24 Kāmyāḥ iṣṭayaḥ

OPTIONAL (HAVIS-) OFFERINGS .

19.18

काम्याभिरिष्टिभिरमावास्यायां पौर्णमास्यां वा यजेत॥१॥

ता ब्राह्मणव्याख्याताः॥२॥

समिध्यमानवती समिद्धवतीं चान्तरेण पृथुपाजवत्यौ धाय्ये दधाति। यथादिष्टं वानुपदावाज्यभागौ॥३॥

यत्कामेष्टिस्तत्प्रवादौ स्यातां तदर्थत्वात्तल्लिङ्गत्वात्॥ तदैवतौ वा। प्राकृतौ वा॥४॥

अनादेशे प्रकृतिः प्रत्येतव्या॥५॥

अनुष्टुभौ संयाज्ये॥६॥

त्वां चित्रश्रवस्तम॥ त्वामग्ने हविष्मन्तो देवं मर्तास ईडते। मन्ये त्वा जातवेदसं स हव्या वक्ष्यानुषगित्येते आम्नाते भवतः॥७॥

उभा वामिन्द्राग्नी आहुवध्या इत्येतासां यथापूर्वमाम्नाता याज्यानुवाक्या लिङ्गैर्नियम्यन्ते॥८॥

पर्वस्मिन्नर्धर्चे देवता पुरस्ताल्लक्ष्मा पुरोऽनुवाक्या। उपरिष्टाल्लक्षमा याज्या॥९॥ एतद्वा विपरीतम्॥१०॥

अवशिष्टा विकल्पार्थाः॥११॥

उपहोमा वा तत्र संदिग्धाः ॥१२॥

अनुक्रमिष्यामः॥१३॥

अग्नये रक्षोने पुरोडाशमष्टाकपालममावास्यायां निशायां निर्वपेत्तस्याः साद्गुण्यसामर्थ्यात्॥१४॥

अमावास्यायाः कालापनयः स्यात्॥१५॥

कणव पाज इति रक्षोनीः पराचीः सामिधेनीरन्वाह॥१६॥

वि ज्योतिषेति याज्यानुवाक्ये भवतः॥१७॥

19.19

आदित्यं चरुं निर्वपेत्संग्राममुपप्रयास्यन्॥१॥

वैश्वानरं द्वादशकपालं निर्वपेत्संग्रामायतनं गत्वा॥२॥

यया रज्ज्वोत्तमां गामाजेत्तया भ्रातृव्यगवीमभिदध्याद् गोष्ठे वास्य न्यस्येत्॥३॥

बल्बजानपीध्ये संनोत्॥४॥

तान्सहेमेन प्रोक्षेत्॥५॥

सरस्वत्याज्यभागेत्याज्यहविर्भवति॥६॥

आज्यं प्रोक्षणमाज्येन मार्जयन्त इति सर्वप्रोक्षणमार्जनानीत्याज्येन॥७॥

मानवी ऋचौ धाय्ये कुर्यात्। मक्षू देववत इत्येतासां द्वे॥८॥

एतामेव निर्वपेदायतनं गत्वा॥९॥

भ्रातृव्यक्षेत्रं गत्वैतामिष्टिं निर्वपेत्॥१०॥

तत्र दक्षिणमधु वेद्या उद्धत्य तदेवार्धेन बर्हिष स्तुणीयात्। अर्धमिध्मस्याभ्या दध्यात्॥११॥

रेन्टमेकादशकपालं निर्वपेन्मारुतं सप्तकपालं ग्रामकामः॥१२॥

आहवनीयं ऐन्द्रमधिश्रयति। गार्हपत्ये मारुतम्॥१३॥

काल ऐन्द्रमासादयति। सामिधेनीष्वनूच्यमानासु मारुतम्॥१४॥

अथ योन्द्रायानुब्रूहीत्यैन्द्री पुरोऽनुवाक्या। मरुतो यजेति मारुती याज्या। मरुद्भ्यो ऽनुब्रूहीति मारुती पुरोऽनुवाक्या। इन्द्रं यजेत्यैन्द्री याज्या॥१५॥

ऐन्द्रमेकादशकपालं निर्वपेद्वैश्वदेवं द्वादशकपालं ग्रामकामः॥१६॥

तत्रैन्द्रस्य प्रथममवदानमवदायोभे वैश्वदेवस्यावयेत्। अथैन्द्रस्यावशिष्ट मुपरिष्टात्॥१७॥

