Caraka-Sautrāmaṇi
SAUTRĀMAŅI: CARAKA-SAUTRĀMANĪ
19.01
यहे परस्तात्सीसेन क्लीबाच्छष्पाणि क्रीत्वा क्षौमे वासस्युपना निधाय सौत्रामण्यास्तन्त्रं प्रक्रमयति॥१॥
तस्या निरूढपशुबन्धवत्कल्पः॥२॥
अग्नीनन्वाधाय वेदं कृत्वाग्नीन्परिस्तीर्य पाणिप्रक्षालनादि कर्म प्रतिपद्यते॥३॥
यथार्थं पात्राणि प्रयुनक्ति। स्थाली कपालानां स्थाने॥४॥
निर्वपणकाले ऽश्विभ्यां सरस्वत्या इन्द्राय सुत्राम्णे प्रभूतान्त्रीहीन्नि र्वपति॥५॥
व्याख्यातश्चरुकल्पः॥६॥
श्रपयित्वाग्रेण गार्हपत्यमवटं खात्वा तस्मिन्सुरायाः कल्पेन सुरां संदधाति॥७॥
परिस्तुद्भवति॥८॥
स्वाद्वीं त्वा स्वादुनेति शष्पैः सुरां संसृजति॥९॥
तिस्रो रात्रीः संसृष्टा वसति॥१०॥
एकयूपं छिनत्ति॥११॥
न वेदं करोति॥१२॥
पुरस्तात्कृतेनार्थान्कुरुते॥१३॥
सौमिक्या वेदितृतीये यजत इति विज्ञायते॥१४॥
उत्तरवेद्यां क्रियमाणायां प्रतिप्रस्थाता चात्वालात्पुरीषमाहत्य दक्षिणेनोत्तर वेदिं खरं कृत्वाग्रेणान्वाहार्यपचनं सुराग्रहार्थं द्वितीयं खरं करोति॥१५॥
अग्नौ प्रणीयमाने प्रतिप्रस्थाता दक्षिणाग्नेरग्निमाहृत्य दक्षिणेनोत्तरवेदिं खरे न्युप्योपसमादधाति॥१६॥
पात्रंससादनकाले ऽश्विभ्यां सरस्वत्या इन्द्राय सुत्राम्णे त्रीणि पात्राणि प्रयुनक्ति। सतं वालस्रावं श्येनपत्त्रं श्रयणानि च॥१७॥
प्राक् पशूपाकरणात्कृत्वोद्भिद्य सुरां ब्राह्मणस्य मूर्धन्खरे वा सादयित्वा पुनातु ते परित्रुतमिति वालमयेन पवित्रेण सुरां पावयति॥१८॥
प्राङ् सोमो अतिद्रुत इति सोमवामिनः॥ प्रत्यङ् सोमो अतिद्रुत इति सोमातिपवितस्य॥१९॥
पूतां यथायतनं सादयित्वैकयूपे पशूनुपाकरोति॥२०॥
19.02
आश्विनं धूप्रमजं सारस्वतं मेषमैन्द्रमृषभं वृष्णिं वा बार्हस्पत्यम्॥१॥
चतुर्थं सोमवामिनः सोमातिपवितस्य वा॥२॥
हुतासु वपासु निष्कमृषभं सृत्वरीं च वडवां ददाति
नष्टप्रत्यासृतां ब्रुवते॥४॥
अनुशिशुर्वडवा दक्षिणा॥५॥
हरितरजतौ च शतमानावित्येके॥६॥
चात्वाले मार्जयित्वापरस्मिन्खरे सुराग्रहानगृह्णन्ति॥७॥
कुविदङ्गेति सर्वेषामेका पुरोरुगेका पुरोऽनुवाक्यैकः प्रैष एका याज्या॥८॥
उपयामगृहीतो ऽस्यच्छिद्रं त्वाच्छिद्रेणाश्विभ्यां जुष्टं गृह्णामीत्याश्विनमध्व1103 हाति। एतेनैव सरस्वत्या इति सारस्वतं प्रतिप्रस्थाताग्नीध्रो वा। इन्द्राय त्वेत्यैन्द्रं ब्रह्मा यजमानो वा॥९॥
