FIRE-ALTAR-BUILDING-RITUAL ACCORDING TO KATHA-SCHOOL SĀVITRA-FIRE-ALTAR-BUILDING
19.11
सावित्रं स्वर्गकामश्चिन्वीत॥१॥
पशुबन्धे चीयते॥२॥
चेष्यमाण उपकल्पयते पञ्चाशीतिशतं हिरण्येष्टका यावदुत्तममङ्गलिपरु तावतीः शर्करा वाभ्यक्ताश्चतस्त्रः स्वयमातृण्णा अपरिमिता लोकंपृणाः॥३॥
षड्ढोतारमित्येतदादि पाशुकं कर्म प्रतिपद्यते॥४॥
वेदितृतीये यजत इति विज्ञायते॥५॥
प्रागुत्तरात्परिग्राहात्कृत्वोत्तरवेदिदेशस्य मध्ये शङ्कं निहत्य सर्वतः परिमण्डलं रथचक्रमानं सावित्रं परिलिख्य समूलं हरितंदर्भस्तम्बमाहृत्य मध्ये ऽग्नेर्निखाय जुह्वां पञ्चगृहीतं गृहीत्वा सजूरब्दो ऽयावभिरिति दर्भस्तम्बे पञ्चाहुतीर्तुत्वोद्धत्या वोक्ष्य व्याघारणान्तामुत्तरवेदिं कृत्वा लेखाया अभ्यन्तरं नव परिमण्डला लेखा लिखित्वा सिकताभिरवकीर्य दर्भेः प्रच्छाद्य दध्ना मधुमिश्रेण शर्कराभिरिति बाह्या लेखां संपूर्य वसति॥६॥
हुते प्रातरग्निहोत्रे प्रजापतिस्त्वा सादयतु तया देवतयाङ्गिरस्वधुवा सीदेत्युत्तरवेदिमभिमृश्य मयि गृह्णाम्यने अग्निं यो नो अग्निः पितर इति द्वाभ्यामात्मन्नग्निं गृहीत्वा यास्ते अग्ने समिध इति स्वयंचित्याभिमृश्याग्ने भस्मासीति सिकता निवपति। संज्ञानमित्यूषान्॥७॥
तान्निवपन्यददश्चन्द्रमसि कृष्णं तदिहास्त्विति मनसा ध्यायति॥८॥
सं या वः प्रियास्तनुव इत्यूषान्सिकताश्च संसृज्य चित स्थ परिचित इत्य परिमिताभिः शर्कराभिः परिश्रित्या प्यायस्व समेतु त इति सिकता व्यूहति॥९॥
न लेखाः संलोभयन्ति॥१०॥
अभ्यन्तरं जघनार्ध उदपात्रमुपदधाति वाक्त्वा समुद्र उपदधे सुप्रजावनि रायस्पोषवनिं मह्यं वाजिनायेति॥११॥
19.12
नवम्यां बाह्यायां लेखायां पञ्चदश पूर्वपक्षस्याहान्युपदधाति संज्ञानं विज्ञानमिति॥१॥
तेषामन्तरालेष्वेषामह्नां पञ्चदश मूहूर्तानुपदधाति चित्रः केतुरिति॥२॥
अथान्तरस्यां पञ्चदश पूर्वपक्षस्य रात्रीरुपदधाति दर्शा दृष्टेति॥३॥
तासामन्तरालेष्वेतासां रात्रीणां पञ्चदश मुहूर्तानुपदधाति दाता प्रदातेति॥४॥
अथान्तरस्यां पञ्चदशापरपक्षस्याहान्युपदधाति प्रस्तुतं विष्टुतमिति॥५॥
तेषामन्तरालेष्वेतेषामह्नां पञ्चदश मुहूर्तानुपदधाति सविता प्रसवितेति॥६॥
