18 AGNICAYANAM

AGNICAYANA (FIRE-ALATAR-BUILDING)

16.01

अग्निं चेष्यमाणो ऽमावास्यायां पौर्णमास्यामेकाष्टकायां वोखां संभरति॥१॥

अषाढामधिकृत्यैके समानन्ति॥२॥

बहस्पतिपुरोहिता देवा देवानां देवा देवाः प्रथमजा देवा देवेष पराक्रमध्वं प्रथमा द्वितीयेषु द्वितीयास्तृतीयेषु त्रिरेकादशास्त्रिस्त्रयस्त्रिंशा अ व आरभ इदं शकेयं यदिदं करोमि ते मावत ते मा जिन्वतास्मिन्ब्रह्मन्नस्मिन्नभाने ऽस्यामाशिष्यस्यां पुरोधायामस्मिन्कर्मन्नस्यां देवहूत्यामिति चतुर्गहीतं जुहोति॥३॥

जुहूं स्रुवं च संमृज्य जुह्वामष्टगृहीतं गृहीत्वा युञ्जानः प्रथमं मन इति यजुरष्टमाभिधंग्भिरेकामाहुतिं जुहोत्यन्तर्वेधूर्ध्वस्तिष्ठन्॥४॥

यं कामयेत पापीयान्स्यादित्येकैकं तस्य जुहुयाज्जिह्मस्तिष्ठन्॥५॥

यदि कामयेत च्छन्दांसि यज्ञयशसेनार्पयेयमित्युक्तम्॥६॥

ऋचा स्तोमं समर्धयेत्यपरं चतुर्ग्रहीतं गृहीत्वा देवस्य त्वा सवितुः प्रसव इति चतुर्भिरभ्रिमादत्ते वैणवीं कल्माषी सुषिरामसुषिरां वोभयतःक्ष्णूमन्यतरतः क्षण वा प्रादेशमात्रीमरनिमात्री व्यायाममात्रीमपरिमितां वा। खादिरी पालाशीमौदुम्बरीमर्कमयों कार्मर्यमयीं वैकडूतीं शमीमयीं वा यो वा यज्ञियो वृक्षः फलग्रहिः॥७॥

16.02

इमामगृभ्णरशनामृतस्येत्यश्वाभिधानी रशनामादाय प्रतूर्तं वाजिन्ना द्रवेत्य श्वमभिदधाति॥१॥

तूष्णीं गर्दभस्यादाय युञ्जाथां रासभं युवमिति गर्दभम्॥२॥

योगेयोगे तवस्तरमिति तिसृभिरश्वप्रथमा अभिप्रव्रजन्ति यत्र मृदं खनिष्यन्त. स्युः ॥३॥

यदि कामयेत पापवस्यसं स्यादिति गर्दभप्रथमा गच्छेयुः।।४॥

अग्निं पुरीष्यमङ्गिरस्वदच्छेहीति जपति॥५॥

अग्निं पुरीष्यमङ्गिरस्वद्गच्छेम इति येन द्वेष्येण संगच्छते तमभिमन्त्रयते। अपश्यन्निर्दिशति॥६॥

अग्निं पुरीष्यमङ्गिरस्वद्भरिष्याम इति वल्मीकवपाम्। आ सूर्यस्योदेतोस्ता मुद्धत्योपतिष्ठते॥७॥

अन्वग्निरुषसामग्रमख्यदिति वल्मीकवपायाः प्रक्रामति॥८॥

आगत्य वाज्यध्वन आक्रम्य वाजिन्पृथिवीमिति द्वाभ्यां मृत्खनमश्वमाक्रमय्य द्यौस्ते पृष्ठमित्यश्वस्य पृष्ठ संमाष्टि॥९॥

अभितिष्ठ पृतन्यतो ऽधरे सन्तु शत्रवः। इन्द्र इव वृत्रहा तिष्ठापः क्षेत्राणि संजयन्। अभिष्ठितो ऽसीति यं द्वेष्टि तमधस्पदमश्वस्य मनसा ध्यायति॥१०॥

उत्क्रामोदक्रामीदिति द्वाभ्यां मृत्खनादुदञ्चमश्वमुत्क्रमय्यापो देवीरुप सृजेत्यश्वस्य पदे ऽप उपसृज्य पदे हिरण्यं निधाय॥११॥

16.03

जिघर्म्यग्निमा त्वा जिधर्मीति मनस्वतीभ्यामेकामाहुतिं हिरण्ये हुत्वापादाय हिरण्यं परि वाजपतिः कविरग्निरिति तिसृभिरभ्रिया मृत्खनं परिलिखति। बाह्यांबाह्यां वर्षीयसीम्॥१॥

देवस्य त्वा सवितुः प्रसव इति द्वाभ्यां खनति॥२॥

अपां पृष्ठमसीति पुष्करपर्णमाहृत्यैतयैव विवेष्ट्य शर्म च स्थो वर्म च स्थ इति द्वाभ्यामुत्तरेण मृत्खनं कृष्णाजिनं प्राचीनग्रीवमुत्तरलोमास्तृणाति। उपरिष्टात्पुष्करपर्णमुत्तानम्॥३॥

पुरीष्यो ऽसि विश्वभरा इति मृत्खनमभिमन्त्र्य त्वामग्ने पुष्करादधीति कृष्णाजिने पुष्करपणे च संभरति चतसृभिस्तिसृभिर्वा। गायत्रीभिर्बाह्मणस्य। त्रिष्टुम्भी राजन्यस्य। जगतीभिर्वैश्यस्य॥४॥

यं कामयेत वसीयान्स्यादित्युभयीभिस्तस्य संभरेत्॥५॥

अष्टाभिः संभरति॥६॥

जनिष्वा हि जेन्य इति मृदमभिमृश्य मृत्खनं संलोभ्य सं ते वायुरिति मृत्खने ऽप आनीय क्षौमेण मौओनार्कमयेण वा दाम्नोपनह्यति॥७॥

उदु तिष्ठ स्वध्वरोर्ध्व ऊ षु ण ऊतय इति सावित्रीभ्यामत्तिष्ठति।

स जातो गर्भो असीति हरति॥९॥

स्थिरो भव वीवङ्ग इति गर्दभस्य पृष्ठ आदधाति॥१०॥

शिवो भव प्रजाभ्य इत्याहितमभिमन्त्रयते॥११॥

प्रैतु वाजी कनिक्रददिति तिसृभिरत्वरमाणाः प्रत्यायन्ति॥१२॥

अग्निं पुरीष्यमङ्गिरस्वद्भराम इति येन द्वेष्येण संगच्छते तमभिमन्त्रयते। अपश्यन्निर्दिशति॥१३॥

उत्तरेण विहारं परिश्रितं ओषधयः प्रति गह्णीताग्निमेतमिति द्वाभ्यामोष धीषु पुष्पवतीषु फलवतीषूपावहरति॥१४॥

16.04

वि पाजसेति विस्रस्यापो हि ष्ठा मयोभुव इति तिसृभिरप उपसृज्य मित्रः संसृज्य पृथिवीमिति द्वाभ्यां संसर्जनीयैः संसृजति। अर्मकपालैः पिष्टै ण्वकारैर्तीहितुषैः पलाशकषायेण शर्कराभिः पिष्टाभिः कृष्णाजिनलोमभिर जलोमभिरिति॥१॥ यच्चान्यदृढार्थ उपाधू मन्यते॥२॥

रुद्राः संभृत्य पृथिवीमिति मृदं संक्षिप्य संसृष्टां वसुभिरिति तिसृभिः कर्ने प्रयच्छति॥३॥

मखस्य शिरो ऽसीति पिण्डं कृत्वा यज्ञस्य पदे स्थ इति का पुष्करपर्णं चाभिमशति मृदि वाङ्गुष्ठाभ्यां निगृह्णाति॥४॥

वसवस्त्वा कृण्वन्तु गायत्रेण च्छन्दसेति चतुर्भिर्महिष्युखां करोति बदमा र्यस्य। अध्वर्युरेकभार्यस्य॥५॥

क्रियमाणामेतैरेव यजमानो ऽनुमन्त्रयते॥६॥

व्युद्धिं पञ्चोद्धिमपरिमितोद्धिं वा। चतुरश्रां परिमण्डलां वा। प्रादेश मात्रीमूर्ध्वप्रमाणेनारलिमात्री तिर्यक्प्रमाणेन व्यायाममात्रीं समन्तपरिमाणेन। अपरिमितां वा॥७॥

पञ्चप्रादेशामिषुमात्री वा यदि पञ्च पशवो भवन्तीति वाजसनेयकम्॥८॥

कुर्वंश्चतस्त्रो ऽश्रीः प्रतिदिशमुन्नयति॥९॥

अष्टाभिं वा॥१०॥

नवाश्रिमभिचरतः कुर्यात्॥ व्यङ्गले बिलादधस्तात्॥११॥

16.05

अदित्यै रास्नासीति रास्तां करोति॥१॥

अश्रीणां रास्नायाश्च संधौ द्वौ चतुरः षडष्टौ वा स्तनान्करोति॥२॥

अदितिस्ते बिलं गृह्णात्विति बिलं कृत्वा कृत्वाय सा महीप सिकतासु प्रतिष्ठाप्य मित्रतां त उखां परिददाम्यभित्त्या एषा मा भर परिददाति॥३॥

य उखां करोति सो ऽषाढामेतस्या एव मृदस्तूष्णीं चतुरश्रांत्र्यालिखि तामिष्टकाम्॥४॥

वसवस्त्वा धूपयन्तु गायत्रेण च्छन्दसेति सप्तभिरश्वशकेनोखां धूपयति॥

वृष्णो अश्वस्य शकेनेत्येके॥६॥

गार्हपत्याभूपनपचने भवतः॥७॥

अदितिस्त्वा देवीत्यग्रेण गार्हपत्यमवटं खात्वा लोहितपचनीयैः संभारैर वस्तीर्य देवानां त्वा पत्नीरिति तस्मिन्नुखामवदधाति॥८॥

तूष्णीमषाढामन्ववधाय लोहितपचनीयैः संभारैः प्रच्छाद्य धिषणास्त्वा देवीरिति चतुर्भिरुखायामग्निमभ्यादधाति॥९॥

मित्रतामुखां पचेति पच्यमानां तिसृभिमैत्रीभिरुपचरति॥१०॥

पक्वां देवस्त्वा सवितोद्वपत्वित्युद्वास्यापद्यमाना पृथिव्याशा दिश आ पृणेत्युत्तरतः सिकतासु प्रतिष्ठाप्य मित्रतां त उखां परिददाम्यभित्त्या एषा मा भेदीति मित्राय परिददति॥११॥

तूष्णीमपाढामुद्वास्य॥१२॥

16.06

वसवस्त्वा च्छ्रन्दन्तु गायत्रेण च्छन्दसेति चतुर्भिरजाक्षीरेणोखामा णत्ति॥१॥

सप्तकविंशतिं वा माषानादाय पुरुषशिरो ऽच्छति वैश्यस्य राजन्यस्य वेषुहतस्याशनिहतस्य वा॥२॥

माषानुपन्युष्यायं यो ऽसि यस्य त इदं शिर इति पुरुषशिरः प्रच्छिद्यैतेन त्वमत्र शीर्षण्वानेधीति सप्तधा वितृणां वल्मीकवपां शिरसः स्थाने प्रतिनि दधाति॥३॥

यो ऽस्य कौष्ठ्य जगतः पार्थिवस्यैक इद्वशी। यमं भड्यश्रवो गाय यो राजानपरोध्यः॥ यमं गाय भङ्ग्यश्रवो यो राजानपरोध्यः। येनापो नद्यो धन्वानि येन द्यौः पृथिवी दृढा॥ हिरण्यकक्ष्यान्सुधुरान्हिरण्याक्षानयःशफान्। अश्वा ननश्यतो दानं यमो राजाभितिष्ठतीति तिसभिर्यमगाथाभिः परिगायति।।४॥

आहरञ्जपतीत्येके॥५॥

इदमस्माकं भुजे भोगाय भूयादिति पुरुषशिर आदायोदेह्यग्ने अधि मातुः पृथिव्या इत्याहरति॥६॥

परित्रिविष्ट्यध्वरं यात्यग्नी रथीरिव। आ देवेषु प्रयो दधत्॥ परि वाजपतिः कविरित्येषा॥ परि प्रागाद् देवो अग्नी रक्षोहामीवचातनः। सेधन्विश्वा अप द्विषो दहन् रक्षांसि विश्वहेति तिसृभिः पर्यग्नि कृत्वा मृदा प्रलिप्य निदधाति॥७॥

16.07

अग्निभ्यः कामाय पशूनालभते मुष्करान्। प्राजापत्यमजं तूपरमुपा कृत्याश्वर्षभवृष्णिबस्तान्॥१॥

एकविंशतिं चतुविंशतिं वा पराचीः सामिधेनीरन्वाह। एकादश प्राकृतीः। समास्त्वाग्न इति दशाग्निकीः॥२॥

रायो अग्ने महे त्वा द.नाय समिधीमहि॥ ईडिप्वा हि मही वाया होत्राय पृथिवीमिति यद्येकविंशतिः॥३॥

उपेमसक्षि वाजयुर्वचस्यां चनो दधीत नाद्यो गिरो मे। अपां नपादाशमा कुवित्स सुपेशसस्करति जोषिषद्धि॥ समन्या यन्तीत्येषा॥ अपां नपादा ह्यस्थादुपस्थं जिह्मानामूर्ध्वः स्वयशा उपस्थे। उभे अभि प्रियतमे सधस्थे आ च परा च चरति प्रजानन्निति तिस्रो ऽप्सुमतीर्यदि चतुर्विंशतिः॥४॥

अमुत्र भूयादित्यामयाविनः कुर्यात्॥५॥

बृहस्पते सवितर्बोधयैनमित्यनामयाविनः॥६॥

उद्वयं तमसस्परीति ज्योतिष्मत्या परिदधाति॥७॥

हिरण्यगर्भः समवर्तताग्र इति स्रुच्यमाघारयति॥८॥

ऊर्ध्वा अस्य समिधो भवन्तीति प्रयाजानामाप्रियो भवन्ति॥९॥

आग्नेयीस्त्रिष्टुभ आग्नेयानां याज्यानुवाक्याः॥१०॥

यः प्राणतो य आत्मदा इति प्राजापत्यस्य॥११॥

अपि वा संज्ञप्तानां शिरांसि प्रच्छिद्य मृदा प्रलिप्य निदधाति॥१२॥

16.08

अपः कबन्धान्यभ्यवहरन्ति॥१॥

प्राजापत्येन संस्थापयतीति विज्ञायते॥२॥

अपि वा सर्वेषामेतेषां स्थाने वायवे नियुत्वते श्वेतमजं तूपरमालभते॥३॥

वायुमती श्वेतवती वपाया याज्यानुवाक्ये। वायुमती नियुत्वती दैवतस्य॥४॥

तस्य शिरः प्रच्छिद्य मृदा प्रलिप्य निदधाति॥५॥

तस्याग्नये वैश्वानराय द्वादशकपालं पशुपुरोडाशं निर्वपति॥७॥

यः कश्च नाग्नौ पशुरालभ्यते वैश्वानर एवास्य द्वादशकपालः पशुपुरोडाशो भवतीत्येके॥८॥

तेनेष्ट्वा संवत्सरं न मांसमश्नीयान्न स्त्रियमुपेयान्नोपरि शयीत॥९॥

अपि वा मांसमश्नीयादुपरि शयीत स्त्रियं त्वेव नोपेयादिति वाजसने Och 4118 011

यत्प्राग्दीक्षणीयायास्तत्कृत्वा त्रिहविषं दीक्षणीयां निर्वपति॥११॥

वैश्वानरं द्वादशकपालं तृतीय पुरस्तादसंवत्सरभृतः॥१२॥

यत्प्राग्दीक्षाहुतीभ्यस्तत्कृत्वाकूत्यै प्रयुजे ऽग्नये स्वाहेति पञ्चाध्यरिकी तिमग्निमिति षडाग्निकीः। विश्वे देवस्य नेतुरिति पूर्णाहुतिं सप्तमीमा