क्वलसक्तुभिः सिंहलोमभिश्चाश्विनं श्रीणाति। बदरसक्तुभिः शार्दूललोम भिश्च सारस्वतम्। कर्कन्धुसक्तुभिर्वृकलोमभिश्चैन्द्रम्॥१०॥
तदभावे सिंहावध्वर्युर्मनसा ध्यायेत्॥ शार्दूलौ प्रतिप्रस्थाता। वृकौ यजमानः॥११॥
सर्वाञ्छ्येनपत्त्रेण परिमृज्यैष ते योनिरिति यथादेवतं यथायतनं सादयति॥१२॥
पयोग्रहा वा स्युः॥१३॥
पाशुकानि वाज्यानि गृहीत्वा ग्रहानगृह्णीयुः॥१४॥
ततः पुरोडाशान्निर्वपति। बार्हस्पत्यस्य पशुपरोडाशं निरुप्यन्द्रमेकादश पालमिति॥१५॥
त्रींस्तानासाद्य ग्रहैः प्रचरन्ति॥१६॥
ये गृह्णन्त्यध्वर्युः संप्रेष्यति॥१७॥
अश्विभ्यां सरस्वत्या इन्द्राय सुत्राम्णो सोमानां सुराम्णामनुब्रूहि। अश्विभ्यां सरस्वत्या इन्द्राय सुत्राम्णे सोमानां सुराम्णां प्रेष्येति संप्रैषौ। सोमान्सुराम्णः प्रस्थितान्प्रेष्येति वा॥१८॥
युवं सुराममश्विना नमुचावासुरे सचा। विपिपाना शुभस्पती इन्द्रं स्वावतम्॥ पुत्रमिव पितरावश्विनोभेन्द्रावतं कर्मणा दंसनाभिः। यत्सुरामं पिबः शचीभिः सरस्वती त्वा मघवन्नभीष्णादिति सर्वदेवत्ये याज्यानुवाक्ये भवतः॥१९॥
19.03
सोमस्याग्ने वीहीत्यनुयजति॥१॥
अहाव्यग्ने हविरास्ये ते सुचीव घृतं चमू इव सोमः॥ वाजसनिं रयिमस्मे सुवीरं प्रशस्तं धेहि यशसं बृहन्तम्॥ यस्मिन्नश्वास ऋषभास उक्षणो वशा मेषा अवसृष्टास आहुताः। कीलालपे सोमपृष्ठाय वेधसे हृदा मतिं जनये चारुमग्नय इति हुतां हूयमानां वा यजमानो ऽनुमन्त्रयते॥२॥
ब्राह्मणं परिक्रीणीयादुच्छेषणस्य पातारम्॥३॥
नाना हि वां देवहितं सदो मितं मा संसृक्षाथां परमे व्योमन्। सुरा त्वमसि शुष्मिणी सोम एष मा मा हिंसीः स्वां योनिमाविशन्॥ यदत्र शिष्टं 1106 रसिनः सुतस्य यदिन्द्रो अपिबच्छचीभिः। अहं तदस्य मनसा शिवेन सो राजानमिह भक्षयामीति वा स्वयं पिबेत्॥४॥
द्वे स्त्रुती अशृणवं पितॄणामहं देवानामुत मर्त्यानाम्। ताभ्यामिदं विश्वं भुवनं समेत्यन्तरा पूर्वमपरं च केतुमिति वा वल्मीकपायामवनयेत्॥५॥
दक्षिणे ऽग्नौ शतातृण्णां स्थाली प्रबद्धा धारयति॥६॥
तस्या बिल उदीचीनदशं पवित्रं वितत्य यन्मे मनः परागतमिति तस्मिञ्छ तमानं हिरण्यं निधाय सोमप्रतीकाः पितृरस्तृष्णुतेति तस्मिन्सुराशेषमानयति। सोमप्रतीकाः पितरो मदन्तां व्यशेम देवहितं यदायुः। इन्द्रपीतो विचक्षणो व्यशेम देवहितं यदायुरिति वा॥७॥
स्रवन्तीं सौमीभिः पितृमतीभिस्तिसृभिस्तिसृभिरुत्तरोत्तराभिरुपतिष्ठन्ते॥८॥
त्वं सोम प्रचिकित इत्येता आम्नाता भवन्ति॥९॥
