18.08
RAJASŪYA राजा स्वर्गकामो राजसूयेन यजेत॥१॥
शतसहस्रं दक्षिणा॥२॥
अग्निष्टोमः पञ्चापवर्गः प्रथममहः॥३॥
पञ्च सहस्त्राणि पवित्रे ददाति। त्रिंशतमभिषेचनीये। त्रिंशतं दशपेये। दश केशवपनीये। विंशतिं व्युष्टिद्विरात्रे। पञ्च क्षत्रस्य धृतौ॥४॥
अपि वा चत्वार्यभिषेचनीये॥५॥
प्रतिसाहस्राणीतराण्यहानि॥६॥
षष्टि त्रीणि शतानि सहस्राणां ददातीति बढेचब्राह्मणं भवति॥७॥
तथा दक्षिणा अतिनयेद्यथास्याहानि स्वकालानि स्युः॥८॥
शेषमनुदिशति॥९॥
श्वोभूत आनुमतादिभिरष्टाभिरन्वहं यजते॥१०॥
पिंषन्नानुमतं पश्चादुत्तरतश्च व्यवशातयति॥११॥
ये प्रत्यञ्चः शम्याया अवशीयन्ते तन्नैर्ऋतमेककपालम्॥१२॥
य उदञ्चस्तानुदङ् परेत्य वल्मीकवपामुद्धत्येदमहममुष्यामुष्यायणस्य क्षेत्रि यमवयज इति शुक्तया वल्मीकवपायां हुत्वेममहममुष्यामुष्यायणस्य क्षेत्रियम पिदधामीति तयैव शुक्त्या वल्मीकवपामपिदध्यात्॥१३॥
वल्मीकवपया जुहोति वल्मीकवपयापिदधातीत्येके॥१४॥
आनुमतमासाद्य नैर्ऋतेन प्रचरति॥१५॥
वीहि स्वाहेति गार्हपत्ये हुत्वादक्षिणाग्नेरेकोल्मुकं धूपायद्धरति॥१६॥
दक्षिणमपरमवान्तरदेशं गत्वा स्वकृत इरिणे प्रदरे वोपसमाधायैष ते निर्ऋते भाग इत्युङ्गष्ठाभ्यां विस्त्रंसिकाकाण्डाभ्यां वा नैर्ऋतं सर्वहुतं जुहोति॥१७॥
कृष्णं वासः कृष्णतूषं दक्षिणा॥१८॥
कृष्णं वासो भिन्नान्तमित्येके॥१९॥
अप्रतीक्षमायन्ति निर्ऋत्या अन्तर्हित्या इति विज्ञायते॥२०॥
18.09
स्वाहा नमो य इदं चकारेति पुनरेत्य गार्हपत्ये हुत्वानुमतेन प्रचरति॥१॥
धेनुर्दक्षिणा॥२॥
आदित्यं चरुमित्येताभिरन्वहमिष्ट्वा चातुर्मास्यान्यालभते॥३॥
तैः संवत्सरं यजते॥४॥
न शुनासीरीय प्रतिसमस्यति॥५॥
ततश्चतुर्ह विषेन्द्रतुरीयेण यजते॥६॥
आग्नेयमष्टाकपालमिति॥७॥
वहिनी धेनुर्दक्षिणा॥८॥
तया भ्रातृव्यवन्तं प्रियं वा याजयेत॥१॥
एतस्या एव रात्रेर्निशायां पञ्चेध्मीयेन यजते॥१०॥
चतुर्धाहवनीयं प्रतिदिशं व्युद्धृत्य मध्य पञ्चमं कृत्वा पृथगिध्मानुप समाधाय जुह्वां पञ्चगृहीतं ये देवाः पुरःसद इत्येतैर्यथालिङ्गं जुहोति। मध्ये पञ्चमेन ॥११॥
समूढं रक्ष इति मध्य इध्मानुपसमूौकधोपसमाधायापरं पञ्चगृहीतं गृहीत्वाग्नये रक्षोले स्वाहेत्युत्तराः पञ्चाहुतीर्जुहोति॥१२॥
प्रष्टिवाही रथो दक्षिणा पञ्चवाही वा॥१३॥
तेन यजेत यो रक्षोभ्यो बिभीयात्पिशाचेभ्यो वा॥१४॥
व्युष्टायां पुराग्निहोत्रादपामार्गहोमेन चरन्ति॥१५॥
