SARAVAMEDIIA (ALL-SACRIFICE) सर्वमेधो दशरात्रः॥३॥
राजा यजेत यः कामयेत सर्वमिदं भवेयमिति।४॥
एकशतविधो ऽग्निः॥५॥
अग्निष्टुदग्निष्टोमः प्रथममहः। सर्वमाग्नेयं भवति॥६॥
इन्द्रस्तुदुक्थ्यो द्वितीयः। सर्वमैन्द्रम्॥७॥
सूर्यस्तुदुक्थ्यस्तृतीयः। सर्वं सौर्यम्॥८॥
वैश्वदेव उक्थ्यचतुर्थः। सर्वं वैश्वदेवम्॥९॥
आश्वमेधिकं मध्यमं पञ्चममहः। तस्मिन्नश्वं मेध्यमालभते॥१०॥
पौरुषमेधिक मध्यमं पष्ठम्। तस्मिन्पुरुषान्॥११॥
अप्तोर्यामः सप्तमः। तस्मिन्सन्मेिध्यानालमते॥१२॥
वपा वपावतां जुहोति। त्वच उत्कृत्यावपानाम्॥१३॥
शुष्कानाश्चौषधिवनस्पतीन्संवृश्च्याहवनीये ऽनुप्रकिरन्ति॥१४॥
प्रातःसवने सन्नेषु नाराशंसेष्वन्नमन्नं जुहोति॥१५॥
सर्वस्याप्त्यै सर्वस्यावरुद्धया इति विज्ञायते॥१६॥
एवं माध्यंदिने तृतीयसवने च॥१७॥
अष्टमं त्रिणवम्॥१८॥
नवमं त्रयस्त्रिंशम्॥१९॥
विश्वजित्सर्वपृष्ठो ऽतिरात्रो दशममहः॥२०॥
दक्षिणाकाले यदब्राह्मणानां दिक्षु वित्तं तत्सभूमि सपुरुषं ददाति यथाश्वमेधे यथाश्वमेधे॥२१॥