GAVĀMAYANA (-YEAR-LONG-SACRIFICIAL-SESSION)
21.15
गवामयनेन प्रजां भूतिं भूमानं गच्छन्त्यभि स्वर्ग लोकं जयन्त्येषु लोकेषु प्रतितिष्ठन्ति॥१॥
तस्य द्वादशाहेन सत्तभूतेन कल्पो व्याख्यातः॥२॥
सप्तदशैके दीक्षाः समामनन्ति॥३॥
संवत्सराय दीक्षिष्यमाणा एकाष्टकायां दीक्षेरन्नित्युक्तम्॥४॥
चतुरहे पुरस्तात्पौर्णमास्यै दीक्षेरन्॥५॥
माध्या इत्याश्मरथ्यः॥ चैत्र्या इत्यालेखनः॥६॥
समानमा प्रायणीयात्॥७॥
प्रायणीयमतिरात्रमुपेत्य चतुर्विंशमुक्थ्यमारम्भणीयमुपयन्ति॥८॥
ते द्वे शये अहनी भवतः॥९॥
अथाभिप्लवं षडहमुपयन्ति। ज्योतिषमग्निष्टोमं रथंतरसामानम्। गामुक्थ्यं बृहत्सामानम्। आयुषमुक्थ्यं रथंतरसामानम्। ज्योतिषमग्निष्टोमं बृहत्सामानम्॥१०॥
एवंविहितांश्चतुरो ऽभिप्लवानुपयन्ति। पृष्ठयं षडह समासः॥११॥
एवंविहितान्पञ्च मासानुपयन्ति॥१२॥
ततः संभार्यम्॥१३॥
त्रीनभिप्लवान्। पृष्ठ्यं षडहम्। अभिजितमग्निष्टोमम्। त्रीन्परःसाम्न उक्थ्या नग्निष्टोमान्वा। परे द्वे शये अहनी॥१४॥
इति षण्मासाः॥१५॥
ततो विषुवन्तमुपयन्त्येकविंशमग्निष्टोमं दिवाकीय॑सामानम्॥१६॥
तस्योदित आदित्ये प्रातरनुवाकमुपाकरोति॥१७॥
दिवाकीर्त्यमेतदहर्भवति॥१८॥
उत्तरे पक्ष आवृत्ता गणा अन्यत्र द्वादशाहीयाद्दशरात्रात्॥१९॥
ततस्त्रीनर्वाक्साम्न उक्थ्यानुपयन्ति। अग्निष्टोमान्वा॥२०॥ विश्वजितमग्निष्टोमम्॥२१॥ तानि चत्वारि शयान्यहानि॥२२॥
आवृत्तं पृष्ठ्यं षडहमुपेत्य चतुरो ऽभिप्लवानावृत्तान्स मासः॥२३॥
एवंविहितान्पञ्च मासानुपयन्ति॥२४॥
21.16
ततः संभार्यम्॥१॥
द्वावभिप्लवौ। गोआयुषी। द्वादशाहस्य दशाहानि। पराणि चत्वारि शयान्यहानि। महाव्रतमतिरात्रश्च॥२॥
इति द्वादश मासाः॥३॥
इति शाट्यायनकम्॥४॥
अथ ताण्डकम्॥५॥
उत्तरस्य पक्षस उपरिष्टाद्विश्वजित आवृत्तं पृष्ठ्यं षडहमुपेत्य त्रीनभिप्ल वानावृत्तान्॥६॥ तानि सह पूर्वैरष्टाविंशतिः शयान्यहानि॥७॥
आवृत्तं पृष्ठ्यं षडहमुपेत्य चतुरो ऽभिप्लावानावृत्तान्समासः॥८॥
एवंविहितांश्चतुरो मासानुपयन्ति॥९॥
ततः संभायौँ॥१०॥
त्रयो ऽभिप्लवा आयुगौंादशाहस्य दशाहानि॥११॥
पराण्यष्टाविंशतिः शयान्यहानि महाव्रतमतिरात्रश्च॥१२॥
इति द्वादश मासाः॥१३॥
