18.01
VĀJAPEYA शरदि वाजपेयेन यजेत ब्राह्मणो राजन्यो वर्द्धिकामः॥१॥
नित्यवदेके समामनन्ति॥२॥
प्रजापतिमाप्नोति॥३॥
तस्य षोडशिवत्कल्पः॥४॥
सर्वः सप्तदशो भवति॥५॥
सप्तदश दीक्षाः। तिस्त्र उपसदः। एकविंशी प्रसुतः॥६॥
त्रयोदश वा दीक्षाः। तिस्त्र उपसदः। सप्तदशी प्रसुतः॥७॥
सप्तदशारालिबैल्वो यूपः खादिरो वा तूपरश्चतुरश्रो गोधूमपिष्टचपालो गोधूमकलापी वा॥८॥
यत्प्रागुपसद्भ्यस्तस्मिन्कृते प्रतिप्रस्थाता सुरायाः कल्पेन सुरां संदधाति॥९॥
परिशुद्भवति॥१०॥
खरकाले प्रतिप्रस्थाता दक्षिणस्य हविर्धानस्याधस्तात्पश्चादक्षं सुराग्रहार्थं द्वितीयं खरं करोति॥११॥ ..
रशनाकाले सप्तदशभिर्वासोभिर्युपं वेष्टयति॥१२॥
पात्रसंसादनकाल ऐन्द्रमतिग्राह्यपात्रं प्रयुज्य तत्समीपे पञ्चैन्द्राण्यतिग्राहापा. त्राणि प्रयुनक्ति॥१३॥
तेषां पूर्वेण कल्पो व्याख्यातः॥१४॥
षोडशिपात्रं प्रयुज्य तत्समीपे सप्तदश प्राजापत्यानि सोमग्रहपात्राणि प्रयुनक्ति ॥१५॥
तेषां षोडशिपात्रवत्कल्पः॥१६॥
अपरस्मिन्खरे प्रतिप्रस्थाता सप्तदशोपयामान्मृन्मयानि सुराग्रहपात्राणि प्रयुनक्ति॥१७॥
XVIII.2
ग्रहकाल ऐन्द्रमतिग्राह्यं गृहीत्वोपयामगृहीतो ऽसि नृषदं त्वेति पञ्चैन्द्रान तिग्राह्यान्गृह्णाति॥१॥
तेषां पूर्ववत्कल्पः॥२॥
षोडशिनं गृहीत्वाया विष्ठा जनयन्कर्वराणीति सप्तदश प्राजापत्यान्सो मग्रहानगृह्णाति॥३॥
तेषां षोडशिवकल्पः॥४॥
कुविदङ्गेत्यपरस्मिन्खरे प्रतिप्रस्थाता सप्तदशभिरुपयामैः सुरा ग्रहानगृह्णाति॥५॥
विपरीते ग्रहण्यावेके समामनन्ति॥६॥
व्यतिषङ्गं सोमग्रहैः सुराग्रहानगृह्णाति॥७॥
पूर्वो ऽध्वर्युप्रेहाति। जघन्यः प्रतिप्रस्थाता॥८॥
पुरोऽक्षं सोमग्रहान्सादयति। पश्चादक्षं सुराग्रहान्॥९॥
देव सवितः प्र सुवेति सवनादौसवनादौ जुहोति। कर्मणः कर्मणो वा पुरस्तात्॥१०॥
हिरण्यमालिन ऋत्विजः सुत्ये ऽहनि प्रचरन्ति॥११॥
पशुकाले त्रीन्क्रतुपशूनुपाकृत्य मारुती वशामुपाकरोति। सारस्वती न मेषीमपन्नदतीम्॥१२॥
सारस्वतं मेषमुपाकृत्य सप्तदश प्राजापत्यान्पशूनुपाकरोति श्यामांस्तूपरा नेकरूपान्॥१३॥
पर्यग्निकृतानां सारस्वत्यन्तान्पूर्वानालभन्ते॥१४॥
सारस्वतप्रभृतीनुत्तरान्धारयन्ति॥१५॥
प्रतिपशु बर्हिषीत्युक्तम्॥१६॥
प्राड्. माहेन्द्रात्कृत्वा माध्यंदिनीयान्वा पुरोडाशान्निरुप्य सारस्वतस्य पशुपुरोडाशं निरुप्य बार्हस्पत्यं नैवारं सप्तदशशरावं चकै निर्वपति। द्वादश मन्त्रेण। तूष्णीमितराणि॥१७॥
पयसि श्रपयति॥१८॥
दाक्षिणौ होमौ हुत्वा॥१९॥ इन्द्रस्य वन्तो ऽसीति रथमुपावहृत्याप्स्वन्तरित्यश्वानप्सु स्नापयन्ति॥२॥ XVIII.2.19-XVIII.3.
