28 Dvadaśāhaḥ

DVĀDAŚĀHA (TWELVE-DAY-SACRIFICE)

21.01

द्वादशाहेन प्रैव जायते ऽभि स्वर्ग लोकं जयत्येषु लोकेषु प्रतितिष्ठति॥१॥

साग्निचित्यो भवति॥२॥

सत्त्रमहीनश्च॥३॥

दीक्षितमदीक्षिता याजयेयुरहीने। एत एवत्विजो यजमानश्च सत्ते॥४॥

तस्मादद्वादशाहेन न याज्यं पाप्मनो व्यावृत्त्या इति विज्ञायते॥५॥

ऋध्नोति यो द्वादशाहेन यजते॥६॥

ऋध्नोति यः प्रतिगृह्णातीत्येके।७॥

ऋत्विजो यजमानं चाधिकृत्य वदति॥८॥

पीवा दीक्षते। कृशो यजतो यदस्याङ्गानां मीयते जुहोत्येव तदिति विज्ञायते॥९॥

यो ऽतपस्वी स्यादसंश्लिष्टो ऽस्य यज्ञः स्यात्। तपस्वी स्यात्। यज्ञमेव तत्सं श्लेषयत इति विज्ञायते॥१०॥

एको द्वादशाहेन यजेत। त्रयः षड् द्वादश त्रयोदश वा॥११॥

तेषामुपसत्सु त्रयोदशं दीक्षयन्ति॥१२॥

तस्मादद्वादशाहे त्रयोदशेन न ब्रह्मणा भवितव्यमित्येके॥१३॥

पञ्चदश दीक्षेरन्नर्धमासायतनाः। सप्तदश प्रजाकामाः पशुकामा वा। एक विंशति प्रतिष्ठाकामा रुक्कामा वा। त्रिंशतं मासायतनाः। त्रयस्त्रिंशतमोजस्कामा वीर्यकामा वा। चत्वारिंशतं यज्ञकामाः। चतुश्वत्वारिंशतमिन्द्रियकामाः। अष्टा चत्वारिंशतं पशुकामाः॥१४॥

अपरिमिता दीक्षेरन्नित्यन्ततो वदति॥१५॥

ये ऽन्ये सप्तदशभ्यो वादा अहीन एव ते स्थानिनः॥१६॥

सप्तदशानामेव याथाकामी॥१७॥

सर्वे याजमाने स्थानिनः॥१८॥

सर्वे याजमानं कुर्युर्यत्किंचाविज्येनाविबाधकम्॥१९॥

विबाधमान आर्विज्यं बलीयः।।२०॥

21.02

सर्व इष्टप्रथमयज्ञाः। अपि वा गृहपतिरेव॥१॥

गृहपतेरेव परार्थानि यथा यूपाञ्जनमृतुयाज्येति॥२॥

गहपतेरेव सामिधेनीकल्पेनावदानकल्पेनेति प्रक्रामेयुर्यानि चान्यान्येवंरू पाणि स्युः॥३॥

त्वं वरुण इति वसिष्ठराजन्यानां परिधानीया॥४॥

आजुहोतेतीतरेषां गोत्राणाम्॥५॥

नाराशंसो द्वितीयः प्रयाजो वसिष्ठशुनकानाम्॥६॥ तनूनपादितरेषां गोत्राणाम्॥७॥

शिशिरे दीक्षन्ते वसन्त उत्तिष्ठन्ति॥८॥

शिशिरे वा एतस्य प्रयाणं वसन्त उत्थानम्॥९॥ ऋघ्नोति य एवंविद्वाशिशिरे दीक्षते वसन्त उत्तिष्ठत इति विज्ञायते॥१०॥