इन्द्राय विश्वेभ्यो देवेभ्यो ऽनुब्रूहीन्द्रं विश्वान्देवान्यजेति संप्रेष्यति

भरेष्विन्द्रमिति याज्यानुवाक्ये भवतः॥१९॥

19.20

उपाधाय्यपूर्वयं वासो दक्षिणा॥१॥

संज्ञानी पृथनिरुप्य सर्वतः समवदाय सर्वा देवता अनुद्रुत्य संप्रेष्यति॥३॥

अग्निः प्रथमो वसुभिरिति सर्वदेवत्ये याज्यानुवाक्ये भवतः।।४॥

अपरुदधो ऽपरुध्यमानो वा धारयद्वतीयं निरुप्यासीत यावदेनं नापरुन्ध्यः॥

अथापरुध्यमानो ऽदिते ऽनुमन्यस्वेत्यपरोद्धः पदमादाय गच्छेत्॥६॥

यः परस्ताद्ग्राम्यवादी स्यात्तस्य गृहावीहीनाहरेत्॥७॥

शुक्लांश्च कृष्णांश्च विचिनुयात्॥८॥

ये शुक्लाः स्युस्तमादित्यं चकै निर्वपेत्॥९॥

ये कृष्णास्तान्कृष्णाजिन उपना निधाय हविष्कृता वाचं विसृज्योप प्रेत मरुतः सुदानव इति यजमानमभ्येति॥१०॥

सत्याशीरिति यजमानस्योत्तरे वाससि पदैकदेशं निवपति॥११॥

इह मन इत्युरसि शेष निनयति॥१२॥

सिद्धमिष्टिः संतिष्ठते॥१३॥

यदि नावगच्छेदिममहमादित्येभ्यो भागं निर्वपाम्यामुष्मादमुष्यै विशो ऽवगन्तोरित्यपरोद्धर्नाम गृह्णीयात्तस्यै च विशः॥१४॥

यदि नावगच्छेदाश्वत्थान्मयूखान्सप्त मध्यमेषायामुपहन्यादिदमहमादि त्यान्बध्नाम्यामुष्मादमुष्यै विशो ऽवगन्तोरिति। त्रीन्प्राचश्चतुर उदीचः॥१५॥

यदि नावगच्छेदेतमेवादित्यं चरुं निर्वपेत्॥१६॥

इध्मे ऽपि मयूखान्संनह्येत्॥१७॥

तान्सहेध्मेनाभ्यादध्यात्॥१८॥

अवगतः कृष्णानां व्रीहीणां वारुणं चरुं निर्वपति॥१९॥

सिद्धमिष्टिः संतिष्ठते॥२०॥

19.21

प्राजापत्यां शतकृष्णलां निर्वपुदायुष्कामः॥१॥

शतं हिरण्यकृष्णलानि काकिण्या माषेण वा संमितानि॥२॥

तानि पावित्रवत्याज्य आवपति॥३॥

धर्ममात्रं श्रपणम्।।४।।

प्रचरणकाले ऽष्टौ देवताया अवद्यति। चत्वारि स्विष्टकृति। द्वे प्राशि वेष्टाविडायाम्॥५॥

चतुर्धाकरणकाले सर्वाणि प्राशिः समोप्यैकधा ब्रह्मण उपहरति॥६॥

तानि ब्रह्मा भक्षयति॥७॥

भक्षापनय इतरेषाम्॥८॥

सौर्य चळं रुक्माभ्यां परिगृह्यासादयति॥९॥

तस्य प्रयाजेप्रयाजे कृष्णलं जुहोति॥१०॥

अपोह्य रुक्मौ चरुणा प्रचरति॥११॥

एतावेव रुक्मौ दक्षिणा॥१२॥

अग्नये दात्रे पुरोडाशमष्टाकपालमिति त्रीणि॥१३॥

तेषां प्राजापत्यं संसृष्टं हविस्तृतीयं भवति॥१४॥

दधि मधु घृतमापो धानास्तण्डुला इत्येकेषामाज्यविकारः॥१५॥

मधूदके संसृष्टे मुख्ये स्वाधर्म्यम्॥१६॥

घुतं न पूतमुभे सुश्चन्द्रेति याज्यानुवाक्ये भवतः॥१७॥

आग्नेयस्य च सौम्यस्य चैन्द्रे समाश्लेषयेदिति संहितानि हवींष्यधिश्र येदित्यर्थः॥१८॥