अपां न्ययनादपामार्गानाहृत्य तान्सक्तून्कृत्वा दक्षिणाग्नेरेकोल्मुकं धूपायद्धरति॥१६॥
उत्तरमपरमवान्तरदेशं गत्वा स्वकृत इरिणे प्रदरे वोपसमाधाय देवस्य त्वेत्यनुद्रुत्य रक्षसो वधं जुहोमीति पर्णमयेन स्रवेण जुहोति॥१७॥
हतं रक्ष इति त्रुवमनुप्रहृत्यावधिष्म रक्ष इत्युपतिष्ठते॥१८॥
अप्रतीक्षमायन्ति रक्षसामन्तर्हित्या इति विज्ञायते॥२०॥
18.10
अग्निहोत्रं हुत्वा देविकाहवींषि निर्वपति॥१॥
धात्रे पुरोडाशं द्वादशकपालमिति पञ्च॥२॥
मिथुनौ गावौ दक्षिणा॥३॥
पशुरप्यत्रोपालम्भ्यो धात्रे। न वा॥४॥
आग्नावैष्णवमेकादशकपालमिति त्रीणि हवींषि॥५॥
तेषां प्रथमेन ग्रामकामो पशुकामः॥६॥
वीरजननमित्येके।७॥
वैश्वानरं द्वादशकपालं निर्वपति॥८॥
हिरण्यं दक्षिणा॥९॥
वारुणं यवमयं सर्वतः प्रादेशमात्रं चरुम्॥१०॥
अश्वो ऽव्युप्तवहो दक्षिणा॥११॥
बार्हस्पत्यं चरुमिति द्वादशान्वहं रलिनां हवींषि॥१२॥
यस्य गृहे निर्वपति तत इष्टिपरिवेषणं दक्षिणा च॥१३॥
भगाय चरुश्चतुर्थो वावातायै गृहे॥१४॥
विचित्तगर्भा पष्ठौही दक्षिणा॥१५॥
नैर्ऋतः सर्वतोऽङ्गष्ठपर्वमात्रश्चरुरित्येके॥१६॥
वैष्णवं त्रिकपालं त्रयोदशं तक्षरथकारयोर्गृहे॥१७॥
सर्वायसानि दक्षिणा॥१८॥
तक्ष्णो रथकारस्य वेत्येके॥१९॥
रौद्रं गावीधुकचरुमक्षावापस्य गृहे। गोविकर्तस्य वा॥२०॥
केसरपाशाभिधानी दक्षिणा। कृपाणो वालाभिवीतः शबलो वा॥२१॥
त्रिवत्स इति विज्ञायते॥२२॥
असिर्वालावृतो वार्धीवालप्रतिग्रथिता गोव्यच्छिनी बरासी दामतूषा शबलो वा वत्सतरः॥२३॥
अश्वः शोणकर्ण इत्येके॥२४॥
अध्वने स्वाहेति पालाकलस्य गृहे जुहोति॥२५॥
अनृतदूतं ब्रुवते॥२६॥
त्रयश्चर्ममया बाणवन्तो दक्षिणा। धनुर्वा वेत्रवेष्टितम्॥२७॥
यजमानस्य गृह इन्द्राय सुत्राम्णे पुरोडाशमेकादशकपालं प्रतिनिर्वपति। इन्द्रायांहोमुच एकादशकपालम्॥२८॥
ऋषभो दक्षिणा॥२९॥
निष्कः कवचमित्येके॥३०॥
18.11
अयं नो राजा वृत्रहा राजा भूत्वा वृत्रं वध्यादिति पुरस्तात्स्विष्टकृतो ऽध्वयुर्जपति॥१॥
स्वयमवपन्नाया अश्वत्थशाखायै मैत्रं पात्रं चतुःस्त्रक्तिं करोति॥२॥
श्वेतां श्वेतवत्सामामस्त्ये दूतौ दुहन्ति॥३॥
तत्स्वयंमूर्तं संयोगेन परिवहन्ति।।४॥
तत्स्वयंमथितमातपे विषजन्ति॥५॥
तत्स्वयंविलीनमाज्यं भवति॥६॥
श्वो भूते ऽभिषेचनीयस्योक्थ्यस्य दीक्षाः प्रक्रमयति॥७॥
मैत्राबार्हस्पत्या दीक्षणीया॥८॥