षड् व्युष्टाश्चैत्रस्यापूर्यमाणपक्षस्याथ दीक्षेरन्॥११॥

सावित्राणि होष्यमाण निर्मथ्य संनिवपेरन्। ततो विनिवपेरन्॥१२॥

पञ्चपशुभिर्यक्ष्यमाणाः संनिवपेरन्। ततो विनिवपेरन्॥१३॥

दीक्षिष्यमाणाः संनिवपेरन्॥१४॥

तेषामेतत्संन्युप्ता एवाग्नयो भवन्त्योदवसानीयायाः॥१५॥

अध्वर्यदृहपतिं दीक्षयित्वा ब्रह्माणं दीक्षयति। तत उद्गातारम्। ततो होतारम्॥१६॥

ततस्तं प्रतिप्रस्थाता दीक्षयित्वार्धिनो दीक्षयति॥१७॥

ततस्तं नेष्टा दीक्षयित्वा तृतीयिनो दीक्षयति॥१८॥

ततस्तमुन्नेता दीक्षयित्वा पादिनो दीक्षयति॥१९॥

ततस्तं प्रतिप्रस्थाता दीक्षयति॥२०॥

21.03

अन्यो वा ब्राह्मणः॥१॥

दीक्षित आ तन्त्रीभावादेकैकमपवर्जयति॥२॥

एवमनुपूर्वा एवैषां याजमाना धर्मा ये केचाविभविनः॥३॥

नानागोत्रव्यवायादेव समानगोत्राणामायवरणमभ्यावर्तेतेत्येकम्। व्यवेते ऽपि तन्त्रमेवेत्यपरम्॥४॥

सद्यो दीक्षामेके समामनन्ति। अन्वहं दीक्षामेके५॥

व्यहे दीक्षेत व्यहे दीक्षेतेत्येवं क्रामत्या द्वादशाहात्॥६॥

उपदीक्षमाणे सर्व सदीक्षणीयमावर्तेतेत्याश्मरथ्यः॥७॥

अग्नीनपन्युप्यात्मसंस्कारेणैव प्रतिपद्येत तन्त्रमाहुतयः स्युरित्यालेखनः॥८॥

पत्नीनामेव स्थाने पत्नीर्दीक्षयन्ति॥९॥

तासां याजमानैरेव धर्मानुपूयं व्याख्यातम्॥१०॥

अध्वर्यु दीक्षिता अन्वारभन्ते। दीक्षितान्पत्नयः॥११॥

अथ समन्वारब्धेषु गार्हपत्ये जुहोत्यपैतु मृत्युरमृतं न आगन्वैवस्वतो नो अभयं कृणोतु॥ पर्णं वनस्पतेरिवाभि नः शीयतां रयिः। सचतां नः शचीपतिः स्वाहेति॥१२॥

ऋते पत्नीभ्य इतरयोः॥१३॥

21.04

परं मृत्यो अनु परेहि पन्थां यस्ते स्व इतरो देवयानात्। चक्षुष्मते प्रणवते ते ब्रवीमि मा नः प्रजां रीरिषो मोत वीरानिति दक्षिणाग्नौ॥१॥

इदमू नु श्रेयो ऽवसानमागन्म यद्गोजिद्धनजिद्यत्॥ पर्णं वनस्पतेरिवाभि नः शीयतां रयिः। सचतां नः शचीपतिः स्वाहेत्याहवनीये॥२॥

द्वादशाहं दीक्षिता भवन्ति॥३॥

न सनीहारान्ग्रहिण्वन्ति सत्त्रे॥४॥

प्रायणीयया प्रचर्य राजानं क्रीत्वोपनह्य निदधाति द्वादशाहायाप्तम्॥५॥

षोडशिवत्सोमक्रयणी॥६॥

उपसत्सु द्वादशाहे संभारयजूंषि व्याचष्टे॥७॥

यजमानं वाचयतीत्येके॥८॥

द्वादशोपसदः॥९॥

चतुरहंचतुरहमेकैकेनोपसन्मन्त्रेण जुहोति॥१०॥

अनूपसदमग्निं चिनोति॥११॥

द्व्यहंद्व्यहमेकैका चितिः॥१२॥

चतुरहमुत्तमा॥१३॥

चतुस्तनं त्रिस्तनं द्विस्तनमेकस्तनमिति व्यहंत्र्यहं व्रतानिय

य एषां व्रतमिच्छेदभिपूरयितुं दध्न एकं स्वमुन्नीय नापरमुन्नयेतो

एकविंशतिच्छदिः सदः॥१६॥

संतणे अधिषवणफलके भवतः॥१७॥

ऋजुरुपवसथः॥१८॥

21.05

श्वो भूते प्रतायते ज्योतिष्टोमः॥१॥ वैश्वानरः प्रायणीयो ऽतिरात्रः॥२॥

समानमा राज्ञ उपावहरणात्॥३॥

यावन्तमेकस्मा अह्न आप्तं मन्यते॥४॥ तमन्यस्मिन्वासस्युपनह्य प्रत्युपनोतरमुपावहरति॥५॥

