अश्वं तृतीयशो ऽनुसवनं नयन्ति॥१५॥
अपि वा मनसेतरयोः सवनयोायेत्। न वा मनसा चन॥१६॥
तृतीयस्येषू विष्टुतिं कृत्वाभिचरन्यजेत॥१७॥
समानमितरच्छ्ये नेन॥१८॥
अश्वः श्यावो दक्षिणा। स ब्रह्मणे देयः॥१९॥
चतुर्थः सर्वस्वारः शुनस्कर्णस्तोमः॥२०॥
मरणकामो यजेत यः कामयेतानामयता स्वर्ग लोकमियामिति॥२१॥
याम्यः पशुः शुकहरित उपालम्भ्यः॥२२॥
कृतान्नं दक्षिणा॥२३॥
आर्भवे स्तूयमाने दक्षिणेनौदुम्बरी पत्तोदशेनाहतेन वाससा दक्षिणशिराः प्रावृत्तः संविशन्नाह ब्राह्मणः समापयत मे यज्ञमिति॥२४॥
तदैव संतिष्ठते॥२५॥
भुवोक्थ्येन रथंतरसाम्ना भूतिकामो यजेत॥२६॥
धेनुर्दक्षिणा॥२७॥
22.08
अक्षय्यं ह वै चातुर्मास्ययाजिनः सुकृतं भवति॥१॥
वैश्वदेवस्य लोके त्रिवृदग्निष्टोमः॥२॥
वैश्वदेवः पशुः। बार्हस्पत्यानूबन्ध्या॥३॥
प्रातःसवनीयान्वैश्वदेवहवींष्यनुनिर्वपति॥४॥
समानं तु स्विष्टकृदिडम्॥५॥
न यूपं मिन्वन्ति। नोत्तरवेदिमुपवपन्ति॥६॥
परिधौ पशुं नियुञ्जन्ति। उल्मुके बर्हिषि वा॥७॥
मिन्वन्त्युत्तरेषु यूपान्। उत्तरवेदिमुपवपन्ति॥८॥
ततश्चतुर्षमासेषु वरुणप्रघासानां लोके ऽग्निष्टोम उक्थ्यः । उक्थ्यावग्निष्टोमौ वा॥९॥
मारुतः पशुः। वारुणो द्वितीये। मैत्रावरुण्यनूबन्ध्या॥१०॥
वैश्वदेववद्वरुणप्रघासिकानि हवींषि॥११॥
मार्जालीये करम्भपात्रैश्चरन्ति॥१२॥
ततश्चतुर्षु मासेषु साकमेधानां लोके ऽग्निष्टोम उक्थ्यो ऽतिरात्रः॥१३॥
आग्नेयः पशुः। ऐन्द्राग्नो द्वितीये। ऐकादशिनास्तृतीये प्राजापत्यो वा। सौर्यनूबन्ध्या॥१४॥
आनीकवतः प्रथमे ऽहनि प्रातःसवनीयान्। सांतपनो माध्यंदिनीयान्॥१५॥
वसतीवरीषु परिहृतासु गृहमेधीयेन चरन्ति॥१६॥
उत्तरस्याह्न उपाकृते प्रातरनुवाके पूर्णदव्येण चरन्ति॥१७॥
क्रैडिनः प्रातःसवनीयान्। स्वातवसो माध्यंदिनीयान्। महाहविस्तार्तीय सवनिकान्॥१८॥
सन्नेषु नाराशंसेषु परिश्रिते मार्जालीये पितृयज्ञेन चरन्ति॥१९॥
त्रयम्बकैश्चरित्वा प्रत्येत्यादित्येन चरन्ति॥२०॥
22.09
ततश्चतुर्षु मासेषु शुनासीरीयस्य लोके ज्योतिरग्निष्टोमः॥१॥
वायव्यः पशुः। आश्विन्यनूबन्ध्या॥२॥
वैश्वदेववच्छनासीरीयहवींषि॥३॥
चातुर्मास्यवदन्तरालव्रतानि॥४॥
सर्वत्राहतं वसानो ऽवभृथादुदेति॥५॥
अन्वहं पञ्चाशत्पञ्चाशद्गा दक्षिणा ददाति। द्वादशं शतमुत्तमे॥६॥
यथर्तुजा वा यथास्वं चातुर्मास्येषु। वत्सांस्तृतीयसवने सह मातृभिः॥७॥
उपहव्येनाग्निष्टोमेनानिरुक्तेन ग्रामकामो यजेत॥८॥
निरुक्तं प्रातःसवनमित्येके॥९॥
अश्वः श्वेतो दक्षिणा। स ब्रह्मणे देयः॥१०॥
ऋतपेयेनाग्निष्टोमेन बृहत्साम्ना स्वर्गकामः॥११॥
षड् दीक्षा नव वा। षडुपसदः॥१२॥
घृतव्रतो भवति॥१३॥
यावत्प्रथममङ्गलिकाण्डं तावत्क्रीते सोमे व्रतम्॥१४॥
उत्तरेणोत्तरेण काण्डेन व्रतमुपैति॥१५॥