पुरस्तादध्वर्युः। दक्षिणतो ब्रह्मा। पश्चाद्धोता॥१०॥
यदग्ने कव्यवाहनेति काव्यवाहनीभिर्दक्षिणे ऽग्नौ शतातृण्णां प्रतिष्ठापयति यदि ब्राह्मणो यजते॥११॥
XIX .4
अथ यदि राजन्यो वैश्यो वा नाद्रियेत दक्षिणमग्निं प्रणयितुम्॥१॥
स्वयमेतं सुराशेषं व्रतयन्नासीत॥२॥
बार्हस्पतस्य पशुपुरोडाशेन प्रचर्य पशुभिः प्रचर्य पुरोडाशैः प्रचरति॥३॥
समानं तु स्विष्टकृदिडम्॥४॥
अग्नीदौपयजानङ्गारानाहरेत्येतदादि पाशुकं कर्म प्रतिपद्यते॥५॥
हृदयशूलैर्मासरेण पाश्चावभृथमवयन्ति॥६॥
मासरमृजीषकल्पेन प्रतिपादयति॥७॥
बल्कसं मासर इत्याचक्षते॥८॥
यस्त्रे देव वरुण गायत्रच्छन्दाः पाशस्तं त एतेनावयजे स्वाहेत्याश्विनपात्रम वभृथे प्रविध्यति। एतेनैव त्रिष्टुम्छन्दा इति सारस्वतस्य। जगतीछन्दा इत्यैन्द्रस्य। पङ्क्तिच्छन्दा इति शूलान्॥९॥
तूष्णीं प्रत्यायनम्॥१०॥
तया सोमवामिनं सोमातिपवितं राजानमपरुध्यमानमपरुद्धमभिषिच्यमा नमभिषिषिचानं वा याजयेत्॥११॥
अभिचर्यमाणो यजेता अभिचरन्नन्नाद्यकामः प्रजाकामः पशुकामो वा॥१२॥
सर्वेष्वभिषेकेष्वाम्नाता॥१३॥
तया ब्राह्मणो राजन्यो वैश्यो वा तेजस्कामो यजेत॥१४॥
Kaukilī-Sautrāmaṇī
KAUKILI SAUTRĀMAŅI
अथातः कौकिली व्याख्यास्यामः॥१॥
तस्याः पूर्ववत्कल्पः॥२॥
निर्वपणकाल ऐन्द्रं पशुमालभते॥३॥
ऋषभो दक्षिणा॥४॥
आदित्यं चरुम्॥५॥
वत्सः ॥६॥
पुरस्तादेव कालायसेन कालानुशातनेन कालेन तसरेण पक्ष्मणा व्रीहिय वेश्यामाकान्क्रीत्वा क्षौमे वासस्युपनद्धान्त्रीहीस्तोक्मानि कुर्वन्ति। यवानीषदुप तप्तान्॥७॥
चूर्णानि तानि दनोदश्विता वा संसृज्य द|ः परितस्य निदधाति॥८॥
स मासरः॥९॥
तेषामेव स्थूलचूर्णानि संस्त्रावेणभिषिक्तानि स नग्नहुः॥१०॥
श्यामाकान्सक्तून्कृत्वा सुरायाः संधानकाले तोक्मैर्मासरेण नग्नहुना च सुरां संसृज्य सक्तूनां तृतीयेन परिकीर्य परीतो षिञ्चता सुतमित्येकस्या गोर्दुग्धेन परिषिच्यापरेण तृतीयेन परिकीतयैव तिसृणां दुग्धेन तिस्त्रो रात्रीः संसृष्टा वसति॥११॥
19.06
अवटस्थाने कारोतरमेके समामनन्ति॥१॥
बैदलश्चर्मनद्धो भवति॥२॥
तस्मिन्बैदलं शुण्डामुखमवदधाति॥३॥
तस्य बिलं चर्मणा परिणद्धं भवति॥४॥
तस्मिन्यदा स्रवति सा परिसुद्भवति॥५॥
पात्रसंसादनकाले ऽश्विभ्यां सरस्वत्या इन्द्राय सुत्राम्णे त्रीणि पात्राणि प्रयुनक्ति ॥६॥
त्रयान्सक्तून्यवगोधूमानामुपवाकासक्तूंश्च श्येनपत्त्रे वाले द्रोणे वा॥७॥