यं कामयेत प्रमायुकः स्यादिति तस्य सकृदनुद्रुत्य जुहुयात्। प्राणानस्य संभिनत्ति। बधिरो ह भवतीति विज्ञायते॥१४॥

16.09

संवत्सरं दीक्षित उख्यं बिभर्ति। व्यहं षडहं द्वाहशाहं वा॥१॥

यो ऽर्वाक् संवत्सरादरुश्चिदेव स इत्येके॥२॥

अग्नेर्वै दीक्षयेत्युक्तम्॥३॥

यत्प्राङ्मुष्टिकर्मणस्तत्कृत्वा शणकुलायेन मुञ्जकुलायेन वोखां प्रच्छाद्य मा सु भित्था इति द्वाभ्यामाहवनीयं प्रवृणक्ति॥४॥

मित्रतामुखां तपेति प्रदक्षिणमङ्कारैः परीन्द्धे॥५॥

द्रवन्नः सर्पिरासुतिरिति तस्यां मुकमुल्लिखितं घृतेनाक्त्वावदधाति मुांश्च॥६॥

यो गतश्रीः स्यादित्युक्तम्॥७॥

प्रदाव्यादाहरेचं कामयेत प्रस्यन्दिन्यामस्य राष्ट्रं जायुकं स्यादिति। वृक्षाग्राहाज्ज्वलतो ब्रह्मवर्चसकामस्य। भर्जनादन्नकामस्य॥८॥

न काम्यमग्निं कुर्वाण आहवनीये प्रवृळ्यात्॥९॥

जात उख्ये ऽनुगमयत्याहवनीयम्॥१०॥

परस्या अधि संवत इति वैककृती समिधमादधाति॥११॥

परमस्याः परावत इति शमीमयीम्॥१२॥

एतद्वा विपरीतम्॥१३॥

सीद त्वं मातुरस्या उपस्थ इति तिसृभिर्जातमुख्यमुपतिष्ठते॥१४॥

16.10

यदग्ने यानि कानि चेति पञ्चभिरौदुम्बरमपरशुवृणमुख्य इध्ममभ्या दधाति॥१॥

तैल्वकमभिचरतः॥२॥

दंष्ट्राभ्यां मलिम्लूनित्याश्वत्थी समिधमादधाति॥३॥

ये जनेषु मलिम्लव इति वैकड़तीम्॥४॥

यो अस्मभ्यमरातीयादिति शमीमयीम्॥५॥

तस्मादग्निचितः पापं न कीर्तयेन्नो अग्निं बिभ्रतो नो अग्निविदः॥६॥

संशितं मे ब्रह्मोदेषां बाहू अतिरमित्युत्तमे यजमानं वाचयंस्तूष्णीमौदुम्बयौं समिधावादधाति॥७॥

मातेव पुत्रं पृथिवी पुरीष्यमग्निं स्वे योनौ भरिष्यत्युखा। तां विश्वैर्देवैर्ऋतुभिः संविदानः प्रजापतिर्विश्वकर्मा युनक्त्विति मौजे शिक्ये षडद्यामे द्वादशोद्यामे वोखामवदधाति॥८॥

एकविशंतिनिर्बाधो यो रुक्मः सूत्रोतो दृशानो रुक्म इति तमासीनो यजमानो ऽन्तर्निर्बाधं प्रतिमुच्य बहिर्निर्बाधान्कुरुते॥९॥

विश्वा रूपाणीति शिक्यपाशं प्रतिमुञ्चते॥१०॥

नक्तोषासेति कृष्णाजिनमुत्तरम्॥११॥

सुपर्णो ऽसि गरुत्मानित्युख्यमवेक्ष्य सुपर्णो ऽसि गरुत्मानित्यादायोत्थायोपरि नाभेर्धारयमाणो विष्णोः क्रमो ऽसीति चतुरो विष्णुक्रमान्प्राचः क्रामति॥१२॥

अक्रन्ददग्निरित्येतामनूच्याग्ने ऽभ्यावर्तिन्निति चतसृभिः प्रदक्षिणमा वर्तते॥१३॥

उदुत्तममिति शिक्यपाशुमुन्मुच्या त्वाहार्षामित्याहृत्योपतिष्ठते ऽग्ने बृहन्नुषसामूो अस्थादिति॥१४॥

यं कामयेत राष्ट्रं स्यादिति तं मनसा ध्यायेत्॥१५॥

औदुम्बर्यासन्धरलिमात्रशीर्षण्यानूच्या प्रादेशमात्रपादा मौञ्जविवाना फलकास्तीर्णा वा मृदा प्रदिग्धा॥१६॥

सीद त्वं मातुरस्या उपस्थ इति तस्यां चतसृभिरुख्यं सादयति॥१७॥

शर्करायां वा तिसृभिः सादयति। हंसवत्योपतिष्ठत इत्येके॥१८॥

16.11

येन देवा ज्योतिषो; उदायन्निति प्रादेशमात्रैः काष्ठेरुख्यमुपसमिद्धे॥१॥

नित्यो ज्वलति॥२॥

व्रतकाले ऽन्नपते ऽन्नस्य नो देहीत्यौदुम्बरी समिधं व्रते ऽक्त्वात्भ्यादधाति॥३॥

देवस्य त्वा सवितुः प्रसवे ऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यां गायत्रेण च्छन्दसा रात्रिमिष्टकामुपदधे तया देवतयाङ्गिरस्वधुवा सीदेति सायं समि धमादधाति॥४॥

एतेनैव त्रैष्टुभेन च्छन्दसाहरिष्टकामुपदध इति प्रातः॥॥

दिवस्परीत्येकादशभिर्द्वादशभिस्त्रयोदशभिर्वा वात्सप्रेणोपतिष्ठतेमा

पूर्वेद्युर्विष्णुक्रमान्क्रामति॥ उत्तरेधुरुपतिष्ठते॥७॥

एवं सदा क्रयात्॥८॥

यदहः सोमं क्रीणीयात्तदहरुभयं समस्येत्। प्र च क्रामेदुप च तिष्ठेत॥९॥

मुष्टिकरणप्रभृति कर्म प्रतिपद्यते॥१०॥

याख्ये भ्रियमाणे ऽयं देवः प्रजा अभिमन्येताग्नेयीभिभिषग्वतीभिस्ति सृभिस्तिस्त्रः समिध आदध्यात्। भिषनो अग्न आवह स्वरूपं कृष्णवतन 925 असि होता न ईड्यः॥ त्वं नो अग्ने भिषग्भव देवेषु हव्यवाहनः। देवेभ्यो हव्यवाडसि॥ भिषजस्त्वा हवामहे भिषजः समिधीमहि। भिषग्देवेषु नो भवेति॥११॥

यदि कामयेत वर्षेदिति या सौरी रश्मिवतीस्ताभिस्तिसृभिस्तिस्त्रः समिध आदध्यात्॥ सूर्यो अपो वि गाहते रश्मिभिर्वाजसातमः। बोधा स्तोत्रे वयोवृधः॥ परि यो रश्मिना दिवो ऽन्तान्ममे पृथिव्याः। उभे आ पप्रौ रोदसी महित्वा।। वहिष्ठेभिर्विहरन्यासि तन्तुमवव्ययन्नसितं देवं वस्वः॥ दविध्वतो रश्मयः सूर्यस्य चर्मेवावाधुस्तमो अप्स्वन्तरिति॥१२॥ __यदि कामयेत न वर्षेदिति याः सौरीमा॑जस्वतीस्ताभिस्तिसृभिस्तिस्त्रः समिध आदध्यात्॥१३॥

16.12

अदृश्रमस्य केतवो वि रमश्यो जनाँ अनु। भ्राजन्तो अग्नयो यथा। तरणिर्विश्वदर्शत इत्येषा। दिवो रुक्म उरुचक्षा उदेति दूरे अर्थस्तरणिर्धाजमानः। नूनं जनाः सूर्येण प्रसूता आयन्नर्थानि कृणवन्नपांसीति॥१॥ XVI. 11.13-XVI.12.

नस्य नश्येदग्ने ऽभ्यावर्तिन्नग्ने अङ्गिरः पुनरूर्जा u the sacrificer he should these four verses begin यद्यख्ये भ्रियमाणे यजमानस्य नश्येदग्ने उभयान सह रय्येत्येताभिश्चतसृभिरुपतिष्ठेत॥२॥

विन्दत्येवेति विज्ञायते॥३॥

यदहः प्रयायादुदु त्वा विश्वे देवा इत्युख्यमुद्यम्य सीद त्वं मातरम्या उपस्थ इति चतसृभिषे शकटे प्रउग उख्यमासादयति॥४॥

तिसृभिरासादयति। हंसवत्योपष्ठित इत्येके॥५॥

समोप्येतरावग्नी अन्वारोप्य प्रेदग्ने ज्योतिष्मान्याहीति प्रयाति॥६॥

अक्रन्ददग्निरित्यक्षशब्दमनुमन्त्रयते॥७॥

अध्यवसाय समिधाग्निं दुवस्यतेति घृतानुषिक्तामवसिते समिधमा दधाति॥८॥

उत्तरया त्रिष्टुभा राजन्यस्य। जगत्या वैश्यस्य॥९॥

इन्धनव्रतनाध्यवसानसंनिपाते घृतानुषिक्तां पूर्वामादधाति॥१०॥

यद्युखां भस्माभिनिषीदेदुख्यमादायोदकान्तं गत्वेमं सुयोनिं सुवृतं हिरण्मयं सहस्रभृष्टिं महिषावरोह। उत्सं जुषस्व मधुमन्तमूर्व समुद्रियं सदनमाविशस्व॥ इमं स्तनं मधुमन्तं धयापां प्रप्यातमग्ने सरिरस्य मध्ये। उत्सं जुषस्व मधुमन्तमूर्व समुद्रियं सदनमाविशस्वेत्येताभ्यामुखाया अग्निमुद्धृत्यानिरूहञ्छिक्यादुखामापो देवीः प्रति गृह्णीत भस्मैतदिति तिसृभिरप्सु भस्म प्रवेशयति॥११॥

भस्मनोऽपादाय प्रपीड्य प्रसद्य भस्मनेति द्वाभ्यामुखायां प्रत्यवधाय पुनरूर्जा सह रय्येति पुनरुदैति॥१२॥

पुनस्त्वादित्या रुद्रा वसवः समिन्धतामिति पुनरुख्यमुपसमिन्द्धे॥१३॥

16.13

बोधा स बोधीति बोधवतीभ्यामुपतिष्ठते॥१॥

नित्यमप्सु भस्मप्रवेशनं दीक्षितस्य कृतास्विष्टकासु। अकृतासु संसर्गार्थं Safa112 11

पुरीषे पशुकामः कुर्वीत॥३॥

अप्सु यायावरः प्रवपेत्॥४॥

दीक्षितस्येष्टकाः करोति मासप्रभृतिषु दीक्षाकल्पेषु परस्ताददीक्षितस्ये तरेषूपरिष्टात्प्राजापत्यात्पशोः।।५॥

मृन्मयीरिष्टकाः करोति पादमात्र्यो ऽरलिमात्र्य ऊर्वस्थिमात्र्योऽणूकमात्र्य ऋजुलेखा दक्षिणावृतः सव्यावृतस्त्र्यालिखिताच॥६॥

निर्मन्थ्येन लोहिनीः पचन्ति॥७॥

अभिन्ना भवन्ति॥८॥

खण्डां कृष्णा लक्ष्मणां च नोपदध्यात्॥९॥

पुष्करपण रुक्मो हिरण्मयः पुरुषः शुचौ सप्त स्वयमातृण्णाः शर्करा हिरण्येष्टकाः पञ्च घृतेष्टका दूर्वास्तम्बः कूर्म उलूखलं मुसलं शूर्पमश्मानः पशुशिरांसि सर्पशिरश्चामृन्मीयरिष्टकाः॥१०॥

जानुदनं साहस्त्रं चिन्वीत प्रथमं चिन्वानः। नाभिदघ्नं द्विषाहस्त्रं द्वितीयम्। आस्यदघ्नं त्रिषाहस्रं तृतीयम्। उत्तरमुत्तरं ज्यायांसम्॥११॥

महान्तं बृहन्तमपरिमितं स्वर्गकामश्चिन्वीतेति वाजसनेयकम्॥१२॥

16.14

अपवृत्ते दीक्षापरिमाणे ऽपेत वीतेति गार्हपत्यचितेरायतनं व्यायाममात्रं चतुरस्त्रं परिमण्डलं वोद्धत्य हरिण्या पलाशशाखया शमीशाखया वा संमृज्य प्राचीमुदीची वा शाखामुदसित्वा शं नो देवीरभिष्टय इत्यद्भिरवोक्ष्याग्नेर्भस्मासीति सिकता निवपति॥१॥

संज्ञानमित्यूषान्॥२॥

तान्निपवन्यददश्चन्द्रमसि कृष्णं तदिहास्त्विति मनसा ध्यायति॥३॥

सं या वः प्रियास्तुनव इत्यूषान्सिकताश्च संसृज्य चित स्थ परिचित इत्येक विंशत्या शर्कराभिर्गार्हपत्यचितेरायतनं परिश्रयति। तिस्रस्तिस्त्रः संहिताः॥४॥

व्रजं कृणुध्वं स हि वो नृपाणो वर्म सीव्यध्वं बहुला पृथूनि। पुरः कृणुध्वमा यसीरधृष्टा मा वः सुस्रोच्चमसो ,हता तमिति शर्करा अभिमन्त्र्यायं सो अग्निरिति चतस्रो मध्ये प्राचीरिष्टका गार्हपत्यचितावुपदधाति॥५॥

इडामग्ने ऽयं ते योनित्विय इति द्वे पुरस्तात्समीची तिरश्ची वा॥६॥

एवं पश्चाच्चिदसि परिचिदसीति॥७॥

अवशिष्टं त्रयोदशभिर्लोकंपृणाभिः प्रच्छादयति॥८॥

लोकं पृण ता अस्य सूददोहस इति द्वाभ्यांद्वाभ्यां मन्त्राभ्यामेकैका लोकं पृणामुपदधाति॥९॥

सर्वास्विष्टकासु तयादेवतमन्ततो दधाति॥१०॥

16.15

चात्वालस्थानात्पुरीषमाहृत्य पृष्टो दिवीति वैश्वानर्यर्चा चितावनुव्यूहति॥१॥

सा चितिर्भवति॥२॥

पञ्चचितीकं चिन्वीत प्रथमं चिन्वानः। त्रिचितीकं द्वितीयम्। एकचिती तृतीयम्॥३॥

एकचितीकानेवात ऊर्ध्वं चिन्वीत॥४॥

अजीजनन्नमृतं मास इति गार्हपत्यचितिमभिमृश्य समितमिति तस्यां चतसृभिरुख्यं संनिवपति॥५॥

विज्ञायते च वि वा एतौ द्विषाते यश्चोखायां यश्च चीयते। ब्रह्म यजुः॥ यत्संन्युप्य विहरति ब्रह्मणैवैनौ संशास्तीति॥६॥