एवमहरहस्तन्त्रमग्नेर्योगविमोकौ॥६॥

प्रथमे ऽहनि युनक्ति। उत्तमे विमुञ्चति॥७॥

अन्वहमेके योगविमोकौ समामनन्ति॥८॥

दक्षिणाकाले ऽन्वहं द्वादशानि शतानि ददात्यहीने॥९॥

सत्त्रे तु दाक्षिणौ होमौ हुत्वेदमहं मां कल्याण्यै कीत्यै स्वर्गाय लोकाय दक्षिणां नयामीति यजमानाः कृष्णाजिनानि धून्वन्त उदश्चो दक्षिणापथेना तियन्ति॥१०॥

एवमहरहः॥११॥

उत्तम एवाहनि सख्यानि विसृजन्ते॥१२॥

कृष्णविषाणाश्च प्रविध्यन्ति॥१३॥

पूर्वस्मिन्नेवाहन्युत्तरस्मा अढे वसतीवरीर्यज्ञायज्ञियं प्रति गृह्णाति॥१४॥

वर्तमान एवातिरात्र उत्तरस्मा अढे पयांसि विशास्ति॥१५॥

यत्र मैत्रावरुणस्याभिजानाति श्वःसुत्यामिन्द्राग्निभ्यां विश्वेभ्यो देवेभ्यो ब्राह्मणेभ्यः सोम्येभ्यः सोमपेभ्यः सोमं प्रब्रूतात्सुब्रह्मण्य सुब्रह्मण्यामाह्वयेति॥१६॥

21.06

तदाग्नीध्र आग्नीध्रागारं प्रविश्य संप्रेष्यति श्वःसुत्यामिन्द्राग्निभ्यां विश्वेभ्यो देवेभ्यो ब्राह्मणेभ्यः सोम्येभ्यः सोमपेभ्यः सोमं प्रब्रवीमि सुब्रह्मण्य सुब्रह्मण् यामाह्वयेति॥१॥

स वै खलु श्वःसुत्यामिति ब्रूयादित्याश्मरथ्यः। अद्यसुत्यामित्यालेखनः।।

तत ऊर्ध्वं श्वःसुत्यामित्येव ब्रूयात्॥३॥

पत्नीसंयाजान्तमहः संतिष्ठते॥४॥

संस्थितेऽहनि ब्रह्मा वाचं विसृजते॥५॥

परिहरन्ति पत्नीभ्य उदकम्॥६॥

यन्ति समिद्धाराः॥७॥

एत्याहवनीये ऽभ्यादधाति॥८॥

एवमहरहः॥९॥

तदानीमेव त्रिवृतमग्निष्टोमं रथंतरसामानमुपयन्ति॥१०॥ .

रथशब्देन माहेन्द्रस्य स्तोत्रमुपाकरोति॥११॥

शब्दो मन्त्रस्थाने भवति॥१२॥

श्वो भूते पञ्चदशमुक्थ्यं बृहत्सामानमुपयन्ति॥१३॥

दुन्दुभिशब्देन माहेन्द्रस्य स्तोत्रमुपाकरोति॥१४॥

यधु वै स्तनयितुः स्यात्स एव स्याच्छब्दो मन्त्रस्थाने॥१५॥

श्वोभूते सप्तदशमुक्थ्यं वैरूपसामानुपयन्ति॥१६॥

बर्हिःस्थान आधावेन माहेन्द्रस्य स्तोत्रमुपाकरोति॥१७॥

उपाकृतं सामाप्रस्तुतं भवति॥१८॥ अथोद्गाताधावेनाधूनुते॥१९॥

श्वोभूत एकविशं षोडशिनं वैराजसामानमुपयन्ति॥१॥

न्यूङ्ख्यमेतदहर्भवति॥२॥

बर्हिःस्थाने ऽरणीभ्यां माहेन्द्रस्य स्तोत्रमुपाकरोति॥३॥

उपाकृतं सामाप्रस्तुतं भवति॥४॥ अथोद्गातुर्दक्षिणमूरुमवकाभिः प्रच्छाद्य तस्मिन्नग्निं मन्थति॥५॥