नक्तमाहवनीयमभ्यावृत्यास्ते। दिवादित्यम्॥१६॥
ऋतमुक्त्वा प्रसर्पन्ति। ऋतं वदन्तो भक्षयन्ति॥१७॥
औदम्बरश्चमसश्चतुःस्रक्तिः सोमस्य पूर्णः सगोत्राय प्रियाय ब्रह्मणे देयः॥१८॥
बहुहिरण्येनाग्निष्टोमेनानडुहो लोकमाजोति ज्योतिष्मतो लोकाञ्जयति॥१९॥
द्वादशमानं हिरण्यं दीक्षणीयायां ददाति। विस्तावत्प्रायणीयायाम्॥२०॥ एवमत ऊर्ध्वं द्विगुणाभ्यासेनातिथ्यायामुपसत्प्रयोगेष्वग्नीषोमीयस्य वपाया मग्नीषोमीये सवनीयस्य वपायां सवनीये प्रातःसवने॥२१॥
सन्नेषु नाराशंसेष्वनडुच्छतमधिकं ददाति॥२२॥
22.10
हिरण्यस्त्रजमुद्गात्रे षट्पुष्करां द्वादशपुष्करां वा यज्ञायज्ञीयस्य स्तोत्रे ऽवभृथष्टयामुदयनीयायामनूबन्ध्यायामुदवसानीयायां च॥१॥
त्रिवृताग्निष्टुताग्निष्टोमेन रथंतरसाम्ना ब्राह्मणो ब्रह्मवर्चसकामः॥२॥
पञ्चदशेनेन्द्रस्तुतेन्द्रस्तोमेनोक्थ्येन बृहत्साम्ना राजन्यो वीर्यकामः॥३॥
सप्तदशेनाग्निष्टुताग्निष्टोमेन कण्वरयंतरसाम्ना वैश्यः पशुकामः॥४॥
प्रतिधुषा प्रातःसवन इत्युक्तम्॥५॥
तीव्रसुतोक्थ्येन रथंतरसाम्ना बृहत्साम्नोभयसाम्ना वामयाविनमनाद्यकामं प्रजाकामं पशुकामं श्रिया वा प्रत्यवरूढं याजयेत्॥६॥
शतमाशिरे दुहन्ति॥७॥
ता दक्षिणा भवन्ति॥८॥
वैश्यसववच्छ्यणानि॥९॥
नीतमिश्रेण वा तृतीयसवने॥१०॥
अभि सोमानुन्नयन्ति॥११॥
अवजिघ्रन्त्यत्विजो न भक्षयन्ति॥१२॥
तानच्छावाकस्य स्तोत्रे भक्षयन्ति॥१३॥
ब्रह्मणि होत्रका उपहवमिच्छन्ते॥१४॥
उभावध्व! सर्वे चमसाध्वर्यवो ऽच्छावाकाय प्रतिगृणन्ति॥१५॥
प्राच्येकादशिनी संमीयते॥१६॥
यावद्यूपं वेदिमुद्धन्ति॥१७॥
वडवा श्वेता गर्भिणी दक्षिणा॥१८॥
मरुत्स्तोमेन राजपुरोहितौ सायुज्यम्॥१९॥
अथैष राड्। यो राज्यमाशंसमानो न लभेत स एतेन॥२०॥
विराजान्नाद्यकामः॥ स्वराजा प्रतिष्ठाकामः॥२१॥
22.11
बह प्रतिगृह्य यो गरगीरिव मन्येत स पुनस्तोमेन। अनाश्यान्नस्य वा भुक्त्वा ॥१॥
अयाज्यं वा याजयित्वेत्येके॥२॥
यो लघुरिवाप्रतिष्ठितः स्यात्स एतेन ॥३॥
एकविंशेनोपच्छदेन प्रजाकामः॥४॥
स्तोत्रेस्तोत्र एकैका स्तोत्रीयोपजायते॥५॥
गन्धर्वाप्सरसो मादयन्तामिति प्रातःसवने॥६॥ सन्नेषु नाराशंसेष्वधस्तात्पूतभृतोऽशुमुपास्यति॥७॥
गन्धर्वा देवा मादयन्तामिति माध्यंदिने। गन्धर्वाः पितरो मादयन्तामिति तृतीयसवने॥८॥
छदेन भ्रातृव्यवान्॥९॥
स्तोत्रेस्तोत्र एकैका स्तोत्रीयापध्वंसते॥१०॥
तामस्यापध्वंसमानो भातृव्यो ऽन्वपध्वंसत इति विज्ञायते॥११॥
सर्वतोमुखेन यः कामयेत सर्वमिदं भवेयमिति॥१२॥
मध्ये गार्हपत्यः। प्रतिदिशं सौमिका विहाराः। त्रिवृत्प्राच्यां दिशि। पञ्चदशो दक्षिणतः। सप्तदशः पश्चात्। एकविंश उत्तरतः॥१३॥
राशिमरायू चतुष्टोमावन्नाद्यकामस्य॥१४॥
धान्यराशिं पूर्वस्मिन्ददाति। धान्यमरायुमुत्तरे॥१५॥