साकं हि शुचिना शुचिः प्रशास्ता क्रतुनाजनि। विद्वाँ अस्य व्रता ध्रुवा 935 TT वया इवानु रोहत इति संन्युप्तावभिमन्त्र्य मातेव पुत्रमिति शिक्यादुखां निरूह्य यदस्य पारे रजस इति वैश्वानर्या शिक्यमादत्ते॥७॥

नैर्ऋतीरिष्टकाः कृष्णास्तिस्रस्तुषपक्वास्ताः शिक्यं रुक्मसूत्रमासन्दी चादाय दक्षिणमपरमवान्तरदेशं गत्वा नमः सु ते निर्ऋत इति स्वकृत इरिणे प्रदरे वा शिक्यं निधाय तस्येष्टकाभिः पाशमभ्युपदधाति॥८॥

यस्यास्ते अस्याः क्रूर आस होमीत्येताभिस्तिसृभिः पराचीरसंस्पृष्टा दक्षिणापवर्गम्॥९॥

न तयादेवतं करोति॥१०॥

16.16

यत्ते देवी निर्ऋतिराबबन्धेति शिक्यजालेनैनाः प्रच्छाद्य रुक्मसत्रमासदों च परस्तान्निधायापास्मदेतु निर्ऋतिर्नेहास्या अपि किंचन॥ अगोत्रां नाष्टा पाम्मानं सर्वं तद्वपहन्महे॥ अपास्मन्नैर्ऋतान्पाशान्मृत्यूनेकशतं च ये। अपाय ये सिनाः पाशा मृत्यूनेकशतं सुवे॥ये ते पाशा एकशतं मृत्यो माय हन्तवे। तान्यज्ञस्य मायया सर्वानवयजामहे॥ देवीमहं नितिं बाधमानः पितेव पत्रं दसये वचोभिः। विश्वस्य या जायमानस्य वेद शिरःशिरः प्रति सूरी विचष्ट इत्येताभिश्चतसृभिरुपहिता अभिमन्त्र्य यदस्य पारे रजस इति वैश्वानर्या परिषिच्य भूत्यै नम इत्युपस्थायाप्रतीक्षमायन्ति॥१॥

निर्ऋत्या अन्तर्हित्या इति विज्ञायते॥२॥

शं नो देवीरभिष्टय इत्यद्भिर्मार्जयन्ते॥३॥

ऊर्जं बिभ्रद्वसुमनाः सुमेधा गृहानैमि मनसा मोदमानः सुवर्चाः। अघोरेण चक्षषाहं शिवेन गृहाणां पश्यन्वय उत्तिराणि॥ गृहाणामायुः प्र वयं तिरामो गहा अस्माकं प्र तिरन्त्वायुः। गृहानहं सुमनसः प्रपद्येऽ वीरनो वीरवतः सुवीरानिति गृहानभ्येति॥४॥

निवेशनः संगमनो वसूनामित्याहवनीयं गार्हपत्यं वोपतिष्ठन्ते॥५॥

16.17

राज्ञो निवपनादि कर्म प्रतिपद्यते॥१॥

प्रायणीयया प्रचर्य वेदिं विमिमीते॥२॥

हविष्कृता वाचं विसृज्येति वाजसनेयकम्॥३॥

प्रायणीयाया धौवादित्येतदादि कर्म प्रतिपद्यते॥४॥

आतिथ्यया प्रचर्याग्निं विमिमीते॥५॥

हविष्कृता वाचं विसृज्येति वाजसनेयकम्॥६॥

समूलं हरितं दर्भस्तम्बमाहृत्य मध्ये ऽग्नेर्निखाय जुबां पञ्चगृहीतं गृहीत्वा सजूरब्दो ऽयावभिरिति दर्भस्तम्बे पञ्चाहुतीर्जुहोति॥७॥

यावान्यजमान ऊर्ध्वबाहुस्तावता वेणुनाग्निं विमिमीते॥८॥

त्रीन्प्राचश्चतुर उदीचः॥९॥

पुरुषमात्राणि पक्षपुच्छानि॥१०॥

आत्मा चतुःपुरुषः॥११॥

अरलिना दक्षिणतो दक्षिणं पक्षं प्रवर्धयति॥१२॥ एवमुत्तरत उत्तरम्॥१३॥

प्रादेशेन वितस्त्या वा पश्चात्पुच्छम्॥१४॥

एकविधः प्रथमो ऽग्निः। द्विविधो द्वितीयः। त्रिविधस्तृतीयः। त एवमे वोद्यन्त्यैकशतविधात्॥१५॥

तद ह वै सप्तविधमेव चिन्वीत सप्तविधो वाव प्राकृतो ऽग्निस्तत ऊर्ध्वमेकोत्तरानिति वाजसनेयकम्॥१६॥

स्योना पृथिवि भवानृक्षरा निवेशनी। यच्छा नः शर्म सप्रथाः। बडित्था पर्वतानामित्येताभ्यां विमितमग्निमाक्रमन्ते॥१७॥

16.18

सं वरत्रा दधातनेति मंप्रेष्यति॥१॥

निष्कृताहावमवटमित्यवटादुदकमाहावेषूत्सिञ्चति॥२॥

तेषु बलीवर्दान्याययन्ति॥३॥

उद्योजनमन्तर्याममीषां खगल्यं शफम्। अष्ट्रां तालं प्रतीनाहमुभे मण्डूक्यौ युजाविति युगलाङ्गलं संप्रसारयति॥४॥

सीरा युञ्जन्तीति द्वाभ्यां सीरं युनक्ति षड्गवं द्वादशगवं चतुर्विंशतिगवं वा॥५॥

उष्टारयोः पिल्वयोरथो आबन्धनीययोः। सर्वेषां विद्म वो नाम वाहाः कीलालपेशस इति युक्तानभिमन्त्र्योदस्थाद्गोजिद्धनजिदश्वजिद्धिरण्यजित्सूनृतया परीवृतः। एकचक्रेण सविता रथेनो| भागं पृथिवीमेत्वापृणन्निति लाङ्गल मुच्छ्यति॥६॥

ब्रह्म जज्ञानमित्येषा। अनाप्ता या वःप्रथमा यस्यां कर्माणि कृण्वते॥ वीरानो अत्र मा दभंस्तद्व एतत्पुरो दधे॥ पर्दू षु प्र धन्व वाजसातये परि वृत्राणि सक्षणिः। द्विषस्तरध्यै ऋणया न ईयसे॥ सहस्रधारे ऽव ते समस्वरन्दिवो नाके मधुजिह्वां असश्चतः। अस्य स्पशो न नि मिषन्ति भूर्णयः पदे पदे पाशिनः सन्ति सेतव इति ब्रह्मवर्माणि जुहोति॥७॥

मलिम्लुचो नामासि त्रयोदशो मास इन्द्रस्य वर्मासीन्द्रस्य शर्मासीन्द्रस्य वरूथमसि तं त्वा प्रपद्यते॥८॥

16.19

गायत्री लोमभिः प्रविशामि॥ त्रिष्टुभं त्वचा प्रविशामि। जगतीं मांगेन प्रविशामि। अनुष्टभमस्थ्ना प्रविशामि। पङ्क्तिं मज्ना प्रविशाल वर्म बहुलं यदुन विश्वे देवा नातिविध्यन्ति सूराः। तन्नस्त्रायतां तन्नो महदायुषमन्तो जरामुनगच्छेम देवा इति विमितमग्निमाक्रमन्ते॥१॥

लाङ्गलं पवीरवमिति द्वाभ्यां कृषति॥२॥

कीनाशा बलीवानजन्ति॥३॥

पुच्छच्छिरो ऽधि क्वषति॥४॥

कामं कामदुघे धुक्ष्वेति प्रदक्षिणमावर्तयंस्तिस्त्रःस्तिस्रः सीताः संहिता कृषति॥५॥

मध्ये संभिन्ना भवन्ति॥६॥

दक्षिणात्पक्षादुत्तरम्। उत्तरस्माद्दक्षिणाम्। दक्षिणायै श्रोणेरुत्तरमंसम्। उत्तरायै दक्षिणम्। एतद्वा विपरीतम्॥७॥

विमुच्यध्वमनिया देवयाना अतारिष्म तमसस्पारमस्य। ज्योतिराप्राम सवरगन्मेति दक्षिणेऽस उत्तरे वा बलीवान्विमुच्य तानुदीचः प्राचो वोत्सृज्याध्व र्यवे ददाति॥८॥

चतुरश्रमसंभिन्नं षोडशसीतं वाजसनेयिनः समामनन्ति॥९॥

पञ्चदशोदपात्रान्निनयति। द्वादश कृष्टे त्रीनकृष्टे॥१०॥

या जाता ओषधय इति चतुर्दशभिरोषधीर्वपति॥११॥

अनुसीतमित्युक्तम्॥१२॥

तिलमाषा व्रीहियवाः प्रियङ्ग्वणवो गोधूमा वेणुश्यामाकनीवारा जतिलाश्च गवीधुका आरण्यजा मर्कटका विज्ञेयाः॥१३॥

गार्मतसप्तमाः कुलत्थसप्तमा वा सप्त ग्राम्याः कृप्टे। सप्तामा अकृष्ट॥१४॥

16.20

यामोषधीनां नाधिगच्छेत्तस्याः स्थाने यवान्मधुमिश्रान्वपेत्॥१॥

उप्ता मे ऽसीति वा मनसा ध्यायेत्॥२॥

अधिगतायां यः प्रथम इध्म आगच्छेत्तस्मिन्नेनामुपसंनोत्॥३॥

ये वनस्पतीनां फलग्रहयस्तानिध्म उपसंना प्रोक्षेत्॥४॥

मा नो हिंसीजनिता यः पृथिव्या इति चतसभिर्दिग्भ्यो लोष्टान्समस्यति ये ऽन्तर्विधाबहिर्विधमापन्ना भवन्ति॥५॥

यं द्विष्याद्यत्र स स्यात्तस्यै दिशो जघन्यं लोष्टमाहरेदिषमूर्जमहमित आदद इति॥६॥

घृतेन सीतेति सीतान्तरालान्यभिमृशति। उत्तरवेदिं वा॥७॥

उत्तरवेदिमुपवमति यावानग्निः॥८॥

व्याघारणान्तां कृत्वाग्ने तव श्रवो वय इति षड्भिः सिकता न्युप्य चित स्थ परिचित इत्यपरिमिताभिः शर्कराभिराहवनीयचितेरायतनं परिश्रयति यथा गार्हपत्यस्यैवम्॥९॥

त्रिसप्ताभिः पशुकामस्य। त्रिणवाभिर्धातृव्यवतः। दशभिर्दशभिरन्नाद्य कामस्य। अपरिमिताभिरपरिमितकामस्य॥१०॥

यं कामयेतापशुः स्यादित्यपरिमित्य तस्येत्युक्तम्॥११॥

आप्यायस्व समेतु त इति सिकता व्यूहति॥१२॥

उत्तरया त्रिष्टुभा राजन्यस्य॥१३॥

असावि सोमो अरुषो वृषा हरी राजेव दस्मो अभि गा अचिक्रदत्। पुनानो वारं पर्येत्यव्ययं श्येनो न योनिं घृतवन्तमासदमिति जगत्या वैश्यस्य॥१४॥

XVI.21 आतिथ्याया धौवादित्येतदादि कर्म प्रतिपद्यते॥१॥

पौर्वाह्निकीभ्यां प्रचर्याग्रेण प्राग्वंशं लोहिते चर्मण्यानडुहे प्राचीनग्रीव उत्तरलोम्नि प्रथमस्याश्चितेरिष्टकाः संसादयति। अपि वा तिस्त्रः स्वयमातृण्णा स्तिस्त्रश्च विश्वज्योतिषः॥२॥

ता दर्भाग्रमुष्टिनाज्येन व्यवोक्ष्य समुद्यम्य चित्यग्निभ्यः प्रणीयमानेभ्यो ऽनुब्रूहीति संप्रेष्यति। प्रणीयमानेभ्यो ऽनुब्रूहीति वा॥३॥

प्रथमायां त्रिरनूक्तायां हिरण्यगर्भः समवर्तताग्र इति प्राञ्चो ऽश्वप्रथमा अभिप्रव्रजन्ति॥४॥

श्वेतमश्वं पुरस्तान्नयन्ति॥५॥

प्रजापतिस्त्वा सादयतु तया देवतयाङ्गिरस्वद्धवा सीदेत्युत्तरवेदिमभिमश्य 948 मयि गहास्य अग्निं यो नो अग्निः पितर इति द्वाभ्यामात्मन्नग्निं गहीत्या यास्ते अग्ने समिध इति स्वंयचित्याभिमृशति॥६॥

इष्टकाभिरग्निं चिनोत्यध्वर्युर्यजमानो वा॥७॥

स्वयं चिन्वन्नात्मन्नग्निं गृह्णीते न स्वयंचित्याभिमृशति॥८॥

प्राचीरुपदधाति प्रतीचीरुपदधातीति गणेषु रीतिवादः॥९॥

प्राचीमुपदधाति प्रतीचीमुपदधातीति कर्तुर्मुखवादः॥१०॥

दक्षिणतः श्वेतो ऽश्वस्तिष्ठति॥११॥

तमालभ्येन्द्रं विश्वा अवीवृधन्नित्युत्तरेण पुच्छाप्ययमन्तर्विध आक्रमण प्रतीष्टकामुपदध्यात्॥१२॥

उत्तरतः पश्चाद्वोपचारो ऽग्निः॥१३॥

वाङ् म आसन्निति सर्वत्रारोहन्प्रत्यवरोहंश्च जपति। सकृद्वान्ततः॥१४॥

16.22

तत्त्वा यामि ब्रह्मणा वन्दमान इति शालामुखीये हुत्वा प्राञ्चमश्वमभ्य स्थाद्विश्वा इति दक्षिणेन पदा दर्भस्तम्बमाक्रमय्य प्रदक्षिणमावर्तयित्वा यदक्रन्द इति पुनरेवाक्रमयति॥१॥

अपां पृष्ठमसीत्यश्वस्य पदे पुष्करपर्णमुत्तानमुपधायापां निधिं गायेति संप्रेष्यति॥२॥

ब्रह्म जज्ञानमिति पुष्करपर्ण उपरिष्टान्निर्बाधं रुक्ममुपधाय हिरण्यगर्भः समवर्तताग्र इति तस्मिन्हिरण्मयं पुरुषं प्राचीनमुत्तानं दक्षिणेनातृणं प्राङमय उपधाय पुरुषसाम गायेति संप्रेष्यति॥३॥

द्रप्सश्चस्कन्देति पुरुषमभिमृश्य नमो अस्तु सर्पेभ्य इति तिसृभिरभिमन्त्र्य कृणुष्व पाज इति पञ्चभिरुत्तरवेदिवत्पुरुषं व्याघार्य सुचावुपदधातीत्युक्तम्॥४॥

अपि वाग्नेस्त्वा तेजसा सादयामीत्याज्यस्य पूर्णा कार्मर्यमयीं दक्षिणेन पुरुषम्। इन्द्रस्य त्वौजसा सादयामीति दनः पूर्णामौदुम्बरीमुत्तरेण पुरुषम्॥५॥

अग्निर्मूर्धति कार्यमयीमुपतिष्ठते॥ भुवो यज्ञस्येत्यौदुम्बरीम्। एतद्वा faustalle 11