तं जातमुद्गाताभिहिङ्कृत्य प्रस्तोत्रे प्रयच्छति॥ तं सो ऽव॑वे॥६॥

तमध्वर्युरुत्तरेण धिष्णियान्पर्याहृत्याहवनीये प्रहृत्य प्रेद्धो अग्ने दीदिहीति विराजाभिजुहोति।७॥

श्वोभूते त्रिणवमुक्थ्यं शाक्वरसामानमुपयन्ति॥८॥

बर्हिःस्थाने ऽद्भिरवकावास्ताभिर्माहेन्द्रस्य स्तोत्रमुपाकरोति॥१॥

उपाकृतं सामाप्रस्तुतं भवति॥१०॥ अथ तिस्रः सहर्षभा अग्रेण सदोऽपरेणाग्नीध्रमुदीचीनं दक्षिणापथेनाति यन्ति॥११॥

श्वोभूते त्रयस्त्रिंशमुक्थ्यं रैवतसामानमुपयन्ति॥१२॥

न्यूङ्ख्यमेतदहर्भवति॥१३॥

स्वयमध्वर्युर्ऋतुयाजं यजति। स्वयं गृहपतिः॥१४॥

अध्वर्य यजतं गृहपते यजेत्यभिज्ञायाध्वर्यहविर्धानं प्रविश्य प्रैषोत्तरयों यजति। ऋगुत्तरेण वा प्रेषेण॥१५॥

अश्विना पिबतं सुतं दीद्यग्नी शुचिव्रता। ऋतुना यज्ञवाहसा॥ ऋतुना सोमं पिबतं वौषडिति यद्यव्यूढः॥१६॥

व्यूढे त्वर्वाञ्चमद्य यय्यं नृवाहणं रथं युञ्जाथामिह वां विमोचनम्॥ पृङ्क्तं हवींषि मधुना हि कं गतमथा सोमं पिबतं वाजिनीवसू॥ ऋतुना सोमं पिबतं वौषडिति तस्य प्रचरितं मरुत्वतीयैर्भवति॥१७॥

21.08

अगृहीतो माहेन्द्रः॥१॥ अथ प्रतिप्रस्थातोत्तरेणाग्नीध्रमुदीची तन्तिं वितत्य तस्यां वत्सान्बध्नाति॥२॥ XXI.7.17b-XXI.8.

दक्षिणेन मार्जालीयं मातृरुपरुन्धन्ति॥३॥

बर्हिःस्थाने ऽद्भिर्दूर्वावास्ताभिर्माहेन्द्रस्य स्तोत्रमुपाकरोति।४॥

उपाकृतं सामाप्रस्तुतं भवति॥५॥ अथैतान्वत्सान्मातृभिः संसृज्य सांवाशिनं कुर्वन्ति॥६॥

ता अग्रेण सदो ऽपरेणाग्नीध्रमुदीचीनं दक्षिणापथेनातिविच्छयन्ति॥७॥

संतिष्ठते पृष्ठ्यः षडहः॥८॥

संस्थिते घृतं मधु वा प्राश्नन्ति॥९॥

यथोहुषो वह प्रत्यञ्जयात्तादृक्तदिति विज्ञायते॥१०॥

ततस्त्रीश्छन्दोमानुक्थ्यानन्वहम्पयन्ति। चतुर्विंशं चतुश्चत्वारिंशमष्टाचत्वा रिंशमिति॥११॥