स्वयंकृता वेदिर्भवति। स्वयंदिनं बर्हिः। स्वयंकृत इध्मः॥९॥
अथैकेषाम्॥ अर्धं वेद्याः कुर्वन्ति। अर्धं स्वयंकृतम्॥ अर्धं बर्हिति। अर्धं स्वयंदिनमुपसंनह्यति॥ अर्धमिध्यस्य वृश्चति। अर्धं स्वयंवृक्णम्॥१०॥
संलोभ्यं बर्हिः। संचार्य इध्म इत्येके॥११॥
पात्रसंसादनकाले बार्हस्पत्यं चरु मैत्रं च पात्रं कपालानां स्थाने प्रयुन क्ति॥१२॥
त्रिष्फलीकृतांस्तण्डुलान्विभागमन्त्रेण विविनक्ति कर्णाश्चाकर्णाश्च॥१३॥
क्षोदिष्ठांश्च स्थविष्ठांश्चेत्येके॥१४॥
ये कर्णाः स पयसि बार्हस्पत्यः॥१५॥
यदा तो भवत्यथैनं मैत्रेण पात्रेणापिदधाति॥१६॥
तस्मिन्स्वयंविलीनमानयति॥१७॥
पवित्रवत्याज्ये ऽकर्णानावपति॥१८॥
तावुत्तराधरौ करोति॥१९॥
एवं सह शृतौ भवतः॥२०॥
बार्हस्पत्यमासाद्य मैत्रमासादयति॥२१॥
एवं प्रचरति॥२२॥
शितिपृष्ठो बार्हस्पत्यस्य दक्षिणा। अश्वो मैत्रस्य। सा चैव श्वेता श्वेतवत्सा॥२३॥
तथाभिषेचनीयस्योक्थ्यस्य दीक्षाः प्रवर्धयति यथा संवत्सरस्य दशरात्रे शिष्टे दशपेयो भविष्यतीति॥१॥
सह सोमौ क्रीणात्यभिषेचनीयाय दशपेयाय च। सह परिवहति॥२॥
अर्धं राज्ञः पुरोहितस्य गृहे दशपेयार्थं निदधाति॥३॥
अग्नीषोमीयस्य पशुपुरोडाशमष्टौ देवसुवां हवींष्यनुनिर्वपति॥४॥
समानं तु स्विष्टकृदिडम्॥५॥
पुरस्तात्स्विष्टकृतः सविता त्वा प्रसवानां सुवतामिति ब्रह्मा यजमानस्य हस्तं गृह्णाति॥६॥
अथैनं रलिभ्य आवेदयत्येष वो भरता राजेति। एष वः कुरवो राजेति कौरव्यम्। एष वः पञ्चाला राजेति पाञ्चालम्। एष वः कुरुपञ्चाला राजेति वा कुरुपाञ्चालान्। एष वो जनता राजेत्यन्यान् राज्ञः॥७॥
सोमो ऽस्माकं ब्राह्मणानां राजेति ब्रह्मा जपति॥८॥
प्रति त्यन्नाम राज्यमधायीति वारुणीभ्यां यजमानो मुखं विमृष्टे॥९॥
विष्णोः क्रमो ऽसीति त्रीविष्णुक्रमान्प्राचः क्रामति॥१०॥
प्राङ् माहेन्द्रात्कृत्वा माध्यंदिनीयान्पुरोडाशान्निरुप्य मारुतमेकविशंतिक पालं निर्वपति। वैश्वदेवीं चामिक्षाम्॥११॥
तस्यारण्येऽनुवाक्यतृतीयैर्गणैः कपालान्युपदधाति। ईदृङ् चान्यादृङ्चेत्ये ताभ्याम्। मध्ये ऽरण्येऽनुवाक्येन॥१२॥
अभिवास्यापां ग्रहानगृह्णाति॥१३॥
आग्नीध्रे वायव्यैर्गुह्यन्ते॥१४॥
षोडश सप्तदश वा होमा हूयन्ते॥१५॥
तावन्त एव ग्रहा गृह्यन्ते॥१६॥
18.13
अर्थेत स्थेति सारस्वतीष्वप्सु हुत्वैतेनैव मन्त्रेण गृह्णाति॥१॥
एवमुत्तरैः। येन जुहोति तेन गृह्णाति॥२॥