मूर्धन्वतीभ्यामुपदधाति यजुभ्या॑मुपतिष्ठत इत्येके॥७॥

अत्र पुरुषवद्रुक्मं व्याघार्य॥८॥

16.23

ध्रवासि धरुणास्तृतेति स्वयमातृण्णामभिमश्याश्वेनोपघ्राप्य प्रजापतिस्त्वा सादयतु पृथिव्याः पृष्ठ इत्यविदुपा ब्राह्मणेन सह मध्ये ऽग्नेरुपदधाति। भरिति चैतया व्याहृत्या॥१॥

चित्तिं जुहोमीति स्वयमातृण्णायां हुत्वानुप्राणिति॥२॥

अविद्वान्ब्राह्मणो वरं ददात्येकं द्वौ त्रीन्वा॥३॥

आसीनः प्रथमां स्वयमातृण्णामुपदधाति॥ ऊर्ध्वजुर्द्वितीयाम्। तिष्ठंस्तृती याम्॥४॥

स्वयमातृण्णायां साम गायेति संप्रेष्यति॥५॥
एवं द्वितीयां तृतीयां चोपधाय संप्रेष्यति॥६॥

यदि मन्येत यजमानः पूर्वो मातिक्रान्तो भ्रातृव्य इति प्रथो ऽसीत्युपहितां प्राचीमुद्हेत्। यदि वापरः पृथिव्यसीति प्रतीचीम्। सदृयदि भूरसि भुवनमसीति विचालयेत्॥७॥

तेजो ऽसि तेजो मे यच्छेति हिरण्येष्टकाम्॥८॥

पृथिव्युदपुरमन्नेनेति मण्डलेष्टकाम्॥९॥

भरसि भुवनस्य रेतः। इष्टका स्वर्गो लोकः। वाचा त्वान्वारोहामि। अग्निर्योतिर्योतिरग्निः। तया देवतयाङ्गिरस्वधुवा सीद॥ सूरसि सुवनस्य रेतः। इष्टका स्वर्गो लोकः। मनसा त्वान्वारोहामि। सूर्यो ज्योतिर्योतिः सूर्यः। तया देवतयाङ्गिरस्वधुवा सीदेत्यन्वारोहे द्वे॥१०॥

XVI.24

काण्डात्काण्डत्प्ररोहन्तीति द्वाभ्यां दूर्वेष्टका सलोष्टं हरितं दूर्वास्तम्ब मप्रच्छिन्नाग्रं यथास्योपहितस्य स्वयमातृण्णायामग्रं प्राप्नुयादिति॥१॥

प्रबाहुगिष्टकायां हिरण्यशकलावध्यूह्य यास्ते अग्ने सूर्ये रुच इति द्वाभ्यां वामभृतम्॥२॥

विराड् ज्योतिरिति तिस्रो रेतःसिचः॥३॥

तासां द्वे प्रथमायां चित्यों यून उपदध्यात्। सर्वा मध्यमायां विवयसः। एकां प्रथमायामेकामुत्तमायां स्थविरस्य॥४॥

अन्यतरामुपदध्यादद्वेष्यस्य॥५॥

यजुषेमां चामू चोपदधाति। मनसा मध्यमाम्॥६॥

बृहस्पतिस्त्वा सादयतु पृथिव्याः पृष्ठे ज्योतिष्मतीमिति विश्वज्योतिषम्॥७॥

अग्नेर्यान्यसीति द्वे संयान्यौ॥८॥

मधुश्च माधवश्चेति द्वे ऋतव्ये समानतयादेवते॥९॥

सर्वास्वृतव्यास्ववकामनूपदधाति॥१०॥

अवकासु सादयतीत्येके॥११॥

अषाढासीति द्वाभ्यामषाढामुपरिष्टाल्लक्ष्माणम्॥१२॥

यं कामयेत वसीयान्त्स्यादित्युत्तरलक्ष्माणं तस्येत्युक्तम्॥१३॥

घर्मेष्टकामुपधाय कुलायिनीम्॥१४॥

16.25

मधु वाता ऋतायत इति तिसृभिर्दध्ना मधुमिश्रेण कूर्ममभ्यज्य मही द्यौः पृथिवी च न इति पुरस्तात्स्वयमातृण्णायाः प्रत्यञ्चं जीवन्तं प्राङ्मुख उपद धाति॥१॥

चतस्त्र आशाः प्रचरन्त्वग्नय इति वोपधायावकाभिः परीतंस्य जालेन प्रच्छाद्य शङ्कभिः परिणिहत्यापां गम्भीरं गच्छ मा त्वा सूर्यः परीताप्सीन्मो अग्निर्वैश्वानरः। अघोरः प्रजा अभिविपश्यानु त्वा दिव्या वृष्टिः सचताम्॥ संसर्प त्रीन्समुद्रान्स्वर्गाल्लोकानपां पतिवृषभ इष्टकानाम्। तत्र गच्छ यत्र पूर्वे परेताः पुरीषं वसानः स्वां योनिं यथायथमित्युपहितमभिमन्त्रयते॥२॥

16.26

यच्चिद्धि त्वं गृहेगृह उलूखलक युज्यसे। इह धुमत्तमं वद जयतामिव दुन्दुभिरिति प्रादेशमात्रं चतुःस्रक्त्यौदुम्बरमुलूखलमुत्तरे ऽसे प्रयुनक्ति॥१॥

अपरिमितं मुसलम्॥२॥

उत स्म ते वनस्पते वातो वि सर्वोषधस्य पूरयित्वावहत्येदं विष्णुर्विचक्रम इति मध्ये ऽग्नेरुपदधाति॥३॥

तद्विष्णोः परमं पदमिति मुसलम्॥४॥

दिवो वा विष्णविति शूर्पम्॥५॥

स्यूता देवेभिरमृतेनागा उखां स्वसारमधि वेदिमस्थात्। सत्यं पूर्वैर्ऋषिभिश्चा कुपानो ऽग्निः प्रविद्वानिह तत्करोत्विति घृतेनोखां पूरयति। दध्ना मधुना सिकताभिर्वा सर्वैर्वा॥॥

संसृज्य न रिक्तामवेक्षेत। शुग्विद्धा भवति।७।

अथास्यां पय आनयति॥८॥

संन्युष्य पूरणमेके समामनन्ति॥९॥

यं कामयेत क्षोधुकः स्यादित्यूनां तस्येत्युक्तम्॥१०॥

ध्रुवासि पृथिवीति मध्ये ऽग्नेरुप दधाति॥११॥

पृथिवि पृथिव्यां सीद माता मातरि माता स्योना स्योनायामुखां स्वसारमधि वेदिमस्थात्। सत्यं पूर्वैर्ऋषिभिश्चाकुपानो ऽग्निः प्रविद्वानिह तदधात्विति वोलूखलमुपदधातीति वाजसनेयकम्॥१२॥

अग्ने युक्ष्वा हि ये तव युक्ष्वा हि देवजूतमानिति द्वाभ्यामुखायां हुत्वा पुरुषशिरसि हिरण्यशल्कान्प्रत्यस्यति॥१३॥

16.27

द्रप्सश्चस्कन्देत्यास्ये। अभूदिदं विश्वस्य भुवनस्येति वा॥१॥

ऋचे त्वेति दक्षिणे ऽक्षिकटे रुचे त्वेति सव्ये॥२॥ धुते त्वेति कर्णयोः॥३॥ भासे त्वेति दक्षिणस्यां नासिकायाम्। ज्योतिषे त्वेत्युत्तरस्याम्॥४॥

समित्स्त्रवन्तीति शृतातयेन दध्ना मधुमिश्रेण पुरुषशिरः पूरयति॥५॥

सर्वेषां पशुशिरसां हिरण्यशल्कप्रत्यसनं पूरणं च वाजसनेयिनः समामनन्ति।६॥

तस्मिन्त्सुपर्णे मधुकृत्कुलायीति पुरुषशिर आदायादित्यं गर्भमित्युखायां पुरस्ताच्चुबुकं प्राचीनमुत्तानं प्राङ्मुख उपधाय चित्रं देवानामित्यर्धर्चाभ्यामक्षिकट योर्तुत्वा पशुशीर्षाण्युपदधाति॥७॥

यं कामयेतापशुः स्यादिति विषूचीनानि तस्येत्युक्तम्॥८॥

वातस्य ध्राजिमिति पुरस्तात्प्रतीचीनमश्वस्य॥९॥

अजस्त्रमिन्दुमिति पश्चात्प्राचीनं मृषभस्य॥१०॥

वरूत्रिं त्वष्टुरिति दक्षिणत उदीचीनं वृष्णेः॥११॥

यो अग्निरग्नेरित्युत्तरतो दक्षिणा बस्तस्य॥१२॥

तान्यव्यवायेनोत्सर्गरुपतिष्ठते॥१३॥

इमं मा हिंसीर्द्विपादमिति पुरुषस्य॥१४॥ इमं मा हिंसीरेकशफमित्यश्वस्य॥१५॥ इमं समुद्रमित्वृषभस्य॥१६॥ इमामूर्णायुमिति वृष्णेः॥१७॥ अजा ह्यग्नेरिति बस्तस्य॥१८॥

यदि वायव्यस्य स्यान्मुख्यस्य स्थाने सर्वेषामुपधानैरुपधाय सर्वेषामुत्स गैंरुपतिष्ठेत॥१९॥

अपि वा तस्यतस्य स्थान उपधाय तस्यतस्योत्सर्गेणोपतिष्ठते॥२०॥

यं कामयेत कनीयो ऽस्यान्नं स्यादिति संतरां तस्येत्युक्तम्॥२१॥

नमो अस्तु सर्पेभ्य इति दक्षिणेऽसे सर्पशिर उपदध्याद्विषचीनं पशुशीषैः॥२२॥

अपि वा यजुरेव वदेन्नोपदध्यात्॥२३॥

16.28

मा छन्दस्तत्पृथिव्यग्निर्देवता तेनर्पिणा तेन ब्रह्मणा तया देवतयाडिरस्वधवा सीद। प्रमा छन्दस्तदन्तरिक्षं वातो देवता। प्रतिमा छन्दस्तद्द्यौः सर्यो देवता अस्रीविश्छन्दस्तद्दिशः सोमो देवता। विराट् छन्दस्तद्वाग्वरुणो देवता। गायत्री छन्दस्तदजा बृहस्पतिर्देवता। त्रिष्टुप् छन्दस्तद्धिरण्यमिन्द्रो देवता। जगती छन्दस्तद्गौः प्रजापतिर्देवता। अनुष्टुप् छन्दस्तद्वायुर्मित्रो देवता। उणिहा छन्दस्तच्चक्षुः पूषा देवता। पङ्क्तिश्छन्दस्तत्कृषिः पर्जन्यो देवता। बहती छन्दस्तदश्वः परमेष्ठी देवता तेनर्षिणा तेन ब्रह्मणा तया देवतयाङ्गिरस्वधवा सीदेत्येताभिादशभिस्त्रिरभ्यासं पुरस्तात्प्रतीची पुरुषाकृतिं चिनोति॥१॥

पुरुषशिरोऽस्याः शिरो भवति॥२॥

सहस्त्रशीर्षा पुरुष इत्युपहितां पुरुषेण नारायणेन यजमान उपतिष्ठते॥३॥

अपस्या उपदधाति। अपां त्वेमन्त्सादयामीति पञ्च पुरस्तात्प्रतीचीः। अर्णवे सदने सीदेति पञ्च दक्षिणत उदीचीः। अपां त्वा सदने सादयामीति पञ्च पश्चात्प्राचीः। गायत्री छन्द इति पञ्चोत्तरतो दक्षिणाः॥४॥

16.29

ये यज्ञं समगृभ्णन्देवा देवेभ्यस्परि। तान्गायत्री नयतु प्रजानती स्वर्गे लोके अमृतं दुहाना॥ ये ज्योतींषि संदधति स्वरारोहन्तो अमृस्य लोकम्। ते यन्तु प्रजानन्तो यज्ञं विदानाः सुकृतस्य लोके। ये पशवो मेध्यासो यज्ञस्य योनिमभिसंबभूवुः। तान्ददन्ते कवयो विपश्चितो यज्ञं विदानाः सुकृतस्य लोके। यः पन्था विततो देवयानश्छन्दोभिर्विगृहीत एति। तेनातिष्ठद्दिवमन्तरिक्ष यज्ञं गृहीत्वा सुकृतस्य लोकम्॥ यो यज्ञः सहस्रधारो द्यावापृथिव्योरधि निर्मितः। तेनैतु यजमानः स्वस्त्या दिवो ऽधि पृष्ठमस्थादिति पञ्च हिरण्येष्टकाः प्रतिदिशम्। एका मध्ये॥१॥

आयवे स्वाहायोष्कृते स्वाहायोष्पत्वने स्वाहा विष्णवे स्वाहा बृहस्पतये स्वाहेति पञ्चोपधायाद्भ्यः संभूतः पृथिव्यै रसाच्च विश्वकर्मणः समवर्तताधि। तस्य त्वष्टा विदधद्रूपमेति तत्पुरुषस्य विश्वमाजानमन इत्येतामुपधायर्तसदसि सत्यसदसि तेजःसदसि वर्चःसदसि यशःसदसि गृणानासि। धामासि धाम्यै त्वा धामभ्यस्त्वा धामसु सीद। सनिरसि सन्यै त्वा सनेयम्। वित्तिरसि वित्त्यै त्वा विदेयम्। शक्तिरसि शक्त्यै त्वा शकेयम्। भूतिरसि भूत्यै त्वा भूयासम्। कर्मासि कर्मणे त्वा क्रियासम्॥२॥

16.30-31

गूर्दो ऽसि गूर्दाय त्वा गूर्देभ्यस्त्वा गुर्दे सीद। क्षत्रं पाहि क्षत्रं पिन्व क्षत्रं जिन्व क्षत्रं यच्छ क्षत्रं दूंह क्षत्रमसि क्षत्राय त्वा क्षत्रेभ्यस्त्वा क्षत्रे सीद। विश्वेष त्वा पार्थिवेषु सादयामि। विश्वेषु त्वान्तरिक्षेषु सादयामि। विश्वेषु त्वा देवेष सादयामि। विश्वासु त्वाप्सु सादयामि विश्वासु त्वौषधीषु सादयामि। विश्वेषु त्वा वनस्पतिषु सादयामि। विश्वासु त्वा दिक्षु सादयामि। दिवि सीद। स्वर्जिदसि पृतनाजिदसि भूरिजिदस्यभिजिदसि विश्वजिदसि सर्वजिदसि सत्राजिदसि धनजिदसि भ्राडसि विभ्राडसि प्रभ्राडसि। सपलहनं त्वा वनं सादयामि। अभि मातिहनं त्वा वस्त्रं सादयामि। अरातिहनं त्वा वज्रं सादयामि। यातुहनं त्वां वज्रं सादयामि। पिशाचहनं त्वा वज्रं सादयामि। रक्षोहणं त्वा वज्रं सादयामि। शत्रुहणममित्रहणं भ्रातृव्यहणमसुरहणं त्वेन्द्रं वज्रं सादयामि। उद्वदस्युदितिरस्यु द्यस्याक्रममाणास्याक्रामन्त्यस्याक्रान्तिरसि संक्रममाणासि संक्रामन्त्यसि संक्रान्ति रसि स्वासि स्वरसि। इषि सीदोर्जि सीद भगे सीद द्रविणे सीद सुभूते सीद पृथिव्या यज्ञिये सीद विष्णोः पृष्ठे सीदेडायाः पदे सीद घृतवति सीद पिन्वमाने सीद॥१॥ संवत्सरे सीद परिवत्सरे सीदेदावत्सरे सीदेदुवत्सरे सीदेद्वत्सरे सीद वत्सरे सीद। एकस्यां सीद दशसु सीद शते सीद सहस्त्रे सीदायुते सीद नियुते सीद प्रयुते सीदाबुंदे सीद न्यर्बुदे सीद समुद्रे सीद मध्ये सीद पद्मे सीदान्ते सीद परार्धे सीद। पिन्वमानासि पिन्वमानाय त्वा पिन्वमानेभ्यस्त्वा पिन्वमाने सीद। ऋतमस्य॒ताय त्वर्तेभ्यस्त्वर्ते सीद। सत्यमसि सत्याय त्वा सत्येभ्यस्त्वा सत्ये सीद। संधिरसि संधये त्वा संधिभ्यस्त्वा संधिषु सीद। संश्लिडसि संश्लिषे त्वा संश्लिड्भ्यस्त्वा संश्लिट्सु सीद। संपदसि संपदे त्वा संपद्भ्यस्त्वा संपत्सु सीदेत्येताभ्यामनुवाकाभ्यां प्रतिमन्त्रमृषीष्टकाः सादनप्रवादैश्च पर्यायः॥१॥ XVI.29.2b-XVI.31