गोतमचतुष्टोमाभ्यां पशुकामः॥१६॥
उक्थ्यः षोडशिमानुत्तरः॥१७॥
नपुंसकपशू इव भवतः॥१८॥
उद्भिबलभिभ्यां पशुकामः॥१९॥
उद्भिदेष्ट्वा संवत्सरे वलभिदा यजेत॥२०॥
आग्नेयेनाष्टाकपालेनान्तरालं प्रतिपद्यते॥२१॥
उभयत्र गायत्रीः संपूर्णा दक्षिणा ददाति॥२२॥
22.12
अष्टावष्टौ॥१॥
अपचितिकामो ऽपचितिभ्याम्॥२॥
उभयसामानौ भवतः॥३॥
तयोरश्वरथश्चतुर्युग्दक्षिणा४॥
सर्वे शतक्रियो ऽश्वाः॥५॥
स रुक्मी प्रावेपी सर्वाभरण्यंशुमान्॥६॥
तस्य वैयाघ्रः परिवारो द्वैपो धन्वधिरार्थः कवचः॥७॥
अध्यास्थाता संनद्धः संनद्धसारथिरावृतः प्रतिहिताभ्याम्॥८॥
निष्की स्त्रग्वी संग्रहीता भवतीति विज्ञायते॥९॥
पक्षिभ्यां साग्निचित्याभ्यां यः कामयेत पक्षी ज्योतिष्मतः स्वर्गाल्लोकाननुचरेयमिति॥१०॥
ऋषभेणाग्निष्टोमेन रथंतरसाम्ना राजानं
संग्रामे संयत्ते याजयेत्॥११॥
यत्तत्र विन्देरंस्ततो द्वादशशतं दक्षिणा॥१२॥
व्योम्ना स्वर्गकामः॥१३॥
उभे बृहद्रथंतरे भवतः॥१४॥
सर्वः सप्तदशो भवति॥१५॥
एकविंशमग्निष्टोमसाम॥१६॥
गोसवेन षट्त्रिंशेनोक्थ्येन रथतंरसाम्ना बृहत्साम्नोभयसाम्ना वा स्वाराज्य कामः॥१७॥
कण्वरथंतरं पवमाने॥१८॥
अयुतं दक्षिणा॥१९॥
दक्षिणेनाहवनीयमनुद्धते वेद्यै बृहतः स्तोत्रं प्रत्यभिषिच्यते प्रतिधुषा रेवज्जातः सहसा वृद्धः क्षत्राणां क्षत्रभृत्तमो वयोधाः। महान्महित्वे तस्तभानः क्षत्रे राष्ट्र च जागृहि। प्रजापतेस्त्वा परमेष्ठिनः स्वाराज्येनाभिषिञ्चामीति॥२०॥
22.13
तेनेष्ट्वा संवत्सरं पशुव्रतो भवति॥१॥
उपावहायोदकं पिबेत्तृणानि चाच्छिन्द्यात्। उप मातरमियादुप स्वसारमुप सगोत्राम्॥२॥
यत्रयत्रैनं विष्ठा विन्देत्तद्वितिष्ठेत॥३॥
मरुतां स्तोमेनानन्तां श्रियं जयति॥४॥
एतेन द्वौ त्रीन्वा याजयेत्॥५॥
अग्नेः कुलायावन्नाद्यकामस्य॥६॥
इन्द्राग्नियोः कुलायौ स्वर्गकामस्य॥७॥
इन्द्रस्तुतेन्द्रस्तोमेनोक्थ्येन बृहत्साम्ना राजन्यो वीर्यकामः॥८॥
ऋषभो दक्षिणा॥९॥
इन्द्राग्नियोः स्तोमेन राजपुरोहितावुभावेकर्द्धि याजयेत्॥१०॥
तेजो ब्रह्मवर्चसं ब्राह्मणस्य। विशं राजा प्रविशति॥११॥
विघनेन वि पाप्मानं भ्रातृव्यं हते। तेन सर्वा मृधो विहते॥१२॥
वज्रेण षोडशिनाभिचरन्। संदंशेनाभिचरन्॥१३॥
तयोः श्येनेन कल्पो व्याख्यातः॥१४॥
त्रयोदशातिरात्राः॥१५॥
ज्योतिषद्धिकामः॥१६॥
सर्वस्तोमेन बुभूषन्॥१७॥
ऐकादशिनाः पशवः॥१८॥
यस्मात्पशवः प्र प्रेव भ्रंशेरन्नप्तोर्यामेण। सर्वमाप्नोति सर्वं जयति॥१९॥
नवसप्तदशेन प्रजाकामः॥२०॥
विषुवता ज्यैष्ठिनेयः। ज्यैष्ठ्यमाप्नोति॥२१॥
गोष्टोमेन बुभूषन्॥२२॥
आयुषा स्वर्गकामः॥२३॥
अभिजिता पशुकामः॥२४॥
विश्वजिता भ्रातृव्यवान्॥२५॥
त्रिवृतान्नाद्यकामः॥२६॥ पञ्चदशेन वीर्यकामः॥२७॥ सप्तदशेन प्रजाकामः॥२८॥ एकविंशेन प्रतिष्ठाकामः॥२९॥