इति ताण्डकम्॥१४॥
अथ भाल्लविकम्॥१५॥
पूर्वस्य पक्षसः पुरस्तादुत्तमात्पृष्ठ्यादभिजितमग्निष्टोमम्॥१६॥ उत्तरस्य पक्षस उपरिष्टात्प्रथमान्पृष्ठयाद्विधजितपग्निष्टोमम॥१७॥ समानमितरच्छाट्यायनकेन॥१८॥
अपि वा संवत्सरं संपाद्योत्तमे मासि द्वादशाहीये दशरात्रे सकृत्पृष्ठान्युपेयुः॥१९॥ तत्र पृष्ठ्यानां स्थाने ऽभिप्लवा निधीयेरन्॥२०॥ उपरिष्टाद्वादशाहीयाद्दशरात्रान्महाव्रतम्॥२१॥
21.17
ततो महाव्रतमुपयन्ति पञ्चविंशमग्निष्टोमम्॥१॥
अनु श्लोकेन स्तुवते॥२॥
नवभिरैन्द्रीभिरप्रतिहताभिरध्वर्युरुद्गायति। न वा॥३॥
भद्रं साम पत्नय उपगायन्ति॥४॥
तस्य प्रचरितं मरुत्वतीयैर्भवति॥५॥
अगृहीतो माहेन्द्रः॥६॥ अथ प्रतिप्रस्थाता महाव्रतिकानि शिल्पानि व्यायातयति॥७॥
औदुम्बरस्य वीणादण्डस्य दशातिमथितानि॥८॥
एकैकस्मिन्नतिमथिते दशदश मौञ्जास्तन्तून्प्रवयति॥९॥
स वाणः शततन्तुः॥१०॥
अथैकेषाम्।। भूस्त्रयस्त्रिंशत्तन्तव इति त्रयस्त्रिंशतमध्वर्युः प्रतनोति। भुवस्त्र यस्त्रिंशत्तन्तव इति त्रयस्त्रिंशतं होता। सुवस्त्रयस्त्रिंशत्तन्तव इति त्रयस्त्रिंश तमुद्गाता। गृहपतिरुत्तमम्॥११॥
औदुम्बरीमासन्दीमुद्गात्र उपनिदधाति मौलविवानामध्यधि होतदने॥१२॥
औदुम्बरं प्लेस हो। प्रबध्नाति मौञ्जया रचा।।१३।।
औदुम्बरे फलके अध्वर्यव उपनिदधाति॥ कूचौँ वा॥१४॥
कूर्चेषु होत्रका उपगातारः पत्नयः इत्यासते॥१५॥
निकल्पन्ते पत्नयो ऽपाघाटलिकास्तम्बलवीणाः पिच्छोला इति॥१६॥
निकल्पन्ते वीणावादाः शान्नालीस्तूणवानिति॥१७॥
निकल्पेते ब्रह्मचारी पुंशली चाग्रेण सदसो दक्षिणांद्वार्बाहुमार्तिष्यमाणौ॥१८॥
उत्तरस्यां वेदिश्रोण्यां पुंश्चल्यै मागधाय च परिश्रयन्ति॥१९॥
21.18
दिक्षु दुन्दुभीन्प्रबध्नन्ति। रक्तिषु वा महावेदेः॥१॥
अपरेणाग्नीधं भूमिदुन्दुभिमवटं खनन्ति। अर्धमन्तवेद्यधु बहिर्वेदि॥२॥
तमाईण चर्मणोत्तरलोम्नाभिवितत्य शङ्कभिः परिणिहत्यात्रैतत्पुच्छकाण्ड माहननार्थं निदधाति॥३॥
अग्रेणाग्नीधं शूद्रायौं निकल्पेते चर्मकर्ते व्यायंस्यमानौ॥४॥
उत्तरेणाग्नीधं कटसंघाते तेजनसंघाते वाई चर्म व्यधनार्थं वितत्योच्छ्र यन्ति।॥५॥
अग्रेणाहवनीयं रथेषु कवचिनः संनयन्ते॥६॥