XVI.32 अयं पुरो भुव इति पञ्चाशतं प्राणभृतः। दशदश प्रतिदिशमक्ष्णया दश। मध्ये ऽन्तरामुपधाय बाह्यां बाह्याम्॥१॥

प्राची दिशमिति पञ्चाशतमपानभृतो यथा प्राणभृतः। बाह्यामुपधायान्तरा मन्तराम्॥२॥

आयुषः प्राणं संतनु। प्राणादपानं संतनु। अपानाद्व्यानं संतनु। व्यानाच्चक्षुः संतनु। चक्षुषः श्रोत्रं संतनु। श्रोत्रान्मनः संतनु। मनसो वाचं संतनु। वाच आत्मानं संतनु। आत्मनः पृथिवीं संतनु। पृथिव्या अन्तरिक्षं संतनु। अन्तरिक्षादिवं संतनु। दिवः सुवः संतन्विति द्वादश संततीः॥३॥

पृथिवी वशामावास्या गर्भो वनस्पतयो जराय्वग्निर्वत्सो ऽग्निहोत्रं पीयूषः। अन्तरिक्षं वशा धाता गर्भो रुद्रो जरायु वायुर्वत्सो धर्मः पीयूषः। द्यौर्वशा स्तनयितुर्गर्भो नक्षत्राणि जरायु सूर्यो वत्सो वृष्टिः पीयूषः। ऋग्वशा बृहद्रथंतरे गर्भः प्रैषनिविदो जरायु यज्ञो वत्सो दक्षिणाः पीयूषः। विड्वशा राजन्यो गर्भः पशवो जरायु राजा वत्सो बलिः पीयूष इति पञ्च वशाः॥४॥

गर्भो रुद्रो जरा वाटः पीयूषः। ऋग्वशाजन्यो

अर्थेत स्थाध्वगतो ऽग्नेर्वस्तेजिष्ठेन तेजसा देवताभिर्गहामीति का कुम्भी चाद्भिः पूरयित्वा शर्म च स्थ वर्म च स्थ देवस्य वः सवितः प्रयो मधुमतीः सादयामीति पुरस्तादनुसीतमुपधाय ज्योतिषे वामिति हिरण्यशल्को प्रत्यस्यति॥५॥

एवमुत्तरा उत्तरैर्मन्त्रैः प्रतिदिशमनुसीतम्। चतस्रो मध्ये॥६॥

शुक्रा स्थ वीर्यावतीरिन्द्रस्य व इन्द्रियावतो देवताभिर्गृह्णामि॥७॥

16.33

ऋतं च स्थ सत्यं च स्थ देवस्य वः सवितुः प्रसवे मधुमतीः सादयामि। चक्षुषे वाम्॥ मन्द्रा स्थाभिभुवो विश्वेषां वो देवानां देवताभिर्गृह्णामि। सपलनीश्च स्थाभिमातिघ्नीश्च स्थ देवस्य वः सवितुः प्रसवे मधुमतीः सादयामि। रेतसे वाम्। अधिपति स्थौजस्वानादित्यानां वो देवानां देवताभिर्गहामि। रक्षोनीश्च स्थारातिघ्नीश्च स्थ देवस्य वः सवितुः प्रसवे मधुमतीः सादयामि। प्रजाभ्यो वाम्॥क्षत्रभृत स्थौजस्विनीमित्रावरुणयोर्वो ब्रह्मणा देवताभिहामि। वसु च स्थ वामं च स्थ देवस्य वः सवितुः प्रसवे मधुमतीः सादयामि। तेजसे वाम्॥ व्रजक्षित स्थोर्ध्वश्रितो बृहस्पतेर्वो ब्रह्मणा देवताभिर्गहामि। भूतं च स्थ भव्यं च स्थ देवस्य वः सवितुः प्रसवे मधुमतीः सादयामि। वर्चसे वामिति कुम्भेष्ट कानां ग्रहणसादनप्रत्यसनाः॥१॥ XVI.32.7-XVI.33.

हिरण्यवर्णा इत्युपहिता अभिमन्त्रयते॥२॥

दिवि श्रयस्वेति बार्हस्पत्यं नैवारं पयसि चरु मध्ये कुम्भेष्टकानामुप दधाति॥३॥

समन्या यन्तीत्येषा। हिरण्यवर्णः स हिरण्यसंदृगपां पतिः सेदु हिरण्यवर्णः। हिरण्ययात्परि योनेर्निषद्या हिरण्यदा ददत्यन्नमस्मा इत्येताभ्यां च नैवारम्॥४॥

त्रिवृत्ते अग्ने शिरस्तन्मे अग्ने शिरः। पञ्चदशौ ते अग्ने बाहू तौ मे अग्ने बाहू। सप्तदशस्ते अग्ने आत्मा स मे अग्न आत्मा। एकविंशौ ते अग्ने ऊरू तौ मे अग्ने ऊरू। त्रिणवौ ते अग्ने अष्ठीवन्तौ तौ मे अग्ने अष्ठीवन्तौ। त्रयस्त्रिंशं ते अग्ने प्रतिष्ठानं तन्मे अग्ने प्रतिष्ठानमित्येताः शिरसि पक्षयोर्मध्ये पुच्छे वोपदधाति॥५॥

त्रिवृत्ते अग्ने शिरस्तेन मा पाहीति संनमयंस्तांतामुपतिष्ठते यजमानः॥६॥

त्वामग्ने वृषभमित्वृषभमुपधाय लोकं पृण ता अस्य सूददोहस इत्यव शिष्टपरिमिताभिर्लोकंपृणाभिः प्रच्छादयति॥७॥

सर्वान्वर्णानिष्टकानां कुर्यादिति॥८॥ XVI.34 लेखाधिकारो भवति विज्ञायते च॥१॥ XVI.33.8-XVI.34.

या दक्षिणावृतस्ता दक्षिणत उपदध्यात्। सव्यावृत उत्तरतः। ऋजुलेखाः पश्चात्पुरस्ताच्च। व्यालिखिता मध्ये॥२॥

चितौ हिरण्यं निधाय चित्तिमचित्तिमिति चितिक्लुप्त्याभिमशति॥३॥

यत्ते ऽचितं यदु चितं ते अग्ने यदूनं यद्वात्रातिरिक्तम्। विश्वे देवा अङ्गिर सश्चिनवन्नादित्यास्ते चितिमापूरयन्तु। यास्ते अग्ने समिधः॥ चित्तिमचित्तिम्। वयमग्ने धनवन्तः स्यामालं यज्ञायोत दक्षिणायै। ग्रावा वदेदभि सोमस्यांशुनेन्द्रं शिक्षेमेन्दुना सुतेन॥ रायस्पोषं नो धेहि सुनवाम सोमं यज्ञेन त्वामुपशिक्षेम शक्र॥ ईशानं त्वा शुश्रुमो वयं धनानां धनपते गोमदग्ने। अश्वावद्भरि पुष्टं हिरण्यवदन्नमध्येहि मह्यम्॥ दुहां ते द्यौः पृथिवी पयो ऽजगरस्त्वा सोदको विसर्पतु। प्रजापतिनात्मानमाप्रीणे रिक्तो म आत्मा। यो रुद्रो अग्ने यो अप्सु य ओषधीषु यो रुद्रो विश्वा भुवनाविवेश। तस्मै रुद्राय नमो अस्तु देवा इत्येताभिः स्वयंचित्याभिमृशति॥४॥

उत्तरतः कृष्णो ऽश्वस्तिष्ठति। श्यावो वा॥५॥

तमालभ्य चात्वालात्पुरीषमाहृत्य पृष्टो दिवीति वैश्वानर्यर्चा चिता वनुव्यूहति॥६॥

सा चितिर्भवति॥७॥

XVI.35 यो अप्स्वन्तरग्निर्यो वत्रे यः पुरुषे यो अश्मनि। य आविवेश भुवनानि विश्वा तेभ्यो अग्निभ्यो हतमस्त्वेतत्॥ यः सोमे अन्तर्यो गोष्वन्तर्वयांसि य आविवेश यो मृगेषु। य आविवेश द्विपदो यश्चतुष्पदस्तेभ्यो अग्निभ्यो हुतम स्त्वेतत्॥ पृष्टो दिवीत्येषा। येनेन्द्रस्य रथं संबभूवुर्यो वैश्वानर उत वैश्वदेव्यः॥ धीरो यः शक्रः परिभूरदाभ्यस्तेभ्यो अग्निभ्यो हुतमस्त्वेतत्॥ यं हुतादमग्निं यमु काममाहुर्यं दातारं प्रतिग्रहीतारमाहुः। यो देवानां देवतमस्तपोजास्तेभ्यो अग्निभ्यो हुतमस्त्वेतत्॥ उक्षान्नाय वशान्नायेत्येताभिः षड्भिश्चितिचितिम् पधायाभिजुहोति॥१॥

अग्ने भूरीणीत्याग्नेय्या धामच्छदा चितिंचितिमुपधायाभिजुहोति॥२॥

उपतिष्ठत इत्येके॥३॥

आग्नेय्या गायत्र्या प्रथमां चितिमभिमशेदित्युक्तम्॥४॥

अग्ने देवाँ इहा वह जज्ञानो वृक्तबर्हिषे। असि होता न ईड्यः॥ अगन्म महा मनसा यविष्ठं यो दीदाय समिद्धः स्वे दुरोणे। चित्रभानू रोदसी अन्तरुर्वी स्वाहुतं विश्वतः प्रत्यञ्चम्॥ मेधाकारं विदथस्य प्रसाधनमग्निं होतारं परिभूतमं मतिम्। त्वामर्भस्य हविषः समानमित्त्वा महो वृणते नरो नान्यं त्वत्॥ मनुष्वत्त्वा नि धीमहि मनुष्वत्समिधीमहि। अग्ने मनुष्वदङ्गिरो देवान्देवायतेXVI.35) ApśS Translation : THITE 973 राज॥ अग्निर्हि वाजिनं विशे ददाति विश्वचर्षणिः। अग्नी राये स्वाभवं स प्रीतो याति वार्यमिषं स्तोतृभ्य आ भरेत्येता आम्नाता भवन्ति॥५॥

षडुपसदः॥६॥

द्व्यहंद्व्यहमेकैकेनोपसन्मन्त्रेण जुहोति॥७॥

अनूपसदमग्निं चिनोति व्यहम्॥८॥

उत्तमा चितिः॥९॥

त्रीणि चतुस्तनानि व्रतानि। त्रीणि त्रिस्तनानि। त्रीणि द्विस्तनानि। एकमेक स्तनम्॥१०॥

आपराह्निकीभ्यां प्रचर्य श्वेतमश्वं परिणीय वसन्ति वसन्ति॥११॥

17.01

श्वो भूते पौर्वाहिकीभ्यां प्रचर्य द्वितीयां चितिं चिनोति॥१॥

ध्रुवक्षितिरिति पञ्चाश्विनीरुपदधाति॥२॥

सजूक्रतुभिरिति पञ्चर्तव्या। आश्विनीरनूपधाय॥३॥

प्राणं मे पाहीति पञ्च प्राणभृत ऋतव्या अनूपधाय॥४॥

अपस्पिन्वेति पञ्चापस्या अनुपरिहारम्॥५॥

वायोर्यान्यसीति द्वे संयान्यौ॥६॥

शुक्रश्च शुचिश्चेति द्वे ऋतव्ये समानतयादेवते॥७॥

त्र्यविर्वय इति पञ्च दक्षिणस्यां श्रोण्याम्। पष्ठवाड्वय इति पञ्चोत्तरस्याम्। बस्तो वय इति दक्षिणेऽसे। वृष्णिर्वय इत्युत्तरे। व्याघ्नो वय इति दक्षिणे पक्षे। सिंहो वय इत्युत्तरे। एतद्वा विपरीतम्। पुरुषो वय इति मध्ये। विष्टम्भो वय इति चतस्रो वयस्याः पुरस्तात्प्रतीचीः॥८॥

यं कामयेतापशुः स्यादिति वयस्यास्तस्येत्युक्तम्॥९॥

ऋषभादिश्चित्यन्तः॥१०॥

श्वो भूते पौर्वाहिकीभ्यां प्रचर्य तृतीयां चितिं चिनोति॥११॥

इन्द्राग्नी अव्यथमानामिति स्वयमातृण्णामभिमृश्याश्वेनोपघ्राप्य विश्वकर्मा त्वा सादयत्वन्तरिक्षस्य पृष्ठ इत्यविदुषा ब्राह्मणेन सह मध्ये ऽग्नेरुपदधाति। भुव इति चैतया व्याहृत्या॥१२॥

चित्तिं जुहोमीति स्वयमातृण्णायां हुत्वा व्यनिति॥१३॥

ज्योतिरसि ज्योतिर्मे यच्छेति हिरण्येष्टकाम्॥१४॥

अधिद्यौरिति मण्डलेष्टकाम्॥१५॥

अत्र रेतःसिचो विवयसः॥१६॥

विश्वकर्मा त्वा सादयत्वन्तरिक्षस्य पृष्ठे ज्योतिष्मतीमिति विश्वज्योतिषम्॥१७॥

अन्तरिक्षस्य यान्यसीति द्वे संयान्यौ॥१८॥

XVII.2 नभश्च नभस्यश्चेति चतस्र ऋतव्याः। द्वेद्वे समानतयादेवते॥१॥

राज्यसि प्राची दिगिति पञ्च दिश्याः प्रतिदिशमेकां मध्ये॥२॥

आयुर्मे पाहीति दश प्राणभृतः पुरस्तादुपधाय॥३॥ षट्त्रिंशतं बृहतीः। मा छन्द इति द्वादश दक्षिणतः। पृथिवी छन्द इति द्वादश पश्चात्। अग्निर्देवतेति द्वादशोत्तरतः।।४॥

मूर्धासि राडिति सप्त वालखिल्याः पुरस्तात्प्रतीचीः। यन्त्री राडिति सप्त पश्चात्प्राचीः॥५॥

अक्ष्णया द्वेष्यस्य प्रसवाय त्वोपयामाय त्वा काटाय त्वार्णवाय त्वा धर्णसाय त्वा द्रविणाय त्वा सिन्धवे त्वा समुद्राय त्वा सरस्वते त्वा विश्वव्यचसे त्वा सुभूताय त्वान्तरिक्षाय त्वेति द्वादश भूतेष्टकाः॥६॥

ऋषभादिश्चित्यन्तः॥७॥

श्वो भूते पौर्वाह्निकीभ्यां प्रचर्य चतुर्थी चितिं चिनोति॥८॥

आशुस्त्रिवृदग्नेर्भागो ऽसीत्येताभ्यामनुवाकाभ्यां यथा ब्राह्मणमुपधा यान्तरिक्षमस्यन्तरिक्षाय त्वेति द्वे संयान्यौ॥९॥

