26 Puruṣamedhaḥ

PURUSAMEDHA (MAN-SACRIFICE)

20.24

पञ्चाहः पुरुषमेधः॥१॥

ब्राह्मणो राजन्यो वा यजेत॥२॥

ओजो वीर्यमाप्नोति। सर्वा व्युष्टीय॑श्नुते॥३॥

एकादशसु यूपेप्वेकादशाग्नीपोमीयाः।।४॥

पञ्चशारदीयवदहानि। अग्निष्टोमो वोपोत्तमः॥५॥

देव सवितः॥ तत्सवितुः॥ विश्वानि देव सवितरिति तिस्त्रः सावित्रीहत्वा मध्यमे ऽहन्पशूनुपाकरोति॥६॥

द्वयानकादशिनानुपाकृत्य पुरुषान्।७॥ ब्रह्मणो ब्राह्मणमालभत इत्येतद्यथासमाम्नातम्॥८॥

तान्यूपान्तरालेषु धारयन्ति॥९॥

उपाकृतान्दक्षिणतो ऽवस्थाय ब्रह्मा सहस्रशीर्षा पुरुष इति पुरुषेण नारायणेन पराचानुशंसति॥१०॥

पर्यग्निकतानुदीचो नीत्वोत्सृज्याज्येन तद्देवता आहुतीर्तुत्वा द्वयैरैकादशिनैः संस्थापयति॥११॥

दक्षिणाकाले यदब्राह्मणानां दिक्षु वित्तं तत्सभूमि ददाति यथाश्वमेधे॥१२॥

ब्राह्मणो यजमानः सर्ववेदसम्॥१३॥

एतस्मिन्नेवाहन्यश्वमेधवदभिषेकः॥१४॥

एकादशानूबन्ध्याः सौरीर्वैश्वदेवीः प्राजापत्या वा॥१५॥

त्रैधातवीययोदवसाय पृथगरणीष्वग्नीन्समारोप्योत्तरनारायणे नादित्यमुपस्थायारण्यमवतिष्ठेत॥१६॥

ग्रामं वा प्रविश्य त्रैधातवीयया यजेत॥१७॥

20.25

सौत्रामण्या मैत्रावरुण्या चामिक्षया साकंप्रस्थायीयेन पञ्चबिलेन चरुणा पञ्चशारदीयेनेति॥१॥

पञ्चयिलस्य चरोर्विज्ञायते। आज्य आग्नेयः पूर्वस्मिन्बिले। दधन्यैन्द्रो दक्षिणे। शृते प्रतिदुहि नीतमिश्रे वा वैश्वदेवः पश्चिमे। अप्सु मैत्रावरुण उत्तरे। पयसि ang paraat 11211