मार्जालीयन्यन्ते ऽष्टौ दासकुमार्य उदकुम्भैनिकल्पन्त॥
वाग्भद्रं मनो भद्रं मानो भद्रं तन्नो भद्रमिति त्रिः पर्वयेत्॥८॥ कटशलाकयेक्षुकाण्डेन वेणुकाण्डेन वेतसकाण्डेन वा वाणं संहाद्य तेन माहेन्द्रस्य स्तोत्रमुपाकरोति॥९॥
उद्गाता वादयतीति विज्ञायते॥१०॥
तमुद्गाता प्रस्तोत्रे प्रयच्छति। तं सो ऽध्वर्यवे। तमध्वर्युरन्यस्मै॥११॥
तं सो ऽग्रेण सदसो दक्षिणां द्वाहिं प्रतिवादयन्नास्ते॥१२॥
21.19
उपाकृते माहेन्द्रस्य स्तोत्रे सर्वा वाचो वदन्ति॥१॥
उत्क्रोदं यजमानाः कुर्वते॥२॥
अपाघाटलिकास्तम्बलवीणाः पिच्छोला इति पलयो वादयन्ति॥३॥
संप्रवदन्ति वीणावादाः शङ्खान्नालीस्तूणवा इति॥४॥
ऋतीयेते ब्रह्मचारी पुंश्चली च दक्षिणां द्वार्बाहुमाश्लिष्यमाणौ॥५॥
संवर्तेते पुंश्चली मागधश्च॥६॥
आजिं धावन्ति।॥७॥
दुन्दुभीन्समाघ्नन्ति। पुच्छकाण्डेन भूमिदुन्दुभिम्॥८॥
शूद्रायौं चर्मकर्ते व्यायच्छेते आर्दै श्वेते परिमण्डले। अन्तर्वेदि ब्राह्मणो बहिर्वेदि शूद्रः॥९॥
आक्रोशति शूद्रः। प्रशंसति ब्राह्मणः॥१०॥
इमे ऽरात्सुरिमे सुभूतमक्रन्निति ब्राह्मणः। इम उद्वासीकारिण इमे दुर्भूतम क्रन्निति शूद्रः॥११॥
तं ब्राह्मणः संजित्याग्नीधे चर्माध्यस्यति॥१२॥
विपरियन्त्येतच्चर्म कवचिनः॥१३॥
तेषामेकैकं संशास्ति मापरात्सीर्मातिव्यात्सीरिति॥१४॥
तते विद्धवा नातिपातयन्ति॥१५॥
राजपुत्रा विध्यन्तीत्येकेषाम्॥१६॥
उदञ्चो ऽपरिमितमध्वानं यात्वा प्रत्यायं विमुञ्चन्ति॥१७॥
अत्रैता दासकुमार्य उदकुम्भानधिनिधाय त्रिः प्रदक्षिणं मार्जालीयं परि नृत्यन्ति दक्षिणान्पदो निजन्तीरिदमधुं गायन्त्यः॥१८॥
इदमेव सारघं मध्वयं सोमः सुतो इह। तस्येह पिब तातृपुQमहा इदं मध्विदं मध्वित्येव गायेयुरित्याश्मरथ्यः॥१९॥
अथालेखनः॥२०॥
21.20
हिल्लुकां द्वे गायेताम्। हिम्बिनी द्वे। हस्तावारां द्वे। संवत्सरगाथां द्वे॥१॥