अपां पतिरिति समुद्रियाः सैन्धवीर्वा यो वान्यः पुंनदः स्यात्॥३॥
पुरुषे पशौ वाभ्यवेते प्रतीपमन्य ऊर्मियुध्यति। अन्वीपमन्यः॥४॥
वृषासीति यः प्रतीपम्॥ वृषसेनो ऽसीति यो ऽन्वीपम्॥५॥
व्रजक्षित स्थेति कूप्यानाम्॥६॥
मरुतामोज स्थेति याः प्रतीपं गच्छन्ति। ह्रादुनीनां वा।७॥
प्रहावरी स्थेति या उत्स्यन्दित्वा तत्रैव प्रत्यवसिच्यन्ते॥८॥
परिवाहिणी स्थेति परिनदीनाम्॥९॥
सूर्यवर्चस इत्यातपति वाणाम्॥१०॥
सूर्यत्वचस इति यासु रूपाणि परिदृश्यन्ते॥११॥
मान्दा इति स्थावराणाम्॥१२॥
वाशा इति पुष्वाणाम्॥१३॥
शक्वरीरिति गोरुल्व्यानाम्॥१४॥
विश्वभृत इति पयसः॥१५॥
जनभृत इति दध्नः॥१६॥
अग्नेस्तेजस्या इति घृतस्य॥१७॥
अपामोषधीनां रस इति मधुनः॥१८॥
अपो देवीर्मधुमतीरगृह्णन्निति सर्वत्र होमे ग्रहणे चानुषजति॥१९॥
राष्ट्रदा स्थ राष्ट्र दत्त स्वाहेति होमसंयुक्ते। राष्ट्रदा स्थ राष्ट्रममुष्मै दत्तेति ग्रहणसंयुक्ते॥२०॥
देवीराप इति वैतसे सते ग्रहान्समवनीयानाधृष्टाः सीदतेत्यन्तरा होतृर्धिष्णियं ब्राह्मणाच्छंसिनश्च सादयित्वा निभृष्टमसीति तस्मिञ्छतमानं हिरण्यमवधाय शुक्रा वः शुक्रेणोत्पुनामीति तेनोत्पूय सधमादो धुम्निनीरूज एता इति चतुर्यु पात्रेषु व्यानयति। पालाश औदुम्बर आश्वत्थे नैयग्रोधे च॥२१॥
यः सते प्ररेकस्तमुदङ् परेत्य रुद्र यत्ते क्रयी परं नामेत्याग्नीध्रीये जुहोति॥२२॥
18.14
क्षत्रस्योल्बमसीति तायँ यजमानः परिधत्ते। क्षत्रस्य योनिरसीति पाण्डर मुष्णीष द्वितीयम्॥१॥
श्वेतं पाण्डरमित्याचक्षते॥२॥
त्रीण्येके पाण्डरतार्योष्णीषाणि॥३॥
शिरसि वोष्णीषम्॥४॥
अथैनमेकशतेन दर्भपुञ्जीलैः पवयति। एकशतेनाङ्क्ते॥५॥
पञ्चाशता दक्षिणमक्षि। एकपञ्चाशतोत्तरम्॥६॥
अथैनं दध्याशयति॥ औदुम्बरं शष्पाणि च॥७॥
अङ्क्ते ऽभ्यङ्क्ते ऽश्नाति वासः परिधत्त इत्येवमनुपूर्वाण्येके समामनन्ति।॥
आग्नीध्र एतानि कर्माणि क्रियन्ते॥९॥
अप उपस्पर्शयित्वाविन्नो अग्निरित्याविदो यजमानं वाचयन्बहिरुदानीयैष वो भरता राजेत्युक्त्वेन्द्रस्य वज्रो ऽसीति धनुर्यजमानाय प्रयच्छति॥१०॥
शत्रुबाधना स्थेति त्रीबाणवतः॥११॥
पात मा प्रत्यञ्चमिति प्रदीयमानाननुमन्त्रयते॥१२॥
पात प्राञ्चं पात प्रत्यञ्चं पातोदञ्चमिति प्रयच्छन्नध्वर्युर्जपति॥१३॥
मित्रो ऽसीति दक्षिणं बाहुं यजमान उद्यच्छते। वरुणो ऽसीति सव्यम्॥१४॥
एतद्वा विपरीतम्॥१५॥