अथान्तरस्यां पञ्चदशापरपक्षस्य रात्रीरुपदधाति सुता सुन्वतीति॥७॥
तासामन्तरालेष्वेतासां रात्रीणां पञ्चदश मुहूर्तानुपदधात्यभिशस्तानुमन्तेति॥८॥
अथान्तरस्यां द्वादश पूर्वपक्षानुपदधाति पवित्रं पवयिष्यन्निति॥९॥
अथान्तरस्यां द्वादशापरपक्षानुपदधाति सहस्वान्सहीयानिति॥१०॥
अथान्तरस्यां त्रयोदश मासनामान्युपदधात्यरुणो ऽरुणरजा इति॥११॥
अथ सिकता उपदधात्येजत्का जीवत्का इति॥१२॥
अथान्तरस्यां पञ्चदश मुहूर्तानुपदाधातीदानीं तदानीमिति॥१३॥
अथान्तरस्यां षड्यज्ञक्रतूंस्त्रीणि चतुर्नामान्युपदधात्यग्निष्टोम उक्थ्यो ऽग्निर्ऋतुरिति॥१४॥
अथ नाभ्यां चत्वारि संवत्सरनामान्युपदधाति प्रजापतिः संवत्सरो महान्क इति॥१५॥
चतस्त्रः स्वयमातृण्णा दिसूपदधाति भूरग्निं च पृथिवीं च मां चेति॥१६॥
लोकं पृणेति लोकंपृणा उपदधाति॥१७॥
चात्वालात्पुरीषमाहृत्य पृष्टो दिवीति वैश्वानर्यर्चा चितावनुव्यूहति॥१८॥
सा चितिर्भवति॥१९॥
आरोहणं जपति। अवरोहणं जपति॥२०॥
उपस्थानेनोपतिष्ठते त्वमेव त्वां वेत्थ यो ऽसि सो ऽसीति॥२१॥
साहस्रवत्करोति॥२२॥
धेनूः कृत्वा यजमानः संहारविहाराभ्यामुपतिष्ठते संवत्सरो ऽसि परिवत्सरो ऽसीति॥२३॥
उत्तरत उत्तमायामिष्टकायामर्कपर्णेनाजाक्षीरं जुहोति॥२४॥
त्वमग्ने रुद्र इति शतरुद्रीयस्य रूपमसंचरे पशूनामर्कपर्ण उदस्यति वल्पीक वपायां वावदधाति॥२५॥
जघनेनाग्निं प्राङ्मुख उपविश्य संचितोक्थ्येन होतानुशंसति भुवः स्वरित्युवाकेन॥२६॥
19.13
अग्निप्रणयनादि पाशुकं कर्म प्रतिपद्यते समानमातिमुक्तिभ्यः॥१॥
अतिमुक्तीर्तुत्वा चतुर्गहीतं जुहोति॥२॥
त्वमग्ने रुद्र इति शतरुद्रीयस्य रूपम्। अपरं चतुर्ग्रहीतम्॥३॥
अग्नाविष्णू इति वसोर्धारायाः। अपरं चतुर्ग्रहीतम्॥४॥
अन्नपत इत्यन्नहोमः। अपरं चतुर्ग्रहीतम्॥५॥ सप्त ते अग्ने समिधः सप्त जिह्वा इति विश्वप्रीः॥६॥
अपरं चतुर्ग्रहीतं वसूनां त्वाधीतेन रुद्राणामूर्यादित्यानां तेजसा विश्वेषां देवानां क्रतुना मरुतामेम्ना जुहोमि स्वाहेति॥७॥
तासां संस्त्रावेण यजमानो मुखं विमृष्टे राज्ञी विराज्ञीत्यनुवाकेन॥८॥
अयैकविंशतिमाहुतीर्जुहोत्यसवे स्वाहा वसवे स्वाहेत्यनुवाकेन प्रतिमन्त्रम्॥९॥
बर्हिषः संभरणादि पाशुकं कर्म प्रतिपद्यते समानमा वपाया होमाता