वाग्वेद हिल्लुकां सैनां गायतु प्राणस्य वादिते। सेमान्गीता यजमा नानिहावतु। वाग्वेद हिम्बिनी सैनां गायतु प्राणस्य वादिते। सेमान्गीता यजमा नानिहावतु॥ वाग्वेद हस्तावारां सैनां गायतु प्राणस्य वादिते॥ सेमान्गीता यजमानानिहावत्विति॥२॥ ततः संवत्सरगाथा॥ गाव एव सुरभयो गावो गुल्गुलु गन्धयः। गावो घृतस्य मातरस्ता इह सन्तु भूयसीः॥ ननु गावो मङ्कीरस्य गङ्गाया 1282 उदकं पपः। पपः सरस्वती नदी प्राचीश्चोजगाहिरे॥ इमा वयं प्लवामहे शम्याः प्रतरतामिव॥ निकीर्य तुभ्यं मध्य आकर्ये कयो यथा॥ यदा भङ्ग्यश्विनौ वदत ऋतपर्णक योऽवधीः। आविष्कृतस्य दूषणमुभयोरकृतस्य च॥ यदा राखाट्यौ वदतो ग्राम्यमकीरदाशकौ। क्षेमे व्युद्धे ग्रामेणानड्वांस्तप्यते वहन्॥ इदं कल्माष्यो अपिबन्निदं सोमो असूयत॥ इदं हिरण्यैः खीला आवायन्साक्थिभञ्जनम्॥३॥
हैमहा इदं मधु हिल्सु हिल्ल्विति सर्वासामृगन्तेषु समयः।।४॥
अत्रैता दासकुमार्य उदकुम्भानुपनिनीय यथार्थं गच्छन्ति॥५॥
माहेन्द्रस्य स्तुतमनु घोषाः शाम्यन्ति॥६॥
अर्कः पवित्रं रजसो विमानः पुनाति देवानां भुवनानि विश्वा। द्यावापृथिवी पयसा संविदाने घृतं दुहाते अमृतं प्रपीने॥ पवित्रमर्को रजसो विमानः पुनाति देवानां भुवनानि विश्वा। सुवर्योतिर्यशो महदशीमहि गाधमुत प्रतिष्ठामिति फलके कूचौं वाधिरुह्याध्वर्युः शस्त्रं प्रतिगृणाति।७॥
संतिष्ठते महाव्रतम्॥८॥
21.21
व्याख्यात उदनीयः पृष्ठ्यशमनीयश्च॥१॥
अथ ग्रहक्लुप्तिः ॥२॥
त्रिषु परःसामसु त्रीनतिग्राह्यान्गृह्णाति॥३॥
उपयामगृहीतो ऽस्यद्भ्यस्त्वौषधीभ्यो जुष्टं गृह्णामीति प्रथमे ऽहनि गृह्णाति। ओषधीभ्यस्त्वा प्रजाभ्य इति द्वितीये। प्रजाभ्यस्त्वा प्रजापतय इति तृतीये॥४॥
एतानेवावृत्तानक्सामसु॥५॥
तानूर्वानावृत्तांश्च विषुवति॥६॥
तेषां मध्ये सौर्यमुद् त्यं जातवेदसमिति॥७॥
एतस्मिन्नेवाहनि वैश्वकर्मणमतिग्राह्याणामष्टमं गृह्णाति वाचस्पतिं विश्वक मणिमूतय इति॥८॥
श्वो भूत आदित्यं महीमू षु मातरमिति॥९॥
तावेवमेव व्यत्यासं गृह्णात्या महाव्रतात्॥१०॥
तौ सह महाव्रते। प्राजापत्यं च पञ्चपात्रम्॥११॥
त्रयस्त्रिंशतमेतदहरतिग्राह्यान्गृह्णाति।१२॥
दशाग्नेया दशैन्द्रा दश सौर्या वैश्वकर्मण आदित्यः पञ्चपात्र इति त्रय स्त्रिंशत्॥१३॥
अतिग्राह्यायतने चत्वार्यतिग्राह्यपात्राणि प्रतिदिशं निहितानि भवन्ति। मध्ये पञ्चमम॥१४॥
पूर्वार्धे गृह्णाति॥१५॥
इन्द्रमिद्गायिन इत्यनुत्योपयामगृहीतो ऽसीन्द्राय त्वार्कवते जुष्टं गृहामीति गहीत्वैप ते योनिरिन्द्राय त्वार्कवत इति सादयति॥१६॥