लेपौ वास्मिन्समाश्लेषयेत्॥१९॥

ब्रह्मन्विशं विनाशयेय मिति सर्वं ब्राह्मणस्पत्यं भवति॥२०॥

मारुती याज्यानुवाक्ये कुर्यात्॥२१॥

अर्थतं त्रिधातुमेकादशसूत्तानेषु कपालेष्वधिश्रयति॥२२॥

19.22

प्रथमं पुरोडाशमधिश्रित्य परितपनान्तं कृत्वा तस्मिन्नुत्तरं ज्यायांसमधिश्रित्य तदन्तमेव कृत्वा तस्मिन्नुत्तरं ज्यायांसमधिश्रयति॥१॥

प्रचरणकाले दक्षिणार्धात्प्रथमां देवतां यजेत्। मध्यादद्वितीयामा उन तीयाम्॥२॥

सर्वेपामभिगमयन्नवद्यतीत्युक्तम्॥३॥

प्राच्यां दिशि त्वमिन्द्रेति तिस्त्र ऋचो व्यत्यासमन्वाह॥४॥

प्रथमामनूच्य मध्यमया यजेत्। मध्यमामनूच्योत्तमया यजेत्। उत्तमामनूच्य प्रथमया यजेत्॥५॥

एवं सर्वा याज्याः पुरोऽनुवाक्याश्च भवन्ति॥६॥

सर्वपृष्ठां निर्वपति॥७॥

यदिन्द्राय रायंतरायेति यथासमाम्नातं द्वादशसूत्तानेषु कपालेष्वधिश्रयति।८॥

प्रचरणकाले पूर्वार्धात्प्रथमां देवतां यजति॥९॥

एवमितराः प्रदक्षिणमुत्तरापवर्गम्॥१०॥

समन्तं पर्यवद्यतीत्युक्तम्॥११॥

अभि त्वा शूर नोनुम इति षडचो व्यत्यासमन्वाह॥१२॥

न बृहत्या वषट्कुर्यात्॥१३॥

अनुवाक्यायाश्चत्वार्यक्षराणि याज्यां गमयेत्॥१४॥

अनुष्टुभं च ह वा एतत्संपादयन्ति पङ्क्तिं चेति ते मन्यामहे॥१५॥

अभि त्वा शूर नोनुमो ऽदुग्धा इव धेनवः। ईशानमस्य जगतः सवर्डण मीशानमोमित्यनूच्य इन्द्र तस्थुषस्त्वामिद्धि हवामह इति यजेता

19.23

त्वामिद्धि हवामहे साता वाजस्य कारवः। त्वां वृत्रेष्विन्द्र सत्पतिं नरस्त्वां काष्ठोमित्यनूच्य स्वर्वतो ऽभि त्वा शूर नोनुम इति यजेत्॥१॥

कदा चन स्तरीरसीत्यासां चतुर्थी दधाति॥२॥

अग्नये भ्राजस्वते पुरोडाशमष्टाकपालमित्युक्तम्॥३॥

चतुर्धाकरणकाले सौर्यास्त्रीन्पिण्डानुद्धत्योदु त्यं जातवेदसं सप्त त्वा हरितो रथे चित्रं देवानामुदगादनीकमिति पिण्डान्यजमानाय प्रयच्छति॥४॥

तान्यजमानः प्राश्नाति।।५।।

श्रादेवीं सांग्रहणीं निर्वपेद्ग्रामकामः॥६॥

नवनीते अपयति॥७॥

धवो ऽसीत्येतैः प्रतिमन्त्रं परिधीन्परि दधाति॥८॥

आमनमसीत्युपहोमाः॥९॥

यो ज्योगामयावी स्याद्यो वा कामयेत सर्वमायुरियामिति तस्मा एतामिष्टिं निर्वपेत्॥ आग्नेयादीनि पञ्च॥१०॥

पात्रसंसादनकाले खादिरं पात्रं चतुःस्रक्ति प्रयुनक्ति। सौवर्णं च प्रवर्त शतमानस्य कृतम्॥११॥

अथा खलु यावतीः समा एष्यन्मन्येत तावन्मानं स्यात्॥१२॥

यन्नवर्मत्तन्नवनीतमभवदित्याज्यमवेक्ष्याज्यग्रहणकाले नप . चतर्गहीतं गृहीत्वा सादनकाल उत्तरेण ध्रुवां खादिरं सादयित्वा तस्मिन्नवर्तम वदधाति॥१३॥