अपां नपादिति रराटानि प्रतिमाष्टि॥२॥
वायुर्वा त्वा मनुर्वा त्वेति प्रष्टिवाहिनं रथं युनक्ति। तूष्णीमितराषोडश रथान्॥३॥
दक्षिणाकाले सप्तदश रथान्ददाति। सप्तदशानांसि सप्तदशाश्वान्सप्तदश हस्तिनः सप्तदश वासांसि सप्तदश गवां शतानि॥४॥
अथैकेषाम्। सप्तदश गवां शतानि ददाति। सप्तदशानांसि युक्तान सप्तदशाश्वरथान्सप्तदश हस्तिनः सप्तदश निष्कान्सप्तदश दास्यः सप्तदश दुन्दुभीन्॥५॥
एष आप्तो वाजपेयः॥६॥
अथ कुरुवाजपेयः॥७॥
वयसोवयसः सप्तदश सप्तदशानि ददाति॥८॥
एकहायनप्रभृत्या पञ्चहायनेभ्यो वयांसि॥९॥
अनुदिष्टासु दक्षिणासु यजुर्युक्तमध्वर्यवे ददाति॥१०॥
शेषः साधारणः॥११॥
अग्रेणाहवनीयमुदीचः प्राचो वा रथानवस्थापयन्ति॥१२॥
तेषां दक्षिणो यजुर्युक्तः॥१३॥
अरोणाग्नीधं राजपुत्रो ऽवस्थाय सप्तदश प्रव्याधानिषुमस्यति॥१४॥
यत्र जघन्यं निपतति तत्रौदुम्बरी काष्ठां लक्षणं मिनोति॥१५॥
18.04
प्राङ् माहेन्द्रात्कृत्वा नैवारे सर्पिरानीय चात्वाले ऽवदधाति॥१॥
तं राजपुत्रो गोपायति॥२॥
चात्वाले रथाक्षाकृति काष्ठं निखाय तस्मिन्नौदुम्बरं रथचक्रं सप्तदशारं प्रतिमुञ्चति॥३॥
उत्तरस्यां वेदिश्रोण्यां सप्तदश दुन्दुभीन्प्रबध्नन्ति॥४॥
विष्णोः क्रमो ऽसीति रथं यजमानो ऽभ्यति॥५॥
अझै न्यङ्काविति रथचक्रे अभिमृशति। पक्षसी वा॥६॥
इन्द्राय वाचं वदतेति दुन्दुभीन्संह्रादयन्ति॥७॥
देवस्याहं सवितुः प्रसवे बृहस्पतिना वाजजिता वाजं जेषमित्यौदुम्बरं रथचक्रं ब्रह्मारोहति॥८॥
तमाह वाजिनां साम गायेति॥९॥
तस्य चक्रं त्रिः प्रदक्षिणमावर्तयति॥१०॥
वर्तमाने ब्रह्मा गायति॥११॥
देवस्याहं सवितः प्रसवे बृहस्पतिना वाजजिता वर्षिष्ठं नाकं रुहेयमिति यजुर्युक्तं यजमान आरोहति॥१२॥
वाजसृत इतरान् रथान्॥१३॥
वाजजितो वाजं सरिष्यन्तो वाजं जेष्यन्तो बृहस्पतेर्भागमव जिघ्रतेति नैवारमश्वौ धुर्याववघ्रापयति॥ सर्वान्वा॥१४॥
बृहस्पतेर्भागे निमृड्ढ्वमिति प्रप्रोथेषु च लेपानिमाप्टि॥१५॥