सहश्च सहस्यश्चेति द्वे ऋतव्ये समानतयादेवते॥१०॥

एकयास्तुवतेति सप्तदश सृष्टीः॥११॥

इयमेव सा या प्रथमा व्यौच्छदिति षोडश व्युष्टीः॥१२॥

ऋषभादिश्चित्यन्तः॥१३॥

17.03

श्वो भूते पौर्वाह्निकीभ्यां प्रचर्य पञ्चमी चितिं चिनोति॥१॥

अग्ने जातान्प्र णुदा नः सपत्नानिति पुरस्तादुपदधाति। सहसा जातानिति पश्चात्। चतुश्चत्वारिंश स्तोम इति दक्षिणतः। षोडश स्तोम इत्युत्तरतः॥२॥

इष्टकायां पुरीषमध्यूह्य पृथिव्याः पुरीषमसीति मध्ये ऽग्नेः पुरीषवतीम्॥३॥

एवश्छन्दो वरिवश्छन्द इति चत्वारिंशतं विराजो दशदश प्रतिदिश मक्ष्णया।।४॥

रश्मिरसि क्षयाय त्वा क्षयं जिन्वेति स्तोमभागाः। सप्तसप्त प्रतिदिशम्। अवशिष्टा मध्ये॥५॥

राजयसि प्राची दिगिति पञ्च नाकसदः प्रतिदिशमेकां मध्ये॥६॥

तासु पुरीषमध्यूह्यायं पुरो हरिकेश इति पञ्चचोडा अभ्युपदधाति। द्वेष्यं मनसा ध्यायन्पश्चात्प्राचीमुत्तमाम्॥७॥

आयोस्त्वा सदने सादयामीति स्वयमातृण्णामभिमृश्याश्वेनोपघ्राप्य परमेष्ठी त्वा सादयतु दिवः पृष्ठ इत्यविदुषा ब्राह्मणेन सह मध्ये ऽग्नेरुपदधाति। सुवरिति चैतया व्याहृत्या॥८॥

चित्तिं जुहोमीति स्वयमातृण्णायां हुत्वापान्य प्रोथदश्व इत्युत्तरेऽसे विकर्णीम्॥९॥

तेनान्याभिरिष्टकाभिरभ्युपदधाति॥१०॥

17.04

सुवरसि सुवर्मे यच्छेति हिरण्येष्टकाम्॥१॥

  1. द्यौरपराजितेति मण्डलेष्टकाम्॥२॥

अत्रैकां रेतःसिचं स्थविरस्य॥३॥

प्रजापतिस्त्वा सादयतु दिवः पृष्ठे ज्योतिष्मतीमिति विश्वज्योतिषम्॥४॥

तपश्च तपस्यश्चेति द्वे ऋतव्ये समानतयादेवते॥५॥

देवानां यान्यसि देवानां देवयान्यसीति द्वे संन्यान्यौ।६॥

संन्यान्यावृतव्ये विश्वज्योतिषं रेतःसिचं हिरण्येप्टकां मण्डलेप्टकां विकर्णी स्वयमातृण्णामित्येवमनुपूर्वा एके समामनन्ति॥७॥

आपराह्निकीभ्यां प्रचर्योदुम्बरीः समिधो घृते वासयति॥८॥

श्वो भूते पौर्वाह्निकीभ्यां प्रचर्य पञ्चम्याश्चितेः शेषं याज्ञसेनी चितिं चिनोति॥९॥

अग्निर्मूर्धेति तिस्त्रो गायत्रीः पुरस्तादुपदधाति। एवमुत्तराणि त्रीणित्रीणि। त्रिष्टुभो दक्षिणतः। जगतीः पश्चात्। अनुष्टुभ उत्तरतः। बृहतीरुष्णिहाः पङ्क्ती रक्षरपड्.क्तीरिति विषुरूपाणि छन्दांसि यथावकाशम्। अतिच्छन्दसं मध्ये। द्विपदा अन्ततः॥१०॥

अन्यत्र साहनात्पशुकामस्य गोचितिं चिनोति॥११॥

सहस्रं पादमात्रीरिष्टकाः॥१२॥

ताः प्रथमायां चित्यां मध्यमायामुत्तमायां वोपदध्यात्॥१३॥

17.05

अग्ने गोभिर्न आ गहीत्यनुवाकेन प्रतिमन्त्रं पुनःपुनरभ्यासम्॥१॥

इन्द्राग्निभ्यां त्वा सयुजा युजा युनज्मीत्यष्टौ सयुजः॥२॥

रोहितेषु त्वा जीमूतेषु सादयाम्यरुणेषु त्वा कृष्णेषु त्वा नीलेषु त्वा सितेषु त्वा जीमूतेषु सादयामीति पञ्च जीमूताः॥३॥

अम्बा नामासीति सप्त कृत्तिकाः॥४॥

पुरोवातसनिरसीति पञ्च वृष्टिसनीरनुपरिहारम्॥५॥

HII etalGrecht:11€ 11

ऋचे त्वा रुचे त्वेति पञ्च घृतेष्टका अनुपरिहारम्॥७॥

आदित्येष्टकाभिघृतपिण्डान्व्यतिषक्तानिति वाजसनेयकम्॥८॥

यशोदां त्वेति पञ्च यशोदाः॥९॥

भूयस्कृदसीति पञ्च भूयस्कृतः॥१०॥

अप्सुषदसीति पञ्चाग्निरूपाणि॥११॥

पृथिव्यास्त्वा द्रविणे सादयामीति पञ्च द्रविणोदाः॥१२॥

प्राणं मे पाहीति षडायुष्याः॥१३॥

अग्ने यत्ते परं हृन्नामेत्यग्नेर्हृदयम्॥१४॥

यावा अयावा इति सप्तर्तव्याः॥१५॥

या देव्यसीष्टक आयुर्दा उपशीवरी। सा मामुपशेष्व जायेव पतिमित्सदा॥ या देव्यसीष्टके प्राणदा अपानदा व्यानदाश्चक्षुर्दा श्रोत्रदा वाग्दा आत्मदाः 987 पथिविदा अन्तरिक्षदा द्यौर्दा स्वर्दाः कुमारीदाः प्रफर्विदाः प्रथमौपशदा युवतिदा उपशीवरी। सा मामुपशेष्व जायेव पतिमित्सदेति षोडशोपशीवरीः॥१६॥

17.06

अभीषाच्चाभिषवी चाभिवयाश्चोर्ध्ववयाश्च बृहद्वयाश्च सवयाश्च सह्वांश्च सहमानश्च सहस्वांश्च सहीयांश्चेति दशेन्द्रनामानि॥१॥

अग्निना विश्वाषाडिति द्वाविंशतिमिन्द्रतनूः॥२॥

प्रजापतिर्मनसान्धो ऽच्छेत इति त्रयस्त्रिंशतं यज्ञतनूः॥३॥

ज्योतिष्मती त्वा सादयामीति द्वादश ज्योतिष्मतीः॥४॥

पूर्णा पश्चादिति पौर्णमासी पुरस्तादुपधाय कृत्तिका नक्षत्रमिति नक्षत्रेष्टकाः पुरस्तात्प्रतीचीरसंस्पृष्टकाः॥५॥

पूर्वामुपधायापरामपरामा विशाखाभ्याम्॥६॥

दक्षिणेन स्वयमातृण्णां रीतिं प्रतिपादयति॥७॥

यत्ते देवा अदधुरित्यमावास्यां पश्चादुपधायावशिष्टानां पूर्वांपूर्वामापभर णीभ्यः॥८॥

उत्तररेण स्वयमातृण्णां रीतिं प्रतिपादयति॥९॥

पौर्णमासीमन्ततः॥१०॥

ऋचे त्वा रुचे त्वेति सर्वासु नक्षत्रेष्टकास्वनुषजति॥११॥

17.07

हिरण्यगर्भः समवर्ततान इत्यष्टौ सरितः॥१॥

विश्वकर्मा दिशां पतिरिति पञ्च हिरण्येष्टकाः प्रतिदिशमेकां मध्ये॥२॥

प्राणाय त्वा चक्षुषे त्वेति चतस्त्रः स्वयमातृण्णाः प्रतिदिशम्॥३॥

अग्न आ याहि वीतये॥ अग्निं दूतं वृणीमहे॥ अग्निनाग्निः समिध्यते॥ अग्निर्वृत्राणि जङ्घनत्॥ अग्ने स्तोमं मनामहे सिध्रमद्य दिविस्पृशम्॥ देवस्य द्रविणस्यव इति पञ्चाह्नां रूपाणि॥४॥

अथ व्रतमुपदधाति॥५॥

प्राच्या त्वा दिशा सादयामीति पञ्चात्मेष्टकाः प्रतिदिशमेकां मध्ये॥६॥

संयच्च प्रचेताश्चेति पञ्च वैश्वदेवीरात्मनि द्वेष्यं मनसा ध्यायन्॥७॥

कया नश्चित्र आ भुवदूती सदावृधः सखा। कया शचिष्ठया वृता॥ कस्त्वा सत्यो मदानां मंहिष्ठो मत्सदन्धसः। दृढा चिदारुजे वसु॥ अभी ष णः सखी नामाविता जरितॄणाम्। शतं भवास्यूतिभिरिति वामदेव्यम्॥८॥

17.08

दक्षिणत आत्मनि॥१॥

इन्द्रो दधीचो अस्थभिव॒त्राण्यप्रतिष्कुतः। ववक्षुरुग्रो अस्तृत इत्यथर्वशिरो दशातिषक्ताः ॥२॥

पूर्वार्धे विद्यते शिरसो निरूहणम्। न विद्यत इत्यपरम्॥३॥

अभि त्वा शूर नोनुमो ऽदुग्धा इव धेनवः। ईशानमस्य जगतः सुवरदृश मीशानमिन्द्र तस्थुषः। ईशानमिन्द्र तस्थुषः। न त्वावाँ अन्यो दिव्यो न पार्थिवः। न जातो न जनिष्यते अश्वायन्तो मघवन्निन्द्र वाजिनः। गव्यन्तस्त्वा हवामह इति रथंतरं दक्षिणे पक्षे ऽध्यात्मन्नपवर्गः॥४॥

प्रथमामुपधाय द्वितीयामथ विशयाम्॥५॥ अर्धमात्मन्यर्धं पक्षे॥६॥

त्वामिद्धि हवामहे साता वाजस्य कारवः। त्वां वृत्रेष्विन्द्र सत्पतिं नरस्त्वां काष्ठास्वर्वतः। त्वां काष्ठास्वर्वतः। स त्वं नश्चित्र वज्रहस्त धृष्णुया। मह स्तवानो अद्रिवः। मह स्तवानो अद्रिवः। गामश्वं रथ्यमिन्द्र सं किर। सत्रा वाजं न जिग्युष इति बृहदुत्तरे पक्षे॥७॥

तस्य रथंतरवत्कल्पः॥८॥

XVII.9 यज्ञायज्ञा वो अग्नये गिरागिरा च दक्षसे। प्रप्र वयममृतं जातवेदसं प्रियं मित्रं न शंसिषम्। प्रियं मित्रं न शंसिषम्। ऊर्जा नपातं स हिनायमस्मयुः। दाशेम हव्यदातये। दाशेम हव्यदातये। भुवद्वाजेष्वविता भुवद्वधः। उत त्राता तनूनामिति यज्ञायज्ञियं पुच्छे॥१॥

तस्य रथंतरवत्कल्पः॥२॥

त्वामग्ने वृषभमित्वृषभमुपधाय संवत्सरस्य प्रतिमामिति प्राजापत्याम्॥३॥

शतायुधाय शतवीर्यायेति पञ्चाज्यानीः प्रतिदिशमेकां मध्ये॥४॥

इन्द्रस्य वज्रो ऽसीति चतस्त्रो वन्त्रिणीः प्रतिदिशमश्मन इषुहस्त उपद धाति॥५॥

इन्द्रस्य वन्तो ऽसि वात्रघ्नस्तनूपा नः प्रतिस्पशः। यो न उपरिष्टाद घायुरभिदासत्येतं सो ऽश्मानमृच्छत्विति मध्ये पञ्चमीमेके समामनन्ति॥६॥

पृथिव्यै त्वान्तरिक्षाय त्वा दिवे त्वेति तिम्रो लोकेष्टकाः॥७॥

अग्नये त्वा पवमानायाग्नये त्वा पावकायाग्नये त्वा शुचय इति तिस्त्रः पवमानीः॥८॥

17.10

ऋचा त्वा छन्दसा सादयामि वषट्कारेण त्वा छन्दसा सादयामि हिङ्कारेण त्वा छन्दसा सादयामि प्रस्तावेन त्वा छन्दसा सादयामि प्रतिहारेण त्वा छन्दसा सादयाम्युद्गीथेन त्वा छन्दसा सादयामि निधनेन त्वा छन्दसा सादयामीति सप्त च्छन्दस्याः॥१॥

अग्ने यशस्विन्निति चतस्त्रो राष्ट्रभृतः पुरस्तादुपधाय हिरण्येप्टकाभिः सर्वतो मुखमुपदधाति॥२॥

गायत्री पुरस्तादुपदधातीत्युक्तम्॥३॥

अथैकेषाम्। गायत्री पुरस्तादुपदधाति त्रिष्टुभं दक्षिणतो जगतीं पश्चादनुष्टुभमुत्तरतः पङ्क्ति मध्ये। इत्येताभिः सर्वाभिः सर्वतो मुखमुप दधाति।।४॥

गायत्र्यादयो भवन्ति पङ्क्तयुदयनाः॥५॥

अग्निमूर्धा। भुवः। जनस्य गोपाः। त्वां चित्रश्रवस्तम। अग्ने तमद्याश्वमित्येता आम्नाता भवन्ति॥६॥

अग्न आ याहि वीतय इति चैताभिः सर्वतो मुखमुपधाति॥७॥

लोकंपृणाभिरित्येके॥८॥

अत्र वा विकर्णी स्वयमातृण्णां चोपदध्यात्॥९॥

लोकंपृणादिश्चित्यन्तः॥१०॥

अग्ने युक्ष्वा हि ये तव। युक्ष्वा हि देवहूतमानिति द्वाभ्यां संचित मग्निमभिमृश्य वसवस्त्वा रुद्रैः पुरस्तात्पान्त्वित्येतैर्यथालिङ्गं संचितमग्निमाज्येन प्रोक्षति। मध्य उत्तमेन प्राङ्मुखः॥११॥

17.11

सहस्रस्य प्रमा असीति सहस्रेण हिरण्यशल्कैरूस्तिष्ठन्प्रतिदिशि मग्निं प्रोक्षति द्वाभ्यांद्वाभ्यां शताभ्याम्। मध्य उत्तमाभ्यां प्राङ्मुखः॥१॥

इमा मे अग्न इष्टका धेनवः सन्त्वितीष्टका धेनूर्यजमानः कुरुते॥२॥

ऐडिक्या चित्याध्वर्युरग्निमभिमृश्य शतरुद्रीयं जुहोति जर्तिलयवाग्वा गवीधुकयवाग्वा वा जर्तिलैर्गवीधुकसक्तुभिः कुसयसर्पिषाजाक्षीरेण मृगीक्षीरेण वार्कपर्णेनोद तिष्ठन्। उत्तरस्य पक्षस्योत्तरापरस्यां सक्तयां विकर्यां स्वयमा तृण्णायामनुपरिचारं वा॥३॥