एवं सर्वत्र ग्रहणसादनौ संनमति॥१७॥
अभि त्वा शूर नोनुम इति दक्षिणार्धे॥१८॥
21.22
इमा नु कं भुवना सीषधेमेन्द्रश्च विश्वे च देवाः। यज्ञं च नस्तन्वं च प्रजां चादित्यैरिन्द्रः सह सीपधातु। आदित्यैरिन्द्रः सगणो मरुद्भिरस्मभ्यं भेषजा करदिति पश्चार्धे ॥१॥
त्वामिद्धि हवामह इत्युत्तरार्धे ॥२॥
तदिदास भुवनेषु ज्येष्ठं यतो जज्ञ उग्रस्त्वेषनृम्णः। सद्यो जज्ञानो नि रिणाति शत्रूननु यं विश्वे मदन्त्यूमा इति मध्यमे॥३॥
तानन्यस्मिन्पात्र आनीय सर्वान्मध्यमे गृह्णाति त्वे क्रतुमपि वृञ्जन्ति विश्व इति।४॥
अथैकेषाम्। यन्नाना जुहुयादात्मनो ऽङ्गानि विच्छिन्द्यात्। यत्समाहत्याहुतीः संरुन्ध्यात्तदनु यजमानाः संरुन्ध्येरन्। स्तोका एवात्मन्प्रत्यानीय होतव्याः। प्रत्यहाङ्गानि दधाति नाहुतीः संरुणद्धि न यज्ञं विच्छिनत्तीति विज्ञायते॥५॥
तं भक्षयति महस्ते भक्षयामि भर्ग ते भक्षयामि भुजं ते भक्षयाम्यन्नाद्यं ते भक्षयामीति॥६॥
त्र्यनीकां व्याख्यास्यामः॥७॥
ऐन्द्रवायवाग्रं प्रथममहरथ शुक्राग्रमथाग्रयणाग्रम्॥८॥
एवंविहिता त्र्यनीका परिवर्तत इत ऊर्ध्वा प्राग्विषुवतः॥९॥
ऊर्ध्वं विषुवत आवृत्तावृत्तेषु॥१०॥
शुक्राग्रो विषुवान्॥११॥
अथ पशुकॢप्तिः॥१२॥
आग्नेयं प्रायणीय आलभन्ते। श्वो भूते सारस्वती मेषीम्॥१३॥
एवंविहितानैकादशिनानन्वहमालभन्ते॥१४॥
21.23
सौर्य विषुवत्युपालम्भ्यम्॥१॥
तेषामेवमुपाकुर्वतां द्वादशाहीयस्य दशरात्रस्य सप्तदश उक्थ्ये द्वात्रिंशतमे कादशिन्यो ऽपवृज्यन्ते॥२॥
नवाहान्यतिरिच्यन्ते॥३॥
तेषु गव्यानतिरिक्तपशूनालभन्ते। वैष्णवं वामनमेकविंशे। ऐन्द्राग्नं त्रिणवे। वैश्वदेवं त्रयस्त्रिंशे। द्यावापृथिव्यां धेनुं प्रथमे छन्दोमे। तस्या एव वायव्यं वत्सं मध्यमे। आदित्यामविं वशामुत्तमे। मैत्रावरुणीमविवाक्ये। प्राजापत्यमृषभं महाव्रते। आग्नेयमुदयनीये॥४॥
इति पालिङ्गायनिकाः॥५॥
अथ काठकाः॥६॥
ऐकादशिनान्प्रतिविभज्याप्रतिविभज्य वा प्रायणीयोदनीयययोरालभन्ते।७॥
आग्नेयमन्तौ रथंतरपृष्ठेष्वैन्द्रं बृहत्पृष्ठेषु॥८॥
अपि वाग्नेन्द्रं रथंतरपृष्ठेष्वैन्द्राग्नं बृहत्पृष्ठेषु॥९॥