अजाविलोम्नामध्वर्योः पवित्रं भवति। गोअश्वानां प्रतिप्रस्थातुः॥८॥
आज्यं निरुप्याध्वर्युद्रोणे प्रभूतं पयो निर्वपति॥९॥
मन्त्रवदित्याश्मरथ्यः। तूष्णीमित्यालेखनः॥१०॥
आज्यमुत्पूय वालेन पय उत्पुनाति॥११॥
प्राङ् सोमो अतिद्रुत इति सोमवामिनः। प्रत्यङ् सोमो अलिद्रुत इति सोमातिपवितस्य॥१२॥
ब्रह्मक्षत्रं पवत इति सुरां प्रतिप्रस्थाता॥१३॥
पाशुकान्याज्यानि गृहीत्वाध्वर्युः पयोग्रहानगृह्णाति॥१४॥
कुविदङ्गेति सर्वेषामेका पुरोरुगेका पुरोऽनुवाक्यैकः प्रैष एका याज्या॥१५॥
19.07
उपयामगृहीतो ऽस्यश्विभ्यां त्वा जुष्टं गृह्णामीति गृहीत्वा यवसक्तुभिः श्रीत्वा पवित्रेण परिमृज्यैष ते योनिस्तेजसे त्वेति सादयित्वोपयामगृहीतो ऽसीन्द्राय त्वा सुत्राम्णे जुष्टं गृह्णामीति गृहीत्वोपवाकासक्तुभिः श्रीत्वा पवित्रेण परिमृज्यैष ते योनिर्बलाय त्वेति सादयित्वोत्तरैर्यथालिङ्गमुपतिष्ठते॥१॥
सुरायां वाल आनीयमानायां धारायाः प्रतिप्रस्थाता सुराग्रहान्गृह्णाति॥२॥
नाना हि वां देवहितं सदः कृतमिति सर्वेषामेका पुरोरुगेका पुरोऽनुवाक्यैकः प्रैष एका याज्या॥३॥
उपयामगृहीतो ऽस्याश्विनं तेजो ऽश्विभ्यां त्वा जुष्टं गृह्णामीति गृहीत्वा पवित्रेण परिमृज्यैष ते योनिर्मोदाय त्वेति सादयति॥४॥
उपयामगृहीतो ऽसि सारस्वतं वीर्यं सरस्वत्यै त्वा जुष्टं गृह्णामीति गृहीत्वा पवित्रेण परिमृज्यैष ते योनिरानन्दाय त्वेति सादयति॥५॥
उपयामगृहीतो ऽस्यैन्द्रं बलमिन्द्राय त्वा सुत्राम्णे जुष्टं गृह्णामीति गृहीत्वा पवित्रेण परिमृज्यैष ते योनिमहसे त्वेति सादयति॥६॥
सुरावच्छ्रयणानि।७॥
सन्नाननुवाकशेषेणाध्वर्युर्यजमानश्चोपतिष्ठते। उत्तरेण चानुवाकेन॥८॥
19.08
पूर्ववत्पशूनुपाकरोति॥१॥
बार्हस्पत्यवर्जं समानमा पर्यग्निकरणात्॥२॥
मध्यमे पर्यग्निकरणपर्याय उल्मुकैकदेशं खरे न्युष्योपसमादधाति॥३॥
शेषेण पर्यग्नि कृत्वैतदेव पशुश्रपणार्थं प्रणयति॥४॥
हुतासु वपासु चत्वारिंशद्गा दक्षिणां ददाति अनुशिशुंच वडवाम्॥५॥
अत्र वा ग्रहान्गृह्णीयुः॥६॥
उक्तः संप्रेषः॥७॥
सर्व आहवनीये हूयेरन्नित्याश्मरथ्यः। दक्षिणे ऽग्नौ सुराग्रहा इत्यालेखनः॥८॥
सुरावन्तमिति पयोग्रहाञ्जुहोति। यस्ते रसः संभृत इति सुराग्रहान्॥९॥
तूष्णीमनुवषट्कृते हुत्वा यमश्विना नमुचेरित्याश्विनमध्वर्युर्भक्षयति॥१०॥
यदत्र रिप्तमिति सारस्वतं प्रतिप्रस्थाताग्नीध्रश्च॥११॥