हिरण्यवर्णावित्युद्यतावभिमन्त्रयते॥१६॥
अथैनं पञ्चभिर्दिशो व्यास्थापयति॥१७॥
XVIII .15
समिधमा तिष्ठेति। मनसा चानुप्रक्रामति॥१॥
अत्र वा मारुतं निर्वपेत्॥२॥
तं बर्हिषदं कृत्वना व्याघ्र परिषस्वजानाः सिंह हिन्वन्ति महते सौभगाय। समुद्रं न सुहवं तस्थिवांसं मर्मज्यन्ते द्वीपिनमप्स्वन्तरिति स्फ्येन पुरोडा शमिभिचरन्निहन्ति॥३॥
यत्स्फ्य आश्लिष्यति यच्च प्रतिशीर्यते तद्विष्णवे शिपिविष्टाय जुहोति॥४॥
अग्रेण प्रशास्तुधिष्णियं खादिरीमौदुम्बरी वासन्दी प्रतिष्ठाय सोमस्य त्विषिरसीति तस्यां शार्दूलचर्म प्राचीनग्रीवमुत्तरलोमास्तीर्यामृतमसीति तस्मिञ्छतमानं हिरण्यं निधाय दिद्योन्मा पाहीति सौवर्णेन शतमानेन शतक्षरेण शतकृष्णलेन वा यजमानस्य शीर्षन्नधि निधत्ते॥५॥
तामारोहन्यजमानो ऽवेष्टा दन्दशूका इति दक्षिणेन पदा सीसं पण्डकाय प्रत्यस्यति। निरस्तं नमुचेः शिर इति सव्येन लोहितायसं केशवापाय॥६॥
तौ बहिर्वेदि निरस्यतः॥७॥
अग्नये स्वाहेति षट् पार्थानि पुरस्तादभिषेकस्य जुहोति॥८॥
पृथिव्यै स्वाहेति षड्भूतानामवेष्टीः॥९॥
ऊर्ध्वबाहु तिष्ठन्तं माहेन्द्रस्य स्तोत्रं प्रत्यभिषिञ्चति॥१०॥
सोमो राजेत्यभिमन्त्र्य सोमस्य त्वा द्युम्नेनाभिषिञ्चामीति॥११॥
18.16
पालाशेन पुरस्तादध्वर्युः॥१॥
एवमितरे॥२॥
औदुम्बरेण दक्षिणतो ब्रह्मा। राजन्यो वा॥३॥
आश्वत्थेन पश्चाद्वैश्यः॥४॥
नैयग्रोधेनोत्तरतो जन्यमित्रम्॥५॥
क्षत्राणां क्षत्रपतिरसीत्यभिषिच्यमानमभिमन्त्रयते॥६॥
समाववृत्रन्निति ये ऽभिषिच्यमानस्य लेपा व्यवस्रवन्ति॥७॥ तान्पात्रैरुन्माष्टि॥८॥
इन्द्रस्य योनिरसि जनधा इति कृष्णविषाणया वासांसि विचचूते। एक द्वे सर्वाणि वा॥९॥
तान्युत्कर उदस्यत्यति दिवस्पाहीति॥१०॥
इन्द्राय स्वाहेति षट् पार्थान्युपरिष्टादभिषेकस्य जुहोति॥११॥
अद्भ्यः स्वाहेति षड्भूतानामवेष्टीः॥१२॥
अत्र वा प्ररेकं जुहुयात्॥१३॥
यां भार्यां कामयेत राष्ट्रमस्यै प्रजा स्यादिति तस्या औपासने प्रतिहित मारम्भयित्वा ये पात्रेषु लेपा व्यवसृतास्तेभ्यो नामव्यतिषञ्जनीयौ होमौ जुहुयात्प्र जापते न त्वदेतानीति॥१४॥
असावमुष्य पुत्र ऽमुष्या असौ पुत्र इति नामनी व्यतिषजति॥१५॥
नामानीत्येके॥१६॥
18.17
इन्द्रस्य वन्तो ऽसीति रथमुपावहृत्य मित्रावरुणयोस्त्वा प्रशास्त्रोः प्रशिषा युनज्मीति प्रष्टिवाहिनं रथं युनक्ति॥१॥
विष्णोः क्रमो ऽसीति रथं यजमानो ऽभ्येति॥२॥