हुतायां वपायामन्विष्टकं पष्ठौहीदक्षिणा ददाति॥११॥
यद्येतावतीर्दक्षिणा नोत्सहेत मन्थानेतावतः पाययेद्ब्राह्मणान्। ओदनान्वा शयेत्॥१२॥
तेनो हैवास्य स काम उपाप्तो भवति॥१३॥
पष्ठौहीं त्वन्तर्वतीं दद्याद्धिरण्यं वासश्च॥१४॥
यत्प्राङ् मनोतायास्तकृत्वौदुम्बरपात्रेण यूष्णो मृत्यवे ग्रहं गृह्णाति॥१५॥
विपश्चिते पवमानायेति ग्रहणसादनौ॥१६॥
नाचिकेत एव मृत्युग्रहः स्यादित्यपरम्॥१७॥
तस्य स्विष्टकृतमनु होमः॥१८॥
होष्यन्नप उपस्पृशेद्विद्युदसि विद्य मे पाप्मानमिति॥१९॥
अथ जुहोत्यप मृत्युमप क्षुधमिति॥२०॥
अथ हुत्वोपस्पृशेवृष्टिरसि वृश्च मे पाप्मानमिति॥२१॥
तस्येडामनु भक्षः॥२२॥
भक्षयति भक्षो ऽस्यमृतभक्ष इति॥२३॥
भक्षयित्वा प्राणनिहवानात्मन्प्रतिष्ठापयते मन्द्राभिभूतिरित्यनुवाकशेषेणार
समानमत ऊर्ध्वं पाशुकं कर्म॥२५॥
संतिष्ठते सावित्रः॥२६॥
THE NACIKETA-FIRE-ALTAR-BUILDING
19.14
एतेन नाचिकेतो व्याख्यातः॥१॥
नात्र लेखा भवन्ति॥२॥
एकविंशतिर्हिरण्येष्टकाः शर्करा वाभ्यक्ता उपधानकाले नाभ्यामेवो पधीयन्ते चतुरश्रं परिमण्डलं वा लोको ऽसि स्वर्गो ऽसीत्यनुवाकेन प्रतिमन्त्रम्॥३॥
तं हैतमेके पशुबन्ध एवोत्तरवेद्यां चिन्वत इति ब्राह्मणव्याख्याताविकाराः।।४॥
ताननुक्रमिष्यामः॥५॥
पशुबन्धे सोमे सत्त्रे सहस्त्रे सर्ववेदसे वा यत्र वा भूयिष्ठा आहुतयो हूयरेरंस्तत्र चेतव्यः॥६॥
सत्त्रे प्रतिष्ठामीप्सन्यशः प्रजां पशून्स्वर्गमृद्धिमीप्सन्यथावकाशं यथास माम्नातम्॥७॥
सर्वत्र पुरस्तादुपक्रमः प्रदक्षिणमुत्तरतो ऽपवर्गः॥८॥
पशुकामः पातमेव चिन्वीत। पञ्चपञ्च प्रतिदिशमेकां मध्ये॥९॥
ज्येष्ठ्यमीप्सन्यशः प्रजां वा त्रिवृतमेव। सप्त पुरस्तात्तिस्रो दक्षिणतः सप्त पश्चात्तिस्त्र उत्तरत एकां मध्ये॥१०॥
ज्यैष्ठ्यकामो मध्यात्प्रक्रम्योर्खा रीतिं प्रतिपादयेत्॥११॥
स्वर्गकामः पश्चात्प्रक्रम्य प्राची रीतिं प्रतिपादयेत्॥१२॥
स यदीच्छेत्तेजस्वी यशस्वी ब्रह्मवर्चसी स्यामिति प्राग्दक्षिणेभ्यः प्राङा होतुर्धिष्ण्यादुत्सद्येयं प्रागाद्यशस्वती सा मा प्रोर्णोतु तेजसा यशसा ब्रह्मव र्चसेनेति॥१३॥
अथ यदीच्छेद्भूयिष्ठं मे श्रद्दधीरन्भूयिष्ठा दक्षिणा नयेयुरिति दक्षिणासु नीयमानासु प्राच्येहि प्राच्येहीति॥१४॥ प्राची जुषाणा वेत्वाज्यस्य स्वाहेति स्रवेणोपहत्याहवनीये जुहुयात्॥१५॥