19.24

उपहोमकाले ऽश्विनोः प्राणो ऽसीत्यतैः प्रतिमन्त्रं चतुर उपहोमा होति॥१॥

हुवाहुत्वा प्रवर्तमभि घारयति राडसि विराडसि सम्राडसि स्वराडसीति॥२॥

यत्यादिर आज्यं तदओणाहवनीयं पर्याहृत्य दक्षिणस्यां वेदिश्रोण्यां सादयति॥३॥

तयजमानो ऽवेक्षते तस्य धाराममृतस्य पन्थामिति॥४॥

अथास्य ब्रह्मा दक्षिणं हस्तं गृह्णाति॥५॥

ब्रह्मण इतर ऋत्विजो हस्तमन्वारभ्य यजमानं पर्याहुः पावमानेन त्वा स्तोमेनेति॥६॥

अथ यजमानो हिरण्याघृतं निष्पिबति॥७॥

इममग्न आयुषे वर्चसे कृधीति प्राश्नन्तमभिमन्त्रयते॥८॥

उद्धृत्य हिरण्यं प्रक्षाल्यायुष्टे विश्वतो दधदिति यजमानाय प्रयच्छति॥९॥

तद्यजमान आचम्य प्रतिगृह्य प्रदक्षिणं दक्षिणे कर्ण आबध्नात्यायुरसि विश्वायुरसि सर्वायुरसि सर्वमायुरसि सर्वं म आयुर्भूयात्सर्वमायुर्गेषमिति॥१०॥

अग्निरायुष्मानित्यनुवाकशेषेणास्याध्वर्युदक्षिणं हस्तं गृहाति॥११॥

सिद्धमिष्टिः संतिष्ठते॥१२॥

ऐन्द्रावरुणं पुरोडाशं निरुप्यन्द्रावरुणीं पयस्यां निर्वपेत्॥१॥

उद्वास्यालंकृत्य पयस्यायां पुरोडाशमवदधाति॥२॥

एतयैव प्रच्छाद्यासादयति॥३॥

अथास्मात्प्रतिदिशं पयस्यां व्यूहति॥४॥ या वामिन्द्रावरुणा यतव्या तनूरित्यतैरेव पुनः समूहति॥५॥

अमुक्तमिति मन्त्रान्तान्सनमति॥६॥

सहैव पयस्यायाः पुरोडाशस्यावद्यति॥७॥

गोवामिन्द्रावरुणावग्नौ नाम इत्युपहोमाः॥८।

अग्नये संवर्गाय पुरोडाशमष्टाकपालमित्युक्तम्॥९॥

यक्ष्वा हि देवहूतमानिति पञ्चदश सामिधेनीरन्वाह॥१०॥

नित्यया परिदधाति॥११॥

कुवित्सु नो गविष्टय इति याज्यानुवाक्ये॥१२॥

यस्या जुषद्विद्या हि त इति संयाज्ये॥१३॥

चित्रापूर्णमासे चित्रामिष्टिं निर्वपेत्। आग्नेयादीनि सप्त॥१४॥

अग्ने गोभिर्न आ गहीत्युपहोमाः॥१५॥

पुष्कलेषु नक्षत्रेषूदवसाय कार्या वृष्टिकामो यजेत॥१६॥

अग्नीनन्वाधायापरेणाहवनीयं दक्षिणातिक्रम्योपविश्य यजमानो मारुतमसि मरुतामोज इति कृष्णं वासः कृष्णतूषं परिधत्ते॥१७॥

रमयत मरुतः श्येनमायिनमिति पश्चाद्वातं प्रतिमीवति॥१८॥

पुरोवातमेव जनयत्येहि वातेति॥१९॥

कृष्णो ऽश्वः पुरस्तात्प्रत्यङ्मुखो ऽवस्थितो भवति॥२०॥

तमेतेन वाससाभिपिनष्ट्यभिक्रन्देति॥२१॥

पाटि क्रन्देद्विधूनुयाच्छकृन्मृत्रं वा कुर्याद्वर्षिष्यतीति विद्यात्॥२२॥

परोवातो वर्षन्नित्यष्टौ वातनामानि हुत्वान्तर्वेदि कृष्णाजिनं पाचीनग्रीवमुत्तरलोमास्तीर्य तस्मिन्खजूरसक्तून्करीरसक्तून्वा मान्दा वाशा इति कष्णमधुषा संयुत्य तिस्रः पिण्डीः कृत्वा पुष्करपलाशैः संवेष्ट्य समुद्यम्य कष्णाजिनस्यान्तान्वृष्णो अश्वस्य संदानमसीति कृष्णेन दाम्नोपनह्यति॥१॥