रथंतरसामा प्रथमः। बृहद्रथंतरसामा द्वितीयः। बृहत्सामा तृतीयः॥१२॥

21.09

ततो दशममहरविवाक्यमुपयन्ति। चतुर्विंशमग्निष्टोमं रथंतरसामानम्॥१॥

नात्र कश्चन कस्मैचनोपहताय व्याहते॥२॥

ये बाह्या दृशीकवः स्युस्ते विब्रूयुः॥३॥

यदि तत्र न विन्देयुरन्तःसदसाद् व्युच्यम्॥४॥

यदि तत्र न विन्देयुर्गृहपतिना व्युच्यम्॥५॥

तद् व्युच्यमेवेत्यन्ततो वदति॥६॥

अनुष्टुभा व्याहेति विज्ञायते।७।।

अनुष्टुभमुक्वाथ तद् यूयात्।।८।। यस्मिन्नुपहतः स्यादनुष्टुभा वा एतत्संपादयनि।।१।।

द्वयीरेतदहः समिध आहरन्ति। नित्या आदम्यरीध॥१०॥

अभ्यादधति नित्याः॥११॥

उत्तरेणाहवनीयमौदुम्बरीरुपसादयन्ति॥१२॥

अथ समन्यारब्धेषु द्वाभ्यां गार्हपत्ये जुहोति। अमूर्या उप सूर्ये याभिवां सूर्यः सह। ता नो हिन्वन्त्वध्वरम्॥ इह रतिरिह रन्तिरिह रमतिरिह रमध्वमिह वो रमतिः स्वाहेति॥१३॥ उपमृजन्घरुणमित्येताभ्यामथाहवनीयं गत्वा॥१४॥

अतिच्छन्दसोपतिष्ठन्ते ऽयं सहस्त्रमानवो दृशः कवीनां मतिर्योतिर्विधर्मा। ब्रनः समीचीरुषसः समैर यत्। अरेपसः समोकसः सचेतसः सरेतसः स्वसरे मन्युमन्तश्चिदाकोरिति॥१५॥

21.10

ततः प्राजापत्याय मनोग्रहाय संप्रसर्पन्ति॥१॥

प्रसृप्तेषूपांशुपात्रेण गृह्णात्यनया त्वा पृथिव्या पात्रेण समुद्रं रसया प्रजापतये जुष्टं गृह्णामीति॥२॥

आकाशाद्गृह्णीयादित्येकम्। तार्तीयसवनिकस्य सोमस्य परिशाययेद्यावन्त मेकस्मै चमसगणाय सग्रहायाप्तं मन्येतेत्यपरम्॥३॥

मनसा स्तोत्रोपाकरणः प्रस्ताव उद्गीथः प्रतिहारश्च॥४॥

मनसा तिसणां सर्पराज्ञीनां पद्कृत्वः प्रतिगृणाति यद्यर्धर्च नवकृत्वो यदि पच्छः॥५॥

होता चतुर्होतृन्व्याचष्टे॥६॥

ओमिति दशहोतुः प्रतिगरः। तथेति चतुर्होतुः। ओमिति पञ्चहोतुः। तथेति षड्ढोतुः। अरात्स्म होतरिति सप्तहोतुः॥७॥

मनसा श्रुतप्रत्याश्रुते याज्या वषट्कारानुवषट्कारौ च॥८॥

मनसा हुत्वा हरति भक्षम्॥९॥

ते यत्समीक्षन्ते स समुपहवः॥१०॥

मनसा भक्षयन्ति॥११॥

1259

ब्रह्मवाद्यं वदन्तीति विज्ञायते॥१२॥

विनिविश्य कथा स्यादित्येकम्। गृहपतिमेव महर्विजः पर्युपविश्य पृच्छे युरित्यपरम्॥१३॥

तमध्वर्युः पृच्छति॥१४॥

21.11

यद्दशहोतारः सत्त्रमासत केन ते गृहपतिना वन्केन प्रजा असृजन्तेति॥१॥

प्रजापतिना वै ते गृहपतिनार्जुवंस्तेन प्रजा असृजन्तेति प्रतिवचनः॥२॥

ब्रह्मा पृच्छति यच्चतुर्होतारः सत्त्रमासत केन ते गृहपतिनालुवकेनौषधीर सृजन्तेति॥३॥