स्वयमातृण्णादि समानमुत्तरम्॥१६॥
संतिष्ठते नाचिकेतः॥१७॥
THE CĀTURHOTRA-FIRE-ALTAR-BUILDING
एतेन चातुर्होत्रो व्याख्यातः॥१८॥
यावत्पदं हिरण्येष्टकाः शर्करा वाभ्यक्ताः॥१९॥
उपधानकाले ऽग्रेण दर्भस्तम्बं दशहोतारं प्रतिमन्त्रमुदञ्चमुपदधाति। हृदयं ग्रहं चत्वारि पदानि संभाराणां द्वे पत्नीनाम्॥२०॥
उत्तरतः प्राञ्चं षड्ढोतारम्॥२३॥
उपरिष्टात्प्राञ्चं सप्तहोतारम्॥२४॥ पञ्चात्र पदानि संभाराणामवशिष्टानि च पत्नीनाम्॥२५॥
स्वयमातृण्णादि समानमुत्तरम्॥२६॥
Fifdood ZIGET: 112011
THE VIŚVASRJ-FIRE-ALTAR-BUILDING-RITUAL
19.15
एतेन वैश्वसृजो व्याख्यातः॥१॥
यावन्मन्त्रं हिरण्येष्टकाः शर्करा वाभ्यक्ताः॥२॥
उपधानकाले ऽग्रेणोत्तरनाभिं यच्चामृतं यच्च मर्त्यमित्येतैस्त्रिभिरनुवाकैर भिदक्षिणमग्निं परिचिनोति॥३॥
तिस्रो वा चितयस्त्रिभिरनुवाकैः॥४॥
स्वयमातृण्णादि समानमुत्तरमन्यत्रानुशंसनात्॥५॥
ऋचां प्राची महती दिगुच्यत इत्यनेनानुवाकेनानुशंसति॥६॥
रात्रिसत्त्रेषु शतरात्रान्तेषु समहाव्रतेषु त्रिषु च सारस्वतेषु सत्त्रेषु काठकचातुर्मास्येषु साध्यानां षडहवर्जितेषु विश्वसृजामयने प्रजापतेः सहस्रसंवत्सरयोश्च वैश्वसृजो ऽग्निर्नियतः॥७॥
अभिप्रयायं चेदभिचिनुयुरुत्तरवेदिदेशमेतैर्मन्त्रैरभिमृशेत्॥८॥
यो ऽस्य सुप्रियः सुविचित इव स्यात्तस्मै वैश्वसृजम्। तृतीये वा quransit
SPECIAL COMBINATIONS सावित्रनाचिकेतचातुर्होत्रवैश्वसृजारुणकेतुकान्समस्यन्सौम्ये ऽप्यध्वरे Ferreira 118011
सावित्रः प्रथमा चितिः। लोकंपृणा द्वितीया। नाचिकेतस्तृतीया। लोकंपृणा चतुर्थी। चातुर्होत्रः पञ्चमी। वैश्वसृजः षष्ठी। आरुणकेतुकः सप्तमी॥११॥
सवनीययूष्णो मृत्यवे ग्रहं गृह्णाति॥१२॥
य एतानग्नीन्पृथक् समासेन वा चिन्वान उभयीदक्षिणा ददाति क्रतुदक्षिणा यथासमाम्नातमग्निदक्षिणाश्चेति॥१३॥
अत्र पृथगप्रयुज्य न समस्यन्ते॥१४॥
अग्निं चित्वा सौत्रामण्या यजेत। मैत्रावरुण्या वामिक्षया॥१५॥
आरुणकेतुको ब्राह्मणव्याख्यातः॥१६॥
दिवःश्येनीभिरन्वहं स्वर्गकामो यजेत। अपाद्याभिश्च॥१७॥
ता ब्राह्मणव्याख्याताः॥१८॥