इदं हविरित्यैन्द्रं ब्रह्मा यजमानश्च॥१२॥
व्याख्याता सुरायाः प्रतिपत्तिः॥१३॥
दक्षिणेनाहवनीयं पयःशेषं पितृपितामहप्रपितामहेभ्यो ददाति पितृभ्यः स्वधाविभ्यः स्वधा नम इति॥१४॥
पुनन्तु मा पितरः सोम्यास इत्युपतिष्ठते॥१५॥
19.09
अथाहुती जुहुतः। ये समाना इत्यध्वर्युः। ये सजाता इति प्रतिप्रस्थाता॥१॥
मनोताकाले पृथक् पात्रेषु पशूनां यूषाणि निदधाति॥२॥
पुरस्तात्स्विष्टकृतः शृङ्गशफैरुपहोमा होति॥३॥
अष्टावष्टावेकैकस्य कुष्ठिकाशफाः।।४॥
आश्विनस्य यूषेण कुष्ठिकां शफं च पूरयित्वा सीसेन तन्त्रमित्यष्टर्चेन प्रतिमन्त्रं द्वाभ्यांद्वाभ्यां कुष्ठिकाशफाभ्यां जुहोति॥५॥
उत्तमायां शृङ्गे अनुषजति॥६॥
हुत्वाहुत्वा स्वेष्वभिषेचनपात्रेषु संपातानवनीयाहवनीये कुष्ठिकाशफान्ग्र विध्यति॥७॥
एवमुत्तरेणाष्टर्चेन सारस्वतस्य॥८॥
सर्वेणानुवाकेनैन्द्रस्य॥९॥
औदुम्बर्यासन्धलिमात्रशीर्षण्यानूच्या नाभिदनपादा मौञ्जविवाना॥१०॥
मित्रो ऽसि वरुणो ऽसीति तां यजमानायतने प्रतिष्ठापयति॥११॥
आसादनोपवेशनाभिमन्त्रणानि राजसूयवत्॥१२॥
तस्यां प्राङ्मुखमासीनं प्रत्यङ्मुखस्तिष्ठन्नाश्विनसंपातैरभिषिञ्चति देवस्य त्वा सवितुः प्रसवे ऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यामश्विनोभैषज्येन तेजसे ब्रह्म वर्चसायाभिषिञ्चामीति॥१३॥
एवमुत्तरेण मन्त्रेण सारस्वतस्य॥१४॥
उत्तमेनैन्द्रस्य॥१५॥
19.10
को ऽसि कतमो ऽसीति पाणी संमृश्याध्वर्युाहतीर्जुहोति॥१॥
अत्र राजसूयवन्मङ्गल्यनाम्न आहूय शिरो मे श्रीरिति यथालिङ्गमङ्गानि संमृश्य जवाभ्यां पद्भ्यामिति प्रत्यवरुह्य प्रति क्षत्रे प्रतितिष्ठामि राष्ट्र इति जपित्वा त्रया देवा इत्याहुतीर्तुत्वा लोमानि प्रयतिर्ममेति यथालिङ्गमङ्गानि संमृशते॥२॥
स्विष्टकृत्प्रभृति समानमावभृथात्॥३॥
यदेवा देवहेडनमित्यवभृथे पञ्चाहुती र्जुहोतीत्याश्मरथ्यः। आहवनीये हूयेरन्नित्यालेखनः।।४॥
अवभृथ निचङ्कणेत्यवभृथं यजमानो ऽभिमन्त्र्य सुमित्रा न आपो द्रुपदादिवेन्मुमुचान इत्याप्लुत्योद्वयं तमसस्परीत्यादित्यमुपस्थाय प्रतियुतो वरुणस्य पाश इत्युदकान्तं प्रत्यस्यति॥५॥
पशुवत्समिध उपस्थानं च॥६॥
समाववर्तीत्युपस्थाय भूः स्वाहेत्याहुतिं हुत्वा पूर्ववत्पितृयज्ञः॥७॥
इन्द्राय वयोधसे पशुमालभते॥८॥
ऋषभो दक्षिणा॥९॥
विज्ञायते च। वत्सं पूर्वस्यां ददाति। मातरमुत्तरस्याम्॥१२॥
तया स्वर्गकामो यजेत॥१४॥