अश्वाजनीत्यश्वाजनीमादायाध्वर्युर्यजुर्युक्तमधिरुह्यार्वासि सप्तिरसीति तयाश्वान्समवक्षिणोति॥१६॥
अनभ्यासादयन्त इतरे रथाः पश्चादनुयान्ति॥१७॥
वाजिनो वाजं धावतेति चतसृभिर्धावतो ऽनुमन्त्रयते॥१८॥
अग्निरेकाक्षरेणेति धावत्सूज्जितीर्यजमानं वाचयति॥१९॥
लक्षणं प्राप्योदञ्च आवृत्य प्रदक्षिणमावर्तयन्ते॥२०॥
मितद्रव इति चतसृभिः प्रत्याधावतो ऽनुमन्त्रयते॥२१॥
18.05
आ मा वाजस्य प्रसवो जगम्यादिति प्रत्यासृतेषु हुत्वा पुनःवारमवघ्रापयति। ससृवांस इति लेपांश्च निमाष्टि॥१॥
इयं वः सा सत्या संधाभूदिति दुन्दुभिविमोचनीयं होमं जुहोति॥२॥
सेवान्वोपस्पृशति॥३॥
कृष्णलंकृष्णलं वाजसृद्भ्यः प्रयच्छति॥४॥
तानि प्रत्यादाय ब्रह्मणे ददाति। मधुष्ठालं च सौवर्णं शतमानस्य कला
अत्र माहेन्द्रस्य स्तोत्रमुपाकरोति॥६॥
अप्रस्तुते क्षत्रस्योल्बमसीति तायें यजमानः परिधते॥७॥
क्षत्रस्य योनिरसीति दर्भमयं पत्नी॥८॥
जाय एहीति यजमानः पत्नीमामन्त्रयते॥९॥
रोहाव हीतीतरा प्रत्याहः॥१०॥
त्रिरामन्त्रयते। त्रिः प्रत्याह॥११॥
अहं नावुभयोः सुवो रोक्ष्यामीति यजमानो ऽन्ततः॥१२॥
वाजश्च प्रसवश्चेति द्वादश वाजप्रसवीयान्होमान्हुत्वायुर्यज्ञेन कल्पतामिति दशभिः कल्पैः सरजसे निश्रेण्या यूपं यजमान आरोहति॥१३॥
सुवर्देवाँ अगन्मेत्यग्रं प्राप्य जपति॥१४॥
समहं प्रजया सं मया प्रजेति गृहान्प्रेक्षते॥१५॥
तमाश्वत्थैरासपुटैरूषपुटैरुभयैर्वा वैश्याः प्रतिदिशमपर्यन्ति। महर्विजो वा दीर्घवंशेषु प्रबध्य॥१६॥
अन्नाय त्वेति पुरस्तादध्वर्युः। अन्नाद्याय त्वेति दक्षिणतो ब्रह्मा। वाजाय त्वेति पश्चाद्धोता। वाजजित्यायै त्येत्युत्तरत उद्गाता॥१७॥
मुखतो ऽभिघ्नन्ति॥१८॥
हन्तारंहन्तारमभिपर्यावर्तते॥१९॥
इयं ते राणमित्राय यन्त्राय धाय कृष्यै क्षेमाय रय्यै पोषायेति प्रत्यवरोहति॥२०॥
XVIII.6
अग्रेण यूपं बस्ताजिनं प्राचीनग्रीवमुत्तरलोमास्तीर्य॥२१॥ तस्मिञ्छतमानं हिरण्यं निधायामृतमसीति हिरण्ये दक्षिणं पादं यजमानः प्रतिष्ठापयते॥१॥ XVIII.5.21—XVIII.6.