नमस्ते रुद्र मन्यव इत्येताननुवाकांस्त्रैधं विभाज्यापि वा प्रथमादपक्रम्य नमस्तक्षभ्य इति जानुदने धारयमाणे रथकारेभ्यश्च व इत्युपक्रम्य नमः स्वा युधायेति नाभिदने शेषेण प्रागवतानेभ्य आस्यदने हुत्वा सहस्त्राणि सहस्रश इति दशावतानान्हुत्वान्वारोहाञ्जुहोति॥४॥ x

नमो रुद्रेभ्यो ये पृथिव्यामिति जानुदने धारयमाणो नमो रुद्रेभ्यो ये ऽन्तरिक्ष इति नाभिदने नमो रुद्रेभ्यो ये दिवीत्यास्यदने हुत्वैतानेव यजमानं वाचयित्वैतानेव विपरीतान्प्रत्यवरोहान्हुत्वासंचरे पशूनामर्कपर्णमुदस्यति॥५॥

यं द्विष्यात्तस्य संचरे यस्य रुद्रः प्रजां पशून्वाभिमन्येतोदङ् परेत्य रुद्राञ्ज पंश्चरेदित्ययज्ञसंयुक्तः कल्पः॥६॥

17.12

यो रुद्रो अग्नाविति रौद्रं गावीधुकं चरुम्॥१॥ एतेन यजुषा यस्यामिष्टकायां शतरुद्रीयं जुहोति तस्यां प्रतिष्ठापयति॥२॥

तिसुधन्वमयाचितं यजमानो ब्राह्मणाय दत्त्वा यत्ते रुद्र पुरो धनुरित्ये तैर्यथालिङ्गमुपतिष्ठते॥३॥

उदकुम्भमादायाध्वर्युरश्मन्नूर्जमिति त्रिः प्रदक्षिणमग्निं परिषिञ्चन्पति

निधाय कुम्भमश्मंस्ते क्षुदमुं ते शुगृच्छतु यं द्विष्म इति त्रिरपरिषिञ्चन्नति पर्येति॥५॥

यद्यभिचरेदिदममुष्यामुष्यायणस्यायुः प्रक्षिणोमीति दक्षिणस्यामुत्तरस्यां वा स्त्रक्तयां कुम्भं प्रक्षिणुयात्॥६॥

अवकां वेतसशाखां मण्डूकं च दीर्घवंशे प्रबध्य समुद्रस्य त्वावाकयेति सप्तभिरष्टाभिर्वाग्निं विकर्षति॥७॥

विकर्षन्नेवानुगमयित्वा मण्डूकस्य प्राणान्सर्वान्संलोभ्योत्कर उदस्यति॥८॥

यं द्विष्यात्तमेतैरुपस्पृशेत्॥९॥

पृष्ठैरुपतिष्ठते। गायत्रेण पुरस्तात्। बृहद्रथंतराभ्यां पक्षो। ऋतुस्थाय ज्ञायज्ञियेन पुच्छम्। दक्षिणस्यां श्रोण्यां वारवन्तीयेन। उत्तरस्यां वामदेव्येन॥१०॥ अपिपक्षे प्रजापतेः सामानृचं गायति॥११॥

पिता मातरिश्वेति संचितोक्थ्येन होतानुशंसति॥१२॥

होतर्यकामयमानेऽध्वर्युः स्तुतशस्त्रयोर्दोहे यजमानं वाचयति॥१३॥ स्तुतस्य स्तुतमसीत्यत्र प्रवर्दीमुद्वासयति॥१४॥

17.13

जुह्वां पञ्चगृहीतं गृहीत्वा स्वयं कृण्वान इति द्वे॥१॥ अतिसगं ददतो मानवायर्जु पन्थामनुपश्यमानाः। अजुषन्त मरुतो यज्ञमेतं वृष्टिं देवानाममतं स्वर्विदम्॥ आवर्तमानो भुवनस्य मध्ये प्रजा विकुर्वञ्जनयन्विरूपाः। संवत्सरः परमेष्ठी धृतव्रतो यज्ञं नः पातु रजसः पुरस्तात्॥ प्रजां ददातु परिवत्सरो नो धाता ददातु सुमनस्यमानः॥ बह्वीः साकं बहुधा विश्वरूपा एकव्रता मामभि संविशन्त्विति पञ्चान्वारोहान्हुत्वापरं पञ्चगृहीतं गृहीत्वा काम उपानहावुपमुञ्चते। एकां वा॥२॥ चिते त्वेति दक्षिणाम्। अनुचिते त्वेत्युत्तराम्॥३॥

एवं यजमानः॥४॥

अपामिदं न्ययनम्। पृथिवीमाक्रमिषमित्येतैर्यजमानः॥५॥

नृषदे वडिति पञ्चभिरुत्तरवेदिवदग्निं स्वयमातण्णां वा व्याघार्य ये देवा देवानामिति द्वाभ्यामनुपरिचारं दध्ना मधुमिश्रेण दर्भग्रुमुष्टिनाग्निं व्यवोक्ष्य कूर्मपृषन्तं कृत्वा प्राणदा अपानदा इति प्रत्यवरुह्याग्निस्तिग्मेनेति द्वाभ्यामग्नये ऽनीकवत एकामाहुति हुत्वा॥६॥

17.14

षोडशगृहीतेन त्रुचं पूरयित्वा वैश्वकर्मणानि जुहोति॥१॥

य इमा विश्वा भुवनानि जुह्वत्। चक्षुषः पिता मनसा हि धीर इति नाना सूक्ताभ्यां द्वे आहुती॥२॥

यं कामयेत चिरं पाप्मनो निर्मुच्येतेत्येकैकं तस्येत्युक्तम्॥३॥

यद्येनमुदके भीर्विन्देदुकाञ्जलिमादाय समुद्राय वयुनायेत्यप्सु जुहुया दित्ययज्ञसंयुक्तः कल्पः॥४॥

उदेनमुत्तरां नयेत्यौदुम्बरीः समिधो घृतोषितास्तिसृभिस्तिस्त्र आधाय पशुबन्धवदग्निं प्रणयति॥५॥

उदु त्वा विश्वे देवा इत्यग्निमुद्यम्य पञ्च दिशो दैवीरिति पञ्चभिर्हरत्याग्नी ध्रात्॥६॥

आशुः शिशान इति दक्षिणतो ब्रह्मा दशर्चेनान्वेति। मैत्रावरुणः प्रतिप्रस्थाता वा॥७॥

यं कामयेत राष्ट्र स्यादिति तमेतेन संनह्यान्वियात्॥ संग्रामे संयत्ते होतव्यम्। तैजनो मान्धुको वेध्मो भवतीत्ययज्ञसंयुक्तः कल्पः॥८॥

विमान एष दिवो मध्य आस्त इति द्वाभ्यामाग्नीधे ऽश्मानं निधायेन्द्र विश्वा अवीवृधन्निति चतसृभिरा पुच्छाद्गत्वा॥९॥

17.15

प्राचीमनु प्रदिशमिति पञ्चभिरग्निमधिरुह्य नक्तोषासाग्ने सहस्राक्षेति द्वाभ्यां संहिताभ्यां दध्नः पूर्णामौदुम्बरी स्वयमातृण्णायां जुहोति॥१॥

नक्तोषासेति कृष्णायै श्वेतवत्सायै पयसा जुहोति॥२॥ पयसा व्याघारयतीत्येके॥३॥

ऊर्णावन्तं प्रथमः सीद योनिमिति होतुरभिज्ञाय पाशुकान्संभारान्युष्य सुपर्णो ऽसि गरुत्मानिति तिसृभिः स्वयमातृण्णायामग्निं प्रतिष्ठाप्य प्रेद्धो अग्ने दीदिहि पुरो न इत्यौदुम्बरी समिधमादधाति॥४॥

विधेम ते परमे जन्मन्नग्न इति वैककृतीम्॥५॥

तां सवितुर्वरेण्यस्य चित्रामिति शमीमयीम्॥६॥

चित्तिं जुहोमि। अग्ने तमद्याश्वमिति द्वे आहुती हुत्वा द्वादशगृहीतेन युचं पूरयित्वा सप्त ते अग्ने समिधः सप्त जिह्वा इति सप्तवत्या पूर्णाहुतिं जुहोति।॥७॥

तां जुह्वदिह सो ऽस्त्विति दिग्भ्यो ऽग्निं मनसा ध्यायति॥८॥

17.16

आ वेदिप्रोक्षात्कृत्वा वैश्वानरस्य तन्त्रं प्रक्रमयति॥१॥

वेदं कृत्वाग्निं परिस्तीर्य पाणिप्रक्षालनादि कर्म प्रतिपद्यते॥२॥

यथार्थं पात्रयोगः॥३॥

निर्वपणकाले वैश्वानरं द्वादशकपालं निरुप्य सप्त मारुतान्सप्तकपा लान्निर्वपति।।४॥

तूष्णीमुपचरिता भवन्ति॥५॥

संप्रेषकाले पत्नीवर्जं संप्रेष्यति॥६॥

आज्यग्रहणकाले ध्रुवायामेव गृह्णाति॥७॥

प्रोक्षणीनामभिमन्त्रणादि कर्म प्रतिपद्यते॥८॥

स्तरणकाले ऽपरेणाग्निं बर्हिः स्ती| ध्रुवां स्रुवं च सादयति॥९॥

एतावसदतामिति मन्त्रं संनमति॥१०॥

वेदं निधाय सामिधेनीभ्यः प्रतिपद्यते॥११॥

न संप्रेष्यति न संमाष्टि न प्रयाजान्यजति॥१२॥

आज्यभागाभ्यां प्रचर्य जुह्वामुपस्तीर्य कृत्स्नं वैश्वानरमवदाय दिरभिषा र्योच्चैश्वानरस्याश्रावयति॥१३॥

उपांशु मारुतान्सर्वहुताञ्जुहोति॥१४॥

ईदृङ् चान्यादृङ्चेति सप्तभिर्गणैरासीनो हस्तेन गणेन गणमनुद्रुत्य मारुता झुहोति॥१५॥ मध्ये ऽरण्येऽनुवाक्येन गणेनगणेन जुहोतीत्येक॥१६॥

मारुतैः सर्वतो वैश्वानरं परिचिनोतीत्येके॥१७॥

स्वतवांश्च प्रघासी च सांतपनश्च गृहमेधी च क्रीडी च साकी चोर्जिपी चेत्येष षष्ठ आम्नातः॥१८॥

मितासश्च संमितासश्च न इति सर्वत्रानुषजति॥१९॥

17.17

यदि कामयेत क्षत्रं विश ओजीयः स्यादिति ग्रामेऽनुवाक्यस्य त्रीणि चत्वारि वा पदान्यनुद्रुत्यारण्येऽनुवाक्यमनुद्रुत्य ग्रामेऽनुवाक्यस्य शेषेण जुहुयात् ॥१॥

एवमादितस्त्रिभिर्गणैर्तुत्वारण्येऽनुवाक्येन जुहुयात्॥२॥

यथा पूर्वैरेवं त्रिभिरुत्तरैर्गणैः॥३॥

यदि कामयेत विट् क्षत्रादोजीयसी स्यादिति यथासमाम्नातमाहित स्त्रिभिर्गणैर्तुत्वारण्येऽनुवाक्यस्य षट्सु पदान्तरालेषु पड्गणानोप्यारण्येऽनुवाकोन जुहुयात्॥४॥

यथा पूर्वरेवं त्रिभिरुत्तरैर्गणैः॥५॥

न संप्रेष्यति न संमाष्टि नानूयाजान्यजति॥६॥

यं कामयेत क्षत्रेणास्य क्षत्रं हन्यात्प्रस्वादायतनाच्च्यवेतेति तस्या रण्येऽनुवाक्येनाग्निष्ठं रथवाहनं वा व्यङ्गयेदित्ययज्ञसंयुक्तः कल्पः॥७॥

अग्नाविष्णू सजोषसेति चतुर्गृहीतं हुत्वौदुम्बरीं त्रुचं व्यायाममात्रीं मृदा पदिग्धां पश्चादासेचनवतीं घृतस्य पूरयित्वा वाजश्च मे प्रसवश्च म इति संततां वसोर्धारां जुहोत्या मन्त्रसमापनात्॥८॥

यं कामयेत प्राणानस्यान्नाद्यं वि छिन्द्यामिति विग्राहं तस्येत्युक्तम्॥९॥

यदाज्यमुच्छिष्येत तस्मिन्ब्रह्मौदनं पक्त्वा चतुरो ब्राह्मणान्भोजयेत्। चतुःशरावं वौदनं पक्त्वा चतुरो ब्राह्मणाम्भोजयेत् चतुःशरावं वौदनं पक्त्वा तद्व्यञ्जनं भोजयेत्॥१०॥

प्राशितवद्भ्यश्चतस्रो धेनूर्दद्यात्॥११॥

समुद्रादूर्मिरिति तिस्रः॥१२॥

XVII.18 त्रिधा हितं पणिभिर्गुह्यमानं गवि देवासो घृतमन्वविन्दन्। इन्द्र एक सूर्य एकं जजान वेनादेकं स्वधया निष्टतक्षुः॥ एता अर्पन्ति हृद्यात्समुद्राच्छतव्रजा रिपुणा नावचक्षे। घृतस्य धारा अभि चाकशीमि हिरण्ययो वेतसो मध्यं आसाम्॥ सम्यक् स्रवन्ति सरितो न धेना अन्तर्हदा मनसा पूयमानाः। एते अर्षन्त्यूर्मयो घृतस्य मृगा इव क्षिपणोरीषमाणाः॥ सिन्धोरिव प्राध्वने शूधनासो वातप्रमियः पतयन्ति यह्वाः। घृतस्य धारा अरुषो न वाजी काष्ठा भिन्दन्नूर्मिभिः पिन्वमानः। अभि प्रवन्त समनेव योषाः कल्याण्यः स्मयमानासो अग्निम्। घृतस्य धाराः समिधो नसन्त ता जुषाणो हर्यति जातवेदाः। कन्या इव वहतुमेतवा उ अझ्यञ्जाना अभि चाकशीमि। यत्र सोमः सूयते यत्र यज्ञो घृतस्य धारा अभि तत्पवन्ते। अभ्यर्षत सुष्टुतिं गव्यमाजिमस्मासु भद्रा द्रविणानि धत्त। इमं यज्ञं नयत देवता नो घृतस्य धारा मधुमत्पवन्ते॥ धामन्ते विश्वं भुवनमति श्रितमन्तः समुद्रे हृद्यन्तरायुषि। अपामनीके समिथे य आभृतस्तमश्याम मधुमन्तं त ऊर्मिमिति हुतां हूयमानां वा यजमानो ऽनुमन्त्रयते॥१॥

XVII.19
वाजप्रसवीयं जुहोति॥१॥

सप्त ग्राम्या ओषधयः सप्तारण्याः॥२॥XVII. 19] Āpss Translation : THITE 1013 पृथगन्नानि द्रवीकृत्यौदुम्बरेण स्रवेण वाजस्येमं प्रसवः सुषुव इति ग्राम्या हुत्वारण्या जुहोति॥३॥

हुत्वाहुत्वा पात्र्यां संपातमवनयति।।४॥

दक्षिणं प्रत्यपिपक्षमौदुम्बरीमासन्दी प्रतिष्ठाय तस्यां कृष्णाजिनं प्राचीनग्रीवमुत्तरलोमास्तीर्य तस्मिन्नासीनं यजमानमग्निमन्वारब्धं संपातैर भिषिञ्चति॥५॥