सोमेन वै ते गृहपतिनार्जुवंस्तेनौषधीरसृजन्तेति प्रतिवचनः॥४॥

1260

होता पच्छति यत्पञ्चहोतारः सत्त्रमासत केन ते गृहपतिना वन्केभ्यो लोकेभ्यो ऽसुरान्प्राणुदन्त केनैषां पशूनवृञ्जतेति॥५॥

अग्निना वै ते गृहपतिनार्जुवंस्तेनैभ्यो लोकेभ्यो ऽसुरान्प्राणदन्त तेनैप पशूनवृञ्जतेति प्रतिवचनः॥६॥

होत्रकाः पृच्छन्ति यत्षड्ढोतारः सत्त्रमासत केन ते गृहपतिनार्जुवन्केन तूंनकल्पयन्तेति॥७॥

धात्रा वै ते गृहपतिनार्जुवंस्तेनफ़्नकल्पयन्तेति प्रतिवचनः॥८॥

उद्गाता पृच्छति यत्सप्तहोतारः सत्त्रमासत केन ते गृहपतिनार्नुवन्केन सुवरायन्केनेमाल्लोकान्समतवन्निति॥९॥

अर्यम्णा वै ते गृहपतिनार्जुवंस्तेन सुवरायंस्तेनेमांल्लोकान्समतन्वन्निति प्रतिवचनः॥१०॥

अपि वा यदेवैतत्तूष्णीकं मानसं तस्यैष वादः॥११॥

यद्वा होता चतुर्होतृन्व्याचष्टे॥१२॥

प्रजापतिं परिवदन्तीति विज्ञायते॥१३॥

21.12

अकुशलो वा अयं प्रजापतिर्यो दंशमशकान्ससृजे य स्तेनानिति प्रजा पतिपरिवादः॥१॥

अपि वा प्रजापतिपरिवादान्मन्त्रानधीयते॥२॥

ते प्रत्येतव्याः।। यदरण्यानि प्रजापतिः पुरश्च ससृजे गिरीन्। कर्तानि च न तद्भद्रं यद्भद्रं तन्म आसुव॥ यदूषा तमसा युक्ता दिने तेक्ष्णिष्ठमातपत्। अभश्चात्यतिधर्मश्च तथा तप्ते प्रजापतेः॥ यत्स्तेनान्यद्वकान्दंशान्मशकान्य दघायवः। तदु ते वृजिनं त्वेतदवतमेतन्न मे मतम्॥ प्रजापति दशममहर्भजध्वं मतिं कवीनामृषभं जनानाम्। स सुष्टुतिं सद्रविणं दधानः पूतो विपामा विजहाति लोक इति॥३॥

अथ वरं वृणीते ऽदो नो ऽस्त्विति यत्कामयते॥ उत वै ब्राह्मणो ऽनेक कामो भवति॥४॥ भूर्भुवः सुवः सुप्रजाः प्रजया भूयासं सुवीरो वीरैः सुवर्चा वर्चसा सपोपः पोषैरित्येतद्विदधाति॥५॥

चतुर्होतृन्व्याख्याय द्वारौ संवृत्य यथाधिष्णियं पत्नीासाद्याथाभ्यो वाच मुपाकरोति॥६॥ इह धृतिरिह स्वधृतिरिह रन्तिरिह रमतिरित्यौदुम्बरी परिष्वज्योदरैरु पस्पृशन्तो वाग्यतास्तिष्ठन्ति॥७॥

अधिवृक्षसूर्ये प्राञ्चः समन्वारब्धाः सर्पन्ति॥८॥

युवं तमिन्द्रापर्वता पुरोयुधा यो नः पृतन्यादप तंतमिद्धतं वन्त्रेण तंतमिद्धतम्। दरे चत्ताय छन्त्सद्गहनं यदिनक्षत्। अस्माकं शत्रून्परि शूर विश्वतो दर्मा दर्षीष्ट विश्वत इत्युत्तरेण हविर्धानं दक्षिणैर्हस्तैः कटांस्तेजनी निषेवमाणाः प्राञ्चो गत्वा पञ्च वचांसि व्याहरन्ति वाग्वागैतु वागुपैतु वाक् समैतूप मैतु वाग्भूर्भुवः सुवरिति॥९॥

