OPTIONAL ANIMAL-SACRIFICES
19.16
काम्यैः पशुभिरमावास्यायां पौर्णमास्यां वा यजेत॥१॥
तेषां निरूढपशुबन्धवकल्पः॥२॥
वायव्यं श्वेतमिति ते ब्राह्मणव्याख्याताः॥३॥
तेषामावापिकेषु स्थानेषु यथादेवतं षड़चो निदधाति। वपायाः पुरोडाशस्य हविष इति द्वद्वे॥४॥
पीवोऽन्नां रयिवृधः सुमेधा इत्येतानि यथापूर्वं यथालिङ्गमाम्नातानि भवन्ति॥५॥
सर्वेष्वाभिचरणिकेषु लोहितोष्णीषा लोहितवसना निवीता ऋत्विज. प्रचरन्ति मल्हा इति॥६॥
मणिला इत्यर्थः॥७॥
विषम आलभेतेति विषमं देवयजनं स्यात्पशुं वा विषम आलभेत॥८॥
दशर्षभाया दैवते मीमांसा॥९॥
आदित्या स्यात्प्राजापत्या वैकादशिनदेवता वा यद्देवता वा गर्भिण्यः ॥१०॥
पर्यारिणीति परिहारसूर्भवति॥११॥
स्फ्यो यूप इति स्फ्याकृतियूप अग्न्यागारिको वा॥१२॥
त्वाष्ट्रं वडवमिति यं पुमांसं सन्तमारोहति॥१३॥
अपां चौषधीनां च संधाविति प्रावृषि शरत्प्रतिपत्तौ वा। अपि वापां चौषधीनां च संधौ॥१४॥
विशाखो यूप इति यदूर्ध्वं रशनायास्तद्विशाखम्॥ यद्वोपरादुभे शाखे अष्टाश्री सचषाले स्याताम्॥१५॥
प्राशो ऽवाशङ्ग उक्षा वशा वेहद्धेनुर्वत्स ऋषभो ऽनड्वान्पुनरुत्सष्टो गोमृग इति गव्याः ॥१६॥
अन्नाय वेहतमालभते। वाचे वेहतम्। श्रद्धायै वेहतम्। ब्रह्मण ऋषभम्॥१७॥
आ गावो अग्मन्नित्युपहोमाः॥१८॥
मृत्यवे वेहतम्॥१९॥
तत्र भर्तारमुपजुहुयात्॥२०॥
सूर्याचन्द्रमोभ्यां यमौ श्वेतं कृष्णं चैकयूपे॥२१॥
अद्भ्यो वेहतम्॥२२॥
तत्र सलिलमुपजुहुयात्॥२३॥
भगाय वाशितामिति॥२४॥
य ऊर्ध्वमाश्विनात्पशवस्तेषां सूक्तक्रमेण विधिः॥२५॥
19.17
ऋषभे गोषु जीर्णे यूनः कर्णमाजपेत्पिशङ्गरूपस्तन्नस्तुरीपमित्येताभ्याम्॥१॥
अथैनं गोष्वपिसृजत्येतं युवानमिति॥२॥
अथ जीर्णमालभते प्राजापत्यमैन्द्रं त्वाष्ट्रं वा॥३॥
नमो महिम्न इत्युपाकरणे ऽनुवर्तयते॥४॥
तृतीयया वपां जुहोति। चतुर्थ्या हविः। पञ्चम्या सौविष्टकृतम्॥५॥
आग्नेयमष्टाकपालं निरुप्याजां वशामालभते॥६॥
वायव्यामालभेत भूतिकाम इत्युक्तानि दैवतानि॥७॥
वायव्ययोपाकरोत्या वायो भूष शुचिपा इति॥८॥
आकृत्यै त्वा कामाय त्वेति पर्यग्नौ क्रियमाणे जुहोति॥९॥
त्वं तुरीया वशिनी वशासीत्युदीची नीयमानामनुमन्त्रयते॥१०॥
अजासि रयिष्ठेति निहन्यमानाम्॥११॥
तन्तुं तन्वन्निति वपां जुहोति॥१२॥
अनुल्बणं वयत जोगुवामप इति हविः॥१३॥
मनसो हविरसीति हविःशेषान्प्राश्नन्ति॥१४॥
सा वा एषा त्रयाणामेवावरुद्धेत्युक्तम्॥१५॥
तस्यै वा एतस्या एकमेवादेवयजनं यदालब्धायामभ्रो भवति॥१६॥
यदालब्धायामभ्रः स्यादप्सु वा प्रवेशयेत्सर्वां वा यजमान एवान्वहं प्राश्नी यात्॥१७॥
जयाभ्याताना राष्ट्रभृत इति ब्राह्मणव्याख्याताः॥१८॥
अस्मिन्ब्रह्मन्नित्यभ्यातानेष्वनुषजति॥१९॥
येन कर्मणेर्सेत्तत्र होतव्या ऋध्नोत्येव तेन कर्मणेति विज्ञायते॥२०॥