यः क्षत्रियः प्रतिहितः सो ऽन्वारभते॥३॥ प्र ससाहिषे पुरुहूतेत्येतयैव दक्षिणतो ब्रह्मान्वेति॥४॥
मरुतां प्रसवे जेषमिति प्रयाति॥५॥
सधनू राजन्यः पुरस्तादुत्तरतो वावस्थितो भवति॥६॥
तस्मा एतानिषूनस्यत्याप्तं मन इति॥७॥
एकैकमुत्सृज्य तं जित्वा समहमिन्द्रियेण वीर्येणेति प्रदक्षिणमावर्तते।८॥
यतः प्रयाति तदवतिष्ठते॥९॥
इन्द्रस्य वज्रो ऽसीति धनुराा पत्नीमश्वांश्चोपनुदति॥१०॥
एष वज्रो वाजसास्तेन नौ पुत्रो वाजं सेदिति धनुः पल्यै प्रयच्छति॥११॥
म। ऊर्गसीत्यौदुम्बरम्। inām पशूनां मन्युरसीति वाराही उपानहावुपमुच्य नमो मात्र इत्यवरोध वीमभिमन्त्र्यावरुह्य मणीन्प्रतिमुञ्जते। इयदसीति राजतम्। ऊर्गसीत्यौटा युङ-सीति सौवर्णम्॥१२॥
मध्ये सौवर्णमेके समामनन्ति॥१३॥
अग्नये गृहपतये स्वाहेति रथमिवोचनीयान्होमान्हुत्वा हंसः शुचिषदिति सह संग्रहीत्रा रथवाहने रथमत्यादधाति॥१४॥
आहिते संग्रहीतावरोहति॥१५॥
18.18
मित्रो ऽसीति दक्षिणं बाहुं यजमान उपावहरते। वरुणो ऽसीति सव्यम्॥१॥
XVIII.18
एतद्वा विपरीतम्॥२॥
समहं विश्वैर्देवैरिति वैश्वदेव्यामामिक्षायां हस्तावुपावहरते॥३॥
सदसि सन्मे भूया इति वा मैत्रावरुणीमामिक्षामेके समामनन्ति॥४॥
अग्रेणाग्नीधं चतुरपत्रावं विमितं विमिन्वन्ति पुरस्तादुनतं पश्चान्निनतम्॥५॥
स्योनासि सुपदेति तस्मिन्खादिरीमासन्दी प्रतिष्ठाप्य क्षत्रस्य नाभिरसीति तस्यां कृत्त्यधीवासमास्तीर्यावनहनि विशि मा दुंहेत्यवनह्यति॥६।
स्योनामा सीद सुषदामा सीदेति तामासाद्य यजमानो मा त्वा हिंसीन्मा मा हिंसीदित्युपविशति।७॥
निषसाद धृतव्रत इत्यासीनमभिमन्त्रयते॥८॥
तमृत्विजो रनिनश्च सर्वतः पर्युपविशन्ति। पुरस्तादध्वर्युः। दक्षिणतो ब्रह्मा। पश्चाद्धोता। उत्तरत उद्गाता॥९॥
उपविष्टेषु ब्रह्मा३नित्यध्वर्यु राजामन्त्रयते॥१०॥
त्वं राजन्ब्रह्मासीतीतरः प्रत्याह॥११॥
एवं ब्रह्माणं होतारमुद्गातारं च॥१२॥
उत्तरेणोत्तरेण मन्त्रेणेतरे प्रत्याहुः॥१३॥
इन्द्रस्य वन्तो ऽसीति स्फ्यं ब्रह्मा राज्ञे प्रयच्छति। राजा प्रतिहिताय। प्रतिहितः पुरोहिताय। पुरोहितो रलिभ्यः॥१४॥
तमवरपरं संप्रयच्छन्ति। अन्ततो ऽक्षावापाय॥१५॥
तेनाक्षावापो ऽधिदेवनमुद्धत्यावोक्ष्याक्षान्निवपेत्॥१६॥
18.19
सौवर्णान्परःशतान्परः सहस्त्रान्वा॥१॥
ब्राह्मणराजन्यवैश्यशूद्राश्चत्वारस्तद्योगाः पष्ठौहीं विदीव्यन्त ओदन मुब्रुवते॥२॥