तेष्वेव नवसु गव्यान्॥१०॥
तत्र विकारः॥११॥
बार्हस्पत्यं शितिपृष्ठं त्रयस्त्रिंशे। वाचे पृश्निमुत्तमे। वैश्वकर्मणमृषभं तूपरं महाव्रते द्विरूपमुभयतएतम्॥१२॥
क्रतुपशूनेव समभ्युच्चयवदन्वहमालभेरन्यदि विभवः पशवः स्युः। ऐका दशिनान्वा विहतानिति वाजसनेयकम्॥१३॥
ऐन्द्राग्नं वा सर्वत्र॥१४॥
Utsargiṇām ayanam
21.24
उत्सर्गिणामयनं गवामयनं गुणविकृतम्॥१॥
उत्सृज्यां३ नोत्सृज्यामित्युक्तम्॥२॥
यद्यहान्युत्सृजेयुः प्रथमं पृष्ठ्यं संस्थाप्यापरस्मा अढे वसतीवरीः परिहृत्य वसतीवरीषु मृत्पिण्डमवधायैन्द्रं सांनाय्यं निरुप्योपवसन्ति॥३॥
श्वो भूते ऽहरुत्सृज्य प्राजापत्यं पशुमालभन्ते॥४॥
तस्य यथाकालं वपया प्रचर्याग्नये वसुमते पुरोडाशमष्टाकपालं निर्वपत्यैन्द्रं च दधि॥५॥
तयोः समानं स्विष्टकृदिडम्॥६॥
उपहूतायामिडायां सांनाय्यं समुपहूय भक्षयन्ति।७॥
माध्यंदिनकाले पशुपुरोडाशेन प्रचर्येन्द्राय मरुत्वते पुरोडाशमेकादशकपालं निर्वपत्यैन्द्रं च चरुम्॥८॥
हविराहुतिप्रभृतीडान्तं संस्थाप्य तृतीयसवनकाले पशुना प्रचर्य वैश्वदेवं द्वादशकपालं निर्वपति वैश्वदेवं च चरुम्॥९॥
पूर्ववद्धविषी संस्थापयेत्॥१०॥
अपि वा सवनीयानेव पुरोडाशानेतेषां हविषां स्थाने। अध्वरकल्पावा॥११॥
अग्नीदीपयजानङ्गारानाहरेत्येतदादि पाशुकं कर्म प्रतिपद्यते॥१२॥
21.25
एवमत ऊर्ध्वं षडहैर्मासान्संपाद्य सप्तममुत्सृज्यैतत्कुर्वन्ति॥१॥
पञ्च ज्योतींषि प्राग्विषुवत उत्सृज्यन्ते॥२॥
चत्वारस्त्रयस्त्रिंशा उपरिष्टादेकं च ज्योतिः संभार्ये॥३॥
प्रथमसप्तमयोरेव नोत्सृजेयुरित्येके॥४॥
अथैकेषाम्। यान्यहान्युत्सर्गप्राप्तान्येकत्रिकस्तोत्राण्येव स्युः॥५॥
एकैकां वैषां स्तोत्रीयामुत्सृजेयुः। उक्थानि वा॥६॥
संवत्सरस्योत्तमे ऽहन्नेकामेव स्तोत्रीयामुत्सृजेयुः। तदुत्सृष्टं चानुत्सृष्टं च भवतीति॥७॥
अथैकेपाम्। यदहरुत्सृजेयुस्तदेव श्वो भूत उपेयुः॥८॥
तदु तथा न कुर्यात्। विकस्तिः सा संवत्सरस्य भवतीति॥९॥
अवभृथादुदेत्य तान्येवोपेयुः।।१०॥
द्वादश यद्यमावास्यायामुत्सृजेयुः। यद्युभयत्र चतुर्विंशतिः॥११॥
तदेतत्पौत्रीयं पशव्यमायुष्यं स्वर्ग्यम्॥१२॥
संतिष्ठत उत्सर्गिणामयनमुत्सर्गिणामयनम्॥१३॥