अह्ना रात्रिं ध्यात्वाधिवृक्षसूर्ये सुब्रह्मण्यया वाचं विसृज्यौदुम्बरीः समिध आदधति॥१०॥

संतिष्ठते दशममहः॥११॥

21.13

प्रायणीवदुदयनीयमुपयन्ति॥१॥

नात्राहीनसंततयो भवन्ति॥२॥

यत्पूर्वस्मिन्नहन्युत्तरस्मा अह्ने क्रियते ता अहीनसंततयः

सत्त्रं चेद्वपनकाले सशिखानि वपन्ते॥४॥

उदवसानीययेष्ट्वान्यानृत्विजो वृत्वा पृष्ठशमनीयेन यजन्ते ज्योतिष्टोमे नाग्निष्टोमेन सहस्त्रदक्षिणेन॥५॥ x

अथ ग्रहकृप्तिः ॥६॥

प्रायणीयोदयनीययोर्दशमेऽहन्निति पृश्निप्राणग्रहान्गृह्णाति। व्यतिषङ्गं सोम मानैः॥७॥

प्राकृतं यजुर्मानमनुद्रुत्य वायुरसि प्राणो नामेति दशभिः पृश्निग्रहाणां मन्त्रैर्दशमानानि मिमीते॥८॥

उत्तरं यजुर्मानमनुद्रुत्यायं पुरो भुव इति दशभिः प्राणग्रहाणां मन्त्रैर्दश मानानि मिमीते॥९॥

एवमुत्तराणि मानानि व्यतिषजति॥१०॥

अपि वा नवभिनवभिर्मिमीते॥१२॥

अवशिष्टा विकल्पार्थाः॥१३॥

अपि वा मानमनुद्रुत्य पृश्नी अथ प्राणेन निवपेत्॥१४॥

अथ प्राणं मानं पृश्निभ्यां निवपेत्॥१५॥

अथ पृश्नी प्राणं मानेन निवपेत्॥१६॥

एवं विहितावुत्तरौ पर्यायौ॥१७॥

यः प्रथमः स चतुर्थः। यो द्वितीयः स पञ्चमः॥१८॥

नवनवांशूनगृह्णाति॥१९॥

उत्तरेषु त्रिषु पृष्ठ्याहःसु त्रीनतिग्राह्यानगृह्णाति॥ आग्नेयमेकविंश ऐन्द्र त्रिणवे सौर्य त्रयस्त्रिंशे॥२०॥

पूर्वस्मिंस्त्र्यहे वाजसनेयिनः समामनन्ति॥२१॥

यत्र गौरिवीतं साम तबहूनतिग्राह्यानगृह्णाति॥२२॥

21.14

त्र्यनीकां व्याख्यास्यामः॥१॥ x

ऐन्द्रवायवाग्रौ प्रायणीयोदयनीयौ दशमं चाहः॥२॥

अथेतरेषां नवानामैन्द्रवायवाग्रं प्रथममहः। अथ शुक्राग्रम्। अथा

एवंविहिता त्रिस्त्र्यनीका परिवर्तते यद्यव्यूढः॥४॥

व्यूढे त्वैन्द्रवायवाग्रौ प्रायणीयोदयनीयौ। अथेतरेषां दशानामैन्द्रवायवाग्रं प्रथममहः। अथ शुक्राग्रम्। अथाग्रयणानम्। अथ द्वे ऐन्द्रवायवाओ५॥

अथ पशुक्लप्तिः॥६॥

आग्नेयं प्रायणीय आलभन्ते। श्वो भूते सारस्वती मेषीम्॥७॥

एवंविहितानैकादशिनानन्वहमालभन्ते॥८॥

आग्नेयमुदयनीये। ऐन्द्राग्नं वा॥९॥

सौर्यं ब्रह्मवर्चसकामः॥१०॥

यदि यूपैकादशिनी स्यादन्वहमेकैकशो यूपान्संमिनुयात्। सर्वान्वौप वसथ्ये॥११॥

अहरहरुपशय उपावर्तते॥१२॥

अग्निष्ठ उदयनीये पशुमुपाकरोति॥१३॥

द्वादशाग्निष्टोमा रथंतरसामानः॥१४॥

स भरतद्वादशाहः॥१५॥