तदेतस्य कर्मणः पूर्वावग्निवाही दक्षिणा॥३॥
तौ ब्रह्मणे देयौ॥४॥
औद्भिद्यं राज्ञ इति तेभ्यश्चतुःशतान्सौवर्णानक्षानुदुप्य विजित्य दिशो ऽभ्ययं राजाभूदिति पञ्चाक्षानराज्ञे प्रयच्छति॥५॥
मङ्गल्यनाम्नो राजाह्वयति। सुश्लोकां३ इति संग्रहीतारम्। सुमङ्गला३ इति भागदुघम्। सत्यराजा३निति क्षत्तारम्॥६॥
तानाहूय चतुष्पत्क्षेत्रं ब्रह्मणे ददाति॥७॥
त उपद्रष्टारो भवन्ति॥८॥
अत्र वा नामव्यतिषञ्जनीयौ होमौ जुहुयात्॥९॥
शौनःशेपमाख्यापयते। ऋचो गाथामिश्राः परःशताः परःसहस्त्रा वा॥१०॥
हिरण्यकशिपावासीनो होता शंसति॥११॥
हिरण्यकूर्चयोस्तिष्ठन्नध्वर्युः प्रतिगृणाति॥१२॥ 1087 ApSs Translation : THITE XVIII.20]
ओमित्यचः प्रतिगरः। तथेति गाथायाः॥१३॥
अपवृत्ते शौनःशेपे हिरण्यकशिपु हो। ददाति। हिरण्यकूर्चावध्वर्यवे। अभिषेचनीयौ च रुक्मौ॥१४॥
अत्र मारुतेन वैश्वदेव्या च प्रचरति॥१५॥
समानं तु स्विष्टकृदिडम्॥१६॥
उपहूतायामिडायामुन्मुच्य मणीन्ब्रह्मणे ददाति॥१७॥
18.20
माहेन्द्रस्य प्रचरणादि कर्म प्रतिपद्यते॥१॥
समानमावभृथात्॥२॥
अवभृथेन प्रचर्यापां नप्त्रे स्वाहेत्यप्सु जुहोति॥३॥
ऊर्जा नप्त्रे स्वाहेत्यन्तरा दर्भस्तम्बे स्थाणौ वल्मीकवपायां वा हुत्वाग्नये गृहपतये स्वाहेति प्रत्येत्य गार्हपत्ये हुत्वैन्द्रीं सूतवशामनूबन्ध्यामालभते।।४॥
तस्याः पशुपुरोडाशं नैवारं चतुष्पद्याः सूनाया निर्वपति॥५॥
शकटप्रत्याम्नायो भवतीति विज्ञायते॥६॥
श्वो भूते ऽपरेण सौमिकं देवयजनं दशभिः सप्तभिर्वा संसृपां हविर्भिर्यजेत। आग्नेयमष्टाकपालमिति॥७॥
पूर्वपूर्वं देवयजनमध्यवस्यति॥८॥
यत्र पूर्वस्या आहवनीयस्तत्रोत्तरस्या गार्हपत्यः॥९॥
उत्तमायाः प्राग्वंश आहवनीयः बहिर्गार्हपत्यः॥१०॥
तयेष्ट्वापराह्ने दशपेयस्य तन्त्रं प्रक्रमयति॥११॥
सद्यः सोमं क्रीणन्ति॥१३॥
अपो दीक्षायाः स्थाने द्वादशपुण्डरीकां स्त्रज प्रतिमुञ्चते॥१४॥
दशभिर्वत्सतरैः साण्डैः सोमं क्रीणाति॥१५॥
न पणते न परिवहति॥१६॥
क्रयमेवापाकरोति॥१७॥
एका दीक्षा तिस्त्र उपसदः॥१८॥
पुरस्तादुपसदां सौम्यं चरुं निर्वपति। अन्तरा त्वाष्ट्रमष्टाकपालम्। उपरिष्टा द्वैष्णवं त्रिकपालम्॥१९॥
तासां तदेव प्रस्तरपरिधि यदुपसदाम्॥२०॥
भार्गवो होता भवति॥२१॥
श्रायन्तीयं ब्रह्मसामं भवति। वारवन्तीयमग्निष्टोमसामम्॥२२॥
सारस्वतीरपो गृह्णाति॥२३॥