व्याघ्रर्चमणि राजन्यम्। बस्ताजिने वैश्यम्। कृष्णाजिने ब्रह्मवर्चसकामम्॥६॥ बस्ताजिने पुष्टिकाममित्येके।७॥

देवस्य त्वेत्यनद्रत्याग्नेस्त्वा साम्राज्येनाभिषिञ्चामीति ब्राह्मणमा इन्टरन राजन्यम्। बृहस्पतेरिति वैश्यम्॥८॥

राजन्यवैश्ययोर्मन्त्रविपर्यासमेके समामनन्ति॥९॥

प्राङ्मुखमासीनं प्रत्यङ्मुखस्तिष्ठशीर्षतो ऽभिषिच्यामुखादन्ववस्त्रावयति॥१०॥

तदाहु)तव्यमेव नहि सुषुवाणः कंचन प्रत्यवरोहतीति॥११॥

नक्तोषासेति कृष्णायै श्वेतवत्सायै पयसा हुत्वा षड्भिः पर्यायैादश राष्ट्रभृतो जुहोति॥१२॥

17.20

ऋताषाइतधामेति पर्यायमनुद्रुत्य तस्मै स्वाहेति प्रथमामाहुतिं जुहोति। ताभ्यः स्वाहेत्युत्तराम्॥१॥

एवमितरान्पर्यायान्विभजति॥२॥

भुवनस्य पत इति पर्यायाणां सप्तम्याहुतीनां त्रयोदशी॥३॥

एतेन व्याख्यातम्॥४॥

भुवनस्य पत इति रथमुखे पञ्चाहुतीर्जुहोति। दश वा॥५॥

उपर्याहवनीये रथशिरो धार्यमाणमभिजुहोतीत्येके॥६॥

अभिहुतमुद्यम्याध्वर्योरावसथं हरन्ति॥७॥

अनुनयन्ति त्रीनश्वान्। चतुरो वा॥८॥

तान्सरथानध्वर्यवे ददाति॥९॥

वडबा इत्येकेषाम्। वडबे इत्येकेषाम्॥१०॥

समुद्रो ऽसि नभस्वानित्यञ्जलिना त्रीणि वातनामानि जुहोति॥११॥

नह्येतस्यावदानमस्तीति विज्ञायते॥१२॥

कृष्णाजिनपुटेन वातं जुहोतीत्येके॥१३॥

अग्न उदधे या त इषुर्युवा नामेति पञ्चाज्याहुतीर्हत्वा समीची नामामि प्राची दिगिति दध्ना मधुमिश्रेण पट् सर्पाहुतीरनुपरिचारम्॥१४॥

हेतयो नाम स्थेति षण्महाहुतीर्यथा सर्पाहुतीः॥१५॥

सुवर्न धर्म स्वाहेति पञ्चााहुतीः॥१६॥

यास्ते अग्ने सूर्ये रुच इति तिस्रो रुचः॥१७॥

वेद्यास्तरणादि सौमिकं कर्म प्रतिपद्यते॥१८॥

यत्प्राग्धिष्णियनिवपनात्तत्कृत्वा॥१९॥

17.21

ममाग्ने वर्षो विहवेष्वस्त्वित्यनुवाकेन प्रतिमन्त्रमिष्टकाभिर्धिष्णियांश्चि नोति॥१॥

अश्मनवमा आग्नीध्रीय उपदधाति॥२॥

द्वादश षोडशैकविंशतिं चतुर्विंशतिं वा होत्रीये। एकादश ब्राह्मणाच्छंसीये। षण्मार्जालीये॥३॥

अष्टावष्टावन्येषु धिष्णियेषूपदधातीति विज्ञायते॥४॥

चतुरश्राः परिमण्डला वा धिष्णियाः॥५॥

तेषां यावत्य इष्टकास्तावतीः शर्कराः परिश्रिताः॥६॥

तव श्रिये व्यजिहीत पर्वतो गवां गोत्रमुदसृजो यदङ्गिरः। इन्द्रेण युजा तमसा परीवृतं बृहस्पते निरपामौब्जो अर्णवम्॥ बृहस्पते अति यदर्यो अर्हात्॥ बहस्पतिः समजयद्वसूनि महो व्रजान्गोमतो देव एषः। अपः सिषासन्त्सुवरप्रतीतो बृहस्पतिर्हन्त्यमित्रमरिति तिस्रो ब्रह्मसदने॥७॥

यमो दाधार पृथिवीं यमो विश्वमिदं जगत्। यमाय सर्वमित्तस्थे यत्प्राणद्वायुरक्षितम्॥ यथा पञ्च यथा षड्यथा पञ्चदशर्षयः। यमं यो विद्यात्स ब्रूयाद्यथैक ऋषिर्विजानते॥ त्रिकद्रुकेभिः पतति षडुर्वीरेकमिद् बृहत्। गायत्री त्रिष्टुप् छन्दांसि सर्वा ता यम आहितेति तिस्रो मार्जालीये॥८॥

17.22

मृडा नो रुद्रोत नो मयस्कृधि॥ अश्याम ते सुमतिं देवयज्यया क्षयद्वीरस्य तव रुद्र मीढ्वः सुम्नायन्निद्विशो अस्माकमा चरारिष्टवीरा जुहवाम ते हविः।। त्वेषं वयं रुद्रं यज्ञसाधनं वर्षं कविमवसे नि ह्वयामहे। आरे अस्मदमतिं हेडो अस्यतु सुमतिमिद्वयमस्या वृणीमह इति तिस्रश्चात्वाले॥१॥ .

हव्यं प्रीणीहि हव्यं श्रीणीहि हव्यं पच हव्यं श्रपय हव्यमसि हव्याय त्वा हव्येभ्यस्त्वा हव्ये सीदेत्यष्टौ शामित्रे॥२॥

अव ते हेडः। उदुत्तमम्। तत्त्वा यामीति तिस्रो ऽवभृथे॥३॥

तासु प्रचरन्ति॥४॥

खण्डाः कृष्णा लक्ष्मणाश्चोत्कर उदस्यति॥५॥

अवशिष्टाश्च भित्त्वा यत्प्राग्यूपसंमानात्तत्कृत्वैकयूपमेकादश वा यूपान्समि नोति॥६॥

तेषां पूर्वेधुरग्निष्ठम्। अत्रैवेतरान्। श्वो वा॥७॥

एकयूपे वैकादशिनानुपाकरोति॥८॥

अग्नीषोमीयस्य पशुपुरोडाशमष्टौ देवसुवां हवींप्यनुनिर्वपति॥९॥

समानं तु स्विष्टकृदिडम्॥१०॥

17.23

पुरस्तात्प्रातरनुवाकादग्निं युनज्मीति तिसृभिरभिमृशन्नग्निं युनक्ति॥१॥

यद्येनं पूर्वो भ्रातृव्यो ऽभीव स्यादष्टौ गायत्रीः पुरस्तादबहिष्पवमानादुप दध्यात्। एकादश त्रिष्टुभः पुरस्तान्माध्यंदिनात्। द्वादश जगतीः पुरस्ता दार्भवात्॥२॥ यदि वापर एतद्विपरीतम्। उपरिष्टात्पवमानेभ्य उपधीयन्ते॥३॥ . .

पशुकाल आग्नेयं सवनीयं पशुमुपाकरोति। ऐकादशिनान्वारा

दक्षिणाकाले हिरण्यपात्रं मधोः पूर्णं शतमानस्य कृतं चित्रं देवानामित्य वेक्ष्याश्वेनावघ्राप्य ब्रह्मणे ददाति॥५॥

अध्वर्यवे कल्याणीदक्षिणा ददाति॥६॥ यद्यस्याग्निं चिनोति यज्ञायज्ञीयस्य स्तोत्र एकयाप्रस्तुतं भवति॥७॥ अथ नमस्ते अस्तु मा मा हिंसीरिति द्वाभ्यामग्निमभिमृश्यैकादश समिष्टयजूंषि जुहोति॥८॥

नवावरिकाणि हुत्वेष्टो यज्ञो भृगुभिरिति दशमैकादशे जुहोति॥९॥

अनूबन्ध्यावपायां हुतायामौदुम्बरी स्रुचं घृतस्य पूरयित्वेमं स्तनमूर्जस्वन्तं धयापामित्यग्नेर्विमोकं जुहोति॥१०॥

हुते सक्तुहोमे यदाकूतादिति दशाकूतीर्हत्वा प्रत्यवरुह्य पुनर्मनः पुनरा युरागात्पुनः प्राणः पुनराकूतमागात्। वैश्वानरो रश्मिभिर्वावृधानो ऽन्तस्तिष्ठ त्वमृतस्य गोपा इत्युपतिष्ठते॥११॥

ये ऽग्नयः पुरीष्या इति प्रयास्यन्नाप्तिभिरग्निं यजमान उपतिष्ठते॥१२॥

XVII.24 उप त्वाग्ने दिवेदिव इति तिसृभिरन्येषामग्नीन् दृष्ट्वाग्निं चित्वा सौत्रामण्या यजेत। मैत्रावरुण्या चामिक्षया॥१॥

संवत्सरं न कंचन प्रत्यवरोहेन च रामामुपेयात्। न पक्षिणो ऽश्नीयात्॥२॥

यावन्जीवं च मस्तिष्कस्य नाश्नीयान्न च वर्षति धावेत्॥३॥

यदि धावेदुपावर्तेत॥४॥

न द्वितीयं चित्वान्यस्य स्त्रियमपेयात्। न तृतीयं चित्वा कांचन। भायाँ वोपेयात्।।५॥

अग्निं चित्वैतस्मिन्संवत्सरे यो न यात्स क्रतुमाहरमाण एकचितीकं चिन्वीत॥६॥

सलिलाय त्वेत्यष्टौ नानामन्त्रा उत्तरवेद्यामुपदध्यात्। यथार्थं लोकंपृणा अथ पुरीषम्॥७॥

अथ यो न प्रतितिष्ठेत्स क्रतुमाहरमाण एकचितीकमेव चिन्वीत॥८॥

संयच्च प्रचेताश्चेति पञ्च नानामन्त्रा उत्तरवेद्यामुपदध्यात्। यथार्थं लोकंपृणा अथ पुरीषम्॥९॥

विपरीतौ कामावेके समामनन्ति॥१०॥

पुनश्चितिस्त्रिष्वर्थेषु श्रूयते। श्रवणार्थे समृद्ध्यर्थे संतानार्थे वा॥११॥

श्रवणार्थी व्याख्यास्यामः॥१२॥

यदीष्ट्या यदि पशुना यदि सोमेन यजेत यो ऽस्य पुराग्निस्तमन्ववसाय यजेत॥१३॥

अपि वा येनर्षय इत्यष्टौ नानामन्त्रा उत्तरवेद्यामुपदध्यात्। यथार्थ लोकंपृणा अथ पुरीषम्॥१४॥

17.25

अपि वोत्तरवेद्यामुपर्यग्नौ धार्यमाणे प्रजापतिस्त्वा सादयतु तया देवत याङ्गिरस्वधुवा सीदेत्युत्तरवेदिमभिमशेत्॥१॥

अपि वा तिस्त्रः स्वयमातृण्णाः ॥२॥

तासामुपधानकल्पः॥३॥

स्वयमातृण्णा सामपुरीषम्। एवं विहिता द्वितीया। अपुरीषा तृतीया।।४॥

अपि वा तिस्त्रः स्वयमातृण्णास्तिस्त्रश्च विश्वज्योतिषः॥५॥

तासामुपधानकल्पः॥६॥

स्वयमातृण्णा सामपुरीषमथ विश्वज्योतिः। एवं विहिता द्वितीया। तृतीयस्यां तु विश्वज्योतिः प्रथमाथ स्वयमातृण्णाथ सामपुरीषम्॥७॥

अपि वाष्टौ लोकंपृणाः पुरीषम्। एकादश लोकंपृणाः पुरीषम्। द्वादश लोकंपृणाः पुरीषम्॥८॥

अग्निं चित्वा यः सोमेन यजेत स एता एकत्रिंशतं लोकंपृणा उत्तरवेद्या मुपधाय यजेत॥९॥

समृद्ध्यर्थायां तु द्वितीयं चिन्वानो द्वितीयस्यां चितौ येनर्पय इत्यादी नानामन्त्रा उत्तरवेद्यामुपदध्यात्। अष्टौ च लोकंपृणा अथ पुरीषम्॥१०॥

श्वो भूत एताश्चैव नानामन्त्रा एकादश च लोकंपृणा अथ पुरीषम्॥११॥

श्वो भूत एताश्चैव नानामन्त्रा द्वादश च लोकंपृणा अथ पुरीषम्॥१२॥

संतानार्थायां तु तृतीयं चिन्वानस्तृतीयस्यां चितौ येनर्षय इत्यष्टौ नानामन्त्रा . उत्तरवेद्यामुपदध्यात्। यथार्थं लोकंपृणा अथ पुरीषम्॥१३॥

17.26

अथो खल्वाहुर्न चेतव्येति। रुद्रो वा एष यदग्निरित्युक्तम्॥१॥

छन्दश्चितमिति काम्याः। ते शुल्बेष्वनुक्रान्ताः॥२॥

तापश्चिते ऽग्नौ संवत्सरं दीक्षाः। संवत्सरमुपसदः॥३॥

पुरस्तादुपसदामाग्नेयमष्टाकपालमिति पञ्च चतुरश्चतुरो मासानेकैकेनोप सन्मन्त्रेण जुहोति॥४॥

अनूपसदमग्निं चिनोति॥५॥

द्वौद्वौ मासावेकैका चितिः। चतुर उत्तमा॥६॥

चतुस्तनं त्रिस्तनं द्विस्तनमेकस्तनमिति त्रीस्त्रीन्मासान्त्रतानि॥७॥

ऋषीणामाग्नेयेन संवत्सरमुपधान आस्ते॥८॥

विज्ञायत एतद्वा ऋषीणामाग्नेयं यद्याज्ञसेनी चितिरिति॥९॥

यानि वा दशतयीष्वाग्नेयानि सूक्तानि स्युस्तैरुपदध्यात्॥१०॥

सूक्तपरिमाणा नानामन्त्रा इष्टकाः। यथार्थं लोकंपृणा अथ पुरीषम्॥११॥

तृतीये संवत्सरे ऽभिजिता विश्वजिता वा यजेत॥१२॥

सर्ववेदसं ददाति॥१३॥

उदवसाय रोहिणीं वत्सच्छवीं सकर्णपुच्छावच्छातां सखुरां सुखुरिका वा बहिर्लोमः परिधायोष्णीषेणं प्रदक्षिणं शिरो वेष्टयित्वौदुम्बरं चमसमादत्ते। औदुम्बरी चाभ्रीं वैणवीं वा कल्माषीं पूर्ववत्प्रमाणाम्॥१४॥

अरण्यौदुम्बरे तिस्रो रात्रीर्वसतो मूलफलभक्षौ। खनित्रेण वा जीवतः। मूलं परिखायैतस्मिन्पात्रे ऽवधायान्योऽन्यमप्यादयतः पत्नी यजमानश्च॥१५॥

न मृन्मयेन पिबतः॥१६॥

समूहकेन खनातकेन वा यजमानो भक्षमिच्छेत। उपवीक्षायेणोपविकृन्तेन वा पत्नीत्येकै॥१७॥

निषादे तिस्रो रात्रीर्वसतः। वैश्ये तिस्त्रः। राजन्ये तिस्त्रः। ब्राह्मणे वा तित्रस्तिस्त्रः॥१८॥

संवत्सरं न याचेत्। न च दीयमानं प्रत्याचक्षीत॥१९॥

न चेत्संवत्सरं द्वादशाहं द्वादशाहम्॥२०॥