उत्करे प्रागीषं त्रिगधमनो ऽवस्थितं भवति॥२॥

छदीषीत्यर्थः॥३॥

देवा वसव्या इति पूर्वस्यां गधायां कृष्णाजिनमाबध्नीयात्॥४॥

अहोरात्रावासक्तं भवति॥५॥

यदि वर्षेत्पिण्डीरेव जुहुयात्॥६॥

यदि न वर्षेद्देवाः शर्मण्या इति मध्यमायामा बध्नीयात्॥७॥

अहोरात्रावासक्तं भवति॥८॥

यदि वर्षेत्पिण्डीरेव जुहुयात्॥९॥

यदि न वर्षेदेवाः सपीतय इति जघन्यायामाबध्नीयात्॥१०॥

अहोरात्रावासक्तं भवति॥११॥

यदि वर्षेत्पिण्डीरेव जुहुयात्॥१२॥

यदि न वर्षेच्छवो भूते धामच्छदादीनि त्रीणि हवींषि निर्वपति कृष्णाना वीहीणाम्॥१३॥

तान्यासाद्योत्करे कृष्णाजिनमासादयति॥१४॥

कृष्णोष्णीषाः कृष्णवसना निवीता ऋत्विजः प्रचरन्ति॥१५॥

त्वं त्या चिदच्युतेति याज्यानुवाक्याः॥१६॥

उपहोमकाले दिवा चित्तमः कृण्वन्तीत्येतैः प्रतिमन्त्रं पिण्डीराबजाति॥१७॥

जुहोतीत्येके॥१८॥

अथासां धूममनुमन्त्रयते॥१९॥

19.27

असितवर्णा हरयः सुपर्णा इति॥१॥

उत्करे कृष्णामामपक्वां स्थालीमद्भिः पूरयति सृजा वृष्टिमिति॥२॥

यदि भिद्येत वर्षिष्यतीति विद्यात्॥३॥

अनस उपस्तम्भने शङ्की वा कृष्णाविर्बद्धा भवति॥४॥

अब्जा असीति तां प्रोक्षति॥५॥

तस्यामश्ववद्विज्ञानमुपैति॥६॥

उत्करे वर्षाहूस्तम्बं प्रतिष्ठाप्योन्नम्भय पृथिवीमिति वर्षाद्वां जुहोति॥७॥

अपां पूर्णा स्रुचं जुहोतीत्येके॥८॥

अथैनमाहवनीये ऽनुप्रहरति॥९॥

अथास्य धूममनुमन्त्रयते हिरण्यकेशो रजसो विसार इति॥१०॥

ये देवा दिविभागा इत्युपर्याहवनीये कृष्णाजिनमवूधनोत्यूर्ध्वग्रीवं बहिष्टा द्विशसनम्॥११॥

कष्णं वासः कृष्णो ऽश्वः कृष्णाविर्दक्षिणा॥१२॥

अथ सवकारीर्याग्नेय एवाष्टाकपालो ऽनुपसर्गः॥१३॥

तस्योपहोमा वातनामानि याभिः पिण्डीराबध्नाति जुहोति याभ्यां च धूममनुमन्त्रयते॥१४॥

पूर्ववत्त्रिधातुमधिश्रयति। यवमयस्तु मध्ये॥१५॥

ऐन्द्रावैष्णवं हविर्भवति॥१६॥

प्र सो अग्न इत्युष्णिहककुभौ धाय्ये दधाति॥१७॥

अग्ने त्री ते वाजिना त्री षधस्थेति त्रिवत्या परिदधातिर

सं वां कर्मणोभा जिग्यथुरिति याज्यानुवाक्ये॥१९॥

उत्तरे संयाज्ये॥२०॥

हिरण्यं तायँ धेनुरिति दक्षिणा॥२१॥

ऐन्द्राबार्हस्पत्यं चरुं निर्वपेद्राजन्ये जाते॥२२॥

हिरण्यमयं दाम दक्षिणा दक्षिणा॥२३॥