श्वोभूते पात्रसंसादनकाले दश चमसानधिकान्प्रयुनक्ति॥१॥
तानन्नयनकाल उन्नयति॥२॥
भक्षणकाले दशदशैकैकस्मिंश्चमसे ब्राह्मणाः सोमपाः सोमं भक्षयन्त्या दशमात्पुरुषादविच्छिन्नसोमपीथाः॥३॥
आ दशमात्पुरुषादन्वाख्यायं स भक्षस्य कर्ता भवति॥४॥
शतं ब्राह्मणाः सोमपाः सदः प्रसर्पन्ति॥५॥
दक्षिणाकाले हिरण्यप्राकाशावध्वर्यवे ददाति। हिरण्यत्रजमुद्गात्रे। रुक्म होत्र इति यथासमाम्नातम्॥६॥
अथैकेषाम्। वेहायमानामिवोन्नेत्रे ददाति। ऋषभं ग्रावस्तुते। बस्तं सुब्र ह्मण्याय। नेष्टुरनड्वान्देयः। अग्नीधे ऽन्यः। स्थूरि यवाचितमच्छावाकायेति॥७॥
दिशामवेष्ट्योदवस्यति॥८॥
आग्नयेमष्टाकपालमिति पञ्च॥९॥
तया ब्राह्मणो राजन्यो वैश्यो वा तेजस्कामो यजेत॥१०॥
यदि ब्राह्मणो यजेत बार्हस्पत्यं मध्ये कृत्वाहुतिमाहुति हुत्वा तमभिधारयेत्। यदि राजन्य ऐन्द्रम्। यदि वैश्यो वैश्वदेवम्॥११॥
अपराह्ने द्विपशुना पशुबन्धेन यजेत॥१२॥
आदित्यां मल्हां गर्भिणीमालभेते। मारुती पृश्निं पष्ठौहीम्॥१३॥
उच्चैरादित्याया आश्रावयति। उपांशु मारुत्या प्रचरति॥१४॥
आश्रुतप्रत्याश्रुतान्युपांशु॥१५॥
श्वोभूते पुरोडाशं द्वादशकपालमिति॥१६॥
तिसृधन्वं शुष्कदृतिर्दक्षिणा॥१७॥
18.22
दण्डो वाराही उपानहावित्येके॥१॥
दण्डो वा शुष्को वा दृतिर्जरदुपानही वा॥२॥
तान्यभ्यवस्थाप्य प्रतिराजभ्यः प्रहिणोति॥३॥
अभ्यषिक्षि राजाभूवमित्यावेदयते॥४॥
अपराहे षड्भिः प्रयुजां हविर्भिर्यजते॥ आग्नयेमप्टाकपालमिति॥५॥
दक्षिणो रथवाहनवाहो दक्षिणा॥६॥
वो भूते षड्भिरुत्तरैः॥७॥
उत्तरो रथवाहनवाहो दक्षिणा॥८॥
संवत्सरमग्निहोत्रं हुत्वा केशवपनीयेनातिरात्रेण यजते॥९॥
ये केशिनः प्रथमाः सत्रमासतेति वपनप्रवादा मन्त्राः॥१०॥
तेषामादिप्रवादैरादितो वापयते। अन्तप्रवादैरन्ततः॥११॥
अनन्तरं व्युष्टिद्विरात्रेण यजते॥१२॥
अग्निष्टोमः पूर्वमहर्भवति। अतिरात्र उत्तरम्॥१३॥
पौर्णमास्यां पूर्वमहर्भवति। व्यष्टकायामुत्तरम्॥१४॥
अमावास्यायां वा पूर्वमहः। उदृष्ट उत्तरम्॥१५॥
आपूर्यमाणपक्षस्य वा ये पुण्ये अहनी स्याताम्॥१६॥
पञ्च पूर्वे ऽहन्नैकादशिनानालभन्ते। षडुत्तरे॥१७॥
क्षत्राणां धृतिस्त्रिष्टोमो ऽग्निष्टोमः पञ्चापवर्गः॥१८॥
तेनान्ततो यजेत॥१९॥
संतिष्ठते राजसूयः॥२०॥
तेनेष्ट्वा सौत्रामण्या यजेत। मैत्रावरुण्या वामिक्षया॥२१॥
नानावभृथान्यहान्यन्यत्र द्विरात्रस्य प्रथमात्प्रथमात्॥२२॥