पुष्टिरसि प्रजननमसीति बस्ताजिने सव्यम्॥२॥
तस्मादासन्दीमारोहति॥३॥
दिवं प्रोष्ठिनीमारोह तामारुह्य प्रपश्यैकराण्मनुष्याणामित्यारोहन्तमभि मन्त्रयते।।४॥
सप्तभिः सप्त पूर्वानन्नहोमा होति॥५॥
माहेन्द्रस्य स्तोत्रं प्रत्यभिषिच्यते यथाग्निचित्यायाम्॥६॥
माध्यंदिनस्य सवनस्य मध्यम उक्थ्यपर्याये ब्रह्मसाम्न्युपाकृते ऽत्र सारस्वत प्रभृतीनुत्तरानालभन्ते॥७॥
तेषामनभिघारिताभिर्वपाभिः प्रचरति॥८॥
सारस्वतस्य वपया प्रचर्य समवदायेतरेषां वपाभिः प्रचरति॥९॥
सारस्वतस्य पशुपुरोडाशेन प्रचर्य नैवारेण प्रचरति॥१०॥
समानं तु स्विष्टकृदिडम्॥११॥
महविजो हविरुच्छिष्टाशा भवन्ति॥१२॥
आग्नीधे हविःशेषान्भक्षयन्ति॥१३॥
अत्र सारस्वत्यन्तानां दैवतेन प्रचरति संवादाद्येडायाः। काले वा॥१४॥
षोडशिना प्रचर्य होतृचमसमुख्यांश्चमसानुन्नीय बृहतः स्तोत्रमुपाकरोति॥१५॥
प्रचरणकाले होतृचमसमध्वर्युरादत्ते। चमसांश्चमसाध्वर्यवः। ऋत्विज इतरान्सोमग्रहान्॥१६॥
सुराग्रहणं मुख्यं प्रतिप्रस्थातादत्ते। वाजसृत इतरान्सुराग्रहान्॥१७॥
18.07
संपृच स्थ सं मा भद्रेण पृङ्क्तेति प्राङध्वर्युः सोमग्रहैरुद्वति। विपृच स्थ वि मा पाप्मना पृङ्क्तेति प्रत्यङ् प्रतिप्रस्थाता सुराग्रहैः॥१॥
आहवनीयन्यन्ते सोमग्रहैरवतिष्ठन्ते। मार्जालीयन्यन्ते सुराग्रहैः॥२॥
प्रचरति सोमग्रहैः॥३॥
वषट्कारानुवषट्कारौ सुराग्रहाननुप्रकम्पयन्ति॥४॥
व्याख्यातः सोमस्य भक्षः॥५॥
विराट्छन्दस इति भक्षमन्त्रं नमति॥६॥
मारुत्या अवदानीयानि सोमग्रहांश्चविग्भ्य उपहरन्ति। अनवदानीयानि सुराग्रहांश्च वाजसृभ्यः ॥७॥
तानि दक्षिणस्यां वेदिश्रोण्यां विमाथीकृत्य विमाथीकृत्य भक्षयन्ति॥८॥
ककुदो राजपुत्रो ध्रुवगोपो नैवारगोपो वा प्राश्नीयात्। सर्वं वा ककुदमु परिष्टात्सर्वसोमेभ्यः॥९॥
अत्र सारस्वतप्रभृतीनां दैवतेन प्रचरति॥१०॥
यज्ञारण्ये प्रचरन्तीति विज्ञायते॥११॥
तद्यनेष्टा अनूयाजा भवन्त्यव्यूढाः स्रुचः। तदेतैः प्रचरेयुः। तदु तथा न कुर्यात्। ह्वलति वा एतद्यज्ञो यदेवं कुर्वन्तीति॥१२॥
तस्माद्यत्रैव पूर्वेषां वपाभिश्चरेयुस्तदितरेषाम्। यत्रो हैव हविर्भि स्तद्धविभिः॥१३॥
संतिष्ठते वाजपेयः॥१४॥
तेनेष्ट्वा सौत्रामण्या यजेत। मैत्रावरुण्या वामिक्षया॥१५॥
यावज्जीवं न कंचन प्रत्यवरोहेत्॥१६॥
बृहस्पतिसवेन वा प्रत्यवरोहणीयेन वा यजेत॥१७॥
श्वेतच्छत्त्री ह भवतीति विज्ञायते॥१८॥